नानोपाधिषु योंऽशकाननलवत्संयोज्य मायाबला-
द्यात्येको बहुलात्मतामत इयं स्वाभाविकी यस्य नो ।
तांश्चान्ते निजमायया विरचितान्स्वांशानुपाधीनहो
संहृत्याद्वय एव तिष्ठति पुनस्तस्मै परस्मै नमः ॥ १ ॥
मन्दधीसुखबोधाय सारार्थस्पष्टभाषिणीम् ।
भावागणेशः कुरुते योगसूत्रेषु दीपिकाम् ॥ २ ॥
भाष्ये परीक्षितो योऽर्थो वार्तिके गुरुभिः स्वयम् ।
संक्षिप्तः सिद्धवत्सोऽस्यां युक्तिषूक्ताधिका क्वचित् ॥ ३ ॥
’मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् । ब्रह्मप्राप्तो विरजोऽभूद्विमृत्युरन्योऽप्येवं यो विदध्यात्ममेव’ इत्यादिश्रुतिषु मुमुक्षूणां योगविधिरनुष्ठानार्थं ज्ञेयतयावगम्यते । अतो योगविधिमुपदिदिक्षुर्भगवान्पतञ्जलिः शिष्यावधानाय तच्छास्त्रारम्भं प्रतिजानीते-
अथ योगानुशासनम् ॥ १ ॥
अथशब्दोऽत्र उच्चारणमात्रेण मङ्गलरूपोऽधिकारवाचकः । न प्रश्नानन्तर्याद्यर्थकः । शाब्दी ह्याकाङ्क्षा शब्देनैव प्रपूर्यत इति न्यायेन शब्दानुपस्थितार्थानन्तर्यार्थकत्वानौचित्यात् । शिष्यप्रश्नगुर्वाज्ञालोकानुकम्पादीनामविशेषेण शास्त्ररचनाप्रयोजकतया कस्यानन्तर्ये तात्पर्यमित्यवधारयितुमशक्यत्वात् । हिरण्यगर्भादिना शिष्टस्य शासनमनुशासनं शास्त्रम् । शस्यते अनेनेति व्युत्पत्तेः । तथाच हिरण्यगर्भादिगुरूपदिष्टस्य योगस्य शास्त्रमधिकृतम् । आरब्धमित्यर्थः ॥ १ ॥
उपदिष्टं योगं लक्षयति सूत्राभ्याम् –
योगश्चित्तवृत्तिनिरोधः ॥ २ ॥
चित्तस्यान्तःकरणस्य वक्ष्यमाणा या वृत्तयः तासां निरोधो निवर्तनं योग इत्यर्थः । इदं च चित्ते निवर्तनं जीवनयोनियत्रवदतीन्द्रियः प्रयत्नविशेषश्चित्तनिग्रहरूपो वित्तोविलयहेतुर्न तु वृत्त्यभाव एव, वक्ष्यमाणसंस्कारजनकत्वस्यानुपपत्तेः, अभावस्य संस्कारजनकत्वेऽतिप्रसङ्गादिति । अत्र सर्ववृत्तिनिरोधावचनेन संप्रज्ञातयोगोऽपि संगृहीतः । योगो हि द्विविधः । संप्रज्ञातोऽसंप्रज्ञातश्च । अत्राद्यो ध्येयातिरिक्तवृत्तिनिरोधः । अन्त्यस्तु सर्ववृत्तिनिरोधः । वृत्तिनिरोधस्तूभयसाधारण इति ॥ २ ॥
नन्वेवं व्युत्थानकालीने यत्किंचिद्वृत्तिनिरोधेऽतिव्याप्तिः । किंच वृत्तिविषयकबोधस्वरूप एव पुरुषः काष्ठाग्निवदिति योगसांख्ययोः सिद्धान्तः, अतो वृत्तिविलये तदनुभवरूपः पुरुषोऽपि नश्येत् काष्ठापायेऽग्निवत्, ततश्च योगकाले कः पुरुषार्थ इत्यपेक्षायामिदं सूत्रं प्रवर्तते –
तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ ३ ॥
तदेत्यनेन निरोधविशेष एवासंप्रज्ञाताख्यः परामृश्यते । योग्यताबलात् । संप्रज्ञाते स्वरूपावस्थानाभावस्योत्तरसूत्रे वक्ष्यमाणत्वात् । तदा सर्ववृत्तिनिरोधकाले द्रष्टुः दृष्टिस्वरूपस्य पुरुषस्य स्वरूपे निर्विषयचिन्मात्ररूपे अवस्थानं भवति । स्वतो धर्मतो वा न नाशशङ्कास्तीत्यर्थः । तदुक्तं वासिष्ठे –“असंभवति सर्वत्र दिग्भूमाकाशरूपिणा (?) । प्रकाश्ये यादृशं रूपं प्रकाशस्यामलं भवेत् ॥ अहं त्वं जगदित्यादौ प्रशान्ते दृश्यसंभ्रमे । स्यात्तादृशी केवलता स्थिते द्रष्टर्यवीक्षणे“ इति । इदानीं च वृत्यभावात्तदनुगतदुःखभोगनिवृत्तिः पुरुषार्थः । तदा द्रष्टुः स्वरूपावस्थितिहेतुचित्तवृत्तिनिरोधो योगलक्षणम् । तच्च न व्युत्थानकालीनस्यास्तीति नातिव्याप्तिरिति भावः । संप्रज्ञातस्य असंप्रज्ञातद्वारा स्वरूपावस्थितिहेतुत्वमुपपादनीयम् ॥ ३ ॥
योगकालेऽनर्थनिवृत्तिं प्रदर्श्य कूटस्थनित्यस्याप्ययोगकाले तद्विपर्ययं दर्शयति –
वृत्तिसारुप्यमितरत्र ॥ ४ ॥
इतरत्र वृत्तिकाले वृत्तिसादृश्यं द्रष्टुर्भवतीत्यर्थः । वृत्तीनां सुखदुःखमोहात्मकघटाद्याकारतया चैतन्यमपि तत्प्रतिबिम्बवशात्तद्रूपमिव भवति । यथा जपालौहित्येन स्फटिकोऽपि लोहित इव भवति तद्वत् । इदमेव द्रष्टुर्वृत्तिसारूप्यं विषयोपरक्तवृत्तिग्रहणम् । तदा सुखदुःखभोगरूपोऽनर्थोऽपीति भावः । ’आदानस्य ग्रहणत्वादभ्यवहरणस्य च भोगत्वात्’ इति वार्तिके चैतद्गुरुचरणैः प्रसाधितं प्रपञ्चितं च, अत्र सूत्राभ्यामेतत्सिद्धम् । वृत्तिकाल एव पुरुषस्य दुःखभोगरूपः संसारो वृत्तिवियोगे च तन्निवृत्तिरूपं कैवल्यमतो वृत्तयो निरोद्धव्या इति । इदं च योगस्यापातफलमुक्तम् । मुख्यफलं तु संप्रज्ञातयोगस्य ध्येयसाक्षात्कारः । असंप्रज्ञातफलमुक्तम् ।मुख्यफलं तु संप्रज्ञातयोगस्य ध्येयसाक्षात्कारः । असंप्रज्ञातयोगस्य च तत्त्वज्ञानसाधारणाखिलज्ञानवासनाक्षयेण प्रारब्धमप्यतिक्रम्याशु मोचनमिति वार्तिककृद्भिः प्रपञ्चितम् ॥ ४ ॥
ननु कियत्प्रकाराः कीदृश्यो वा वृत्तयो निरोद्धव्या इत्याकांक्षायामाह –
