floral-decor

श्री-स्वात्माराम-योगीन्द्र-विरचिता

हठ-योग-प्रदीपिका

ब्रह्मानन्द-कृता

ज्योत्स्ना-व्याख्या

change script to

श्रीआदिनाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठयोगविद्या ।
विभ्राजते प्रोन्नतराजमार्गमरोढुमिच्छन्नधिरोहिणीव ॥ १ ॥
श्री गणेशायः नमः
गुरुं नत्वा शिवं साक्षात् ब्रह्मानन्देन तन्यते ।
हठप्रदीपिकाज्योत्स्ना योगमार्गप्रकाशिका ॥
इदानीन्तनानां सुबोधार्थमस्याः सुविज्ञायगोरक्षसिद्धान्तहार्दम् ।
मया मेरुशास्त्रिप्रमुख्याभियोगात् स्फुटं कथ्यतेऽत्यन्तगूढोपि भावः ॥
मुमुक्षुजनहितार्थं राजयोगद्वारा कैवल्यप्रदां हठप्रदीपिकां विधित्सुः परमकारुणिकः स्वात्मरामयोगीन्द्रः तत्प्रत्यूहनिवृत्तये हठयोगप्रवर्तकश्रीमदादिनाथनमस्कारलक्षणं मङ्गलं तावदाचरति -श्रीआधिनाथेत्यादिना । तस्मै श्रीआदिनाथाय नमोऽस्त्विति अन्वयः । आदिश्चासौ नाथश्च आदिनाथः सर्वेश्वरः । श्रीशब्दः आदिः यस्य सः श्रीआदिः, श्रीआदिश्चासौ नाथश्च श्रीआदिनाथः, तस्मै श्रीआदिनाथाय । श्रीनाथाय विष्णवे वा इत्यर्थः । श्रीआदिनाथाय इत्यत्र यणभावस्तु ‘अपि माषं मषं कुर्यात् छन्दोभङ्गं त्यजेद्गिराम्’ इति छन्दोविदां संप्रदायादुच्चारणसौष्ठवाच्चेति बोध्यम् । वस्तुतस्तु असंहितपाठस्वीकारापेक्षया श्रीआदिनाथायेति पाठस्वीकारेऽप्रवृत्तनित्यविध्युद्देश्यतावच्छेदकानाक्रान्तत्वेन परिनिष्ठितत्वसंभवात् सम्प्रत्युदाहृतदृष्टान्तद्वयस्यापीदृग्विषयवैषम्यात्, नित्यसाहित्यभङ्गजनितदोषस्य शाब्दिकाननुमतत्वाच्चासंमृष्टविधेयांशतारूपदोषस्य साहित्यकारैरुक्तत्वेऽपि क्वचित् तैरप्यस्वीकृतत्वेन शाब्दिकाचार्यैरेकाजित्यादौ कर्मधारयस्वीकरणेन सर्वथानादृतत्वाच्च लाघावतिशय इति सुधियो विभावयन्तु । नमः प्रह्वीभावोऽस्तु । प्रार्थनायां लोट् । तस्मै, कस्मै इत्यपेक्षायामाह - येनेति । येन आदिनाथेन उपदिष्टा गिरिजायै हठयोगविद्या हश्च ठश्च हठौ सूर्यचन्द्रौ तयोर्योगो हठयोगः, एतेन हठशब्दवाच्ययोः सूर्यचन्द्राख्ययोः प्राणापानयोरैक्यलक्षणः प्राणायामो हठयोग इति हठयोगस्य लक्षणं सिद्धम् । तथा चोक्तं गोरक्षनाथेन सिद्धसिद्धान्तपद्धतौ -
हकारः कीर्तितः सूर्यष्ठकारश्चन्द्र उच्यते ।
सूर्याचन्द्रमसोर्योगाद्धठयोगो निगद्यते ॥ इति ।
तत्प्रतिपादिका विद्या हठयोगविद्या, हठयोगशास्त्रमिति यावत् । गिरिजायै आदिनाथकृतो हठविद्योपदेशो महकालयोगशास्त्रादौ प्रसिद्धः । प्रकर्षेण उन्नतः प्रोन्नतः । मन्त्रयोगहठयोगादीनाम् अधरभूमीनामुत्तरभूमित्वात् राजयोगस्य प्रोन्नतत्वम् । राजयोगश्च सर्ववृत्तिनिरोधलक्षणोऽसंप्रज्ञातयोगः । तम् इच्छोर्मुमुक्षोः अधिरोहिणीव, अधिरुह्यते अन्या इत्यधिरोहिणी निःश्रेणीव विभ्राजते विशेषेण भ्राजते शोभते । यथा प्रोन्नतसौधमारोढुम् इच्छोः अधिरोहिणी अनायासेन सौधप्रापिका भवति एवं हठदीपिकापि प्रोन्नतराजयोगम् आरोढुमुच्छोः अनायसेन राजयोगप्रापिका भवतीति । उपमालङ्कारः । इन्द्रवज्राख्यं वृत्तम् ।
प्रणम्य श्रीगुरुं नाथं स्वात्मारामेण योगिना ।
केवलं राजयोगाय हठविद्योपदिश्यते ॥ २ ॥
एवं परमगुरुनमस्कारलक्षणं मङ्गलं कृत्वा विघ्नबाहुल्ये मङ्गलबाहुल्यस्याप्यपेक्षितत्वात् स्वगुरुनमस्कारात्मकं मङ्गलमाचरन्नस्य ग्रन्थस्य विषयप्रयोजनादीन् प्रदर्शयति - प्रणम्येति । श्रीमन्तं गुरुं श्रीगुरुं नाथं श्रीगुरुनाथं, स्वगुरुमिति यावत् । प्रणम्य प्रकर्षेणभक्तिपूर्वकं नत्वा स्वामारामेण योगिना योगोऽस्यास्तीति तेन । केवलं राजयोगाय केवलं राजयोगार्थं हठविद्योपदिश्यते इत्यन्वयः । हठविद्याया राजयोग एव मुख्यं फलं न सिद्धय इति केवलपदस्याभिप्रायः । सिद्धयस्त्वानुषङ्गिक्यः । एतेन राजयोगफलसहितो हठयोगोऽस्य ग्रन्थस्य विषयः । राजयोगद्वारा कैवल्यं चास्य फलम् । तत्कामश्चाधिकारी । ग्रन्थविषययोः प्रतिपाद्यप्रतिपादकभावस्संबन्धः । ग्रन्थस्य कैवल्यस्य च प्रयोज्यप्रयोजकभावः संबन्धः । ग्रन्थाभिधेयस्य सफलयोगस्य कैवल्यस्य च साध्यसाधनभावः संबन्धः इत्युक्तम् ।
भ्रान्त्या बहुमतध्वान्ते राजयोगमजानताम् ।
हठप्रदीपिकां धत्ते स्वात्मारामः कृपाकरः ॥ ३ ॥
ननु मन्त्रयोगसगुणध्याननिर्गुणध्यानमुद्रादिभिरेव राजयोगसिद्धौ किं हठविद्योपदेशेनेत्याशङ्क्य व्युत्थितचित्तानां मन्त्रयोगादिभिः राजयोगसिद्धेः, हठयोगादेव राजयोगसिद्धिं वदन् ग्रन्थं प्रतिजानीते - भ्रान्त्येति । मन्त्रयोगादिबहुमतरूपे ध्वान्ते गाढान्धकारे या भ्रान्तिः भ्रमः तया । तैस्तैरुपायैः राजयोगार्थं प्रवृत्तस्य तत्र तत्र तदलाभात् । वक्ष्यति च - हठं विना राजयोगः (२.७६) इत्यादिना । तथा राजयोगमजानतां न जानन्तीत्यजानन्तः तेषाम् अजानतां पुंसां राजयोगज्ञानायेति शेषः । करोति इति करः कृपायाः करः कृपाकरः. कृपाया आकारः इति वा तादृशः । अनेन हठप्रदीपिकाकारणे अज्ञानुकम्पैव हेतुरित्युक्तम् । स्वात्मन्यारमते इति स्वात्मारामः । हठस्य हठयोगस्य प्रदीपिकेव प्रकाशकत्वात् हठप्रदीपिका ताम् । अथवा हठ एव प्रदीपिका राजयोगप्रकाशकत्वात् । तां धत्ते विधत्ते, करोति इति यावत् । स्वात्माराम इत्यनेन ज्ञानस्य सप्तभूमिकां प्राप्तो ब्रह्मविद्वरिष्ठ इत्युक्तम् । तथा च श्रुतिः - “आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः । ” (मुण्डक ३.१.४) । सप्तभूमयश्च उक्ता योगवासिष्ठे -
ज्ञानभूमिः शुभेच्छाख्या प्रथमा समुदाहृता ।
विचारणा द्वितीया स्यात् तृतीया तनुमानसा ॥
सत्त्वापत्तिश्चतुर्थी स्यात् ततोऽसंसक्तिनामिका ॥
परार्थाभाविनी षष्ठी सप्तमी तुर्यगा स्मृता ॥
अस्यार्थः - शुभेच्छा इत्याख्या यस्याः सा शुभेच्छाख्या । विवेकवैराग्ययुता शमादिपूर्विका तीव्रमुमुक्षा प्रथमा ज्ञानस्य भूमिः । भूमिका उदाहृता कथिता । योगिभिरिति शेषः । १ । विचारणा श्रवणमननात्मिका द्वितीया ज्ञानभूमिः स्यात् । २ । अनेकार्थग्राहकं मनो यदानेकार्थान् परित्यज्य सदेकार्थवृत्तिप्रवाहवद्भवति तदा तनु मानसं यस्यां सा तनुमानसा निदिध्यासनरूपा तृतीया ज्ञानभूमिः स्यादिति शेषः । ३ । इमास्तिस्रः साधनभूमिकाः । आसु भूमिषु साधक इत्युच्यते । तिसृभिर्भूमिकाभिः शुद्धसत्त्वेऽन्तः करणेऽहं ब्रह्मास्मीत्याकारिकापरोक्षवृत्तिरूपा सत्त्वापत्तिनामिका चतुर्थी ज्ञानभूमिः स्यात् । चतुर्थीयं फलभूमिः । अस्यां योगी ब्रह्मविदित्युच्यते । इयं संप्रज्ञातयोगभूमिका । ४ । वक्षमाणास्तिस्रोऽसंप्रज्ञातयोगभूमयः । सत्त्वापत्तेरनन्तरा सत्त्वापत्तिसंज्ञिकायां भूमावुपस्थितासु सिद्धिषु असंसक्तस्यासंसक्तिनामिका पञ्चमी ज्ञानभूमिः स्यात् ।
अस्यां योगी स्वयमेव व्युत्थिष्ठते । एतां भूमिं प्राप्तो ब्रह्मविद्वर इत्युच्यते । ५ ।
