floral-decor

गौडपादविरचिता

साङ्ख्यकारिका-व्याख्या

change script to

कपिलाय नमस्तस्मै येनाविद्योदधौ जगति मग्ने ।
कारुण्यात्सांख्यमयी नौरिव विहिता प्रतरणाय ॥
अल्पग्रन्थं स्पष्टं प्रमाणसिद्धान्तहेतुभिर्युक्तम् ।
शास्त्रं शिष्यहिताय समासतोऽहं प्रवक्ष्यामि ॥
दुःखत्रयाभिघाताज्जिज्ञासा तदभिघातके हेतौ ।
दृष्टे साऽपार्था चेन्नैकान्तात्यन्ततोऽभावात् ॥१ ॥
दुःखत्रयेति । अस्या आर्याया उपोद्घातः क्रियते । इह भगवान् ब्रह्मसुतः कपिलो नाम । तद्यथा –
सनकश्च सनन्दनश्च तृतीयश्च सनातनः ।
आसुरिः कपिलश्चैव वोढुः पञ्चशिखस्तथा ।
इत्येते ब्रह्मणः पुत्राः सप्त प्रोक्ता महर्षयः ॥
कपिलस्य सहोत्पन्नानि धर्मो ज्ञानं वैराग्यमैश्वर्यं चेति । एवं स उत्पन्नः सन्नन्धे तमसि मज्जज्जगदालोक्य संसारपारम्पर्येण सत्कारुण्यो जिज्ञासमानाय आसुरिसगोत्राय ब्राह्मणायेदं पञ्चविंशतितत्त्वानां ज्ञानमुक्तवान् । यस्य ज्ञानाद् दुःखक्षयो भवति ।
पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे वसेत् ।
जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥
तदिदमाहुः – दुःखत्रयाभिघाताज्जिज्ञासेति । तत्र दुःखत्रयम् – आध्यात्मिकम्, आधिभौतिकम्, आधिदैविकं चेति । तत्राध्यात्मिकं द्विविधम् – शारीरं, मानसं चेति । शारीरं वातपित्तश्लेष्मविपर्ययकृतं ज्वरातीसारादि । मानसं प्रियवियोगाप्रियसंयोगादि । आधिभौतिकं चतुर्विधभूतग्रामनिमित्तं मनुष्यपशुमृगपक्षिसरीसृपदंशमशकयूकामत्कुणमत्स्यमकरग्राहस्थावरेभ्यो जरायुजाण्डजस्वेदजोद्भिज्जेभ्यः सकाशादुपजायते । आधिदैविकम् – देवानामिदं दैवम्, दिवः प्रभवतीति वा दैवम् । तदधिकृत्य यदुपजायते – शीतोष्णवातवर्षाशनिपातादिकम् । एवं यथा दुःखत्रयाभिघातात् जिज्ञासा कार्या । क्व –
तदभिघातके हेतौ । तस्य दुःखत्रयस्य अभिघातको यो हेतुस्तत्रेति ।
दृष्टे साऽपार्था चेत् । दृष्टे हेतौ दुःखत्रयाभिघातके सा जिज्ञासा अपार्था चेद्यदि । तत्राध्यात्मिकस्य द्विविधस्यापि आयुर्वेदशास्त्रक्रियया प्रियसमागमाप्रियपरिहारकटुतिक्तकषायादिक्वाथादिभिः दृष्ट एवाध्यात्मिकोपायः । आधिभौतिकस्य रक्षादिनाऽभिघातो दृष्टः । दृष्टे साऽपार्था चेदेवं मन्यसे – न ।
एकान्तात्यन्ततोऽभावात् । यत एकान्ततोऽवश्यम् अत्यन्ततो नित्यम् दृष्टेन हेतुना अभिघातो न भवति । तस्मादन्यत्र एकान्तात्यन्ताभिघातके हेतौ जिज्ञासा विविदिषा कार्येति ॥१॥
यदि दृष्टादन्यत्र जिज्ञासा कार्या, ततोऽपि नैव । यत आनुश्रविको हेतुर्दुःखत्रयाभिघातकः । अनुश्रूयत इत्यनुश्रवः, तत्र भव आनुश्रविकः । स चागमात् सिद्धः । यथा –
अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् ।
किन्नूनमस्मान् कृणवदरातिः किमु धूर्तिरमृतमर्त्यस्य ॥
(अथर्वशिरस् ३.)
कदाचिदिन्द्रादीनां देवानां कल्प आसीत्, कथं वयममृता अभूमेति विचार्य यस्माद्वयमपाम सोमं पीतवन्तः सोमं तस्मादमृता अभूम, अमरा भूतवन्त इत्यर्थः । किं च अगन्म ज्योतिः, गतवन्तो लब्धवन्तो ज्योतिः स्वर्गमिति । अविदाम देवान्, दिव्यान् विदितवन्तः । एवं च किन्नूनमस्मान् कृणवत् अरातिः, नूनं निश्चितं किम् अरातिः शत्रुरस्मान् कृणवत् कर्त्तेति । किमु धूर्तिरमृतमर्त्यस्य, धूर्तिर्जरा हिंसा वा किं करिष्यति अमृतमर्त्यस्य । अन्यच्च वेदे श्रूयते आत्यन्तिकं फलं पशुवधेन – ’सर्वांल्लोकाञ्जयति मृत्युं तरति पाप्मानं तरति ब्रह्महत्यां तरति यो योऽश्वमेधेन यजते’ इति । एकान्तात्यन्तिके एवं वेदोक्ते अपार्थेव जिज्ञासा – इति न । उच्यते –
दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः ।
तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ॥ २॥
दृष्टवदानुश्रविक इति । दृष्टेन तुल्यो दृष्टवत् । योऽसौ आनुश्रविकः कस्मात् स दृष्टवत्, यस्मात् –
अविशुद्धिक्षयातिशययुक्तः । अविशुद्धियुक्तः पशुघातात् । तथा चोक्तम् ।
षट् शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि ।
अश्वमेधस्य वचनादूनानि पशुभिस्त्रिभिः ॥
यद्यपि श्रुतिस्मृतिविहितो धर्मस्तथापि मिश्रीभावादविशुद्धियुक्त इति । यथा –
बहूनीन्द्रसहस्राणि देवानां च युगे युगे ।
कालेन समतीतानि कालो हि दुरतिक्रमः ॥
एवमिन्द्रादिनाशात् क्षययुक्तः । तथाऽतिशयो विशेषस्तेन युक्तः । विशेषगुणदर्शनादितरस्य दुःखं स्यादिति । एवमानुश्रविकोऽपि हेतुर्दृष्टवत् । कस्तर्हि श्रेयान् – इति चेदुच्यते –
तद्विपरीतः श्रेयान् । ताभ्यां दृष्टानुश्रविकाभ्यां विपरीतः श्रेयान् प्रशस्यतर इति । अविशुद्धिक्षयातिशयायुक्तत्वात् । स कथमित्याह –
व्यक्ताव्यक्तज्ञविज्ञानात् । तत्र व्यक्तं महदादि – बुद्धिरहङ्कारः, पञ्च तन्मात्राणि, एकादशेन्द्रियाणि, पञ्चविंशतिस्तत्त्वानि व्यक्ताव्यक्तज्ञाः कथ्यन्ते । एतद्विज्ञानाच्छ्रेय इति । उक्तं च – ’पञ्चविंशतितत्त्वज्ञ’ इत्यादि ॥२॥
अथ व्यक्ताव्यक्तज्ञानां को विशेष इत्युच्यते –
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ ३॥
मूलप्रकृतिः प्रधानम् । प्रकृतिविकृतिसप्तकस्य मूलभूतत्त्वात् । मूलं च सा प्रकृतिश्च मूलप्रकृतिः। अविकृतिः अन्यस्मान्नोत्पद्यते तेन प्रकृतिः कस्य चिद्विकारो न भवति ।
महदाद्याः प्रकृतिविकृतयः सप्त । महान् बुद्धिः । बुद्ध्याद्याः सप्त – बुद्धिः १, अहङ्कारः २, पञ्च तन्मात्राणि ७। एताः सप्त प्रकृतिविकृतयः । तद्यथा – प्रधानाद्बुद्धिरुत्पद्यते तेन विकृतिः प्रधानस्य विकार इति, सैवाहङ्कारमुत्पादयति अतः प्रकृतिः । अहङ्कारोऽपि बुद्धेरुत्पद्यत इति विकृतिः, स च पञ्च तन्मात्राण्युत्पादयतीति प्रकृतिः । तत्र शब्दतन्मात्रमहङ्कारादुत्पद्यत इति विकृतिः, तस्मादाकाशमुत्पद्यत इति प्रकृतिः । तथा स्पर्शतन्मात्रमहङ्कारादुत्पद्यत इति विकृतिः, तदेवं वायुमुत्पादयतीति प्रकृतिः । गन्धतन्मात्रमहङ्कारादुत्पद्यत इति विकृतिः, तदेवं पृथिवीमुत्पादयतीति प्रकृतिः । रूपतन्मात्रमहङ्कारादुत्पद्यत इति विकृतिः, तदेवं तेज उत्पादयतीति प्रकृतिः । रसतन्मात्रमहङ्कारादुत्पद्यत इति विकृतिः, तदेवम् अपः उत्पादयतीति प्रकृतिः । एवं महदाद्याः सप्त प्रकृतयो विकृतयश्च ।
षोडशकश्च विकारः । पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, एकादशं मनः, पञ्च महाभूतानि – एष षोडशको गणो विकृतिरेव विकारो विकृतिः ।
न प्रकृतिर्न विकृतिः पुरुषः ॥३॥