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥ ५ ॥
वक्ष्यमाणाः पञ्चप्रकारा एव वृत्तयो निरोद्धव्याः । तासां निरोधेनैव रागद्वेशादिवृत्तीनां स्वयमनुदयात् । ताश्च वृत्तयः क्लिष्टरूपा वा भवन्तु , अक्लिष्टरूपा वा भवन्तु , सर्वा एव निरोद्धव्या इत्यर्थः। क्लिष्टास्तामस्योऽक्लिष्टाः सात्त्विक्यो राजस्यश्च । क्लिष्टाक्लिष्टमिश्रवृत्तेरंशाभ्यां तामसीसात्विक्योरेवान्तर्भावः। ’रजोमिश्रमि’ति स्मृतेः ॥ ५ ॥
कास्ताः पञ्चप्रकारा वृत्तय इत्यपेक्षायामाह –
प्रमाणविपर्ययविकल्पनिद्रास्मृतय ॥ ६ ॥
सुगमम् ॥ ६ ॥
प्रमाणाद्याः पञ्चवृत्तीः क्रमेण पञ्चभिः सूत्रैर्लक्षयति –
प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७ ॥
अनधिगततत्त्वबोधः प्रमा, तत्करणं प्रमाणमिति प्रमाणसामान्यलक्षणं प्रसिद्धत्वादुपेक्ष्यैव विभागः कृतः । तत्रेन्द्रियद्वारा स्वतो वा मनःसंनिकर्षाज्जायते याऽनधिगतार्थनिश्चयरूपा वृत्तिः सा प्रत्यक्षं प्रमाणम्। निश्चयत्वं च संशयभिन्नज्ञानत्वम् । अतो नेच्छाकृत्यादिष्वतिव्याप्तिः । इच्छादिषु संनिकर्षस्य हेतुत्वे प्रमाणाभावात् । अस्य च प्रमाणस्य फलं प्रमा पौरुषेयो बोधः । वृत्तिद्वारैव हि तदारूढोऽर्थश्चित्तौ प्रतिबिम्बते । यद्यपि पुरुषस्वरूपो बोधो नित्यस्तथापि तत्तद्विषयाविष्टत्वेन तस्य फलत्वं पुरुषाश्रितत्त्वं च घटते । विषयता च प्रतिबिम्बस्वरूपेति । एवमेवानुमानाद्यखिलवृत्तीनां पौरुषेयो बोध एव प्रयोजनं पुरुषार्थमेव करणव्यापारात्, राजार्थं भृत्यव्यापारवत् । व्याप्यादिवृत्तिजन्या वृत्तिरनुमानं प्रमाणम् । योग्यशब्दजन्या वृत्तिश्च शब्दप्रमाणमिति । एतेष्वेव प्रमाणेषु परोक्तानामुपमानैतिह्यादीनां प्रवेशः । अत्र प्रमात्रादिविभागे वार्तिककारिकाः –“प्रमाता चेतनः शुद्धः प्रमाणं वृत्तिरेव च । प्रमाऽर्थाकारवृत्तीनां चेतनप्रतिबिम्बनम् ॥ प्रतिबिम्बितवृत्तीनां विषयो मेय उच्यते । वृत्तयः साक्षिभास्याः स्युः करणस्यानपेक्षणात् ॥ साक्षाद्दर्शनरूपं च साक्षित्वं सांख्यसूचितम् । अविकारेण द्रष्टृत्वं साक्षित्वं चापरे जगुः” ॥ ७ ॥
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८ ॥
विपर्यय इति लक्ष्यनिर्देशः । मिथ्याज्ञानमिति लक्षणम् । मिथ्येत्यस्य विवरणमतद्रूपप्रतिष्ठमिति । न तद्रूपो न स्वसमानाकारो यो विषयस्तद्विशेष्यकमित्यर्थः । भ्रमस्थले च ज्ञानाकारस्यैव विषये समारोपः। “विप्र पृथ्व्यादि चित्तस्थं न बहिष्ठं कदाचन । स्वप्नभ्रममदाद्येषु सर्वैरेवानुभूयते” इति स्मृतेः ॥ स्वप्नादिषु चित्तमेव प्रतीयते न बहिष्ठमित्यर्थः । संशयस्यापि विपर्ययेऽन्तर्भावः । अतद्रूपप्रतिष्ठत्ववचनादन्यथाख्यातिरत्र दर्शने सिद्धा न तु सांख्यानामिवाविवेकमात्रम् ॥ ८ ॥
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९ ॥
शब्दश्च ज्ञानं च अनुपातिनी यस्य स तथा । तथा च बाधाबाधकालाविशेषेण तदुभयजनकोऽर्थशून्यप्रत्यतो विकल्प इत्यर्थः । विपर्ययश्च बाधोत्तरं न स्वविषयेषु शब्दज्ञाने जनयति । प्रमाणवृत्तिश्चार्थवतीति तयोर्व्यावृत्तिः । अस्योदाहरणानि – राहोः शिरः पुरुषस्य चैतन्यम् । एवं ’ एष वन्ध्यासुतो याति खपुष्पकृतशेखरः । मृगतृष्णाम्भसि स्नातः शशशृङ्गधनुर्धरः ।’ इत्यादीनि । बाधोत्तरमपि हि तादृशज्ञानैः शब्दज्ञानरूपो व्यवहारः क्रियत इति । वैशेषिकैश्चैतान्याहार्यज्ञानान्युच्यन्ते ॥ ९ ॥
अभावप्रययालम्बना वृत्तिर्निद्रा ॥ १० ॥
प्रकृतत्वादुक्तवृत्तीनां योऽभावोऽनुत्पादः तस्य प्रत्ययः कारणं तमः तदालम्बना तद्विषयिणी तमःप्रचुरचित्तविषयिणीति यावत्, एवंभूता वृत्तिर्निद्रेत्यर्थः । जाग्रत्स्वप्न(स्थ)वृत्त्युपरमे चित्तस्य स्वगतसुखादिविषयिणी निद्राख्या वृत्तिरनुमीयते । सुखमहमस्वाप्सं दुःखमहमस्वाप्सं गाढं मूढोऽहमस्वाप्समित्येवं सात्त्विकादिनिद्रोत्थितानां त्रिविधस्मरणादतोऽपि निद्रा वृत्तिरिति । शुद्धतार्किकास्तु इमामपि वृत्तिं स्वप्नमध्ये प्रवेशयन्ति । सुषुप्त्यवस्थां तु ज्ञानशून्यत्वरूपां ज्ञानकारणाभावादेवेच्छन्ति । अस्माभिरपि सर्ववृत्तिशून्याप्यवस्था स्वीक्रियत एव । तस्यां च गाढं तमो दोष इष्यते । “सत्त्वाज्जागरणं विद्याद्रजसा स्वापमादिशेत् । प्रस्वापनं तु तमसा तुरीयं त्रिषु संततम्” इति स्मृतेः । इन्द्रियाद्युत्पत्तेः प्रागेव हिरण्यगर्भस्य ज्ञानोत्पत्त्या न ज्ञानसामान्ये त्वङ्मनोयोगादीनां हेतुत्वक्लृप्तिसंभवो येन ज्ञानकारणाभावादेव सावस्थोपपाद्येतेति ॥ १० ॥
अनुभूतविषयासंप्रमोषः स्मृतिः ॥ ११ ॥