परब्रह्मातिरिक्तमर्थं न भावयति यस्यां सा परार्थाभाविनी षष्ठी ज्ञानभूमिः स्यात् । अस्यां योगी परप्रबोधित एव व्युत्थितो भवति । एतां प्राप्तो ब्रह्मविद्वरीयानित्युच्यते । ६ । तुर्यगा नाम सप्तमी भूमिः स्मृता । अस्यां योगी स्वतः परतो वा न व्युत्थानं प्राप्नोति । एतां प्राप्तो ब्रह्मविद्वरिष्ठ इत्युच्यते । ७ । तत्र प्रमाणभूता श्रुतिरत्रैवोक्ता पूर्वम् । अयमेव जीवन्मुक्त इत्युच्यते, स एव स्वात्मरामपदेनोक्त इत्यलं बहूक्तेन ॥ ३ ॥
हठविद्यां हि मत्स्येन्द्रगोरक्षाद्या विजानते ।
स्वात्मारामोऽथवा योगी जनीते तत्प्रसादतः ॥ ४ ॥
महत्सेवितत्वाद्धठविद्यां प्रशंसन् स्वस्यापि महत्सकाशाद्धठविद्यालाभाद्गौरवं द्योतयति - हठविद्यां हीति । हीति प्रसिद्धम् । मत्स्येन्द्रश्च गोरक्षश्च तौ आद्यौ येषां ते मत्स्येन्द्रगोरक्षाद्याः । आद्यशब्देन जालन्धरनाथभर्तृहरिगोपीचन्दप्रभृतयो ग्राह्याः । ते हठविद्यां हठयोगविद्यां विजानते विशेषेण साधनलक्षणभेदफलैः जानन्तीत्यर्थः । स्वात्मारामः स्वात्मारामनामा । अथवाशब्दः समुच्चये । योगी योगवान् तत्प्रसादतः गोरक्षप्रसादाज्जानीत इत्यन्वयः । परममहता ब्रह्मणापीयं विद्या सेवितेत्यत्र योगयाज्ञवल्क्यस्मृतिः । ‘हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः’ । वक्तृत्वं च मानसव्यापारपूर्वकं भवतीति मानसो व्यापारोऽर्थादागतः । तथा च श्रुतिः - ‘यन्मनसा ध्यायति तद्वाचा वदति’ इति । भागवतेयं विद्या भागवातानुद्धवादीन् प्रत्युक्ता । शिवस्तु योगी प्रसिद्ध एव । एवं च सर्वोत्तमैः ब्रह्मविष्णुशिवैः सेवितेयं विद्या । न च ब्रह्मसूत्रकृता व्यासेन योगो निराकृत इति शङ्कनीयम् । प्रकृतिस्वातन्त्र्यचिद्भेदांशमात्रस्य निराकरणात् । न तु भावनाविशेषरूपयोगस्य । भावनायाश्च सर्वसंमतत्वात् तां विना सुखस्याप्यसंभवात् । तथोक्तम् भगवद्गीतासु -
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभवयतश्शान्तिः अशान्तस्य कुतस्सुखम् । इति (२.६६)
नारायणतीर्थैरप्युक्तम्-
‘स्वातन्त्र्यसत्यत्वमुखं प्रधाने सत्यं च चिद्भेतगतं च वाक्यैः ।
व्यासो निराचष्ट न भावनाख्यं योगं स्वयं निर्मितब्रह्मसूत्रैः । ’
‘अपि चात्मप्रदं योगं व्याकरोन्मतिमान् स्वयम् ।
भाषादिषु ततस्तत्र आचार्यप्रमुखैर्मतः । ’
मतो योगो भगवता गीतायामधिकोऽन्यतः ।
कृतः शुकादिभिस्तस्मादत्र सन्तोऽतिसादराः ॥ इति ।
‘वेदेषु यज्ञेषु तपस्सु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् ।
अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम्’ ॥
इति भगवदुक्तेः(भ.गी. ८.२८) । किं बहुना । ‘ जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते’ इति वदता भगवता (भ.गी. ६.४४) योगजिज्ञासोरपि औत्कृष्ट्यं वर्णितं किमुत योगिनः । नारदादिभक्तश्रेष्ठैःयाज्ञवल्क्यादिज्ञानिमुख्यैश्च अस्याः सेवनात् भक्तज्ञानिनामप्यविरुद्धेत्युपरम्यते ॥ ४ ॥
श्रीआदिनाथमत्स्येन्द्रशाबरानन्दभैरवाः ।
चौरङ्गीमीनगोरक्षविरूपाक्षबिलेशयाः ॥ ५ ॥
हठयोगे प्रवृत्तिं जनयितुं हठविद्यया प्राप्तैश्वर्यान् सिद्धानाह -श्रीआदिनाथेत्यादिना । आदिनाथः शिवः सर्वेषां नाथानां प्रथमो नाथः । ततो नाथसंप्रदायः प्रवृत्तः इति नाथसंप्रदायिनो वदन्ति । मत्स्येद्राख्यश्च आदिनाथशिष्यः । अत्रैवं किंवदन्ती - कदाचिदादिनाथः कस्मिंश्चिद् द्वीपे स्थितः तत्र विजनमिति मत्वा गिरिजायै योगमुपदिष्टवान् । तीरसमीपनीरस्थः कश्चन मत्स्यः तं योगोपदेशं श्रुत्वा एकाग्रचित्तो निश्चलकायोऽवतस्थे । तं तादृशं दृष्ट्वानेन योगः श्रुत इति तं मत्वा कृपालुरादिनाथो जलेन प्रोक्षितवान् । स च प्रोक्षणमात्राद्दिव्यकायो मत्स्येन्द्रः सिद्धोऽभूत् । तमेव मत्स्येन्द्रनाथ इति वदन्ति । शबरनामा कश्चित् सिद्धः । आनन्दभैरवनामान्यः । एतेषामितरेतरद्वन्द्वः । छिन्नहस्तपादं पुरुषं हिन्दुस्थानभाषायां चौरङ्गीति वदन्ति । कदाचिदादिनाथात् लब्धयोगस्य भुवंपर्यटतो मत्स्येन्द्रनाथस्य कृपावलोकनमात्रात् कुत्रचिदरण्ये स्थितः चौरङ्गिः अङ्कुरितहस्तपादो बभूव । स च तत्कृपया सञ्जातहस्तपादोऽहमिति मत्वा तत्पादयोः प्रणिपत्य ममानुग्रहं कुर्विति प्रार्थितवान् । मत्स्येन्द्रोऽपि तमनुगृहीतवान् । तस्यानुग्रहात् चौरङ्गिरिति प्रसिद्धः सिद्धः सोऽभूत् । मीनो मीननाथः, गोरक्षो गोरक्षनाथः, विरूपाक्षनामा, बिलेशयनामा च । चौरङ्गिप्रभृतीनां द्वन्द्वसमासः ॥ ५ ॥
मन्थानो भैरवो योगी सिद्धिर्बुद्धश्च कन्थडिः ।
कोरण्टकः सुरानन्दः सिद्धपादश्च चर्पटिः ॥ ६ ॥
मन्थानः, भैरवः । योगीति मन्थानप्रभृतीनां विशेषणम् ॥ ६ ॥
कानेरी पूज्यपादश्च नित्यनाथो निरञ्जनः ।
कपली बिन्दुनाथश्च काकचण्डीश्वराह्वयः ॥ ७ ॥
काचण्डीश्वरः इति आह्वय नाम यस्य सः तथा । अन्ये स्पष्टाः ॥ ७ ॥
अल्लमः प्रभुदेवश्च घोडाचोली च टिण्टिणिः ।
भानुकी नारदेवश्च खण्डः कापालिकस्तथा ॥ ८ ॥
तथाशब्दः समुच्चये ॥ ८ ॥
इत्यादयो महासिद्धा हठयोगप्रभावतः ।
खण्डयित्वा कालदण्डं ब्रह्माण्डे विचरन्ति ते ॥ ९ ॥
इति पूर्वोक्ता आदयः येषां ते तथा । आदिशब्देन तारानाथादयो ग्राह्याः । महान्तश्च ते सिद्धाश्च अप्रतिहतैश्वर्या इत्यर्थः । हठयोगस्य प्रभावात् सामर्थ्यादिति हठयोगप्रभावतः । पञ्चम्यास्तसिल् । कालो मृत्युः तस्य दण्डनं दण्डः देहप्राणवियोगानुकूलो व्यापारः तं खण्डयित्वा छित्वा मृत्युं जित्वेत्यर्थः । ब्रह्माण्डमध्ये विचरन्ति विशेषेणाव्याहतगत्या चरन्तीत्यर्थः । तदुक्तं भागवते - योगेश्वराणां गतिमाहुरन्तर्बहिस्त्रिलोक्याः पवनान्तरात्मनाम्’ इति ॥ ९ ॥
अशेषतापतप्तानां समाश्रयमठो हठः ।
अशेषयोगयुक्तानामाधारकमठो हठः ॥ १० ॥
हठस्याशेषतापनाशकत्वमशेषयोगसाधकत्वं च मठकमठरूपकेणाह - अशेषेति । अशेषाः आधिभौतिकाधिदैविकाध्यात्मिकभेदेन त्रिविधाः । तत्राध्यात्मिकं द्विविधम् । शारीरं मानसं च । तत्र शारीरं दुःखं व्याधिजं, मानसं दुःखं कामादिजम् । आधिभौतिकं व्याघ्रसर्पादिजनितम् । आधिदैविकं ग्रहादिजनितम् । ते च ते तापाश्च तैस्तप्तानां सन्तप्तानां पुंसां हठो हठयोगः । सम्यगाश्रयत इति समाश्रयः, आश्रयः आश्रयभूतो मठः मठ इव । तथा हठः अशेषयोगयुक्तानाम्, अशेषयोगयुक्ताः मन्त्रयोगकर्मयोगादियुक्ताः तेषामाधारभूतः कमठः कमठ इव । यथा तरणिकिरणतापतप्तानां पुंसामाश्रयो मठः । एवं त्रिविधतापतप्तानां पुंसामाश्रयो हठः । यथा च विश्वाधारः कमठः एवं निखिलयोगिनामाधारो हठ इत्यर्थः ॥ १० ॥
हठविद्या परं गोप्या योगिना सिद्धिमिच्छता ।
भवेद् वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता । ॥ ११ ॥