एवमेषां व्यक्ताव्यक्तज्ञानां त्रयाणां पदार्थानां कैः कियद्भिः प्रमाणैः, केन कस्य वा प्रमाणेन सिद्धिर्भवति । इह लोके प्रमेयवस्तु प्रमाणेन साध्यते, यथा प्रस्थादिभिर्व्रीहयः, तुलया चन्दनानि । तस्मात् प्रमाणमभिधेयम् –
दृष्टमनुमानमाप्तवचनं च, सर्वप्रमाणसिद्धत्वात् ।
त्रिविधं प्रमाणमिष्टं, प्रमेयसिद्धिः प्रमाणाद्धि ॥ ४ ॥
दृष्टं यथा – श्रोत्रं, त्वक्, चक्षुः, जिह्वा, घ्राणमिति पञ्च बुद्धीन्द्रियाणि । शब्दस्पर्शरूपरसगन्धा एषां पञ्चानां पञ्चैव विषया यथासंख्यम् । शब्दं श्रोत्रं गृह्णाति, त्वक् स्पर्शं, चक्षू रूपं, जिह्वा रसं, घ्राणं गन्धमिति । एतद्दृष्टमित्युच्यते प्रमाणम् ।
प्रत्यक्षेणानुमानेन वा योऽर्थो न गृह्यते स आप्तवचनाद्ग्राह्यः । यथा – इन्द्रो देवराजः, उत्तराः कुरवः, स्वर्गेऽप्सरसः इत्यादि । प्रत्यक्षानुमानाग्राह्यम् अथाप्तवचनात् गृह्यते । अपि चोक्तम् –
आगमो ह्याप्तवचनम्, आप्तं दोषक्षयाद्विदुः ।
क्षीणदोषोऽनृतं वाक्यं न ब्रूयाद्धेत्वसम्भवात् ॥
स्वकर्मण्यभियुक्तो यः सङ्गद्वेषविवर्जितः ।
पूजितस्तद्विधैर्नित्यम् आप्तो ज्ञेयः स तादृशः ॥
एतेषु प्रमाणेषु सर्वप्रमाणानि सिद्धानि भवन्ति । षट् प्रमाणानि जैमिनिः । अथ कानि तानि प्रमाणानि । अर्थापत्तिः, सम्भवः, अभावः, प्रतिभा, ऐतिह्यं, उपमानं चेति षट् प्रमाणानि । तत्रार्थापत्तिर्द्विविधा – दृष्टा श्रुता च । तत्र दृष्टा – एकस्मिन्पक्षे आत्मभावो गृहीतश्चेदन्यस्मिन् अप्यात्मभावो गृह्यत एव । श्रुता यथा – प्रस्थ इत्युक्ते चत्वारः कुडवाः सम्भाव्यन्ते । अभावो नाम प्रागितरेतरात्यन्तसर्वाभावलक्षणः । प्रागभावो यथा – देवदत्तः कौमारयौवनादिषु । इतरेतराभावः – पटे घटाभावः । अत्यन्ताभावः – खर-विषाणवन्ध्यासुतखपुष्पवदिति । सर्वाभावः प्रध्वंसाभावः – दग्धपटवदिति । यथा –शुष्कधान्यदर्शनाद्दृष्टेरभावो गम्यते । एवमभावोऽनेकधा । प्रतिभा यथा –
दक्षिणेन च विन्ध्यस्य सह्यस्य च यदुत्तरम् ।
पृथिव्यामासमुद्रायां स प्रदेशो मनोरमः ॥
एवमुक्ते तस्मिन् प्रदेशे शोभना गुणाः सन्तीति प्रतिभोत्पद्यते । प्रतिभान्वाससंज्ञानमिति । ऐतिह्यं यथा – ब्रवीति लोको यथात्र वटे यक्षिणी प्रवसतीतियेव ऐतिह्यम् । उपमानं यथा – गौरिव गवयः, समुद्र इव तडागः । एतानि षट् प्रमाणानि त्रिषु दृष्टादिष्वन्तर्भूतानि । तत्रानुमाने तावदर्थापत्तिरन्तर्भूता । सम्भवाभावप्रतिभैतिह्योपमाश्चाप्तवचने ।
तस्मात् त्रिष्वेव सर्वप्रमाणसिद्धत्वात् त्रिविधं प्रमाणमिष्टं तदाह । तेन त्रिविधेन प्रमाणेन प्रमाणसिद्धिर्भवतीति वाक्यशेषः ।
प्रमेयसिद्धिः प्रमाणाद्धि । प्रमेयं – प्रधानं, बुद्धिः, अहङ्कारः, पञ्च तन्मात्राणि, एकादशेन्द्रियाणि, पञ्च महाभूतानि, पुरुष इति  । एतानि पञ्चविंशतिस्तत्त्वानि व्यक्ताव्यक्तज्ञा इत्युच्यन्ते । तत्र किञ्चित् प्रत्यक्षेण साध्यं, किञ्चिदनुमानेन, किञ्चिदागमेनेति त्रिविधं प्रमाणमुक्तम्॥४॥
तस्य किं लक्षणमेतदाह –
प्रतिविषयाध्यवसायो दृष्टं, त्रिविधमनुमानमाख्यातम् ।
तल्लिङ्गलिङ्गिपूर्वकम्, आप्तश्रुतिराप्तवचनं च ॥ ५ ॥
प्रतिविषयेषु श्रोत्रादीनां शब्दादिविषयेषु अध्यवसायो दृष्टं प्रत्यक्षमित्यर्थः ।
त्रिविधमनुमानमाख्यातम् । पूर्ववत्, शेषवत्, सामान्यतो दृष्टं चेति । पूवमस्यास्तीति पूर्ववद् यथा – मेघोन्नत्या वृष्टिं साधयति पूर्वदृष्टत्वात् । शेषवद्यथा – समुद्रादेकं जलपलं लवणमासाद्य शेषस्याप्यस्ति लवणभाव इति । सामन्यतो दृष्टं – देशाद्देशान्तरं प्राप्तं दृष्टं गतिमच्चन्द्रतारकं, चैत्रवत् । यथा चैत्रनामानं देशाद्देशान्तरं प्राप्तमवलोक्य गतिमानयमिति, तद्वच्चन्द्रतारकमिति । तथा पुष्पिताम्रदर्शनादन्यत्र पुष्पिता आम्रा इति सामान्यतो दृष्टेन साधयति । एतत्सामान्यतो दृष्टम् ।
किञ्च तल्लिङ्गलिङ्गिपूर्वकमिति । तदनुमानं लिङ्गपूर्वकं यत्र लिङ्गेन लिङ्गी अनुमीयते, यथा – दण्डेन यतिः । लिङ्गिपूर्वकं च यत्र लिङ्गिना लिङ्गमनुमीयते, यथा – दृष्ट्वा यतिम् अस्येदं त्रिदण्डमिति ।
आप्तश्रुतिराप्तवचनं च । आप्ता आचार्या ब्रह्मादयः । श्रुतिर्वेदः । आप्ताश्च श्रुतिश्च आप्तश्रुतिः, तदुक्तमाप्तवचनमिति ॥५॥
एवं त्रिविधं प्रमाणमुक्तं, तत्र केन प्रमाणेन किं साध्यमुच्यते –
सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रसिद्धिरनुमानात् ।
तस्मादपि चासिद्धं परोक्षमाप्तागमात् सिद्धम् ॥ ६ ॥
सामान्यतोदृष्टादनुमानात् अतीन्द्रियाणाम्, इन्द्रियाण्यतीत्य वर्तमानानां सिद्धिः । प्रधानपुरुषावतीन्द्रियौ सामान्यतोदृष्टानुमानेन साध्येते यस्मान्महदादि लिङ्गं त्रिगुणम् । यस्येदं त्रिगुणं कार्यं तत्प्रधानमिति । यतश्चाचेतनं चेतनमिवाभाति, अतोऽन्योऽधिष्ठाता पुरुष इति । व्यक्तं प्रत्यक्षसाध्यम् ।
तस्मादपि चासिद्धं परोक्षमाप्तागमात् सिद्धम् । यथा – इन्द्रो देवराजः, उत्तराः कुरवः, स्वर्गेऽप्सरस इति परोक्षमाप्तवचनात् सिद्धम् ॥ ६ ॥
अत्र कश्चिदाह – प्रधानं पुरुषो वा नोपलभ्यते । यच्च नोपल्भ्यते लोके तन्नास्ति । तस्मात्तावपि न स्तः । यथा – द्वितीयं शिरः, तृतीयो बाहुरिति, तदुच्यते – अत्र सतामप्यर्थानामष्टधोपलब्धिर्न भवति । तद्यथा –
अतिदूरात् सामीप्यादिन्द्रियाघातान्मनोऽनवस्थानात् ।
सौक्ष्म्याद् व्यवधानादभिभवात् समानाभिहाराच्च ॥ ७ ॥
इह सतामप्यर्थानाम् अतिदूरादनुपलब्धिर्दृष्टा । यथा – देशान्तरस्थानां चैत्रमैत्रविष्णुमित्राणाम् ।
सामीप्यात् । यथा – चक्षुषोऽञ्जनानुपलब्धिः ।
इन्द्रियाभिघातात् । यथा – बधिरान्धयोः शब्दरूपानुपलब्धिः ।
मनोऽनवस्थानात् । यथा – व्यग्रचित्तः सम्यक्वथितमपि नावधारयति ।
सौक्ष्म्यात् । यथा – धूमोष्मजलनीहारपरमाणवो गगनगता नोपलभ्यन्ते ।
व्यवधानात् । यथा – कुड्येन पिहितं वस्तु नोपलभ्यते ।
अभिभवात् । यथा – सूर्यतेजसाभिभूता ग्रहनक्षत्रतारकादयो नोपलभ्यन्ते ।
समानाभिहारात् । यथा – मुद्गराशौ मुद्गः क्षिप्तः, कुवलयामलकमध्ये कुवलयामलके क्षिप्ते, कपोतमध्ये कपोतो नोपलभ्यन्ते, समानद्रव्यमध्याहृतत्त्वात् । एवमष्टधाऽनुपलब्धिः सतामर्थानामिह दृष्टा ॥ ७ ॥
एवं चास्ति किमभ्युपगम्यते, प्रधानपुरुषयोरप्येतयोर्वा अनुपलब्धिः केन हेतुना, केन चोपलब्धिस्तदुच्यते –
सौक्ष्म्यात्तदनुपलब्धिर्नाभावात्, कार्यतस्तदुपलब्धिः ।
महदादि तच्च कार्यं, प्रकृतिविरूपं सरूपं च ॥ ८ ॥