भूतौ पूर्वमनुभूतौ यौ विषयौ वृत्तितदारूढार्थौ तयोर्नास्ति संप्रमोषः स्तेयमपहारो यस्मात्प्रत्ययात्स प्रत्ययः स्मृतिरित्यर्थः । प्रमुष्टतत्ताके शब्दजन्यपदार्थोपस्थित्यादौ स्मृतिव्यवहाराभावात्, स पटः स घट इत्यादिप्रत्यय एव स्मृतिशब्दवाच्य इत्याशयः । तत्र स इति पूर्वोपस्थितिरपि भासत एवेति । अत्र प्रत्यभिज्ञाव्यावृत्तये संस्कारमात्रजन्यत्वं विवक्षणीयम् । प्रमुष्टतत्ताकं स्मरणं त्वनुभवमध्ये प्रवेशनीयम् । अनेन सूत्रेण मुख्यस्मृतिरेव लक्षिता । प्रमाणेत्यादिवृत्तिविभागसूत्रे तु संस्कारमात्रजन्यगुणत्वेन प्रमुष्टतत्ताकमपि तज्ज्ञानं स्मृतिशब्देन गृहीतमिति न विभागन्यूनता । निरोद्धव्या वृत्तयो व्याख्याताः ॥ ११ ॥
इतः परं निरोधोपाय उच्यते –
अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२ ॥
वक्ष्यमाणाभ्यासवैराग्ये ताभ्यां मिलिताभ्यां चित्तवृत्तिनिरोधो भवतीत्यर्थः । तत्र चित्तनद्या वैराग्येण विषयमार्गगं वृत्तिस्रोतः प्रतिबध्यते । विवेकदर्शनाभ्यासेन च विवेकमार्गगं वृत्तिस्रोत उद्वाह्यते । आभ्यां व्यापाराभ्यां निरोधाख्ये कैवल्याब्धौ चित्तनदी विलीयते । इत्युभयाधीनो वृत्तिनिरोधः ॥ १२ ॥
अभ्यासवैराग्ये क्रमेण लक्षयति सूत्रवर्गेण –
तत्र स्थितौ यत्नाऽभ्यासः ॥ १३ ॥
तत्र तयोर्मध्ये स्थितौ विवेकपर्यन्तं चित्तस्थैर्यार्थं प्रयत्नो वक्ष्यमाणानां श्रद्धावीर्यस्मृतिप्रज्ञारूपसाधनानां पुनःपुनरनुष्ठानमभ्यास इत्यर्थः ॥ १३ ॥
अनुष्ठानाय अभ्यासस्य दार्ढ्यमपि लक्षयति –
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १४ ॥
स तु अभ्यासो दीर्घकालेन सेवितो नैरन्तर्यैणाव्यवधानेन च सेवितस्तपोब्रह्मचर्यादिरूपैः सत्कारैश्च सेवितो दृढभूमिर्भवति । व्युत्थानसंस्कारेणानभिभूतां स्थितिं जनयतीत्यर्थः ॥ १४ ॥
योगहेतुवैराग्ययोर्मध्ये प्रथममपरवैराग्यं लक्षयति –
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १५ ॥
अपरवैराग्यं तावच्चतुर्विधम् – यतमानसंज्ञा, व्यतिरेकसंज्ञा, एकेन्द्रियसंज्ञा, वशीकारसंज्ञा चेति । तत्र दृष्टेष्वैहिकेषु विषयेषु, आनुश्राविकेषु अनुश्रवाख्यवेदोक्तेषु विषयेषु स्वर्गादिषु, वितृष्णस्य आद्यवैराग्यत्रययुक्तस्य चित्तस्य जायमाना या वशीकारसंज्ञा सा योगहेतुवैराग्यमपरमित्यर्थः । वैराग्यान्तरस्य परतया वक्ष्यमाणत्वात् । अयं भावः । यतमानादिवैराग्ये सत्यपि वशीकारं विना विषयसांनिध्ये योगभ्रंशो भवति । अत आद्यवैराग्यत्रयाभ्यासादुत्पद्यमाना वशीकारसंज्ञैव योगहेतुरिति । वैराग्यचतुष्टयं तन्त्रान्तरे प्रोक्तं तद्यथा – “ज्ञानपूर्वकवैराग्यसाधनानां दोषदर्शनादीनामनुष्ठानं यतमानसंज्ञात्वेन परिभाषिता वितृष्णा प्रथमा भूमिका । जितान्येतानीन्द्रियाणि, एतानि च जेतव्यानीति व्यतिरेकावधारणयोग्यता द्वितीया भूमिका । बाह्येन्द्रियविषयेषु रूपादिषु रागद्वेषादिक्षये सति, एकस्मिन्नेव मनसि मानादिविषयकरागद्वेषाद्यपसारणं तृतीया भूमिका । प्रकृष्टविषयसांनिध्येऽपि रागादिवासनानुद्बोधश्चतुर्थी भूमिका वशीकारसंज्ञा वितृष्णेति ॥ १५ ॥
परवैराग्यं लक्षयति –
तत्परं पुरुषख्यातेर्गुणवेतृष्ण्यम् ॥ १६ ॥
तदिति वैराग्यं परामृश्यते । पुरुषख्यातेरात्मद्वयान्यतरसाक्षात्काराद्धेतोरुत्पद्यमानं सकलगुणेष्वात्मोपकरणेषु वैतृष्ण्यमलंबुद्धिः परं श्रेष्ठं वैराग्यमित्यर्थः । पूर्वसूत्रे विषयदोषदर्शनजं विषयेष्वेव वैराग्यमुक्तम्, नतु ज्ञाने तत्साधने च । तदानीं च ज्ञानेऽपि विनाशित्वादिदोषदर्शनसाम्येऽपि नालंबुद्धिरूपं वैराग्यं संभवति, अविद्यानिवृत्त्याख्यप्रयोजनवत्त्वात् । अत्र सूत्रे ज्ञानेनाविद्यानिवृत्त्यादौ सिद्धे तेनैव दोषदर्शनेनात्मतत्त्वदृष्ट्या च ज्ञानसाधनेष्वात्मतृप्तस्योपेक्षोच्यत इति वैराग्ययोर्भेदः । एतस्मिन्नेव च वैराग्ये सति कैवल्यनियमो, न पूर्ववैराग्य इत्यतोऽस्य परत्वम् ॥ १६ ॥
योगस्य प्रकृष्टं साधनं निर्दिष्टम् । इदानीं योगस्यावान्तरविभाग उच्यते सूत्रैः –
वितर्कविचारानन्दास्मितारूपानुगमात्संप्रज्ञातः ॥ १७ ॥