अथाखिलविद्यापेक्षया हठविद्याया अतिगोप्यत्वमाह - हठविद्येति । सिद्धिमणिमाद्यैश्वर्यमिच्छता यद्वा सिद्धिं कैवल्यमिच्छता वाञ्छता योगिना हठयोगविद्या परमत्यन्तं गोप्या गोपनीया गोपनार्हास्तीति । तत्र हेतुमाह । यतो गुप्ता हठविद्या वीर्यवती अप्रतिहत-ऐश्वर्यजननसमर्था स्यात् । कैवल्यजननसमर्था कैवल्यसिद्धिजननसमर्था वा स्यात् । प्रकाशिता प्रसिद्धिं गमिता तु निर्वीर्या । दीर्घकालसेवितापि अप्रतिहत- ऐश्वर्यजननसमर्था कैवल्यसिद्धिजननसमर्था वा स्यात् । अथ योगाधिकारी
जिताक्षाय शान्ताय सक्ताय मुक्तौ विहीनाय दोषैरसक्ताय भुक्तौ ।
अहीनाय दोषेतरैरुक्तकर्त्रे प्रदेयो न देयो हठश्चेतरस्मै ॥
याज्ञवल्क्यः ।
विध्युक्तकर्मसंयुक्तः कामसङ्कल्पवर्जितः ।
यमैश्च नियमैर्युक्तः सर्वसङ्गविवर्जितः ॥
‘कृतविद्यो जितक्रोधः सत्यधर्मपरायणः ।
गुरुशुश्रूषारतः पितृमातृपरायणः
स्वाश्रमस्थः सदाचारो विद्वद्भिश्च सुशिक्षितः । ’
इति । ‘शिश्नोदररतायैव न देयं वेषधारिणे’ इति कुत्रचित् । अत्र योगचिन्तामणिकारः -
यद्यपि
‘ब्राह्मणक्षत्रियविशां स्त्रीशूद्राणाञ्च पावनम् ।
शान्तये कर्मणामन्यद्योगान्नास्ति विमुक्तये’ ॥
इत्यादि पुराणवाक्येषु प्राणिमात्रस्य योगेऽधिकार उपलभ्यते, तथापि मोक्षरूपफलवति योगे विरक्तस्यैव अधिकार उचितः । तथा च वायुसंहितायाम् -
‘दृष्टे तथानुश्रविके विरक्तं विषये मनः ।
यस्य तस्याधिकारोऽस्मिन् योगे नान्यस्य कस्यचित् ॥
सुरेश्वराचार्याः -
‘इहामुत्र विरक्तस्य संसारं प्रजिहासतः ।
जिज्ञासोरेव कस्यापि योगेऽस्मिन्नधिकारिता ’ ॥
वृद्धैरप्युक्तम् -
‘नैतद्देयं दुर्विनीताय जातु ज्ञानं गुप्तं तद्धि सम्यक्फलाय ।
अस्थाने हि स्थाप्यमानेन वाचां देवी कोपान्निर्दहेन्नोऽचिराय’ इति ॥ ११ ॥
सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे ।
धनुः प्रमाणपर्यन्तं शिलाग्निजलवर्जिते ।
एकान्ते मठिकामध्ये स्थातव्यं हठयोगिना ॥ १२ ॥
अथ हठाभ्यासयोग्यंं देशमाह सार्धेन - सुराज्य इति । राज्ञः कर्म भावो वा राज्यं तच्छोभनं यस्मिन् स सुराज्यः , तस्मिन् सुराज्ये । ‘यथा राजा तथा प्रजाः’ इति महदुक्तेः राज्ञः शोभनत्वात् प्रजानामपि शोभनत्वं सूचितम् । धार्मिके धर्मवति । अनेन हठाभ्यासिनः अनुकूलाहारादिलाभः सूचितः । निरुपद्रवे चौरव्याघ्राद्युपद्रवरहिते । एतेन देशस्य दीर्घकालवासयोग्यता सूचिता । धनुषः प्रमाणं धनुःप्रमाणं चतुर्हस्तमात्रं तत्पर्यन्तम् । शिलाग्निजलवर्जिते शिला प्रस्तरः, अग्निः वह्निः जलं तोयं, तैर्वर्जिते रहिते । यत्रासनं ततश्चतुर्हस्तमात्रे शिलग्निजलानि न स्युरित्यर्थः । तेन शीतोष्णादिविकाराभावः सूचितः ।
एकान्ते विजने । अनेन जनसमागमाभावात् कलहाद्यभावः सूचितः । जनसम्मर्दे तु कलहादिकं स्यादेव । तदुक्तं भागवते - ‘वासे बहूनां कलहो भवेद्वार्ता द्वयोरपि’ इति ।
तादृशे मठिकामध्ये । अल्पः मठः मठिका । अल्पीयसि कन् । तस्याः मध्ये हठयोगिना हठाभ्यासी योगी हठयोगी तेन । शाकपार्थिवादिवत् समासः । स्थातव्यं स्थातुं योग्यम् । मठिकामध्य इत्यनेन शीतातपादिजनितक्लेशाभावः सूचितः । अत्र ‘युक्ताहारविहारेण हठयोगस्य सिद्धये’ इत्यर्धं केनचित् क्षिप्तत्वात् न व्याख्यातम् । मूलश्लोकानामेव व्याख्यानम् । एवमग्रेऽपि ये मया न व्यख्याताः श्लोकाः हठप्रदीपिकायामुपलभ्येरन् ते सर्वेऽपि क्षिप्ता इति बोद्धव्यम् ॥ १२ ॥
अल्पद्वारमरन्ध्रगर्तविवरं नात्युच्चनीचायतम् ।
सम्यग्गोमयसान्द्रलिप्तममलं निश्शेषजन्तूज्झितम् ।
बाह्ये मण्डपवेदिकूपरुचिरं प्राकारसंवेष्टितम् ।
प्रोक्तं योगमठस्य लक्षणमिदं सिद्धैर्हठाभ्यासिभिः ॥ १३ ॥
अथ मठलक्षणमाह - अल्पद्वारमिति  । अल्पं द्वारं यस्मिन् तत्तादृशम् । रन्ध्रो गवाक्षादिः, गर्तो निम्नप्रदेशः, विवरः मूषकाहिबिलं ते न सन्ति यस्मिन् तत्तादृशम् ।
अत्युच्चं च तन्नीचं च अत्युच्चनीचं, तच्च तदायतं च अत्युच्चनीचायतम् । ‘विशेषणं विशेष्येण बहुलं’ (पा.सू २.१.५७) इत्यत्र बहुलग्रहणात् विशेषणानां कर्मधारयः ।
ननु उच्चनीचायतशब्दानां भिन्नार्थकानां कथं कर्मधारयः? ‘तत्पुरुषः समानाधिकरणः कर्मधारयः’ (पा.सू १.२.४२) इति तल्लक्षणादिति चेत्, न । मठे तेषां सामानााधिकरण्यसम्भवात् । न अत्युच्चनीचायतं नात्युच्चनीचायतं, नशब्देन समासान्नलोपाभावः, नेति पृथक्पदं वा । अत्युच्चे आरोहणे श्रमः स्यादतिनीचेऽवरोहणे श्रमो भवेत् । अत्यायते दूरं दृष्टिर्गच्छेत्, तन्निराकरणार्थमुक्तं नात्युच्चनीचायतमिति । सम्यक् समीचीनतया गोमयेन गोपुरीषेण सान्द्रं यथा भवति तथा लिप्तम् । अमलं निर्मलम् । निःशेषा निखिला ये जन्तवः मशकमत्कुणाद्याः तैरुज्झितं त्यक्तं रहितम् । बाह्ये मठाद्बहिः प्रदेशे । मण्डपः शालाविशेषः, वेदिः परिष्कृता भूमिः कूपो जलाशयविशेषः, तैः रुचिरं रमणीयम् । प्राकारेण वरणेन सम्यग्वेष्टितं परितो भित्तियुक्तमित्यर्थः । हठाभ्यासिभिः हठयोगाभ्यसनशीलैः सिद्धैः । इदं पूर्वोक्तमल्पद्वारादिकं योगमठस्य लक्षणं स्वरूपं प्रोक्तं कथितम् ।
नन्दोकेश्वरपुराणे त्वेवं मठलक्षणमुक्तम् -
मन्दिरं रम्यविन्यासं मनोज्ञं गन्धवासितम् ।
धूपामोदादिसुरभि कुसुमोत्करमण्डितम् ।
मुनितीर्थनदीवृक्षपद्मिनीशैलशोभितम् ।
चित्रकर्मनिबद्धं च चित्रभेदविचित्रितम् ।
कुर्याद् योगगृहं धीमान् सुरम्यं शुभवर्त्मना ।
दृष्ट्वा चित्रगतांश्छान्तान् मुनीन् याति मनःशामम् ।
सिद्धान् दृष्ट्वा चित्रगतान् मतिरभ्युद्यमे भवेत् ।
मध्ये योगगृहस्याथ लिखेत् संसारमण्डलम् ।
श्मशानं च महाघोरं नरकांश्च लिखेत् क्वचित् ।
तान् दृष्ट्वा भीषणाकारान् संसारे सारवर्जिते ।
अनवसादो भवति योगी सिद्ध्यभिलाषुकः ।
पश्यंश्च व्याधितान् जन्तून् नतान् मत्तांश्चलद्व्रणान् ॥ १३ ॥
एवंविधे मठे स्थित्वा सर्वचिन्ताविवर्जितः ।
गुरूपदिष्टमार्गेण योगमेव सदाभ्यसेत् ॥ १४ ॥
मठलक्षणमुक्त्वा मठे यत् कर्तव्यं तदाह - एवंविध इति । एवं पूर्वोक्ता विधा प्रकारः यस्य सः तथा पूर्वोक्तलक्षणः इत्यर्थः । तस्मिन् स्थित्वा स्थितिं कृत्वा सर्वा याश्चिन्ताःताभिर्विशेषेण वर्जितो रहितोऽशेषचिन्तारहितः । गुरुणोपदिष्टो यो मार्गः हठाभ्यासप्रकाररूपः तेन सदा नित्यं योगमेवाभ्यसेत् । एवशब्देन अभ्यासान्तरस्य योगे विघ्नकारकत्वं सूचितम् । तदुक्तं योगबीजे -
मरुज्जयो यस्य सिद्धस्तं सेवेत गुरुं सदा ।
गुरुवक्त्रप्रसादेन कुर्यात् प्राणजयं बुधः ॥
राजयोगे -
वेदान्ततर्कोक्तिभिरागमैश्च नानाविधैः शस्त्रकदम्बकैश्च ।
ध्यनादिभिः सत्करणैन गम्यश्चिन्तामणिर्ह्येकगुरुं विहाय ॥
स्कन्दपुराराणे-
आचार्याद्योगसर्वस्वम् अवाप्य स्थिरधीः स्वयम् ।
यथोक्तं लभते तेन प्राप्नोत्यपि च निर्वृतिम् ॥
सुरेश्वराचार्यः -
गुरुप्रसादाल्लभते योगमष्टाङ्गसंयुतम् ।