सौक्ष्म्यात्तदनुपलब्धिः । प्रधानस्येत्यर्थः । प्रधानं सौक्ष्म्यान्नोपलभ्यते । यथा – आकाशे धूमोष्मजलनीहारपरमाणवः सन्तोऽपि नोपलभ्यन्ते । कथं तर्हि तदुपलब्धिः –
कार्यतस्तदुपलब्धिः । कार्यं दृष्ट्वा कारणमनुमीयते । अस्ति प्रधानं कारणं यस्येदं कार्यम् । बुद्धिरहङ्कारपञ्चतन्मात्राणि एकादशेन्द्रियाणि पञ्च महाभूतान्येव तत्कार्यम् ।
तच्च कार्यं प्रकृतिविरूपम् । प्रकृतिः प्रधानं तस्य विरूपं प्रकृतेरसदृशम् ।
सरूपं च । समानरूपं च । यथा –
लोकेऽपि पितुस्तुल्य इव पुत्रो भवत्यतुल्यश्च । येन हेतुना तुल्यमतुल्यं तदुपरिष्टाद्वक्ष्यामः ॥८ ॥
यदिदं महदादि कार्ये तत्किं प्रधाने सत् उताहोस्वित् असत् – आचार्य – विप्रतिपत्तेरयं संशयः। यतोऽत्र सांख्यदर्शने सत्कार्ये, बौद्धादीनामसत्कार्यम् । यदि सत् – असन्न भवति, अथासत् – सन्न भवतीति विप्रतिषेधस्तत्राह –
असदकरणादुपादानग्रहणात्, सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात्, कारणभावाच्च, सत्कार्यम् ॥९ ॥
असदकरणात् । न सत् असत् । असतोऽकरणं, तस्मात् सत्कार्यम् । इह लोके असत्करणं नास्ति। यथा – सिकताभ्यस्तैलोत्पत्तिः । तस्मात्सतः करणादस्ति प्रागुत्पत्तेः प्रधाने व्यक्तम् । अतः सत्कार्यम् ।
किं चान्यत् – उपादानग्रहणात् । उपादानं करणं, तस्य ग्रहणात् । इह लोके यो येनार्थी स तदुपादानग्रहणं करोति – दध्यर्थी क्षीरस्य, न तु जलस्य । तस्मात्सत्कार्यम् ।
इतश्च, सर्वसम्भवाभावात् । सर्वस्य सर्वत्र सम्भवो नास्ति । यथा – सुवर्णस्य रजतादौ तृणपांशुसिकतासु । तस्मात्सर्वसम्भवाभावात्सत्कार्यम् ।
इतश्च, शक्तस्य शक्यकरणात् । इह कुलालः शक्तो मृद्दण्डचक्रचीवररज्जुनीरादिकरणोपकरणं वा शक्यमेव घटं मृत्पिण्डादुत्पादयति । तस्मात्सत्कार्यम् ।
इतश्च, कारणाभावाच्च सत्कार्यम् । कारणं यल्लक्षणं तल्लक्षणमेव कार्यमपि । यथा – यवेभ्यो यवाः, व्रीहिभ्यो व्रीहयः । यदाऽसत्कार्यं स्यात्ततः कोद्रवेभ्यः शालयः स्युः । न च सन्तीति तस्मात् सत्कार्यम् । एवं पञ्चभिर्हेतुभिः प्रधाने महदादि लिङ्गमस्ति । तस्मात् सत उत्पत्तिः, नासत इति ॥९॥
प्रकृतिविरूपं सरूपं च यदुक्तं तत् कथमित्युच्यते –
हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् ।
सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥ १० ॥
व्यक्तं महदादिकार्यं हेतुमदिति । हेतुरस्यास्तीति हेतुमत् । उपादानं हेतुः, कारणं, निमित्तमिति पर्य्यायाः । व्यक्तस्य प्रधानं हेतुरस्ति, अतो हेतुमद्व्यक्तं भूतपर्यन्तम् । हेतुमद्बुद्धितत्त्वं प्रधानेन, हेतुमानहङ्कारो बुद्ध्या, पञ्च तन्मात्राणि एकादशेन्द्रियाणि हेतुमन्त्यहंकारेण, आकाशं शब्दतन्मात्रेण हेतुमत्, वायुः स्पर्शतन्मात्रेण हेतुमान्, तेजो रूपतन्मात्रेण हेतुमत्, आपो रसतन्मात्रेण हेतुमत्यः, पृथिवी गन्धतन्मात्रेण हेतुमती । एवं भूतपर्यन्तं व्यक्तं हेतुमत् ।
किं चान्यत्, अनित्यम् । यस्मादन्यस्मादुत्पद्यते, यथा – मृत्पिण्डादुत्पद्यते घटः स चानित्यः ।
किं च, अव्यापि । असर्वगमित्यर्थः । यथा प्रधानपुरुषौ सर्वगतौ, नैवं व्यक्तम् ।
किं चान्यत्, अनेकम् । बुद्धिरहङ्कारः पञ्च तन्मात्राण्येकादशेन्द्रियाणि पञ्चमहाभूतानि चेति।
(किं चान्यत्, आश्रितम् । स्वकारणमाश्रयते । प्रधानाश्रिता बुद्धिः, बुद्धिमाश्रितोऽहङ्कारः, अहङ्काराश्रितानि एकादशेन्द्रियाणि पञ्च तन्मात्राणि, पञ्चतन्मात्राश्रितानि पञ्चमहाभूतानीति)
किं च, लिङ्गम् । लययुक्तम् । लयकाले पञ्च महाभूतानि तन्मात्रेषु लीयन्ते, तान्येकादशेन्द्रियैः सहाहङ्कारे, स च बुद्धौ, सा च प्रधाने लयं यातीति ।
तथा, सावयवम् । अवयवाः शब्दस्पर्शरसरूपगन्धाः, तैः सह ।
किं च, परतन्त्रम् । नात्मनः प्रभवति । यथा-प्रधानतन्त्रा बुद्धिः, बुद्धितन्त्रोऽहङ्कारः, अहङ्कारतन्त्राणि तन्मात्राणि तन्मात्राणीन्द्रियाणि च, तन्मात्रतन्त्राणि पञ्चमहाभूतानि च । एवं परतन्त्रं परायत्तं व्याख्यातं व्यक्तम्।
अथोऽव्यक्तं व्याख्यास्यामः । विपरीतमव्यक्तम् । एतैरेव गुणैर्यथोक्तैर्विपरीतमव्यक्तम् । हेतुमद् व्यक्तमुक्तम् । नहि प्रधानात् परं किञ्चिदस्ति, यतः प्रधानस्यानुत्पत्तिः, तस्मादहेतुमदव्यक्तम् ।
तथा अनित्यं च व्यक्तं, नित्यमव्यक्तं, अनुत्पद्यमानत्वात् । नहि भूतानीव कुतश्चिदुत्पद्यत इति नित्यं प्रधानम् ।
किं च, अव्यापि व्यक्तं, व्यापि प्रधानं, सर्वगतत्वात् ।
सक्रियं व्यक्तम्, अक्रियमव्यक्तं, सर्वगतत्वादेव ।
तथा अनेकं व्यक्तम्, एकं प्रधानं, कारणत्वात् । त्रयाणां लोकानां प्रधानमेकं कारणं, तस्मादेकं प्रधानम् ।
तथा आश्रितं व्यक्तम्, अनाश्रितमव्यक्तम्, अकार्यत्वात् । नहि प्रधानादस्ति किञ्चित्परं यस्य पधानं कार्यं स्यात् ।
तथा व्यक्तं लिङ्गं, अलिङ्गमव्यक्तं, नित्यत्वात् । महदादि लिङ्गं प्रलयकाले परस्परं प्रलीयते, नैवं प्रधानं, तस्मादलिङ्गं प्रधानम् ।
तथा सावयवं व्यक्तं, निरवयवमव्यक्तं, नहि शब्दस्पर्शरसरूपगन्धाः प्रधाने सन्ति ।
तथा परतन्त्रं व्यक्तं, स्वतन्त्रमव्यक्तं, प्रभवत्यात्मनः ॥ १० ॥
एवं व्यक्ताव्यक्तयोर्वैधर्म्यमुक्तं साधर्म्यमुच्यते । यदुक्तं स्वरूपं च –
त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि ।
व्यक्तं तथा प्रधानं, तद्विपरीतस्तथा च पुमान् ॥ ११ ॥
त्रिगुणं व्यक्तम् । सत्त्वरजस्तमांसि त्रयो गुणा यस्येति ।
अविवेकि व्यक्तम् । न विवेकोऽस्यास्तीति । इदं व्यक्तमिमे गुणा इति न विवेकं कर्तुं याति, अयं गौरयमश्व इति यथा । ये गुणास्तद्व्यक्तं, यद्व्यक्तं ते च गुणा इति ।
तथा विषयो व्यक्तम् । भोज्यमित्यर्थः । सर्वपुरुषाणां विषयभूतत्वात् ।
तथा सामान्यं व्यक्तम् । मूल्यदासीवत् सर्वसाधारणत्वात् ।
अचेतनं व्यक्तम् । सुखदुःखमोहान्न चेतयतीत्यर्थः ।
तथा प्रसवधर्मि व्यक्तम् । तद्यथा – बुद्धेरहङ्कारः प्रसूयते, तस्मात् पञ्च तन्मात्राणि एकादशेन्द्रियाणि च प्रसूयन्ते, तन्मात्रेभ्यः पञ्च महाभूतानि ।
एवमेते व्यक्तधर्माः प्रसवधर्मान्ता उक्ताः, एवमेभिरव्यक्तं सरूपं, यथा व्यक्तं तथा प्रधानमिति। तत्र त्रिगुणं व्यक्तं, अव्यक्तमपि त्रिगुणं, यस्यै तन्महदादि कार्यं त्रिगुणम् । इह यदात्मकं कारणं तदात्मकं कार्यमिति । यथा कृष्णतन्तुकृतः कृष्ण एव पटो भवति ।
तथा अविवेकि व्यक्तं, प्रधानमपि गुणैर्न भिद्यते । अन्ये गुणा अन्यत् प्रधानमेवं विवेक्तुं न याति, तदविवेकि प्रधानम् ।