साक्षात्कारविशेषरूपैर्वितर्कादिभिरनुगमाद्धेतोः सम्यक्प्रज्ञावत्त्वेन संप्रज्ञातनामा योगो भवति । चतुर्विध इत्यर्थः । एकस्मिन्नेव चतुर्भुजादिव्यष्टिसमष्टिसंघातरूपालम्बने चतुर्विधः संप्रज्ञातः क्रमेण भवति। तत्र भूतेन्द्रिययोरश्रुतामताशेषविशेषसाक्षात्कारे वितर्कपरिभाषा । तेन च फलेनोपहितश्चित्तवृत्तिनिरोधो वितर्कानुगत उच्यते । तथा तत्रैवालम्बने कारणत्वेनानुगता ये प्रकृतिमहदहङ्कारतन्मात्ररूपा भुतेन्द्रिययोः सूक्ष्माद्यर्थास्तद्गताशेषविशेषसाक्षात्कारे विचारसंज्ञा । तेन च फलेनोपहितश्चित्तवृत्तिनिरोधो विचारानुगतः । तथा तत्रैवालम्बने यश्चतुर्विंशतितत्त्वानुगतः सुखरूपः पुरुषार्थोऽस्ति, तद्गताशेषविशेषसाक्षात्कारे आनन्दसंज्ञा । तेन च फलेनोपहितश्चित्तवृत्तिनिरोध आनन्दानुगतः । यद्यपि दुःखमोहादिधर्मजातं त्रिगुणात्मकं सकलवस्तुष्वस्ति तथापि सुखरागेणैव संसारादात्मनो बन्धाच्च तदेव मुख्यतो द्रष्टव्यम् । यथा तत्र दोषदर्शनेन योगजसिद्धिष्वपि वैराग्यं स्यादित्याशयेनानन्दमात्रे योग उपदिष्टः । तथा तत्रैवालम्बने जीवेश्वररूपं यत्पुरुषद्वयमस्ति तदन्यतरस्याशेषविशेषसाक्षात्कारे अस्मितासंज्ञा । तेन च फलेनोपहितश्चित्तवृत्तिनिरोधोऽस्मितानुगत इति । आसु च संप्रज्ञातभूमिकासु उत्सर्गतः क्रमोऽप्यस्ति । स्थूलादिक्रमेणैव परमसूक्ष्मपर्यन्तं चित्तसमाधानसंभवात् । यस्य त्वीश्वरानुग्रहवशादादावेवोत्तमभूमिकालाभो भवति तस्य पूर्वपूर्वभूमिषु योगो नापेक्ष्यत इति संप्रज्ञातस्वरूपं विभागश्चोक्तः ॥ १७ ॥
असंप्रज्ञातस्वरूपमुच्यते –
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८ ॥
तत्त्वज्ञानलक्षणयापि वृत्त्या विरम्यतामिति प्रत्ययः, ज्ञानेऽप्यलंबुद्धिः परवैराग्यम् । तदभ्यासात्पौनःपुन्याज्जायते यः संस्कारमात्रावशेषे वृत्तिनिरोधः स संप्रज्ञातादन्योऽसंप्रज्ञात इत्यर्थः । संस्कारमात्रशेष इत्यनेन मोक्षकालीननिरोधव्यावृत्तिः । असंप्रज्ञाते व्युत्थानार्थं वृत्तिसंस्कारमात्रं तिष्ठति न तु वृत्तिः । मोक्षे तु चित्तस्यात्यन्तविलयात्संस्कारोऽपि न तिष्ठतीति विशेषः ॥ १८ ॥
असंप्रज्ञातं द्विधा विभजते सूत्राभ्याम् –
भवप्रययो विदेहप्रकृतिलयानाम् ॥ १९ ॥
विदेहानां प्रकृतिलयानां च असंप्रज्ञातो भवप्रत्ययसंज्ञको भवति । भवो जन्मैव प्रत्ययः कारणं यस्येति व्युत्पत्तेरित्यर्थः । देहनैरपेक्ष्येणैव बुद्धिवृत्तिमन्तः सिद्धा विदेहा इति विभूतिपादे भाष्यकारैरुक्तम् । ते च महदादयो देवाः, तेषां न साधनानुष्ठानम् ॥ १९ ॥
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ २० ॥
इदानीं मुख्यमुपायप्रत्ययमाह - श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् । इतरेषां प्रकृतिलयान्तातिरिक्तानां श्रद्धाद्युपायजन्य एवासंप्रज्ञातो न जन्ममात्रादित्यर्थः । श्रद्धा आस्तिक्यबुद्ध्या विवेकख्यातियोगोत्कण्ठा । सा प्रतिबन्धसहस्राण्यपि तिरस्कृत्य भोगसंगाद्योगिनं रक्षति समर्था मातेव। तन्मूलकं विवेकार्थिनो वीर्य तद्विषया धारणा । वीर्याच्च स्मृतिर्ध्यानम् । ध्यानाच्च समाधिर्ध्येयसाक्षात्कारफलकः । ततो ध्येयसाक्षात्काररूपः संप्रज्ञातो भवति । स एव तत्त्वसाक्षात्कारो धर्ममेघसमाध्यवस्थां परां काष्ठामागतो रजस्तमसोरुन्मूलनेन प्रवर्धमानो विषयावद्यदर्शीं समस्तविषयपरित्यागरूपपरवैराग्यद्वारा असंप्रज्ञातस्योपायः । स हि स्वरूपप्रतिष्ठो निरालम्बन इति दिक् । संप्रज्ञातस्य तु भवप्रत्ययविशेषो न संभवतीति धारणाध्यानसमाधीनां संप्राज्ञातयोगस्यान्तरङ्गत्वेन तेषां निष्पत्तौ तत्रव जन्मनि संप्रज्ञातावश्यंभावादिति बोध्यम् ॥ २० ॥
तीव्रसंवेगानामासन्नः ॥ २१ ॥
अधिमात्रत्वं अतिप्रमाणत्वम् । अतिशयितत्वमिति यावत् । संवेगश्चानुष्ठानेश्रैष्ठ्य(शैघ्र्य)मविच्छेदश्च । तीव्रसंवेगेन अधिमात्रसाधनवतामासन्नः विलम्बरहितः, योगो भवतीत्यर्थः ॥ २१ ॥
आसन्नतायामपि तरतमत्वरूपविशेषहेतुमाह –
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ २२ ॥
मृदुत्वमल्पता । मध्यत्वं प्रसिद्धम् । अधिमात्रत्वं च व्याख्यातम् । तानि तानि विशेषणतया भाष्ये व्याख्यातानि । तथा च संवेगविशेषणस्य तीव्रत्वस्य मृदुत्वादित्रैविध्येन ततोऽप्यासन्नादपि विशेष आसन्नतरासन्नतमरूपो योगो भवतीत्यर्थः ॥ २२ ॥
योगस्यासन्नतमत्वे किमिदमेव साधनमुताऽन्यदप्यस्तीत्याकाङ्क्षायामाह –
ईश्वरप्रणिधानाद्वा ॥ २३ ॥
वक्ष्यमाणात्तद्विषयकधारणाध्यानसमाधित्रयतुल्यादप्यासन्नतमो योगस्तत्कालं च भवतीश्वरानुग्रहादित्यर्थः । तथा च पूर्वसूत्रोक्तमासन्नतमयोगसाधनं जीवत्मयोगिपरमिति ॥ २३ ॥
ईश्वरं लक्षयति –
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ २४ ॥
क्लेशा अविद्यास्मितारागद्वेषाभिनिवेशा द्वितीयपादे व्याख्येयाः । कर्म धर्माधर्मौ । विपाकाः कर्मफलानि जन्मायुर्भोगाः । आशयो ज्ञानादिवासनाः । एतैः कालत्रयेऽप्यपरामृष्टः पुरुषविशेष ईश्वर इत्यर्थः । यद्यपि जीवा अपि क्लेशादिशून्यत्वं एव क्लेशादेरन्तःकरणधर्मत्वात् । तथापि स्वामित्वसंबन्धेनैव क्लेशाद्यभावस्य विवक्षितत्त्वाज्जीवव्यावृत्तिः । जीवा हि क्लेशादिफलयोः सुखदुःखयोर्भोक्तृत्वात्क्लेशादि-स्वामिन इति ॥ २४ ॥