शिवप्रसादाल्लभते योगसिद्धिं च शाश्वतीम् ।
श्रुतिश्च -
“यस्य देवे परा भक्तिः यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः” ॥ इति (श्वेत.उप. ६.२३)
आचार्यवान् पुरुषो वेद इति च (छां.उप.६.१४.२) ॥ १४ ॥
अत्याहारः प्रयासश्च प्रजल्पो नियमग्रहः ।
जनसङ्गश्च लौल्यं च षड्भिर्योगो विनश्यति ॥ १५ ॥
अथ योगाभ्यासप्रतिबन्धकानाह - अत्याहार इति । अतिशयितः आहारः अत्याहारः, क्षुधापेक्षया अधिकभोजनम् । प्रयासः श्रमजननानुकूलो व्यापारः । प्रकृष्टो जल्पः प्रजल्पः बहुभाषणम् । शीतोदकेन प्रातःस्नान-नक्तभोजनफलाहारादिरूपनियमस्य ग्रहणं नियमग्रहः । जनानां सङ्गः जनसङ्गः । कामादिजनकत्वात् । लोलस्य भावः लौल्यं चाञ्चल्यम् ।
षड्भिः अत्याहारादिभिः अभ्यासप्रतिबन्धात् योगो विनश्यति विशेषेण नश्यति ॥ १५ ॥
उत्साहात् साहसात् धैर्यात् तत्त्वज्ञानाच्च निश्चयात् ।
जनसङ्गपरित्यागात् षड्भिर्योगः प्रसिद्ध्यति ॥ १६ ॥
अथ योगसिद्धिकरानाह - उत्साहादिति । विषयप्रवणं चित्तं निरोत्स्याम्येवेति उद्यमः उत्साहः । साध्यत्वासाध्यत्वे अपरिभाव्य सहसा प्रवृत्तिः साहसम् । यावज्जीवनं सेत्स्यत्येव इत्यखेदो धैर्यम् । विषया मृगतृष्णा जलवदसन्तःब्रह्मैव सत्यमिति वास्तविकं ज्ञानं तत्त्वज्ञानं, योगानां वास्तविकं ज्ञानं वा । शास्त्रगुरुवाक्येषु विश्वासो निश्चयः, श्रद्धेति यावत् । जनानां योगाभ्यासप्रतिकूलानां यः सङ्गः तस्य परित्यागात् । षड्भिरेभिः योगः प्रकर्षेण अविलम्बेन सिद्ध्यति इत्यर्थः ॥ १६ ॥
अथ यमनियमाः -
(अहिंसा सत्यमस्तेयं ब्रह्मचर्यं क्षमा धृतिः ।
दयार्जवं मिताहारः शौचं चैव यमा दश ॥
तपःसन्तोष आस्तिक्यं दानमीश्वरपूजनम् ।
सिद्धान्तवाक्यश्रवणं ह्रीमती च जपो हुतम् ।
नियमा दश संप्रोक्ता योगशास्त्रविशारदैः । )
हठस्य प्रथमाङ्गत्वदासनं पूर्वमुच्यते ।
कुर्यात् तदासनं स्थैर्यमारोग्यं चाङ्गलाघवम् ॥ १७ ॥
आदावासनकथने सङ्गतिं सामान्यतः तत्फलं चाह - हठस्येति । हठस्य ‘आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा । अथ नादानुसन्धानम्’ इति वक्ष्यमाणानि (१.५६) चत्वार्यङ्गानि ।
प्रत्याहारादिसमाध्यन्तानां नादानुसन्धानेऽन्तर्भावः । तन्मध्ये आसनस्य प्रथमाङ्गत्वात्, पूर्वमासनमुच्यत इति सम्बन्धः । तदासनं स्थैर्यं देहस्य मनश्चाञ्चल्यरूप-रजोधर्म- नाशकत्वेन स्थिरतां कुर्यात् । ‘आसनेन रजो हन्ति’ इति वाक्यात् । आरोग्यं चित्तविक्षेपक- रोगाभावः । रोगस्य चित्तविक्षेपकत्वमुक्तं पातञ्जलसूत्रे - ‘व्याधिस्त्यानसंशयप्रमाद- आलस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपाः तेऽन्तरायाः’ इति (यो.सू १.३०) । अङ्गानां लाघवं लघुत्वम् । गौरवरूपतमोधर्मनाशकत्वम् अप्येतेनोक्तम् ।
चकारात् क्षुद्वृद्ध्यादिकमपि बोध्यम् ॥ १७ ॥
वसिष्ठाद्यैश्च मुनिभिः मत्स्येन्द्राद्यैश्च योगिभिः ।
अङ्गीकृतान्यासनानि कथ्यन्ते कानिचिन्मया ॥ १८ ॥
वसिष्ठादिसंमतासनमध्ये श्रेष्ठानि मयोच्यन्त इत्याह - वसिष्ठाद्यैरिति । वसिष्ठः आद्यः येषां याज्ञवल्क्यादीनां तैर्मुनिभिर्मननशीलैः । चकारान्मन्त्रादिपरैः । मत्स्येन्द्र आद्यो येषां जालन्धरनाथादीनां तैः । योगिभिः हठाभ्यासिभिः । चकरान्मुद्रादिपरैः । अङ्गीकृतानि चतुरशीत्यासनानि तन्मध्ये कानिचित् श्रेष्ठानि मया कथ्यन्ते । यद्यप्युभयोरपि मननहठाभ्यासौ स्तस्तथापि वसिष्ठदीनां मननं मुख्यं मत्सेन्द्रादीनां हठाभ्यासो मुख्य इति पृथग्ग्रहणम् ।
जनूर्वोरन्तरे सम्यक् कृत्वा पादतले उभे ।
ऋजुकायः समासीनः स्वस्तिकं तत् प्रचक्षते ॥ १९ ॥
तत्र सुकरत्वात् प्रथमं स्वस्तिकासनमाह - जानूर्वोरिति । जानु च ऊरुश्च । अत्र जानुशब्देन जानुसन्निहितो जङ्घाप्रदेशो ग्राह्यः । जङ्घोर्वोरिति पाठस्तु साधीयान् । तयोरन्तरे मध्ये उभे पादयोस्तले तलप्रदेशौ कृत्वा ऋजुकायः समकायः यत्र समासीनो भवेत् तदासनं स्वस्तिकं स्वस्तिकाख्यं प्रचक्षते, वदन्ति योगिन इति शेषः । श्रीधरेणोक्तम् -
ऊरुजङ्घान्तराधाय प्रपदे जानुमध्यगे ।
योगिनो यदवस्थानं स्वस्तिकं तद्विदुर्बुधा ॥ १९ ॥
सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् ।
दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृति ॥ २० ॥
गोमुखासनमाह - सव्य इति । सव्ये वामे पृष्ठस्य पार्श्वे संप्रदायात् कटेरधोभागे दक्षिणं गुल्फं नितरां योजयेत् । गोमुखस्याकृतिर्यस्य तत्तादृशं गोमुखसंज्ञकमासनं भवेत् ॥ २० ॥
एकं पादं तथैकस्मिन् विन्यसेदूरुणि स्थिरम् ।
इतरस्मिंस्तथा चोरुं वीरासनमितीरितम् ॥ २१ ॥
वीरासनमाह - एकमिति । एकं दक्षिणं पादम् । तथा पादपूरणे । एकस्मिन् वामोरुणि स्थिरं विन्यसेत् । तद्वीरासनमितीरितं कथितम् ॥ २१ ॥
गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः ।
कूर्मासनं भवेदेतदिति योगविदो विदु ॥ २२ ॥
कूर्मासनमाह - गुदमिति । गुल्फाभ्यां गुदं निरुध्य नियम्य व्युत्क्रमेण यत्र सम्यगाहितः स्थितो भवेत्, एतत् कूर्मासनं भवेत्, इति योगविदो विदुरित्यन्वयः ॥ २२ ॥
पद्मासनं तु संस्थाप्य जानूर्वोरन्तरे करौ ।
निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् ॥ २३ ॥
कुक्कुटासनमाह - पद्नासनं त्विति । पद्मासनं तु ऊर्वोरिपरि उत्तानचरणस्थापनरूपं सम्यक् स्थापयित्वा । जानुपदेन जानुसन्निहितो जङ्घाप्रदेशः । तच्च ऊरुश्च जानूरू, तयोरन्तरे मध्ये करौ निवेश्य भूमौ संस्थाप्य । करवित्यत्रापि संबध्यते । व्योमस्थं खस्थं पद्मासनसदृशं यत्तत् कुक्कुटासनम् ॥ २३ ॥
कुक्कुटासनबन्धस्थो दोर्भ्यां सम्बध्य कन्धराम् ।
भवेत् कूर्मवदुत्तान एतदुत्तानकूर्मकम् ॥ २४ ॥
उत्तानकूर्मासनमाह - कुक्कुटासनेति । कुक्कुटासनस्य यो बन्धः पूर्वश्लोकोक्तः तस्मिन् स्थितः दोर्भ्यां बाहुभ्यां कन्धरां ग्रीवां संबध्य कूर्मवदुत्तानो यस्मिन् भवेदेतदासनम् उत्तानकूर्मकं नाम ॥ २४ ॥
पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणादधि ।
धनुराकर्षणं कुर्याद् धनुरासनमुच्यते ॥ २५ ॥
धनुरासनमाह -पादाङ्गुष्ठौ त्विति । पाणिभ्यां पादयोरङ्गुष्ठौ गृहीत्वा श्रवणादधि कर्णपर्यन्तं धनुषः आकर्षणं यथा भवति तथा कुर्यात् । गृहीताङ्गुष्ठमेकं पाणिं प्रसारितं कृत्वा गृहीताङ्गुष्ठमितरं पाणिं कर्णपर्यन्तमाकुञ्चितं कुर्यादित्यर्थः । एतद्धनुरासनमुच्यते ॥ २५ ॥
वामोरुमूलार्पितदक्षपादं जानोर्बहिर्वेष्टितवामपादम् ।
प्रगृह्य तिष्ठेत् परिवर्तिताङ्गः श्रीमत्यनाथोदितमासनं स्यात् ॥ २६ ॥