तथा विषयो व्यक्तं, प्रधानमपि सर्वपुरुषविषयभूतत्वाद्विषय इति ।
तथा सामान्यं व्यक्तं, प्रधानमपि, सर्वसाधारणत्वात् ।
तथा अचेतनं, व्यक्तं, प्रधानमपि सुखदुःखमोहान्न चेतयति, इति कथमनुमीयते – इह ह्यचेतनान्मृत्पिण्डादचेतनो घट उत्पद्यते ।
एवं प्रधानमपि व्याख्यातम् । इदानीं तद्विपरीतस्तथा च पुमानित्येतद्व्याख्यायते । तद्विपरीतस्ताभ्यां व्यक्ताव्यक्ताभ्यां विपरीतः पुमान् ।
तद्यथा –
त्रिगुणं व्यक्तमव्यक्तं च, अगुणः पुरुषः।
अविवेकि व्यक्तमव्यक्तं च, विवेकी पुरुषः ।
तथा विषयो व्यक्तमव्यक्तं च, अविषयः पुरुषः ।
तथा सामान्यं व्यक्तमव्यक्तं च, असामान्यः पुरुषः ।
अचेतनं व्यक्तमव्यक्तं च, चेतनः पुरुषः । सुखदुःखमोहान् चेतयति संजानीते तस्माच्चेतनः पुरुषः । प्रसवधर्मि व्यक्तं प्रधानं च, अप्रसवधर्मी पुरुषः । नहि पुरुषात् किञ्चित् प्रसूयते । तस्मादुक्तं तद्विपरीतः पुमानिति ।
तदुक्तं तथा च पुमानिति । तत् पूर्वस्यामार्यायां प्रधानमहेतुमद्यथा व्याख्यातं तथा च पुमान् । तद्यथा हेतुमदनित्यमित्यादि व्यक्तं, तद्विपरीतमव्यक्तम् ।
तत्र – हेतुमद्व्यक्तम्, अहेतुमत् प्रधानं, तथा च पुमानहेतुमाननुत्पाद्यत्वात् ।
अनित्यं व्यक्तं, नित्यं प्रधानं, तथा च नित्यः पुमान् ।
(अव्यापि व्यक्तं, व्यापि प्रधानं, तथा च व्यापि पुमान् । सर्वगतत्वात् ।)
(सक्रियं व्यक्तम्, अक्रियं प्रधानं, तथा च पुमान् ) अक्रियः, सर्वगतत्वादेव ।
अनेकं व्यक्तम्, एकमव्यक्तं, तथा पुमानप्येकः ।
आश्रितं व्यक्तम्, अनाश्रितमव्यक्तं, तथा च पुमाननाश्रितः ।
लिङ्गं व्यक्तम्, अलिङ्गं प्रधानं, तथा च पुमानप्यलिङ्गः । न क्वचिल्लीयत इति ।
सावयवं व्यक्तं, निरवयवम् अव्यक्तं, तथा च पुमान् निरवयः । नहि पुरुषे शब्दादयोऽवयवाः सन्ति ।
किं च परतन्त्रं व्यक्तं, स्वतन्त्रमव्यक्तं, तथा च पुमानपि स्वतन्त्रः, आत्मनः प्रभवतीत्यर्थः ।
एवमेतदव्यक्तपुरुषयोः साधर्म्यं व्याख्यातं पूर्वस्यामार्यायाम् । व्यक्तप्रधानयोः साधर्म्ये पुरुषस्य वैधर्म्यं च त्रिगुणमविवेकीत्यादि प्रकृतार्यायां व्याख्यातम् ॥११॥
तत्र यदुक्तं त्रिगुणमिति व्यक्तमव्यक्तं च, तत् के ते गुणा इति तत्स्वरूपप्रतिपादनायेदमाह –
प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः ।
अन्योऽनाभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ॥१२॥
प्रीत्यात्मकाः, अप्रीत्यात्मकाः, विषादात्मकाश्च गुणाः – सत्त्वरजस्तमांसीत्यर्थः । तत्र प्रीत्यात्मकं सत्त्वं, प्रीतिः सुखं तदात्मकमिति । अप्रीत्यात्मकं रजः, अप्रीतिर्दुःखम् । विषादात्मकं तमः, विषादो मोहः ।
तथा – प्रकाशप्रवृत्तिनियमार्थाः । अर्थशब्दः सामर्थ्यवाची, प्रकाशार्थं सत्त्वं प्रकाशसमर्थमित्यर्थः । प्रवृत्त्यर्थं रजः । नियमार्थं तमः, स्थितौ समर्थमित्यर्थः । प्रकाशक्रियास्थितिशीला गुणा इति ।
तथा – अन्योऽन्याभिभवाश्रयजननमिथुनवृत्तयश्च । अन्योऽन्याभिभवाः, अन्योऽन्याश्रयाः, अन्योऽन्यजननाः, अन्योऽन्यमिथुनाः, अन्योऽन्यवृत्तयश्च ते तथोक्ताः । अन्योऽन्याभिभवा इति । अन्योऽन्यं परस्परमभिभवन्तीति प्रीत्यप्रीत्यादिभिर्धर्मैराविर्भवन्ति । यथा – यदा सत्त्वमुत्कटं भवति, तदा रजस्तमसी अप्रीतिप्रवृत्तिधर्मेण; यदा तमः, तदा सत्त्वरजसी विषादस्थित्यात्मकेन इति । तथा अन्योऽन्याश्रयाश्च द्व्यणुकवद् गुणाः । अन्योऽन्यजननाः, यथा मृत्पिण्डो घटं जनयति । तथा अन्योऽन्यमिथुनाश्च । यथा स्त्रीपुंसौ अन्योऽन्यमिथुनौ तथा गुणाः । उक्तं च –
रजसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः ।
उभयोः सत्त्वरजसोर्मिथुनं तम उच्यते ॥
(देवीभागवत – ३-८)
परस्परसहाया इत्यर्थः । अन्योऽन्यवृत्तयश्च । परस्परं वर्तन्ते । ’गुणा गुणेषु वर्तन्ते’ इति वचनात् [भगवद्गीता -३-२८] । यथा सुरूपा सुशीला स्त्री सर्वसुखहेतुः, सपत्नीनां सैव दुःखहेतुः, सैव रागिणां मोहं जनयति, एवं सत्त्वं रजस्तमसोर्वृत्तिहेतुः । यथा राजा सदोद्युक्तः प्रजापालने दुष्टनिग्रहे, शिष्टानां सुखमुत्पादयति दुष्टानां दुःखं मोहं च, एवं रजः सत्त्वतमसोर्वृत्तिः जनयति । तथा तमः स्वरूपेणावरणात्मकेन सत्त्वरजसोर्वृत्तिं जनयति । यथा मेघाः स्वमावृत्य जगतः सुखमुत्पादयन्ति, ते वृष्ट्या कर्षकाणां कर्षणोद्योगं जनयन्ति, विरहिणां मोहम् । एवं अन्योऽन्यवृत्तयो गुणाः ॥ १२ ॥
किं चान्यत् –
सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः ।
गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥ १३ ॥
सत्त्वं लघु प्रकाशकं च । यदा सत्त्वमुत्कटं भवति तदा लघून्यङ्गानि बुद्धिप्रकाशश्च प्रसन्नतेन्द्रियाणां भवति ।
उपष्टम्भकं चलं च रजः । उपष्टभ्नातीत्युपष्टम्भकम्, उद्योतकम् । यथा वृषो वृषदर्शने उत्कटमुपष्टम्भं करोति, एवं रजोवृत्तिः । तथा रजश्च चलं दृष्टं, रजोवृत्तिश्चलचित्तो भवति ।
गुरु वरणकमेव तमः । यदा तम उत्कटं भवति तदा गुरूण्यङ्गानि आवृतानीन्द्रियाणि भवन्ति स्वार्थसमर्थानि ।
अत्राह – यदि गुणाः परस्परं विरुद्धाः स्वमतेनैव कमर्थं निष्पादयन्ति तर्हि कथम् – प्रदीपवच्चार्थतो वृत्तिः । प्रदीपेन तुल्यं प्रदीपवत् । अर्थतः साधना वृत्तिरिष्टा । यथा प्रदीपः परस्परविरुद्धतैलाग्निवर्त्तिसंयोगात् अर्थप्रकाशान् जनयति, एवं सत्त्वरजस्तमांसि परस्परविरुद्धानि अर्थे निष्पादयन्ति ॥१३॥
अन्तरप्रश्नो भवति – “त्रिगुणमविवेकि विषयः” इत्यादि प्रधानं व्यक्तं च व्याख्यातम् । तत्र प्रधानं, उपलभ्यमानं महदादि च त्रिगुणमविवेक्यादीति च कथमवगम्यते । तत्राह –
अविवेक्यादिः सिद्धः त्रैगुण्यात्तद्विपर्ययाभावात् ।
कारणगुणात्मकत्वात् कार्यस्याव्यक्तमपि सिद्धम् ॥ १४ ॥
योऽयमविवेक्यादिर्गुणः स त्रैगुण्यान्महदादौ, अव्यक्ते नायं सिद्ध्यति । अत्रोच्यते – तद्विपर्ययाभावात् । तस्य विपर्ययः तद्विपर्ययः, तस्याभावः तद्विपर्ययाभावः, तस्मात् सिद्धमव्यक्तम् । यथा – यत्रैव तन्तवस्तत्रैव पटः । अन्ये तन्तवोऽन्यः पटो न, कुतः – तद्विपर्ययाभावात् । एवं व्यक्ताव्यक्तसंपन्नो भवति । दूरं प्रधानमासन्नं व्यक्तम् । यो व्यक्तं पश्यति, स प्रधानमपि पश्यति, तद्विपर्ययाभावात् ।
इतश्चाव्यक्तं सिद्धम् – कारणगुणात्मकत्वात् कार्यस्य । लोके यदात्मकं कारणं तदात्मकं कार्यमपि । तथा – कृष्णेभ्यस्तन्तुभ्यः कृष्ण एव पटो भवति । एवं महदादि लिङ्गम् अविवेकि, विषयः, सामान्यं, अचेतनं, प्रसवधर्मि । यदात्मकं लिङ्गं तदात्मकमव्यक्तम्पि सिद्धम् ॥ १४ ॥