निषेधमुखेन लक्षणमुक्त्वा विधिमुखेनापि तदाह –
तत्र निरतिशयं सर्वज्ञबीजम् ॥ २५ ॥
सर्वज्ञत्वानुमापकं यज्ज्ञानस्य सातिशयत्वं तत्तत्रेश्वरे निरतिशयं विश्रान्तमित्यर्थः । तथा च निरतिशयज्ञान-ईश्वर इति लक्षणम् । अत्रेदमनुमानम् । ज्ञानं क्वचित्प्राप्तकाष्ठं सातिशयत्वात्, परिमाणवदिति ॥ २५ ॥
तस्यैश्वर्यं नित्यमिति प्रतिपादयति –
पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ २६ ॥
स एष ईश्वरः पूर्वेषां हिरण्यगर्भादीनामपि गुरुरन्तर्यामिविधया ज्ञानचक्षुःप्रदः । कालानवच्छिन्नत्वान्नित्यत्वा…..भवतीत्यर्थः ।तथा च श्रुतिः “जन्मनिरोधं प्रवदन्ति यस्य ब्रह्मवादिनो हि प्रवदन्ति नित्य”मिति । जन्मनिरोधं जन्माभावं ईश्वरस्य च जीववदेव ….सति (?)श्चिन्मात्रस्यैश्वर्यवानुपाधिरस्ति । ’कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः’ इति स्मृतेः । ईश्वरस्याशेषविशेषास्तु वेदान्तशास्त्रे परीक्षिताः ॥ २६ ॥
तस्य वाचकः प्रणवः ॥ २७ ॥
तस्य ईश्वरस्य मुख्यं नामेत्यर्थः । “अदृष्टविग्रहो देवो भावग्राह्यो मनोमयः । तस्योङ्कारः स्मृतो नाम तेनाहूतः प्रसीदति” इति स्मृतेः ॥ २७ ॥
प्रणिधानं लक्षयति –
तज्जपस्तदर्थभावनम् ॥ २८ ॥
प्रणवस्य जपः प्रणवार्थस्य ब्रह्मणश्चिन्तनं धारणाध्यानसमाधिरूपं प्रणिधानमिति शेषः । ’जपश्च प्रणवं नित्यं ब्रह्मविष्णुशिवात्मकम् । कोटिसूर्यसमं तेजो ध्यायेदात्मनि निर्मलम्’ इत्यादिस्मृतिभ्यः प्रणवजपस्य प्राथमिकध्यानाङ्गत्वमिति । ब्रह्मविष्णुशिवात्मकं ब्रह्मादीनामप्यन्तर्यामि । तेजश्चैतन्यम् ॥ २८ ॥
ईश्वरयोगस्य साङ्ख्ययोगापेक्षयातिश्रेष्ठत्वप्रतिपादनार्थमुत्कर्षमाह –
ततः प्रत्यक्त्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ २९ ॥
तत ईश्वरप्रणिधानात् प्रत्यक्चैतन्यस्य जीवस्य साक्षात्कारोऽपि भवति । च शब्द आसन्नतमयोगसमुच्चये । तथा योगान्तरायाणां योगविघ्नानां निवृत्तिश्च भवतीत्यर्थः ॥ २९ ॥
अन्तरायानाह –
व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चितविक्षेपास्तेऽन्तरायाः ॥ ३० ॥
यतो व्याध्यादयश्चित्तविक्षेपका अतो योगान्तराया इत्यर्थः । तत्र व्याधिः धातुरसकरणानां वैषम्यम् । धातवो वातपित्तकफाः, रसा आहारपरिणामाः, करणानि त्वक्चक्षुरादीनि एषां वैषम्यं स्वभावप्रच्यवः । स्त्यानमकर्मण्यता । योगानुष्ठानाक्षमत्वमिति यावत् । संशयो गुरुशास्त्रोक्तसाधनेषूभयकोटिकं ज्ञानम् । प्रमादोऽनवधानम् । आलस्यं कायचित्तयोर्गुरुत्वादप्रवृत्तिः । अविरतिर्विषयाभिलाषः । भ्रान्तिदर्शनं गुर्वादिप्रमितार्थविपरीतनिश्चयः । अलब्धभूमिकत्वं वक्ष्यमाणानां योगभूमीनां साधनानुष्ठानेऽप्यलाभः । अनवस्थितत्वं योगभूमिलाभेऽपि योगभ्रंश इति ॥ ३० ॥
व्याध्यादिभ्यश्चान्येऽप्यन्तराया भवन्तीत्याह –
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ ३१ ॥
दुःखं स्वतो द्वेष्यम् । दौर्मनस्यं चित्तचाञ्चल्यम् । अङ्गमेजयत्वमङ्गकम्पः । श्वासो देहान्तर्वायोरधिकप्रवेशः । प्रश्वासो देहाद्वायोरधिकनिर्गमः । एते विक्षेपसहभूवो व्याध्यादिव्यवधानेनैव जायन्त इत्यर्थः । अथवा दुःखादयो वृत्तिचाञ्चल्यरूपविक्षेपोद्भवा इत्यर्थः ॥ ३१ ॥
सूत्रद्वयोक्ता अन्तराया ईश्वरप्रणिधाननिरस्या इति मुख्यकल्पाभिप्रायेणैवोक्तम् । तदसंभवे तु यत्र कुत्रचिदैकाग्र्येणाप्येते बलवदभ्यासतो निरसनीया भवन्तीत्याह –
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२ ॥
तेषामन्तरायाणां प्रतिषेधार्थमन्ततो यत्र कुत्रचिदप्येकस्मिन्नर्थे अभ्यासः कार्य इत्यर्थः ॥ ३२ ॥
योगसाधनगतो विशेष उक्तः । इदनीं स्थितिसाधने श्रद्धावीर्याद्युपायाभ्यासे वशीकारद्वारेणाप्रतिबन्धहेतूनाह सूत्रैः –
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चितप्रसादनम् ॥ ३३ ॥
प्रसादनं स्थितिनिबन्धनमिति तृतीयसूत्रस्थेनान्वयः । अन्यथा तत्र सूत्रे वाशब्दवैयर्थ्यात् । निबन्धनत्वं च स्थितिहेतुश्रद्धाद्यप्रतिबन्धद्वारा स्थित्यभ्रंशहेतुत्त्वं भाष्ये व्याख्यातत्वात् । सुखादिशब्दाश्च धर्मधर्म्यभेदात्सुखितादिवाचिनः । तथा सुखितदुःखितधार्मिकपापशीलेषु यथोक्तक्रमं मैत्र्यादीनामुत्पादाच्चित्तस्य प्रसादनं स्थितिनिबन्धनं भवति । रागद्वेषपापादिमलापसारणेन चित्तवशीकारात् सूत्रे वक्ष्यमाणादित्यर्थः । मैत्री सौहार्दम् । करुणा निरुपाधिः परदुःखप्रहाणेच्छा । मुदिता प्रीतिः । उपेक्षा औदासीन्यमिति ॥ ३३ ॥