मत्स्येन्द्रासनमाह - वामोरुमूलेऽर्पितः स्थापितो यो दक्षपादः तं सम्प्रदायात् पृष्ठतोगतवामपणिना गुल्फस्योपरिभागे प्रगृह्य । जानोः दक्षिणपादजानोः बहिः प्रदेशे वेष्टितो यो वामपादस्तं वामपादजानोः बहिर्वेष्टितदक्षिण अङ्गुष्ठे प्रगृह्य । परिवर्तित्ताङ्गः वामभागेन पृष्ठतो मुखं यथा स्यादेवं परिवर्तितं परावर्तितमङ्गं येन स तथा तादृशो यत्र तिष्ठेत् स्थितिं कुर्यात् तदासनं मत्स्येन्द्रनाथोदितं कथितं स्यात् । तदुदितत्वात् तन्नामकमेव वदन्ति । एवं दक्षोरुमूलार्पितवामपादं पृष्ठतोगतदक्षिणपाणिना प्रगृह्य वामजानोः बहिः वेष्टितदक्षपादं दक्षिणपादजानोः बहिः वेष्टितवामपाणिना प्रगृह्य, दक्षभागेन पृष्ठतो मुखं यथास्याद् एवं परिवर्तिताङ्गः च अभ्यसेत् ॥ २७ ॥
मत्स्येन्द्रपीठं जठरप्रदीप्तिं प्रचण्डरुग्मण्डलखण्डनास्त्रम् ।
अभ्यासतः कुण्डलिनीप्रबोधं चन्द्रस्थिरत्वं च ददाति पुंसाम् ॥ २७ ॥
मत्स्येन्द्रासनस्य फलमाह - मत्स्येन्द्रेति । प्रचण्डं दुस्सहं रुजां रोगाणां मण्डलं समूहः तस्य खण्डने छेदने अस्त्रम् अस्त्रमिव तादृशं मत्स्येन्द्रपीठं मत्स्येन्द्रासनम् । अभ्यासतः प्रत्यहमावर्तनरूपाभ्यासात् पुंसां जठरस्य जठराग्नेः प्रकृष्टां दीप्तिं वृद्धिं ददाति । तथा कुण्डलिन्याः आधारशक्तेः प्रबोधं निद्राभावं तथा चन्द्रस्य तालुनः उपरिभागे स्थितस्य नित्यं क्षरतः स्थिरत्वं क्षरणाभावं च ददातीत्यर्थः ॥ २७ ॥
प्रसार्य पादौ भुवि दण्डरूपौ दोर्भ्यां पदाग्रद्वितयं गृहीत्वा ।
जानूपरि न्यस्तललाटदेशः वसेदिदं पश्चिमतानमाहुः ॥ २८ ॥
पश्चिमतानासनमाह - प्रसार्येति । भुवि भूमौ दण्डस्य रूपमिव रूपं ययोः तौ दण्डाकारौ श्लिष्टगुल्फौ प्रसार्य प्रसारितौ कृत्वा । दोर्भ्याम्् आकुञ्चिततर्जनीभ्यां भुजाभ्यां पदोः पदयोः च अग्रे अग्रभागौ तयोर्द्वितयं द्वयमङ्गुष्ठप्रदेशयुग्ममं बलादाकर्षणपूर्वकं यथा जान्वधोभागस्य भूमेरुत्थानं न स्यात् तथा गृहीत्वा । जानोरुपरि न्यस्तो ललाटदेशो येन तादृशो यत्र वसेत् । इदं पश्चिमताननामकम् आसनमाहुः ।
इति पश्चिमताननामासनाग्र्यं पवनं पश्चिमवहिनं कारोति ।
उदयं जठरानलस्य कुर्यादुदरे कार्श्यमरोगतां च पुंसाम् ॥ २९ ॥
अथ तत्फलम् - इतीति  । इति पूर्वोक्तमासनेष्वग्र््रयं मुख्यं पश्चिमतानं पवनं प्राणं पश्चिमवाहिनं पश्चिमेन पश्चिममार्गेण सुषुम्नामार्गेण वहतीति पश्चिमवाही तं तादृशं करोति । जठरानलस्य जठरे योऽनलोऽग्निस्तस्योदयं वृद्धिं कुर्यात् । उदरे मध्यप्रदेशे कार्श्यं कृशत्वं कुर्यात् । अरोगतामारोग्यं चकारान्नाडीबलादिसाम्यं कुर्यात् ॥ २९ ॥
धरामवष्टभ्य करद्वयेन तत्कूर्परस्थापितनाभिपार्श्वः ।
उच्चासनो दण्डवदुत्थितः खे मायूरमेतत् प्रवदन्ति पीठम् ॥ ३० ॥
अथ मयूरासनमाह - धरामिति  । करद्वयेन करयोर्द्वयं युग्मं तेन धरां भूमिं अवष्टभ्य अवलम्ब्य प्रसारिताङ्गुली भूमिसंलग्नौ संनिहितौ करौ कृत्वा इत्यर्थः । तस्य करद्वयस्य कूर्परयोः भुजमध्यसन्धिभागयोः स्थापिते धृते नाभेःपार्श्वे पार्श्वभागौ येन सः उच्चासनः उच्चमुन्नतमासनं यस्यैतादृशः खे शून्ये दण्डवद्दण्डेन तुल्यमुत्थित ऊर्ध्वं स्थितो यत्र भवति, तन्मायूरं मयूरस्येदं तत्संबन्धित्वात् तन्नामकं प्रवदन्ति योगिन इति शेषः ॥ ३० ॥
हरति सकल्रोगानाशुगुल्मोदरादीन््
अभिभवति च दोषानासनं श्रीमयूरम् ।
बहु कदशनभुक्तं भस्मकुर्यादशेषम्
जनयति जठराग्निं जारयेत्कालकूटम् ॥ ३१ ॥
मयूरासनगुणानाह - हरतीति  । गुल्मो रोगविशेषः उदरं जलोदरं ते आदी येषां प्लीहादीनां ते तथा तान् सकलरोगान् सकला ये रोगास्तानाशु झटिति हरति नाशयति । श्रीमयूरमासनमिति सर्वत्र संबध्यते । दोषान् वातपित्तकफान् आलस्यादीन् च अभिभवति तिरस्करोति । बह्वतिशयितं कदशनं कदन्नं यद्भुक्तं तदशेषं समस्तं भस्म कुर्यात् पाचयेदित्यर्थः । जठराग्निं जठरानलं जनयति प्रादुर्भावयति । कालकूटं विषं कालकूटवद् अपकारकमन्नं समस्तं जारयेज्जीर्णं कुर्यात् पाचयेदित्यर्थः ॥ ३१ ॥
उत्तानं शववद्भूमौ शयनं तच्छवासनम् ।
शवासनं श्रान्तिहरं चित्तविश्रान्तिकारकम् ॥ ३२ ॥
शवासनमाह अर्धेन - उत्तनमिति । शवेन मृतशरीरेण तुल्यं शववदुत्तानं भूमिसंलग्नंपृष्ठं यथा स्यात् तथा शयनं निद्रायामिव संनिवेशो यत् तच्छवासनं शवासानख्यमासनम् । शवासनप्रयोजनमाह उत्तरार्धेन । शवासनं श्रान्तिहरं श्रान्तिं हठाभ्यासश्रमं हरतीति श्रान्तिहरं चित्तस्य विश्रान्तिः विश्रामः तस्याः कारकम् ॥ ३२ ॥
चतुरशीत्यासनानि शिवेन कथितानि च ।
तेभ्यश्चतुष्कमादाय सारभूतं ब्रवीम्यहम् ॥ ३३ ॥
वक्ष्यमाणासनचतुष्टयस्य श्रेष्ठत्वं वदन्नाह - चतुरशीतीति । शिवेन ईश्वरेण चतुरधिकाशीति-सङ्ख्याकान्यासनानि कथितानि, चकाराच्चतुरशीतिलक्षणानि च । तदुक्तं गोरक्षनाथेन -
’आसनानि च तावन्ति यावन्न्त्यो जीवजातयः ।
एतेषामखिलान् भेदान् विजानाति महेश्वरः ॥
चतुरशीतिलक्षणानि एकैकं समुदाहृतम् ।
ततः शिवेन पीठानां षोडशानां शतं कृतम् ॥ ‘ इति ।
तेभ्यः शिवोक्तचतुरशीतिलक्षणानां मध्ये प्रशस्तानि यानि चतुरशीत्यासनानि तेभ्यः आदाय गृहीत्वा, सारभूतं श्रेष्ठभूतं चतुष्कमहं ब्रवीमीत्यन्वयः ॥ ३३ ॥
सिद्धं पद्मं तथा सिंहं भद्रं चेति चतुष्टयम् ।
श्रेष्ठं तत्रापि च सुखे तिष्ठेत् सिद्धासने सदा ॥ ३४ ॥
तदेव चतुष्कं नाम्ना निर्दिशति - सिद्धमिति । सिद्धं सिद्धासनम् । पद्मं पद्मासनम् । सिंहं सिंहासनम् । भद्रं भद्रासनम् इति चतुष्टयं श्रेष्ठम् अतिशयेन प्रशस्यम्, तत्रापि चतुष्टये सुखे सुखकरे सिद्धासने सदा तिष्ठेत् । एतेन सिद्धासनं चतुष्टयेऽप्युत्कृतमिति सूचितम् ॥ ३४ ॥
तत्र सिद्धासनम्-
योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसेत्
मेढ्रे पादमथैकमेव हृदये कृत्वा हनुं सुस्थिरम् ।
स्थाणुस्संयमितेन्द्रियोऽचलदृशा पश्येद् भ्रुवोरन्तरम्
ह्येतन्मोक्षकपाटभेदजनकं सिद्धासनं प्रोच्यते ॥ ३५ ॥
आसनचतुष्टयेऽप्युत्कृष्टत्वात् प्रथमं सिद्धासनमाह - योनिस्थानकमिति । योनिस्थानमेव योनिस्थानकम् । स्वार्थे कप्रत्ययः । गुदोपस्थयोर्मध्यमप्रदेशः योनिस्थानं तत् । अङ्घ्रिः वामश्चरणः तस्य मूलेन पार्ष्णिभागेन घटितं संलग्नं कृत्वा । स्थानान्तरम् एकं पादं दक्षिणं पादं मेढ्रेन्द्रियस्योपरिभागे दृढं यथा स्यात् तथा विन्यसेत् । हृदये हृदयसमीपे हनुं चिबुकं सुस्थिरं सम्यक् स्थिरं कृत्वा हनुहृदययोः चतुरङ्गुलमन्तरं यथा भवति तथा कृत्वा इति रहस्यम् । संयमितानि विषयेभ्यः परावृतानि इन्द्रियाणि येन स तथा । अचला या दृक् दृष्टिस्तया भ्रुवोरन्तरं मध्यं पश्येत् । हि प्रसिद्धं मोक्षस्य यत्कपाटं प्रतिबन्धकं तस्य भेदं नाशं जनयतीति तादृशम् । सिद्धानां योगिनाम् । आस्तेऽत्र , आस्यतेऽनेन इति वा आसनं सिद्धासनं नामक मिदं भवेदित्यर्थः ॥ ३५ ॥
मतान्तरे तु -
मेढ्रादुपरि विन्यस्य सव्यं गुल्फं तथोपरि ।
गुल्फान्तरं च निक्षिप्य सिद्धासनमिदं भवेत् ॥ ३६ ॥