त्रैगुण्यादविवेक्यादिर्व्यक्ते सिद्धः । तद्विपर्ययाभावात्, एवं कारणगुणात्मकत्वात् कार्यस्य, अव्यक्तमपि सिद्धम् – इत्येतन्मिथ्या, लोके यन्नोपलभ्यते तन्नास्ति – (इति न वाच्यम्, सतोऽपि पाषाणगन्धादेरनुपलम्भात् ।) एवं प्रधानमप्यस्ति किन्तु नोपलभ्यते ।
भेदानां परिमाणात्, समन्वयात्, शक्तितः प्रवृत्तेश्च ।
कारणकार्यविभागात्, अविभागाद्वैश्वरूप्यस्य ॥ १५ ॥
कारणमस्त्यव्यक्तमिति क्रियाकारकसम्बन्धः । भेदानां परिमाणात् । लोके यत्र कर्तास्ति तस्य परिमाणं दृष्टम् । यथा – कुलालः परिमितैर्मृत्पिण्डैः परिमितानेव घटान् करोति । एवं महदपि । महदादि लिङ्गं परिमितं भेदतः प्रधानकार्यम् । एका बुद्धिः, एकोऽहङ्कारः, पञ्च तन्मात्राणि, एकादशेन्द्रियाणि, पञ्च महाभूतानि – इत्येवं भेदानां परिमाणादस्ति प्रधानं कारणं यद्व्यक्तं परिमितमुत्पादयति । यदि प्रधानं न स्यात्तदा निष्परिमाणमिदं व्यक्तमपि स्यात् । परिमाणाच्च भेदानामस्ति प्रधानं यस्माद् व्यक्तमुत्पन्नम् ।
तथा समन्वयात् । इह लोके प्रसिद्धिर्दृष्टा यथा – व्रतधारिणं वटुं दृष्ट्वा समन्वयति, नूनमस्य पितरौ ब्राह्मणाविति । एवमिदं त्रिगुणं महदादिलिङ्गं दृष्ट्वा साधयामोऽस्य यत्कारणं भविष्यतीति। अतः समन्वयादस्ति प्रधानम् ।
तथा शक्तितः प्रवृत्तेश्च । इह यो यस्मिन् शक्तः स तस्मिन्नेवार्थे प्रवर्तते । यथा – कुलालो घटस्य करणे समर्थो घटमेव करोति न पटं रथं वा ।
तथा अस्ति प्रधानं कारणं, कुतः – कारणकार्यविभागात् । करोतीति कारणम्, क्रियत इति कार्यम् । कारणस्य कार्यस्य च विभागः । यथा घटो दधिमधूदकपयसां धारणे समर्थो, न तथा मृत्पिण्डः । मृत्पिण्डो वा घटं निष्पादयति, न चैवं घटो मृत्पिण्डम्  । एवं महदादिलिङ्गं दृष्ट्वानुमीयते – अस्ति विभक्तं तत् कारणं यस्य विभाग इदम् व्यक्तमिति ।
इतश्च, अविभागाद्वैश्वरूप्यस्य । विश्वं जगत्, तस्य रूपं व्यक्तिः विश्वरूपस्य भावो वैश्वरूप्यम्। तस्य अविभागादस्ति प्रधानम्, यस्मात् त्रैलोक्यस्य पञ्चानां पृथिव्यादीनां महाभूतानां परस्परं विभागो नास्ति, महाभूतेष्वन्तर्भूतास्त्रयो लोका इति । पृथिव्यापस्तेजोवायुराकाशमिति एतानि पञ्च महाभूतानि प्रलयकाले सृष्टिक्रमेणैवाविभागं यान्ति तन्मात्रेषु परिणामिषु, तन्मात्राण्येकादशेन्द्रियाणि चाहङ्कारे, अहङ्कारो बुद्धौ, बुद्धिः प्रधाने । एवं त्रयो लोकाः प्रलयकाले प्रकृतावविभागं गच्छन्ति । तस्मादविभागात् क्षीरदधिवद्व्यक्ताव्यक्तयोरस्त्यव्यक्तं कारणम् ॥ १५ ॥
अतश्च –
कारणमस्त्यव्यक्तं प्रवर्तते त्रिगुणतः समुदयाच्च ।
परिणामतः सलिलवत् प्रतिप्रतिगुणाश्रयविशेषात् ॥ १६ ॥
अव्यक्तं प्रख्यातं कारणमस्ति यस्मान्महदादि लिङ्गं प्रवर्तते ।
त्रिगुणतः त्रिगुणात् । सत्त्वरजस्तमोगुणाः यस्मिंस्तत् त्रिगुणं, तत्किमुक्तं भवति – सत्त्वरजस्तमसां साम्यावस्था प्रधानम् ।
तथा समुदयात् । यथा गङ्गास्रोतांसि त्रीणि रुद्रमूर्द्धनि पतितानि एकं स्रोतो जनयन्ति एवं त्रिगुणमव्यक्तमेकं व्यक्तं जनयति । यथा वा तन्तवः समुदिताः पटं जनयन्ति, एवमव्यक्तं गुणसमुदयान्महदादि जनयतीति त्रिगुणतः समुदयाच्च व्यक्तं जगत् प्रवर्तते ।
यस्मादेकस्मात् प्रधानाद्व्यक्तं तस्मादेकरूपेण भवितव्यम् – नैष दोषः परिणामतः सलिलवत् प्रतिप्रतिगुणाश्रयविशेषात् । एकस्मात् प्रधानात् त्रयो लोकाः समुत्पन्नाः तुल्यभावा न भवन्ति । देवाः सुखेन युक्ताः, मनुष्या दुःखेन, तिर्यञ्चो मोहेन । एकस्मात् प्रधानात् प्रवृत्तं व्यक्तं प्रतिप्रतिगुणाश्रयविशेषात् परिणामतः सलिलवद्भवति । प्रतिप्रतीति वीप्सा । गुणानामाश्रयो गुणाश्रयः, तद्विशेषः, तं गुणाश्रयविशेषं प्रतिनिधाय प्रतिप्रतिगुणाश्रयविशेषं परिणामात् प्रवर्तते व्यक्तम् । यथा – आकाशादेकरसं सलिलं पतितं नानारूपात् संश्लेषाद्भिद्यते तत्तद्रसान्तरैः, एवमेकस्मात् प्रधानात् प्रवृत्तास्त्रयो लोका नैकस्वभावा भवन्ति । देवेषु सत्त्वमुत्कटं, रजस्तमसी उदासीने, तेन तेऽत्यन्तसुखिनः । मनुष्येषु रज उत्कटं भवति, सत्त्वतमसी उदासीने, तेन तेऽत्यन्तदुःखिनः । तिर्यक्षु तम उत्कटं भवति, सत्त्वरजसी उदासीने, तेन तेऽत्यन्तमूढाः ॥ १६ ॥
एवमार्याद्वयेन प्रधानस्यास्तित्वमभ्युपगम्यते, इतश्चोत्तरं पुरुषास्तित्वप्रतिपादनार्थमाह –
संघातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् ।
पुरुषोऽस्ति भोक्तृभावात् कैवल्यार्थं प्रवृत्तेश्च ॥ १७ ॥
यदुक्तं व्यक्ताव्यक्तज्ञविज्ञानात् मोक्षः प्राप्यत इति, तत्र व्यक्तादनन्तरम् अव्यक्तं पञ्चभिः कारणैरधिगतम् । अव्यक्तवत् पुरुषोऽपि सूक्ष्मः, तस्याधुनाऽनुमितास्तित्वं प्रतिक्रियते । अस्ति पुरुषः, कस्मात् – संघातपरार्थत्वात् । योऽयं महदादिसंघातः स पुरुषार्थः, इत्यनुमीयते, अचेतनत्वात् पर्यङ्कवत् । यथा पर्यङ्कः प्रत्येकं गात्रोत्पलकपादपीठतूलीप्रच्छादनपटोपधानसंघातः परार्थो नहि स्वार्थः । पर्यङ्कस्य नहि किञ्चिदपि गात्रोत्पलाद्यवयवानां परस्परं कृत्यमस्ति । अतोऽवगम्यते, अस्ति पुरुषो यः पर्यङ्के शेते यस्यार्थे पर्यङ्कः । तत्परार्थमिदं शरीरं पञ्चानां महाभूतानां संघातो वर्तते । अस्ति पुरुषो यस्येदं भोग्यं शरीरं भोग्यमहदादिसंघातरूपं समुत्पन्नमिति ।
इतश्चात्मास्ति – त्रिगुणादिविपर्ययात् । यदुक्तं पूर्वस्यामार्यायां ’त्रिगुणमविवेकि विषय’ इत्यादि, तस्माद् विपर्ययात् । येनोक्तं ’तद्विपरीतस्तथा च पुमान्’ ।
अधिष्ठानात् । यथेह लंघनप्लवनधावनसमर्थैरश्वैर्युक्तो रथः सारथिनाधिष्ठितः प्रवर्तते तथा आत्माधिष्ठानाच्छरीरमिति । तथा चोक्तं षष्ठितन्त्रे – ’पुरुषाधिष्ठितं प्रधानं प्रवर्तते’ ।
अतोऽस्यात्मा – भोक्तृत्वात् । यथा मधुराम्ललवणकटुतिक्तकषायषड्रसोपबृंहितस्य संयुक्तस्यान्नस्य साध्यते, एवं महदादिलिङ्गस्य भोक्तृत्वाऽभावादस्ति स आत्मा यस्येदं भोग्यं शरीरमिति ।
इतश्च – कैवल्यार्थं प्रवृत्तेश्च । केवलस्य भावः कैवल्यम् । तन्निमित्तं या च प्रवृत्तिस्तस्याः स्वकैवल्यार्थं प्रवृत्तेः सकाशादनुमीयते, अस्त्यात्मेति । यतः सर्वो विद्वानविद्वांश्च संसारक्षयमिच्छति । एवमेभिर्हेतुभिरस्त्यात्मा शरीराद्व्यतिरिक्तः ॥ १७ ॥
अथ स किमेकः सर्वशरीरेऽधिष्ठाता मणिरसनात्मकसूत्रवत्, आहोस्वित् बहव आत्मानः प्रतिशरीरमधिष्ठातार इत्यत्रोच्यते –
जननमरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च ।
पुरुषबहुत्वं सिद्धं त्रिगुण्यविपर्ययाच्चैव ॥१८ ॥
जन्म च मरणं च करणानि च जन्ममरणकरणानि । तेषां प्रतिनियमात्, प्रत्येकनियमादित्यर्थः। यद्येकम् एवात्मा स्यात्तत एकस्य जन्मनि सर्व एव जायेरन् एकस्य मरणे सर्वेऽपि म्रियेरन्, एकस्य करणवैकल्ये बाधिर्यान्धत्वमूकत्वकुणित्वखञ्जत्वलक्षणे सर्वेऽपि बधिरान्धकुणिखञ्जाः स्युः । न चैवं भवति तस्माज्जन्ममरणकरणानां प्रतिनियमात् पुरुषबहुत्वं सिद्धम्।
इतश्च – अयुगपत्प्रवृत्तेश्च । युगपदेककालम्, न युगपदयुगपत् प्रवर्तनम् । यस्माद्युगपद्धर्मादिषु प्रवृत्तिर्दृश्यते । एके धर्मे प्रवृत्ताः, अन्येऽधर्मे, वैराग्येऽन्ये, ज्ञानेऽन्ये प्रवृत्ताः, तस्मादयुगपत्प्रवृत्तेश्च बहव इति सिद्धम् ।
किं चान्यत् – त्रैगुण्यविपर्ययाच्चैव । त्रिगुणभावविपर्ययाच्च पुरुषबहुत्वं सिद्धम् । यथा सामाण्ये जन्मनि एकः सात्त्विकः सुखी, अन्यो राजसो दुःखी, अन्यस्तामसो मोहवान् । एवं त्रैगुण्यविपर्ययाद्बहुत्वं सिद्धमिति ॥ १८ ॥
अकर्ता पुरुष इत्येतदुच्यते –
तस्माच्च विपर्यासात् सिद्धं साक्षित्वमस्य पुरुषस्य ।
कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च ॥ १९ ॥
तस्माच्च विपर्यासात् । तस्माच्च यथोक्तत्रैगुण्यविपर्यासात्, विपर्ययात् । निर्गुणः पुरुषो विवेकी भोक्तेत्यादिगुणानां पुरुषस्य यो विपर्यास उक्तः तस्मात् –
सत्त्वरजस्तमस्सु कर्तृभूतेषु साक्षित्वं सिद्धं पुरुषस्येति । योऽयमधिकृतो बहुत्वं प्रति । गुणा एव कर्तारः प्रवर्तन्ते, साक्षी नापि प्रवर्तते नापि निवर्तत एव ।
किं चान्यत्, कैवल्यम् । केवलभावः कैवल्यमन्यत्वमित्यर्थः । त्रिगुणेभ्यः केवलः अन्यः ।
माध्यस्थ्यम् मध्यस्थभावः । परिव्राजकवत् मध्यस्थः पुरुषः । यथा कश्चित् परिव्राजको ग्रामीणेषु कर्षणार्थेषु प्रवृत्तेषु केवलो मध्यस्थः, पुरुषोऽप्येषु गुणेषु वर्तमानेषु न प्रवर्तते ।
तस्मात्, द्रष्टृत्वमकर्तृभावश्च । यस्मान्मध्यस्थस्तस्मात् द्रष्टा तस्मादकर्ता पुरुषस्तेषां कर्मणामिति । सत्त्वरजस्तमांसि त्रयो गुणाः कर्मकर्तृभावेन प्रवर्तन्ते न पुरुषः, एवं पुरुषस्यास्तित्वं च सिद्धम् ॥ १९ ॥
यस्मादकर्ता पुरुषस्तत्कथमध्यवसायं करोति धर्मं करिष्याम्यधर्मं न करिष्यामीति । अतः, कर्ता भवति – न च कर्ता पुरुषः -, एवमुभयथा दोषः स्यादिति । अत उच्यते –
तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुणकर्तृत्वे च तथा कर्तेव भवयुदासीनः ॥ २० ॥
इह पुरुषश्चेतनावान् । तेन चेतनावभाससंयुक्तं महदादि लिङ्गं चेतनावदिव भवति । यथा लोके घटः शीतसंयुक्तः शीतः, उष्णसंयुक्त उष्णः, एवं महदादि लिङ्गं तस्य संयोगात् पुरुषसंयोगाच्चेतनावदिव भवति । तस्माद्गुणा अध्यवसायं कुर्वन्ति न पुरुषः ।
यद्यपि लोके पुरुषः कर्ता गन्तेत्यादि प्रयुज्यते तथाऽप्यकर्ता पुरुषः । कथम् – गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः । गुणानां कर्तृत्वे सति उदासीनोऽपि पुरुषः कर्तेव भवति, न कर्ता । अत्र दृष्टान्तो भवति – यथा अचौरश्चौरैः सह गृहीतश्चौर इत्यवगम्यते, एवं त्रयो गुणाः कर्तारस्तैः संयुक्तः पुरुषोऽकर्ताऽपि कर्ता भवति, कर्तृसंयोगात् । एवं व्यक्ताव्यक्तज्ञानां विभागो विख्यातः, यद्विभागान्मोक्षप्राप्तिरिति ॥ २० ॥
अथैतयोः प्रधानपुरुषयोः किं हेतुः संघातः – उच्यते –
पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य ।
पङ्ग्वन्धवदुभयोरपि संयोगास्तत्कृतः सर्गः ॥ २१ ॥
पुरुषस्य प्रधानेन सह संयोगो दर्शनार्थम् । प्रकृतिं महदादिकार्यं भूतादिपर्यन्तं पुरुषः पश्यति ।
एतदर्थं प्रधानस्यापि पुरुषेण संयोगः कैवल्यार्थम् ।
स च संयोगः पङ्ग्वन्धवदुभयोरपि द्रष्टव्यः । यथा – एकः पङ्गुरेकश्चान्धः, एतौ द्वावपि गच्छन्तौ, महता सामर्थ्येनाटव्यां सार्थस्य स्तेनकृतादुपप्लवात्, स्वबन्धुपरित्यक्तौ दैवादितश्चेतश्च चेरतुः । स्वगत्या च तौ संयोगमुपयातौ । पुनस्तयोः स्ववचसोर्विश्वस्तत्वेन संयोज्गो गमनार्थं दर्शनार्थं च भवति । अन्धेन पङ्गुः स्वस्कन्धमारोपितः एवं शरीरारूढपङ्गुदर्शितेन मार्गेणान्धो याति, पङ्गुश्चान्धस्कन्धारूढः । एवं पुरुषे दर्शनशक्तिरस्ति पङ्गुवत्, न क्रिया । प्रधाने क्रियाशक्तिरस्त्यन्धवत्, न दर्शनशक्तिः । यथा वा अनयोः पङ्ग्वन्धयोः कृतार्थयोर्विभागो भविष्यतीप्सितस्थानप्राप्तयोः, एवं प्रधानमपि पुरुषस्य मोक्षं कृत्वा निवर्तते, पुरुषोऽपि प्रधानं दृष्ट्वा कैवल्यं गच्छति । तयोः कृतार्थयोर्विभागो भविष्यति ।
किं चान्यत्, तत्कृतः सर्गः । तेन संयोगेन कृतस्तत्कृतः सर्गः, सृष्टिः । यथा स्त्रीपुरुषसंयोगात् सुतोत्पत्तिस्तथा प्रधानपुरुषसंयोगात् सर्गस्योत्पत्तिः ॥ २१ ॥
इदानीं सर्वविभागदर्शनार्थमाह –
प्रकृतेर्महान्, ततोऽहङ्कारः, तस्माद्गणश्च षोडशकः ।
तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥ २२ ॥
प्रकृतिः, प्रधानं, ब्रह्म, अव्यक्तं, बहुधात्मकं मायेति पर्यायः । अलिङ्गस्य प्रकृतेः सकाशान्महानुत्पद्यते। महान्, बुद्धिः, आसुरी, मतिः, ख्यातिः, ज्ञानं, इति प्रज्ञापर्यायैरुत्पद्यते ।
तस्माच्च महतोऽहङ्कार उत्पद्यते । अहङ्कारः, भूतादिः, वैकृतः, तैजसः, अभिमान इति पर्यायाः ।
तस्माद्गणश्च षोडशकः । तस्मादहङ्कारात् षोडशकः षोडशस्वरूपो गण उत्पद्यते । स यथा – पञ्चतन्मात्राणि । शब्दतन्मात्रं, स्पर्शतन्मात्रं, रूपतन्मात्रं, रसतन्मात्रं, गन्धतन्मात्रमिति । तत एकादशेन्द्रियाणि । श्रोत्रं, त्वक्, चक्षुषी, जिह्वा, घ्राणमिति पञ्च बुद्धीन्द्रियाणि । वाक्पाणिपादपायूपस्थाः पञ्च कर्मेन्द्रियाणि । उभयात्मकमेकादशं मनः । एष षोडशको गणोऽहङ्कारादुत्पद्यते । किञ्च, पञ्चभ्यः पञ्च भूतानि । तस्मात् षोडशकात् गणात् पञ्चभ्यस्तन्मात्रेभ्यः सकाशात् पञ्च वै महाभूतान्युत्पद्यन्ते । यदुक्तं – शब्दतन्मात्रादाकाशम्, स्पर्शतन्मात्राद्वायुः, रूपतन्मात्रात्तेजः, रसतन्मात्रादापः, गन्धतन्मात्रात् पृथिवी । एवं पञ्चभ्यः परमाणुभ्यः पञ्च महाभूतान्युत्पद्यन्ते ॥ २२ ॥
यदुक्तं – व्यक्ताव्यक्तज्ञविज्ञानान्मोक्ष इति, तत्र महदादिभूतान्तं त्रयो विंशतिभेदं व्याख्यातम्। अव्यक्तमपि ’भेदानां परिमाणात्’ इत्यादिना व्याख्यातम् । पुरुषोऽपि ’संघातपरार्थत्वात्’ इत्यादिभिर्हेतुभिर्व्याख्यातः । एवमेतानि पञ्चविंशतितत्त्वानि । यस्यैस्त्रैलोक्यं व्याप्तं जानाति । तस्य भावोऽस्तित्वं, तत्त्वम् । यथोक्तम् –
पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे रतः ।
जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥
तानि यथा – प्रकृतिः, पुरुषः, बुद्धिः, अहङ्कारः, पञ्च तन्मात्राणि, एकादशेन्द्रियाणि, पञ्च महाभूतानि । इत्येतानि पञ्चविंशतितत्त्वानि । तत्रोक्तं, प्रकृतेर्महानुत्पद्यते । तस्य किं लक्षणमेतदाह –
अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् ।
सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम् ॥ २३ ॥
अध्यवसायो बुद्धिलक्षणम् । अध्यवसानमध्यवसायः । यथा बीजे भविष्यद्वृत्तिकोऽङ्कुरस्तद्वदध्यवसायः । अयं घटः, अयं पटः, इत्येवं सति या सा बुद्धिरिति लक्ष्यते ।
सा च बुद्धिरष्टाङ्गिका, सात्त्विकतामसरूपभेदात् । तत्र बुद्धेः सात्त्विकं रूपं चतुर्विधं भवति – धर्मः, ज्ञानं, वैराग्यं, ऐश्वर्यं चेति । तत्र धर्मो नाम दयादानयमनियमलक्षणः । तत्र यमा नियमाश्च पातञ्जलेऽभिहिताः । ’अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः’ (यो.सू.२,३०) । शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः’ (यो.सू.२,३२) । ज्ञानं, प्रकाशः, अवगमः, भानमिति पर्यायाः । तच्च द्विविधम् । बाह्यमाभ्यन्तरं चेति । तत्र बाह्यं नाम वेदाः शिक्षाकल्पव्याकरणनिरुक्तच्छन्दोज्योतिषाख्यषडङ्गसहिताः । पुराणानि, न्यायमीमांसाधर्मशास्त्राणि चेति । आभ्यन्तरं प्रकृतिपुरुषज्ञानम् । इयं प्रकृतिः सत्त्वरजस्तमसां साम्यावस्था, अयं पुरुषः सिद्धो निर्गुणो व्यापी चेतन इति । तत्र बाह्यज्ञानेन लोकपङ्क्तिर्लोकानुराग इत्यर्थः, आभ्यन्तरेण ज्ञानेन मोक्ष इत्यर्थः । वैराग्यमपि द्विविधं, बाह्यमाभ्यन्तरं च । बाह्यं दृष्टविषयवैतृष्ण्यं, अर्जनरक्षणक्षयसंगहिंसादोषदर्शनात् विरक्तस्य । आभ्यन्तरं – प्रधानमप्यत्र स्वप्नेन्द्रजालसदृशमिति विरक्तस्य मोक्षेप्सोर्यदुत्पद्यते तदाभ्यन्तरं वैराग्यम् । ऐश्वर्यमीश्वरभावः । तच्चाष्टगुणम् –अणिमा, महिमा, गरिमा, लघिमा, प्राप्तिः, प्राकाम्यं, ईशित्वं, वशित्वं, यत्रकामावसायित्वं चेति । अणोर्भावोऽणिमा, सूक्ष्मो भूत्वा जगति विचरतीति । महिमा, महान् भूत्वा विचरतीति, लघिमा, मृणालीतूलावयवादपि लघुतया पुष्पकेसराग्रेष्वपि तिष्ठति । प्राप्तिः, अभिमतं वस्तु यत्रतत्रावस्थितं प्राप्नोति । प्राकाम्यं, प्रकामतो यदेवेच्छति तदेव विदधाति । ईशित्वं, प्रभुतया त्रैलोक्यमपि ईष्टे । वशित्वं, सर्वं वशीभवति । यत्रकामावसायित्वं, ब्रह्मादिस्तम्बपर्यन्तं यत्र कामस्तत्रैवास्य स्वेच्छया स्थानासनविहारानाचरतीति । चत्वारि एतानि बुद्धेः सात्त्विकानि रूपाणि। यदा सत्त्वेन रजस्तमसी अभिभूते तदा पुमान् बुद्धिगुणान् धर्मादीनाप्नोति ।
किं चान्यत् तामसमस्माद्विपर्यस्तम् । अस्मात् धर्मादेर्विपरीतं तामसं बुद्धिरूपम् । तत्र धर्माद्विपरीतोऽधर्मः । एवमज्ञानं, अवैराग्यं, अनैश्वर्यमिति । एवं सात्त्विकैस्तामसैः स्वरूपैरष्टाङ्गा बुद्धिस्त्रिगुणादव्यक्तादुत्पद्यते ॥ २३ ॥
एवं बुद्धिलक्षणमुक्तं, अहङ्कारलक्षणमुच्यते –
अभिमानोऽहङ्कारस्तस्माद्द्विविधः प्रवर्तते सर्गः ।
एकादशकश्च गणस्तन्मात्रः पञ्चकश्चैव ॥ २४ ॥
एकादशकश्च गणः । एकादशेन्द्रियाणि । तथा तन्मात्रो गणः पञ्चकः, पञ्चलक्षणोपेतः । शब्दतन्मात्रस्पर्शतन्मात्ररूपतन्मात्ररसतन्मात्रगन्धतन्मात्रलक्षणोपेतः ॥ २४ ॥
किं लक्षणात् सर्ग इत्येतदाह –
सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् ।
भूतादेस्तन्मात्रः स तामसः, तैजसादुभयम् ॥ २५ ॥
सत्त्वेनाभिभूते यदा रजस्तमसी अहङ्कारे भवतस्तदा सोऽहङ्कारः सात्त्विकः । तस्य च पूर्वाचार्यैः संज्ञा कृता वैकृत इति । तस्मात् वैकृतात् अहङ्कारादेकाशक इन्द्रियगण उत्पद्यते । तस्मात् सात्त्विकानि विशुद्धानीन्द्रियाणि स्वविषयसमर्थानि । तस्मादुच्यते – सात्त्विक एकादशकः इति ।
किं चान्यत्, भूतादेस्तन्मात्र्अः स तामसः । तमसाऽभिभूते सत्त्वरजसी अहङ्कारे यदा भवतः सोऽहङ्कारस्तामस उच्यते । तस्य पूर्वाचार्यकृता संज्ञा भूतादिः । तस्माद्भूतादेः अहङ्कारात् तन्मात्रः पञ्चको गण उत्पद्यते । भूतानामादिभूतस्तमोबहुलस्तेनोक्तः स तामस इति । तस्माद्भूतादेः पञ्चतन्मात्रको गणः ।
किं च, तैजसादुभयम् । यदा रजसाभिभूते सत्त्वतमसी भवतस्तदा तस्मात् सोऽहङ्कारस्तैजस इति संज्ञा लभते । तस्मात्तैजसादुभयमुत्पद्यते । उभयमिति एकादशो गणः, तन्मात्रः पञ्चकः । योऽयं सात्त्विकोऽहङ्कारो वैकृतिको वैकृतो भूत्वा एकादशेन्द्रियाण्युत्पादयति स तैजसमहङ्कारं सहायं गृह्णाति । सात्त्विको निष्क्रियः, स तैजसयुक्त इन्द्रियोत्पत्तौ समर्थः । तथा तामसोऽहङ्कारो भूतादिसंज्ञितो निष्क्रियत्वात् तैजसेनाहङ्कारेण क्रियावता युक्तस्तन्मात्राण्युत्पादयति । तेनोक्तं – तैजसादुभयमिति । एवं तैजसेनाहङ्कारेणेन्द्रियाण्येकादश पञ्चतन्मात्राणि कृतानि भवन्ति ॥ २५ ॥
सात्त्विक एकादशक इत्युक्तः, यो वैकृतात् सात्त्विकादहङ्कारादुत्पद्यते तस्य का संज्ञेत्याह –
बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनस्पर्शनकानि ।
वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्याहुः ॥ २६ ॥
चक्षुरादीनि स्पर्शनपर्यन्तानि बुद्धीन्द्रियाण्युच्यन्ते । स्पृश्यतेऽनेन इति स्पर्शनं, त्वगिन्द्रियम् । तद्वाची सिद्धं स्पर्शनशब्दोऽस्ति, तेनेदं पठ्यते स्पर्शनकानीति । शब्दस्पर्शरूपरसगन्धान् पञ्च विषयान् बुध्यन्ते अवगच्छन्तीति पञ्चबुद्धीन्द्रियाणि ।
वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्याहुः । कर्म कुर्वन्तीति कर्मेन्द्रियाणि । तत्र वाक् वदति, हस्तौ नानाव्यापारं कुरुतः, पादौ गमनागमनम्, पायुरुत्सर्गं करोति, उपस्थ आनन्दं प्रजोत्पत्त्या॥२६॥
एवं बुद्धीन्द्रियकर्मेन्द्रियभेदेन दश इन्द्रियाणि व्याख्यातानि । मन एकादशं किमात्मकं किंस्वरूपं चेति तदुच्यते –
उभयात्मकमत्र मनः संकल्पकमिन्द्रियं च साध्यर्म्यात् ।
गुणपरिणामविशेषान्नानात्वं बाह्यभेदाश्च ॥ २७ ॥
अत्रेन्द्रियवर्गे मन उभयात्मकम् । बुद्धीन्द्रियेषु बुद्धीन्द्रियवत्, कर्मेन्द्रियेषु कर्मेन्द्रियवत् । कस्मात्, बुद्धीन्द्रियाणां प्रवृत्तिं कल्पयति कर्मेन्द्रियाणां च । तस्मादुभयात्मकं मनः । सङ्कल्पयतीति सङ्कल्पकम् ।