प्रसादनस्य साधनान्तरमाह –
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ ३४ ॥
प्राणस्य प्रच्छर्दनं वमनं, रेचनमिति यावत् । विधारणं कुम्भकम् । तच्चार्थात्पूरकानन्तरं, रेचकोत्तरं पूरकं विना विधारणासम्भवात् । प्राणायामतयास्य भाष्ये प्रोक्तत्वाच्च । तथा च एतद्द्वयात्पूरणगर्भादपि चित्तप्रसादनं कुर्यादित्यर्थः । अथवा प्रच्छर्दनं रेचकं विधारणं तु पूरकम् । वसिष्ठसंहितायां नाडिशुद्ध्यर्थं रेचकपूरकमात्रस्यापि प्राणायामस्योक्तत्वादिति ॥ ३४ ॥
प्रसादनापेक्षया स्थितिनिबन्धनान्तरमाह –
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ॥ ३५ ॥
विषया गन्धादयो दिव्याः पञ्च विषयत्वेनास्याः सन्तीति विषयवती प्रवृत्तिः प्रकृष्टा साक्षात्काररूपा वृत्तिः योगशास्त्रोक्तप्रकारेण नासाग्रादौ चित्तधारणादल्पकालेनैव जायते । नासाग्रे दिव्यगन्धसंविदित्यादिभाष्यवचनात् । सा वा प्रवृत्तिरुत्पन्ना मनसो विषयान्तरेषु विवेकपर्यन्तेषु स्थितिनिबन्धिनी भवति । शास्त्रोक्तार्थैकदेशे साक्षात्कारेणार्थान्तरेऽपि संशयादिनिरसनतः श्रद्धावीर्याद्यप्रतिबन्धादित्यर्थः ॥ ३५ ॥
स्थितिनिबन्धनान्तरमाह –
विशोका वा ज्योतिष्मती ॥ ३६ ॥
अन्तःकरणस्य पुरुषस्य वा योगजसाक्षात्काररूपा वृत्तिर्ज्योतिष्मतीत्युच्यते । सा यतः शोकनाशकत्वाद्विशोका । अतश्चाञ्चल्यहेतुशोकनिवृत्त्या सा वा प्रवृत्तिर्मनसः स्थितिनिबन्धिनीत्यर्थः । ननु आत्मसाक्षात्कारे पुनश्चित्तस्थितिः किमर्थमपेक्ष्यत इति चेत् । असंप्रज्ञातहेतुपरवैराग्योत्पादनायेत्यवेहि । तथा साक्षात्काराभ्यासं विना मिथ्याज्ञानवासनानुन्मूलनेन तदुन्मूलनार्थं परमात्मनि चित्तसमाधानार्थं चेति ॥ ३६ ॥
स्थितिनिबन्धनान्तरमाह –
वीतरागविषयं वा चित्तम् ॥ ३७ ॥
वीतरागं यत्सनकादिचित्तं तद्विषयकं वा योगिचित्तं दृढस्थितये भवतीत्यर्थः ॥ ३७ ॥
स्थितिनिबन्धनान्तरमाह –
स्वप्ननिद्राज्ञानालम्बनं वा ॥ ३८ ॥
स्वप्नरूपं ज्ञानं स्वप्नज्ञानं पूर्वोक्तनिद्रारूपं च ज्ञानमेतयोरन्यतरस्य चिन्तकं वा चित्तं स्थितिनिबन्धनं भवति । प्रपञ्चज्ञाने स्वप्नदृष्ट्या, संसारिषु सुषुप्तदृष्ट्या च चित्तस्य दृढस्थितिर्भवतीत्यर्थः । तथा चोक्तम् – ’दीर्घस्वप्नमिमं विद्धि दीर्घं वा चित्तविभ्रमम् । दीर्घं वापि मनोराज्यं संसारं रघुनन्दने’त्यादि ’ब्रह्माद्यं स्थावरान्तं च प्रसुप्तं यस्य मायया । तस्य विष्णोः प्रसादेन यदि कश्चित्प्रमुच्यते ॥ चराचरं लय इव प्रसुप्तमिह पश्यताम् । किं मृषाव्यवहारेषु न विरक्तं भवेन्मनः’ इत्यादि चेति ॥ ३८ ॥
यथाभिमतध्यानाद्वा ॥ ३९ ॥
किं बहुना यदेवाभिमतं हृदि हरिहरमूर्त्यादिकं तदेवादौ ध्यायेत् । तस्मादपि ध्यानान्नियतस्थितिकं भवतीत्यर्थः । प्रसादमारभ्यैतानि स्थितिनिबन्धनानि चित्तसंस्काररूपत्वाच्छास्त्रे परिकर्मशब्देन परिभाषितानि ’परिकर्म प्रसाधनम्’ इति कोशादिति ॥ ३९ ॥
परिकर्मनिष्पत्तेः फलरूपं लक्षणमाह –
परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥ ४० ॥
अस्य परिकर्मितस्य चेतसः परमाणुमारभ्य परममहत्पर्यन्तेष्वर्थेषु वशीकारो धारणायामप्रतीघातः केनाप्यप्रतिबन्ध इति यावत् । भवतीति शेषः । परमं महत्त्वमेषामिति परममहत्त्वाः पुरुषाः । तदेवमभ्यासवैराग्यादिकं परिकर्मान्तं योगस्यान्तरङ्गसाधनमुक्तम् । योगद्वितयं चावान्तरभेदैरुक्तम् ॥ ४० ॥
इतः परं योगयोर्मुख्यफलं पादसमाप्तिपर्यन्तं वक्तव्यम् । तत्रादौ संप्रज्ञातस्य फलमुच्यते सूत्रैः –
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ ४१ ॥
क्षीणवृत्तेर्निरुद्धध्येयातिरिक्तवृत्तेर्निष्पन्नसंप्रज्ञातयोगस्येति यावत् । एतच्च हेतुगर्भविशेषणम् । समापत्तिरिति च सक्षात्कारपरिभाषा । तथाच यतश्चित्तं स्वत एव सर्वार्थग्रहणसमर्थं विषयान्तरव्यासङ्गदोषादेव तत्प्रतिबद्धमतो वृत्त्यन्तरनिरोधरूपे प्रतिबन्धापगमे सति ग्रहीत्रादिषु ध्येयेषु समापत्तिः साक्षात्काररूपवृत्तिः चित्तस्य स्वत एव भवति । सा च तत्स्थतदञ्जनतारूपा तेषु ग्रहीत्रादिषु स्थितस्य चित्तस्याशेषविशेषैः सम्यक्तदाकारतारूपेत्यर्थः । अत्र दृष्टान्तः – अभिजातस्येव मणेरिति । यथाऽभिजातस्य स्वभावतो निर्मलस्य मणेर्बाह्यमलापगमे सन्निकृष्टस्त्वाकारता तदित्यर्थः । अत्र ग्रहीता पुरुषसामान्यम् । ग्रहणं च गृह्यतेऽनेनेति व्युत्पत्त्या करणसामान्यं त्रयोदशविधम् । ग्राह्यं च स्थूलसूक्ष्मतररूपेण त्रिविधम् । पञ्चभूतपञ्चतन्मात्रप्रकृतिरूपम् । अतो ग्रहीत्रादित्रैविध्येन योगस्य विषयः सर्ववस्तु सङ्गृहीतमिति सामान्यतः समापत्तिरुक्ता । तत्र ग्रहीतृसमापत्तौ स्थूलसूक्ष्मविषयकत्वरूपविशेषाभावात् सा एकविधैव । ग्राह्यग्रहणसमापत्त्योस्तु विशेषसत्त्वात्तयोर्विशेषौ त्रिभिः सूत्रैर्वक्तव्यौ । स्थूलं कार्यं सूक्ष्मं च तत्कारणम् । अतः स्थूलं तन्मात्रकार्याणि भूतानि अहङ्कारकार्याणीन्द्रियाणि । प्रकृतिपर्यन्तं चान्यत्सर्वं सूक्ष्मम् । तद्विषये च स्थूलसूक्ष्मसमापत्ती प्रत्येकं वक्ष्यमाणरीत्या हि द्विविधे भवतः ॥ ४१ ॥