मत्स्येद्न्द्रसम्मतं सिद्धासनमुक्त्वा अन्यसंमतं वक्तुमाह -मतान्तरे त्विति । तदेव दर्शयति - मेढ्रादिति । मेढ्रादुपस्थादुपरि ऊर्ध्वभागे सव्यं वामगुल्फं विन्यस्य तथा सव्यवदुपरि मुख्यपादस्योपरि न तु सव्यगुल्फस्य । गुल्फान्तरं दक्षिणगुल्फं च निक्षिप्य वसेदिति शेषः । इदं सिद्धासनं मतान्तराभिमतं भवेदित्यर्थः ॥ ३६ ॥
एतत्सिद्धासनं प्राहुरन्ये वज्रासनं विदुः ।
मुक्तासनं वदन्त्येके प्राहुर्गुप्तासनं परे ॥ ३७ ॥
तत्र प्रथमं महासिद्धसम्मतमिति स्पष्टीकर्तुमस्यैव मतभेदान् नामभेदानाह - एतदिति । एतत् पूर्वोक्तं सिद्धासनं सिद्धासननामकं प्राहुः । केचिदित्यध्याहारः । अन्ये वज्रासनं वज्रासनसंज्ञकं विदुः जानन्ति । एके मुक्तासनं मुक्तासनाभिधं वदन्ति । परे गुप्तासनं गुप्तासनाख्यं प्राहुः । अत्रासनाभिज्ञाः । यत्र वामपादपार्ष्णिं योनिस्थाने नियोज्य दक्षिणपादपार्ष्णिः मेढ्रादुपरि स्थाप्यते तद्वज्रासनम् । यत्र तु दक्षिणसव्यपादपार्ष्णिद्वयमुपर्यधो भागेन संयोज्य योनिस्थानेन संयोज्यते तन्मुक्तासनम् । यत्र तु पूर्ववत् संयुक्तं पार्ष्णिद्वयं मेढ्रादुपरि निधीयते तद्गुप्तासनमिति ॥ ३७ ॥
यमेष्विव मिताहारमहिंसां नियमेष्विव ।
मुख्यं सर्वासनेष्वेकं सिद्धाः सिद्धासनं विदुः ॥ ३८ ॥
अथ सप्तभिः श्लोकैः सिद्धासनं प्रशंसन्ति - यमेष्वित्यादिभिः । यमेषु मिताहारमिव । मिताहारो वक्ष्यमाणः ‘सुस्निग्धमधुराहारः’ (श्लो ५८) इत्यादिना । नियमेषु अहिंसामिव । सर्वाणि यान्यासनानि तेषु सिद्धाः एकं सिद्धासनं मुख्यं विदुरिति संबन्धः ॥ ३८ ॥
चतुरशीतिपीठेषु सिद्धमेव सदाभ्यसेत् ।
द्वासप्ततिसहस्राणां नाडीनां मलशोधनम् ॥ ३९ ॥
चतुरशीतीति । चतुरधिकाशीतिसङ्ख्याकानि यानि पीठानि तेषु सिद्धमेव सिद्धासनमेव सदा सर्वदाभ्यसेत् । सिद्धासनस्य सदाभ्यासे हेतुगर्भं विशेषणं द्वासप्ततिसहस्राणं नाडीनां मलशोधनं शोधकम् ॥ ३९ ॥
आत्मध्यायी मिताहारी यावद्-द्वादशवत्सरम् ।
सदा सिद्धासनाभ्यासात् योगी निष्पत्तिमाप्नुयात् ॥ ४० ॥
आत्मध्यायीति । आत्मानं ध्यायतीत्यात्मध्यायी । मिताहारोऽस्यास्तीति मिताहरी । यावन्तो द्वादश वत्सराः यावद्-द्वादशवत्सरम् । ‘यावदवधारणे’ इत्यव्ययीभावः समासः । (पा.सू.२.१.८) । द्वादशवत्सरपर्यन्तमित्यर्थः । सदा सर्वदा सिद्धासनस्याभ्यासाद् योगी योगाभ्यासी निष्पत्तिं योगसिद्धिमाप्नुयात् प्राप्नुयात् । योगान्तराभ्यासमन्तरेण सिद्धासनाभयासमात्रेण सिद्धिं प्राप्नुयादित्यर्थः ॥ ४० ॥
किमन्यैर्बहुभिः पीठैः सिद्धे सिद्धासने सति ।
प्राणानिले सावधाने बद्धे केवलकुम्भके ।
उत्पद्यते निरायासात् स्वयमेवोन्मनी कला ॥ ४१ ॥
किमन्ययैरिति । सिद्धासने सिद्धे सत्यन्यैर्बहुभिः पीठैरासनैः किम् ? न किमपीत्यर्थः । सावधाने प्राणानिले प्राणवायौ केवलकुम्भके बद्धे सति उन्मनी उन्मन्यवस्था । सा कलेवाह्लादकत्वात् चन्द्रलेखेव निरायासद् अनायासात् । स्वयमेव उत्पद्यते उदेति ॥ ४१ ॥
तथैकस्मिन्नेव दृढे बद्धे सिद्धासने सति ।
बन्धत्रयमनायासात् स्वयमेवोपजायते ॥ ४२ ॥
तथेति । तथा उक्तप्रकारेण एकस्मिन्नेव सिद्धासने दृढे बद्धे सति बन्धत्रयं मूलबन्ध-उड्डियानबन्ध-जालन्धरबन्धरूपम् अनायासात् ‘पार्ष्णिभागेन संपीड्य योनिमाकुञ्चयेद् गुदम्’(३.६१) इत्यादिवक्ष्यमणमूलबन्धादिषु आयासः तं विनैव स्वयमेवोपजायते स्वत एव उत्पद्यते इत्यर्थः ॥ ४२ ॥
नासनं सिद्धसदृशं न कुम्भः केवलोपमः ।
न खेचरीसमा मुद्रा न नादसदृशो लयः ॥ ४३ ॥
नासनमिति  । सिद्धेन सिद्धासनेन सदृशम् आसनं नास्तीति शेषः । केवलेन केवल्कुम्भकेन उपमीयते इति केवलोपमः कुम्भः कुम्भको नास्ति । खेचरीमुद्रासमा मुद्रा नास्ति । नादसदृशो लयो लयहेतुर्नाास्ति ॥ ४३ ॥
अथ पद्मासनम् -
वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथा
दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् ।
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकयेद्
एतद्व्याधिविनाशहारि यमिनां पद्मासनं प्रोच्यते ॥ ४४ ॥
अथासनं वक्तुमुपक्रमते - अथेति । पद्मासनमाह - वामोरूपरि । वामो य ऊरुः तस्योपरि दक्षिणम् । चकारः पादपूरणे । संस्थाप्य सम्यगुत्तानं स्थापयित्वा वामं सव्यं चरणं तथा दक्षिणचरणवद् दक्षो दक्षिणो य ऊरुः तस्योपरि संस्थाप्य पश्चिमेन भागेन पृष्ठभागेनेति । विधिः विधानं करयोः इत्यर्थात् । तेन कराभ्यां हस्ताभ्यां दृढं यथा स्यात् तथा पादाङ्गुष्ठौ धृत्वा गृहीत्वा । दक्षिणं करं पृष्ठतः कृत्वा वामोरुस्थितदक्षिणचरणाङ्गुष्ठं गृहीत्वा । वामकरं पृष्ठतः कृत्वा दक्षिणोरुस्थितवामचरणाङ्गुष्ठं गृहीत्वा इत्यर्थः । हृदये हृदयसमीपे । सामीपिकाधारे सप्तमी । चिबुकं हनुं निधाय उरसः चतुरङ्गुलान्तरे चिबुकं निधायेति रहस्यम् । नासग्रम् आलोकयेत् पश्येत् । यत्रैतद् यमिनां योगिनां व्याधेर्विनाशं करोतीति व्याधिविनाशकारि पद्मासनमेतन्नामकं प्रोच्यते, सिद्धैरिति शेषः ॥ ४४ ॥
मतान्तरे -
उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः ।
ऊरुमध्ये तथोत्तानौ पाणीकृत्वा ततो दृशौ ॥ ४५ ॥
मत्स्येन्द्रनाथाभिमतं पद्मासनमाह - उत्तानाविति । उत्तानौ ऊरुसंलग्नपृष्ठभागौ चरणौ पादौ प्रयत्नतः प्रकृष्टात् यत्नात् ऊरुसंस्थात् ऊर्वोः सम्यक् तिष्ठतः । इत्यूरुसंस्थौ तादृशौ कृत्वा । ऊर्वोर्मध्ये ऊरुमध्ये तथा चार्थे । पाणी करौ उत्तानौ कृत्वा । ऊरुसंस्थोत्तानपादोभयपार्ष्णिसंलग्नपृष्ठं सव्यं पाणिमुत्तानं कृत्वा तदुपरि दक्षिणं पाणिं चोत्तानं कृत्वेत्यर्थ । ततः तदनन्तरं दृशौ दृष्टी - ॥ ४५ ॥
नासाग्रे विन्यसेद् राजदन्तमूले तु जिह्वया ।
उत्तम्भ्य चिबुकं वक्षस्युत्थाप्य पवनं शनैः ॥ ४६ ॥
नासाग्रे नासिकाग्रे विन्यसेद् विशेषेण निश्चलतया न्यसेदित्यर्थः । राजदन्तानां दंष्ट्राणां सव्यदक्षिणभागे स्थितानां मूले उभे मूलस्थाने जिह्वया उत्तम्भ्य ऊर्ध्वं स्तम्भयित्वा । गुरुमुखादवगन्तवयः अयं जिह्वाबन्धः । चिबुकं वक्षसि निधायेति शेषः । शनैः मन्दं मन्दं वायुमुत्थाप्य । अनेन मूलबन्धः प्रोक्तः । मूलबन्धोऽपि गुरुमुखादेव अवगन्तव्यः । वस्तुतस्तु जिह्वाबन्धेनैवायं चरितार्थ इति हठरहस्यविदः ॥ ४६ ॥
इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम् ।
दुर्लभं येन केनापि धीमता लभ्यते भुवि ॥ ४७ ॥
एवं यत्र आस्यते तदिदं पद्मासनं पद्मासनाभिधानं प्रोक्तम् । आसनज्ञैरिति शेषः । कीदृशं? सर्वेषां व्याधीनां विशेषेण नाशनं येन केनापि भाग्यहीनेन दुर्लभम् । धीमता भुवि भूमौ लभ्यते प्राप्यते ॥ ४७ ॥
कृत्वा संपुटितौ करौ दृढतरं बद्धवा तु पद्मासनं
गाढं वक्षसि सन्निधाय चिबुकं ध्यायंश्च तच्चेतसि ।