तासु चतसृषु समापत्तिषु मध्ये स्थूलसमापत्तेः सवितर्कनिर्वितर्काख्यौ विशेषौ क्रमेण दर्शयत्याद्यसूत्रद्वयेन –
तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥ ४२ ॥
तृतीयसूत्रे सूक्ष्मसमापत्तेर्वक्ष्यमाणतया आद्यसूत्रयोः स्थूलविषयत्वं परिशेषाल्लभ्यते । तत्र समापत्तिसामान्ये गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानमित्यादिरूपैः शब्दार्थज्ञानानां ये विकल्पा अभेदभ्रमाः, तद्युक्ता गवादिस्थूलसमापत्तिः विपरीततर्कयोगात्सवितर्कसंज्ञेत्यर्थः । अत एव तत्कालीनयोग एव सविकल्प इत्यप्युच्यते । विकल्पसंकल्पसंकीर्णत्वात् । एतद्विकल्पशून्य एव च निर्विकल्पकयोग इति । एतेन यदाधुनिका आहुः – यत्किञ्चिद्धर्मपुरस्कारेणैव प्रवर्तमाने योगः सविकल्पकः, निर्धर्मकश्च निर्विकल्पक इति तदप्रामाणिकत्वादुपेक्षणीयम् । अत्र च शब्दाद्यभेदविकल्प आरोपसामान्योपलक्षकम् । एवमुत्तरसूत्रेऽपि ॥ ४२ ॥
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ ४३ ॥
पूर्वसूत्रे यो विकल्प उक्तस्तत्र शब्दसङ्केतस्मृतिरेव बीजम् । श्रवणमनननिदिध्यासनैर्हि समापत्तिर्जायते । तत्र श्रवणं संकेतस्मरणकार्यम् । सङ्केतश्च शब्दार्थयोर्विकल्पिताभेदमात्र इत्यतः सङ्केतस्मृतिजन्ये शाब्दबोधेऽपि तयोरभेद उपनीतत्त्वाद्भासते । ततश्च श्रवणकार्ये मनने निदिध्यासने प्राथमिकसाक्षात्कारे च भासते । उपनयसाम्यात् । यदा तु ध्येयावेशवशात्तस्या विकल्परूपायाः सङ्केतस्मृतेः परिशुद्धिरपगमो भवति समापत्तिश्च स्वरूपशून्येव जायमाना भवति तदा शब्दज्ञानयोरस्फुरणेनाभेदारोपासंभवात् अर्थमात्रनिर्भासा ध्येयार्थमात्रावगाहिनी विकल्पशून्या स्थूलसमापत्तिर्निर्वितर्कसंज्ञेत्यर्थः । इयं समापत्तिः परं प्रत्यक्षमुच्यते अविद्यालेशेनाप्यसंपर्कात् । पूवसूत्रोक्ता च समापत्तिरपरं प्रत्यक्षमविद्यालेशसत्त्वादिति ॥ ४३ ॥
स्थूलविषये समापत्तिद्वैविध्यं प्रदर्श्य सूक्ष्मेऽपि विषये तस्या द्वैविध्यमतिदिशति –
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ ४४ ॥
एतयैव सवितर्कनिर्वितर्करूपया स्थूलविषयकसमापत्त्या सूक्ष्मविषयापि सविचारनिर्विचाररूपा समापत्तिद्वयी व्याख्याता । अन्योपरागानुपरागसाम्येनेत्यर्थः । अत्र हि विकल्पतच्छून्यत्वयोर्नातिदेशः, स्थूलविषयिण्यां निर्वितर्काख्यपूर्वभूमिकायां त्यक्तस्य यथोक्तविकल्पस्य सूक्ष्मविषयिण्यामुत्तरभूमिकायामसंभवादिति । तत्र स्थूलरूपं यत्कार्यं तदुपरागेण सूक्ष्मे समापत्तिः सविचारा कार्यकारणविचारघटितत्त्वात् । तदुत्तरोत्पद्यमाना च केवलसूक्ष्मविषयिणी निर्विचारेति विभागः ॥ ४४ ॥
ननु सूक्ष्मो विषयः कियत्पर्यन्त इत्यपेक्षायामाह –
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५ ॥
सूक्ष्मश्चासौ विषयश्चेति सूक्ष्मविषयः । अलिङ्गाख्यप्रकृतिपर्यन्तम् । न तु, पुरुषः सूक्ष्म इत्यर्थः । अतोऽत्र सूक्ष्मत्वं तत्त्वान्तरप्रकृतित्वम् । न च जलादिचतुष्टयेऽतिव्याप्तिः, भूतानामुत्तरोत्तरभूतेष्वाधारकारणमात्रत्वात् । तन्मात्राणामेव भूतोपादानत्वात् । अन्यथाष्टप्रकृतिसिद्धान्तविरोधादिति ॥ ४५ ॥
वितर्कविचारसूत्रेण पूर्वं संप्रज्ञातस्यावान्तरविभाग एव कृतः, नतु संप्रज्ञातसामान्यं लक्षितमतो यथोक्तसमापत्त्याख्यकार्यमुखेन सबीजपरिभाषापूर्वकं संप्रज्ञातसामान्यलक्षणमाह –
ता एव सबीजः समाधिः ॥ ४६ ॥
ता एव ग्रहीतृग्राह्येषु समापत्तय एव सबीजः समाधिः संप्रज्ञातयोग इत्यर्थः । समापत्तिरूपसाक्षात्कारहेतुत्वाद् योगस्य समापत्तित्वं कार्यकारणाभेदेनोक्तम् । आनन्दस्य बुद्धिधर्मत्वेनानन्दसमापत्तेर्ग्रहणसमापत्तावेव प्रवेशः । समापत्तीनां दुःखनिवृत्तिबीजसंस्कारहेतुत्वात् तद्धेतोर्वृत्तिनिरोधरूपस्य योगस्यापि सबीजत्वम् । समाधिशब्दश्चाङ्गाङ्गिनोरभेदेन योगे प्रयुक्तः ॥ ४६ ॥
उक्तासु समापत्तिषु निर्विचारकाष्ठायाः कञ्चनोत्कर्षमाह –
निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ ४७ ॥
ध्येयगताशेषविशेषप्रतिबिम्बोद्ग्राहिणी निश्चलैकाग्रता चित्तस्य वैशारद्यम् ।निर्विचारसमापत्तेरेव वैशारद्ये सति अध्यात्मप्रसादो भवति । आत्मनि बुद्धौ वर्तत इत्यध्यात्मम् । तादृशप्रसादो नैर्मल्यं भवति। येन प्रसादेन पुरुषादिसाक्षात्कारस्तद्योगं विनापि भवतीत्यर्थः ॥ ४७ ॥
पूर्वोक्ते सबीजयोगे जायमानायाः समापत्त्याख्यप्रज्ञाया अन्वर्था तान्त्रिकीं संज्ञामाह –
ऋतंभरा तत्र प्रज्ञा ॥ ४८ ॥
तत्र सबीजयोगे जायमाना प्रज्ञा समापत्त्याख्या ऋतम्भरसंज्ञा भवति । ऋतस्य सत्यस्यैव भरणात् विषयत्वेन धारणमित्यर्थः । सवितर्कप्रज्ञायाश्च विकल्पसत्वेऽपि ऋतम्भरजातीयत्वेन संग्रहः । अथवा ततः किं तत्राह । ऋतम्भरा तत्र प्रज्ञा । तत्राध्यात्मप्रसादे जायमाना आत्मसाक्षात्काररूपा प्रज्ञा ऋतम्भरेत्यर्थः ॥ ४८ ॥
ननु आगमानुमानाभ्यामेव प्रमाणाभ्यामर्थतत्वं गृह्यतामलं तदुत्तरं योगेनेत्याशङ्कायामाह –
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ ४९ ॥
सा तु योगसामान्यजा प्रज्ञा श्रवणमननाभ्यामतिरिक्तविषया विशेषार्थत्वात् । विशेषविषयत्वादित्यर्थः । शब्दानुमाने हि सामान्यमात्रविषयके भवतः सामान्यपुरस्कारेणैव संकेतग्रहात्, व्याप्तिग्रहाच्च । न तु संकेतग्राह्यानवच्छेदकविशेषग्राहके । योगजप्रज्ञा तु तद्ग्राहिकेति । अतोऽनधिगताधिगन्तृत्वाद्योगजप्रज्ञायाः प्रामाण्यम् । ननु पुरुषे विशेषाभावात्तत्प्रज्ञा किंविशेषग्रहणेन सफलास्यादितिचेन्न । अन्ततः स्वस्वोपाधिप्रतिबिम्बानामेवातीतानागतवर्तमानानां भोगरूपाणां मुक्तामुक्तसकलपुरुषेष्वन्योन्यं विशेषत्वादिति ॥ ४९ ॥
ननु तथापि प्रज्ञोत्पत्तिपर्यन्तं संप्रज्ञातयोगापेक्षा प्रज्ञोत्पत्त्यन्तरं संप्रज्ञातपरंपराया किं फलमित्याकाङ्क्षायामाह –
तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ ५० ॥
तज्जः एकाग्रसाक्षात्कारधारारूपया समाधिप्रज्ञया जनितः संस्कारोऽन्येषां व्युत्थानसंस्काराणां प्रतिबन्धी स्मृत्याख्यकार्यविरोधीत्यर्थः । तथा च समाधिपरंपरया समाधिप्रज्ञासंस्कारदार्ढ्येन व्युत्थानसंस्काराशयस्याभिभवः क्रमेण भवति । ततश्च दुःखहेतुव्युत्थानसंस्काराभिभवरूपे प्रज्ञाकृत्ये समाप्ते प्रज्ञायामाप्यलमिति भावः । मोक्षान्यथानुपपत्त्यैवाविद्यासंस्कारस्य विद्यासंस्कारदार्ढ्येन नाशः सिद्ध्यति । अविद्यासंस्कारातिरिक्तानां च संस्काराणां चित्तनाशेनैव नाशो न तु संस्कारान्तरस्य तन्नाशकत्वं कल्प्यते, गौरवात् । संस्काराणां विरोधिसंस्काराभिभावकत्वं तु लोके बहुधा सिद्धमतः संस्कारप्रतिबन्धीत्येव सूत्रितं न तु तन्नाशक इति ॥ ५० ॥
क्षीणवृत्तेरभिजातस्येत्यादिसूत्रैः संप्रज्ञातस्य फलं प्रपञ्चितम् । असंप्रज्ञातस्य फलमुच्यते –
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ ५१ ॥
पूर्वपूर्वासंप्रज्ञाते तावत्प्रज्ञैव निरुध्यते, प्रज्ञासंस्कारस्य तानवमात्रम् । एवं क्रमेण तस्यापि प्रज्ञाकृतसंस्कारस्याप्यसंप्रज्ञातपरम्परया निरोधे अत्यन्ताभिभवे जायमाने चरमासंप्रज्ञातव्यक्तिर्निर्बीजयोगस्य परा काष्ठा भवति । अपुनरुत्थानेत्यर्थः । सैव च महानिद्रा परमो मोह इति गीयते । अयं च योगेन स्वेच्छया मोक्षः श्रुतिषूक्तो बहूनाम् । तदानीं च पुरुषार्थसमाप्त्या चित्तस्यात्यन्तलयात्तदाश्रितानां दग्धसंस्कारभावा(?)नां नाश इति । सर्वनिरोधादिति निर्बीजत्वे हेतुरुक्तः, यतः प्रज्ञा तत्संस्कारश्चात्यन्तं विलापितावतो दुःखबीजैः संस्कारादिभिः शून्यत्वान्निर्बीज इति । पूर्वपूर्वासंप्रज्ञातेषु तु निर्बीजजातीयतया निर्बीजत्वव्यवहारः । अत्र सर्ववृत्तिनिरोधस्य संप्रज्ञातकृताखिलसंस्कारोन्मूलकत्ववचनात्तस्य संस्कारजनकत्वं सिद्ध्यति । क्रमेणैव ह्यसंप्रज्ञातपरम्परया चरमासंप्रज्ञाते निःशेषतः संप्रज्ञातसंस्कारदाहो वक्तव्यः । क्रमेणैव ह्यसंप्रज्ञातपरम्परया चारमासंप्रज्ञाते निःशेषतः संप्रज्ञातसंस्कारदाहो वक्तव्यः । तत्र पूर्वपूर्वासंप्रज्ञातानां विनष्टतया संस्कारातिरिक्तं द्वारं न संभवति । तथा उत्तरोत्तरासंप्रज्ञातेषु कालवृद्ध्यापि पूर्वपूर्वासंप्रज्ञातानां संस्कारजनकत्वं सिध्यति । संस्कारवृद्ध्यैव कालवृद्ध्यैचित्यादिति । ननु ज्ञानेन प्रारब्धातिरिक्ताखिलकर्मक्षये प्रारब्धस्य भोगेन समाप्त्या कर्माभावादेवापुनर्जन्मरूपो मोक्षो भविष्यति किमर्थमसंप्रज्ञातेनाखिलसंस्कारोन्मूलनमपेक्ष्यत इति चेत् । प्रारब्धस्यातिक्रमणाज्झटिति मोक्षार्थमित्यवेहि । भोगवासनारूपस्य हि सहकारिण उच्छेदे सति प्रारब्धमपि कर्मफलक्षमं भवतीति दिक् ॥ ५१ ॥
इति श्रीभावागणेशभट्टकृतायां योगदीपिकायाः पातञ्जलवृत्तौ समाधिपादः प्रथमः ॥ १ ॥