वारं वारमपानमूर्ध्वमनिलं प्रोत्सारयन् पूरितम्
न्यञ्चन् प्राणमुपैति बोधमतुलं शक्तिप्रभावान्नरः ॥ ४८ ॥
एतच्च महायोगिसम्मतमिति स्पष्टयितुमन्यदपि पद्मासने कृत्यविशेषमाह - कृत्वेति । संपुटितौ संपुटीकृतौ करावुत्सङ्गस्थाविति शेषः । दृढतरम् अतिशयेन दृढं सुस्स्थं पद्मासनं बद्ध्वा कृत्वा इत्यर्थः । चिबुकं हनुं गाढं दृढं यथा स्यात् तथा वक्षसि वक्षः समीपे सन्निधाय सन्निहितं कृत्वा चतुरङ्गुलान्तरेणेति योगिसंप्रदायाज्ज्ञेयम् । जालन्धरबधं कृत्वा इत्यर्थः । तत् स्वस्वेष्टदेवतारूपं ब्रह्म वा । ‘ॐ तत्सदिति निर्देशो ब्रह्मणः त्रिविधः स्मृतः’ (भ.गी. १७.२३) इति भगवदुक्तेः , चेतसि चित्ते ध्यायन् चिन्तयन् । अपानमनिलम् अपानवायुं ऊर्ध्वं प्रोत्सारयन् मूलबन्धं कृत्वा सुषुम्नामार्गेण प्राणमूर्ध्वं नयन् पूरितं पूरकेण अन्तर्धारितं प्राणं न्यञ्चन् नीचैरधो अञ्चन् गमयन् । अन्तर्भावितण्यर्थोऽञ्चतिः । प्राणापानयोरैक्यं कृत्वेत्यर्थः । नरः पुमान् अतुलं बोधं निरुपमज्ञानं शक्तिप्रभावात् शक्तिः आधारशक्तिः कुण्डलिनी तस्याः प्रभावात् सामर्थ्यादुपैति प्राप्नोति । प्राणापानयोः ऐक्ये कुण्डलिनी भवति । कुण्डलिनी मार्गेण प्राणो ब्रहरन्ध्रं गच्छति । तत्र गते चित्तस्थैर्यं भवति ।
चित्तस्थैर्ये संयमाद् आत्मसाक्षात्कारो भवतीत्यर्थः ॥ ४८ ॥
पद्मासने स्थितो योगी नाडीद्वारेण पूरितम् ।
मारुतं धारयेद् यस्तु स मुक्तो नात्र संशयः ॥ ४९ ॥
पद्मासन इति  । पद्मसने स्थितो यो योगी योगाभ्यासी पूरितं पूरकेण अन्तः नीतं मारुतं वायुं सुषुम्ना मार्गेण मूर्धानं नीत्वा इति शेषः, धारयेत् स्थिरीकुर्यात् स मुक्तः । अत्र संशयो नास्तीत्यन्वयः ॥ ४९ ॥
अथ सिंहासनम् -
गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत्
दक्षिणे सव्यगुल्फं तु दक्षगुल्फं तु सव्यके ॥ ५० ॥
सिंहासनमाह - गुल्फौ चेति । वृषणस्य अधः अधोभागे सीवन्याः पार्श्वयोः सीवन्या उभयभागयोः क्षिपेत् प्रेरयेत् स्थापयेत् इति यावत् । गुल्फस्थापनप्रकारमेवाह - दक्षिण इति । सीवन्या दक्षिणे भागे सव्यगुल्फं स्थापयेत् । सव्यके सीवन्याः सव्यभागे दक्षिणगुल्फं स्थापयेद् ॥ ५० ॥
हस्तौ तु जान्वोः संस्थाप्य स्वाङ्गुलीः सम्प्रसार्य च ।
व्यत्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः ॥ ५१ ॥
हस्ताविति । जान्वोरुपरि हस्तौ तु संस्थाप्य सम्यग् जानुसंलग्नौ यथा स्यातां तथा स्थापयित्वा । स्वाङ्गुलीः हस्ताङ्गुलीः संप्रसार्य सम्यग् प्रसार्य । व्यत्तवक्त्रः संप्रसारितललज्जिह्वमुखः सुसमाहितः एकाग्रचित्तः नासाग्रं नासिकाग्रं यस्मिन् निरीक्षेत ॥ ५१ ॥
सिंहासनं भवेदेतत् पूजितं योगिपुङ्गवैः ।
बन्धत्रितयसन्धानं कुरुते चासनोत्तमम् ॥ ५२ ॥
एतत सिंहासनं भवेत् । कीदृशं ? योगिपुङ्गवैः योगिश्रेष्ठैः पूजितं प्रस्तुतम् आसनेषूत्तम् सिंहासनं बन्धानां मूलबन्धादीनां त्रितयं तस्य सन्धानं संनिधानं कुरुते ॥ ५२ ॥
अथ भद्रासनम् -
गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् ।
सव्यगुल्फं तथा सव्ये दक्षगुल्फं तु दक्षिणे ॥ ५३ ॥
भद्रासनमाह - गुल्फाविति  । वृषणस्याधः सीवन्याः पार्श्वयोः सीवन्या उभयतः । गुल्फौ पादग्रन्थी क्षिपेत् । तथा पादपूरणे । दक्षगुल्फं तु दक्षिणे सीवन्याः पार्श्वे क्षिपेत् ॥ ५३ ॥
पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् ।
भाद्रासनं भवेदेतत् सर्वव्याधिविनाशनाम् ।
गोरक्षासनमित्याहुरिदं वै सिद्धयोगिनः ॥ ५४ ॥
पार्श्वपादौ च पार्श्वसमीपगतौ पादौ पाणिभ्यां भुजाभ्यां दृढं बद्ध्वा परस्परसंलग्नाङ्गुलिभ्याम् उदरसंलग्नतलाभ्यां पाणिभ्यां बद्ध्वा इत्यर्थः ।
एतद् भद्रासनं भवेद् । कीदृशम् ? सर्वेषां व्याधीनां विशेषेण नाशनम् । गोरक्षेति । सिद्धाश्च ते योगिनश्च सिद्धयोगिनः, इदं भद्रासनं गोरक्षासनमित्याहुः । गोरक्षेण प्रायशः अभ्यस्तत्वाद् गोरक्षासनं वदन्ति ॥ ५४ ॥
एवमासानबन्धेषु योगीन्द्रो विगतश्रमः ।
अभ्यसेनाडिकाशुद्धिं मुद्रादिपवनक्रियाम् ॥ ५५ ॥
आसनान्युक्तानि । तेषु यत् कर्तव्यं तदाह - एवमिति । एवमुक्तेष्वासनबन्धेषु बन्धनप्रकारेषु विगतः श्रमः यस्य सः विगतश्रमः, आसनानां बन्धेषु श्रमरहितः । योगिनामिन्द्रो योगीन्द्रः । नाडिकानां नाडीनां शुद्धिम् । ‘प्राणं चेदिडया पिबेन्नियमितम्(२.१०) इति वक्ष्यमाणरूपा मुद्रा आदिः यस्याः सूर्यभेदादेः तादृशम् । पवनस्य प्राणवायोः क्रियां प्राणायामरूपां चाभ्यसेत् ॥ ५५ ॥
आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा ।
अथ नादानुसन्धनम् अभ्यासानुक्रमो हठे ॥ ५६ ॥
अथ हठाभ्यसनक्रममाह - आसनमिति  । आसनमुक्तलक्षणं चित्रं नानाविधं कुम्भकं ‘सूर्यभेदनमुज्जायी’(२.४४) इत्यादिवक्ष्यमाणम् । मुद्रा इति आख्या यस्य तन्मुद्राख्यम् ।
महमुद्रादिरूपकरणं हठसिद्धौ प्रकृष्टोपकारकम् । तथा चार्थे । अथैतत्त्रयानुष्ठानानन्तरं नादस्य अनाहतध्वनेः अनुसन्धानम् अनुचिन्तनं हठे हठयोगे अभ्यासः अभ्यसनं तस्य अनुक्रमः पौर्वापर्यक्रमः ॥ ५६ ॥
ब्रह्मचारी मिताहारी त्यागी योगपरायणः ।
अब्दादूर्ध्वं भवेत् सिद्धो नात्र कार्या विचारणा ॥ ५७ ॥
हठैसिद्धेरवधिमाह - ब्रह्मचारीति  । ब्रह्मचर्यवान् मिताहारो वक्ष्यमाणः सः अस्य अस्तीति मिताहारी त्यागी दानशीलः विषयपरित्यागी वा योगपरायणः योगाभ्यसनपरः । अब्दात् वर्षादूर्ध्वं सिद्धः सिद्धहठो भवेत् । अत्रोक्ते अर्थे विचारणा स्यान्नवेति संशयप्रयुक्ता न कार्या । एतन्निश्चितमेव इत्यर्थः ॥ ५७ ॥
सुस्निग्धमधुराहारः चतुर्थांशविवर्जितः ।
भुज्यते शिवसंप्रीत्यै मिताहारः स उच्यते ॥ ५८ ॥
पूर्वश्लोके मिताहारीत्युक्तं, तत्र योगिनां कीदृशो मिताहारः इत्यपेक्षायामाह - सुस्निग्धेति  । सुस्निग्धः अतिस्निग्धः स च असौ मधुरश्च तादृशः आहारः चतुर्थांशविवर्जितः चतुर्थभागरहितः । तदुक्तमभियुक्तैः -
‘द्वौ भागौ पूरयेदन्नैः तोयेनैकं प्रपूरयेत् ।
वायोः सञ्चरणार्थाय चतुर्थमवशेषयेत् ’ ॥ इति ।
शिवो जीवः ईश्वरः वा । ‘भोक्ता देवो महेश्वरः’ इति वचनत् । तस्य संप्रीत्यै सम्यक् प्रीत्यर्थं यो भुञ्जते स मिताहार इत्युच्यते ॥ ५८ ॥
कट्वम्ल-तीक्ष्ण-लवणोष्ण-हारीतशाक-
सौवीर-तैल-तिल-सर्षप-मद्य-मत्स्यान् ।
आजादिमांस-दधि-तक्र-कुलत्थ-कोल-
पिण्याक-हिङ्गु-लशुनाद्यमपथ्यमाहुः ॥ ५९ ॥
अथ योगिनामपथ्यमाह द्वाभ्याम् - कट्विति । कटु कारवेल्ल इत्यादि, अम्लं चिञ्चाफलादि, तीक्ष्णं मरीचादि, लवणं प्रसिद्धं, उष्णं गुडादि, हरीतशाकं पत्रशाकं, सौवीरं काञ्जिकं, तैलं तिलसर्षपादिस्नेहः, तिलाः प्रसिद्धाः, सर्षपाः सिद्धार्थाः, मद्यं सुरा, मत्स्यो झषः । एषामितरेतरद्वन्द्वः । एतानपथ्यानाहुः । अजस्येदम् आजं तदादिः यस्य सौकरादेः तदाजादि तच्च तन्मांसं च आजादिमांसम्, दधि दुग्धपरिणामविशेषः, तक्रं गृहीतसारं दधि, कुलत्थो द्विदलविशेषः, कोलं कोल्याः फलं बदरम् । ‘कर्कन्धूर्बदरी कोलिः’ इत्यमरः (२.४.३६) । पिण्याकं तिलपिण्डं, हिङ्गु रामठं, लशुनम् । एषामितरेतरद्वन्द्वः । एतानि आद्यानि यस्य तत्तथा । आद्यशब्देन पलाण्डुगृञ्जनमादकद्रव्यमाषान्नादिकं ग्राह्यम् । अपथ्यम् अहितम् । योगिनामिति शेषः । आहुः योगिनः इत्यध्याहारः ।
भोजनमहितं विद्यात् पुनरस्योष्णीकृतं रूक्षम् ।
अतैलवणमम्लयुक्तं कदशनशाकोत्कटं वर्ज्यम् ॥ ६० ॥
भोजनमिति । पश्चादग्निसंयोगेन उष्णीकृतं यद्भोजनं सूपौदनरोटिकादि रूक्षं घृतादिहीनम्, अतिशयितं लवणं यस्मिन् तदतिलवणम्, यद्वा लवणमतिक्रान्तम् अतिलवणम् चाकूवा इति लोके प्रसिद्धं शाकं, यवक्षारादिकं च । लवणस्य सर्वदा वर्जनीयत्वाद् उत्तरपक्षः साधुः । तथा च दत्तात्रेयः -
’अथ वर्ज्यानि वक्ष्यामि योगविघ्नकराणि च ।
लवणं सर्षपं चाम्लमुग्रं तीक्ष्णं च रूक्षकम् ।
अतीवभोजनं त्याज्यम् अतिनिद्रातिभाषणम् ’ ॥ इति ।
स्कन्दपुराणेऽपि - ‘त्यजेत् कट्वम्ललवणं क्षीरभोजी सदा भवेत्’ इति । अम्लयुक्तम्् अम्लद्रव्येण युक्तमपि त्याज्यं किमुत साक्षादम्लम् । अत्र तृतीयपादं ‘पललं वा तिलपिण्डम्’ इति केचित् पठन्ति । तस्यायमर्थः । पललं मांसं , तिलपिण्डं पिण्याकं कदशनं कदन्नं यावनालकोद्रवादि, शाकं विहितेतरशाकमात्रम्, उत्कटं विदाहि, मिरचीति लोके प्रसिद्धं, मिरचा इति हिन्दुस्थानभाषायाम् । कदशनादीनां समाहारद्वन्द्वः । अतिलवणादिकं वर्ज्यं वर्जनार्हम् । दुष्टमिति पाठे दुष्टं पूतिपर्युषितादि । अहितमिति योजनीयम् ॥ ६० ॥
वह्निस्त्रीपथिसेवानामादौ वर्जनमाचरेत् ।
तथा हि गोरक्षवचनम् -
वर्जयेद्दुर्जनप्रान्तं वह्निस्त्रीपतिसेवनम् ।
प्रातः स्नानोपवासादि कायक्लेशविधिं तथा ॥ ६१ ॥
एवं योगिनां सदा वर्ज्यानुक्त्वा अभ्यासकाले वर्ज्यान् आह अर्धेन - वह्नीति ।
वह्निः च स्त्री च पन्थाः च तेषां सेवा वह्निसेवन-स्त्रीसङ्ग-तीर्थयात्रागमनादिरूपाः तासां वर्जनम् आदौ अभ्यासकाले आचरेत् । सिद्धे अभ्यासे तु कदाचित् । शीते वह्निसेवनं गृहस्थस्य ऋतौ स्वभार्यागमनं तीर्थयात्रादा मार्गगमनं च न निषिद्धमिति आदिपदेन सूच्यते । तत्र प्रमाणं गोरक्षवचनम् अवतारयति - तथाहीति  । तत्पठति - वर्जयेदिति  । दुर्जनप्रन्तं दुर्जनसमीपवासम् । ‘दुर्जनप्रीतिमि’ति क्वचित् पाठःवह्निस्त्रीपथिसेवनं व्याख्यातम् । प्रातः स्नानम् उपवासः च आदिः यस्य फलाहारेदेः तच्च तयोः समाहारद्वन्द्वः । प्रथमाभ्यासिनः शीतविकारोत्पत्तेः । उपवासादिना पित्ताद्युत्पत्तेः । कायक्लेशविधिं कायक्लेशकरं विधिं क्रियां बहुसूर्यमस्कारादिरूपां बहुभारोद्वहनरूपां च । तथा समुच्च्ये । अत्र प्रतिपदं वर्जयेदिति क्रियासंबन्धः ॥ ६१ ॥
गोधूमशालियवषाष्टिकशोभनान्नम्
क्षीराज्यखण्डनवनीतसितामधूनि ।
शुण्ठीपटोलकफलादिकपञ्चशाकं
मुद्गादिदिव्यमुदकं च यमीन्द्रपथ्यम् ॥ ६२ ॥
अथ योगिपथ्यमाह - गोधूमेत्यादिना । गोधूमाश्च शालयश्च यवाश्च षाष्टिकाश्च षष्ट्या दिनैः ये पच्यन्ते तण्डुलविशेषाः ते, शोभनमन्नं पवित्रान्नं श्यामाकनीवारादि तच्च एतेषां समाहारद्वन्द्वः । शुण्ठी प्रसिद्धा, पटोलकफलं परवर इति भाषायां प्रसिद्धं शाकं तदादिः यस्य कोशातक्यादेः तत्पटोलकफलादिकं ‘शेषाद्विभाषा’ (पा.सू. ५.४.१५४) इति कप्रत्ययः । पञ्चानां शाकानां समाहारः पञ्चशाकम् । तदुक्तं वैद्यके -
‘सर्वशाकमचाक्षुष्यं चाक्षुष्यं शाकपञ्चकम् ।
जीवन्तीवासुमूल्याक्षीमेघनादपुनर्नवाः ’ ॥ इति ।
मुद्गा द्विदलविशेषा आदिः यस्य तन्मुद्गादि । अदिपदेन आढकी ग्राह्या । दिव्यं निर्दोषमुदकं जलम् । यम एषामस्तीति यमिनः तेष्विन्द्रो देवश्रेष्ठो यो योगीन्द्रः तस्य पथ्यं हितम् ॥ ६२ ॥
पुष्टं सुमधुरं स्निग्धं गव्यं धातुप्रपोषणम् ।
मनोभिलषितं योग्यं योगी भोजनमाचरेत् ॥ ६३ ॥
अथ योगिनो भोजननियममाह - पुष्टमिति । पुष्टं देहपुष्टिकरम् ओदनादि सुमधुरं शर्करादिसहितं स्निग्धं सघृतं गव्यं गोदुग्धघृतादियुक्तं गव्यालाभे माहिषं दुग्धादि ग्राह्यम्, धातुप्रपोषणं लड्डुकापूपादि । मनोभिलषितं पुष्टादिषु यन्मनोरुचिकरं तदेव योगिना भोक्तव्यं, नेत्याह । योग्यमिति । विहितमेव इत्यर्थः । योगी भोजनं पूर्वोक्तविशेषणविशेष्टमाचरेत् कुर्यादित्यर्थः । न तु सक्तुभिर्जातान्नादिना निर्वाहं कुर्यादिति भावः ॥ ६३ ॥
युवावृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा ।
अभ्यासात् सिद्धिमाप्नोति सर्वयोगेष्वतन्द्रितः ॥ ६४ ॥
योगाभ्यासिनो वयोविशेष-आरोग्याद्यपेक्षा नास्तीत्याह - युवेति । युवा तरुणः वृद्धो वृद्धावस्थां प्राप्तः, अतिवृद्धो अतिवार्धकं गतो वा । अभ्यासात् आसनकुम्भकादीनाम् अभ्यासात् । सिद्धिं समाधितत्फलरूपामाप्नोति । अभ्यासप्रकारमेव वदन् विशिनष्टि सर्वयोगेष्विति । सर्वेषु योगेषु योगाङ्गेषु अतन्द्रितः अनलसः । योगाङ्गाभ्यासात् सिद्धिमाप्नोति इत्यर्थः । जीवनसाधने कृषिवाणिज्यादौ जीवनशब्दप्रयोगवत् साक्षात् परम्परया वा योगसाधनेषु योगाङ्गेषु योगशब्दप्रयोगः ॥ ६४ ॥
क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् ।
न शास्त्रपाठमात्रेण योगसिद्धिः प्रजायते ॥ ६५ ॥
अभ्यादेव सिद्धिः भवतीति द्रढयन्नाह द्वाभ्यां - क्रियायुक्तस्येति । क्रिया योगाङ्गानुष्ठानरूपा तया युक्तस्य सिद्धिः योगसिद्धिः स्यात् । अक्रियस्य योगाङ्गानुष्ठानरहितस्य कथं भवेत्? न कथमपि इत्यर्थः । ननु योगशास्त्राभ्यासेन योगसिद्धिः स्यात् नेत्याह - नेति । शास्त्रस्य योगशास्त्रस्य पाठमात्रेण केवलेन पाठेन योगस्य सिद्धिः न प्रजायते नैव जायते इत्यर्थः ॥ ६५ ॥
न वेषधारणं सिद्धेः कारणं न च तत्कथा ।
क्रियैव कारणं सिद्धेः सत्यमेतन्न संशयः ॥ ६६ ॥
नेति । वेषस्य काशायवस्त्रादेः धारणं सिद्धेः योगसिद्धेः कारणं न । तस्य योगस्य कथा वा कारणं न । किं तर्हि सिद्धेः कारणमित्यत आह - क्रिययैव इति ।
पीठानि कुम्भकाश्चित्रा दिव्यानि करणानि च
सर्वाण्यपि हठाभ्यासे राजयोगफालावधि ॥ ६७ ॥
योगाङ्गनुष्ठानस्य अवधिमाह - पीठानीति । पीठान्यासनानि चित्रा अनेकविधाः कुम्भकाः सूर्यभेदादयः दिव्यन्युत्कृष्टानि करणानि महामुद्रादीनि, हठसिद्धौ प्रकृष्टोपकारकत्वं करणत्वम् । हठाभ्यासे सर्वाणि पीठकुम्भककरणानि राजयोगफलावधि राजयोगः एव फलं तदवधि तत्पर्यन्तं कर्तव्यानि इति शेषः ।
इति श्रीसहजानन्दसन्तानचिन्तामणिस्वात्मारामयोगीन्द्रविरचितायां हठप्रदीपिकायामासनविधिकथनं नाम प्रथमोपदेशः ।
इति श्रीहठप्रदीपिकायां ज्योत्स्नाभिधायां ब्रह्मानन्दकृतायां प्रथमोपदेशः