किं चान्यत्, इन्द्रियं च साधर्म्यात् । समानधर्मभावात् । सात्त्विकाहङ्काराद् बुद्धीन्द्रियाणि कर्मेन्द्रियाणि मनसा सहोत्पद्यमानानि मनसः साधर्म्यं प्रति (पादयन्ति) । तस्मात् साधर्म्यान्मनोऽपीन्द्रियम् । एवमेतान्येकादशेन्द्रियाणि सात्त्विकाद्वैकृतादहङ्कारादुत्पन्नानि । तत्र मनसः का वृत्तिरिति – सङ्कल्पो वृत्तिः । बुद्धीन्द्रियाणां शब्दादयो वृत्तयः, कर्मेन्द्रियाणां वचनादयः।
अथैतानीन्द्रियाणि भीन्नानि भिन्नार्थग्राहकाणि किमीश्वरेण उत स्वभावेन कृतानि, यतः प्रधानबुद्ध्यहङ्कारा अचेतनाः, पुरुषोऽप्यकर्ता, इत्यत्राह – इह सांख्यानां स्वभावो नाम कश्चित्कारणमस्ति । अत्रोच्यते – गुणपरिणाम-विशेषान्नानात्वं बाह्यभेदाश्च । इमान्येकादशेन्द्रियाणि शब्दस्पर्शरूपरसगन्धाः पञ्चानाम्, वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम्, संकल्पश्च मनसः । एवमेते भिन्नानामेवेन्द्रियाणाम् अर्थाः, गुणपरिणामविशेषात् – गुणानां परिणामो गुणपरिणामः । तस्य विशेषात् इन्द्रियाणां ननात्वं बाह्यभेदाश्च । अथैतन्नानात्वं नेश्वरेण, नाहङ्कारेण, न बुद्ध्या, न प्रधानेन, न पुरुषेण, स्वभावात् कृतगुणपरिणामेनेति । गुणानामचेतनत्वान्न प्रवर्तते; प्रवर्तत एव । कथं – वक्ष्यतीहैव –
वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषस्य विमोक्षार्थं तथा प्रवृत्तिः प्रधानस्य ॥
एवमचेतना गुणाः एकादशेन्द्रियभावेन प्रवर्तन्ते । विशेषा अपि तत्कृता एव । येनोच्चैः प्रदेशे चक्षुरवलोकनाय स्थितं, तथा घ्राणं, तथा श्रेत्रं, तथा जिह्वा, स्वदेशे स्वार्थग्रहणाय । एवं कर्मेन्द्रियाण्यपि यथायथं स्वार्थसमर्थानि स्वदेशावस्थितानि स्वभावतो गुणपरिणामविशेषादेव, न तदर्थ अपि । यत उक्तं शास्त्रान्तरे, “गुणा गुणेषु वर्तन्ते” । गुणानां या वृत्तिः सा गुणविषया एवेति बाह्यार्था विज्ञेया गुणकृता एवेत्यर्थः प्रधानं यस्य कारणमिति ॥ २७ ॥
अथेन्द्रियस्य कस्य का वृत्तिरित्युच्यते –
शाब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः ।
वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् ॥ २८ ॥
मात्रशब्दो विशेषार्थः, अविशेषव्यावृत्त्यर्थः । यथा भिक्षामात्रं लभ्यते नान्यो विशेष इति, तथा चक्षू रूपमात्रे न रसादिषु । एवं शेषाण्यपि । तद्यथा चक्षुषो रूपं, जिह्वाया रसः, घ्राणस्य गन्धः, श्रोत्रस्य शब्दह्, त्वचः स्पर्शः । एवमेषां बुद्धीन्द्रियाणां वृत्तिः कथिता ।
कर्मेन्द्रियाणां वृत्तिः कथ्यते – वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् । कर्मेन्द्रियाणामित्यर्थः । वाचो वचनं, हस्तयोरादानं, पादयोर्विहरणं, पायोर्भुक्तस्याहारस्य परिणतमलोत्सर्गः, उपस्थस्यानन्दः सुतोत्पत्तिः, विषयाः वृत्तिरिति सम्बन्धः ॥ २८ ॥
अधुना बुद्ध्यहङ्कारमनसामुच्यते –
स्वालक्षण्यं वृत्तिस्त्रयस्य सैषा भवत्यसामान्या ।
सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ॥ २९ ॥
स्वलक्षणस्वभावा स्वालक्षण्या । अध्यवसायो बुद्धिरिति लक्षणमुक्तं, सैव बुद्धिवृत्तिः । तथा अभिमानोऽहङ्कार इत्यभिमानलक्षणोऽभिमानवृत्तिश्च । संकल्पकं मन इति लक्षणमुक्तं, तेन संकल्प एव मनसो वृत्तिः । त्रयस्य बुद्ध्यहङ्कारमनसां स्वालक्षण्या वृत्तिः ।
असामान्या । या प्रागभिहिता बुद्धीन्द्रियाणां च वृत्तिः साऽप्यसामान्यैवेति ।
इदानीं सामान्या वृत्तिराख्यायते । सामान्यकरणवृत्तिः, सामान्येन करणानां वृत्तिः । प्राणाद्या वायवः पञ्च । प्राणापानसमानोदानव्याना इति पञ्च वायवः सर्वेन्द्रियाणां सामान्या वृत्तिः । यतः प्राणो नाम वायुः मुखनासिकान्तर्गोचरः, तस्य यत् स्पन्दनं कर्म तत् त्रयोदशविधस्यापि सामान्या वृत्तिः । सति प्राणे यस्मात् करणानामात्मलाभ इति । प्राणोऽपि पञ्जरशकुनिवत् सर्वस्य चलनं करोतीति । प्राणनात् प्राण इत्युच्यते । तथा अपनयनादपानः, तत्र यत्स्पन्दनं तदपि सामान्यवृत्तिरिन्द्रियस्य । तथा समानो मध्यदेशवर्ती य आहारादीनां समं नयनात् समानो वायुः, तत्र यत्स्पन्दनं तत् सामान्यकरणवृत्तिः । तथा ऊर्ध्वारोहणादुत्कर्षात् उन्नयनाद्वा उदानो नाभिदेशमस्तकान्तर्गोचरः, तत्रोदाने यत्स्पन्दनं तत् सर्वेन्द्रियाणां सामान्या वृत्तिः । किं च, शरीरव्याप्तिरभ्यन्तरविभागश्च येन क्रियतेऽसौ शरीरव्याप्त्या आकाशवद्व्यानः, तत्र यत् स्पन्दनं तत् करणजालस्य सामान्या वृत्तिरिति । एवमेते पञ्च वायवः सामान्यकरणवृत्तिरिति व्याख्याताः, त्रयोदशविधस्यापि करणसामान्या वृत्तिरित्यर्थः ॥ २९ ॥
युगपच्चतुष्टयस्य तु वृत्तिः क्रमशश्च तस्य निर्दिष्टा ।
दृष्टे तथाऽप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः ॥ ३० ॥
युगपच्चतुष्टयस्य । बुद्ध्यहङ्कारमनसामेकैकेन्द्रियसम्बन्धे सति चतुष्टयं भवति । चतुष्टयस्य दृष्टे प्रतिविषयाध्यवशाये युगपद् वृत्तिः । बुद्ध्यहङ्कारमनश्चक्षूंषि युगपदेककालं रूपं पश्यन्ति, स्थाणुरयमिति । बुद्ध्यहङ्कारमनोजिह्वा युगपद्रसं गृह्णाति बुद्ध्यहङ्कारमनोघ्राणानि युगपद्गन्धं गृह्णन्ति । तथा त्वक्श्रोत्रे अपि ।
किं च क्रमशश्च तस्य निर्दिष्टा । तस्येति चतुष्टयस्य क्रमशश्च वृत्तिर्भवति । यथा कश्चित् पथि गच्छन् दूरादेव दृष्ट्वा स्थाणुरयं पुरुषो वेति संशये सति तत्रोपरूढं तल्लिङ्गं पश्यति शकुनिं वा, ततस्तस्य मनसा संकल्पोते संशये व्यवच्छेदभूता बुद्धिर्भवति स्थाणुरयमिति । अतः अहङ्कारश्च निश्चयार्थः स्थाणुरेवेति । एवं बुद्ध्यहङ्कारमनश्चक्षुषां क्रमशो वृत्तिर्दृष्टा । यथा रूपे तथा शब्दादिष्वपि बोद्धव्या । दृष्टे, दृष्टविषये ।
किं चान्यत्, तथाऽप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः । अदृष्टेऽनागतेऽतीते च काले बुद्ध्यहङ्कारमनसां रूपे चक्षुःपूर्विका त्रयस्य वृत्तिः, स्पर्शे त्वक्पूर्विका, गन्धे घ्राणपूर्विका, रसे रसनपूर्विका, शब्दे श्रवणपूर्विका बुद्ध्यहङ्कारमनसामनागते भविष्यति काले अतीते च तप्तूर्विका क्रमशो वृत्तिः, वर्तमाने युगपत् क्रमशश्चेति॥३०॥
किं च –
स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् ।
पुरुषार्था एव हेतुर्न केनचित्कार्यते करणम् ॥ ३१ ॥
स्वां स्वामिति वीप्सा । बुद्ध्यहङ्कारमनांसि स्वां स्वां वृत्तिं परस्पराकूतहेतुकां, ’आकूतादरसम्भ्रम’ इति । प्रतिपद्यन्ते पुरुषार्थकरणाय बुद्धेरहङ्कारादयः । बुद्धिरहङ्काराकूतं ज्ञात्वा स्वस्वविषयं प्रतिपद्यते ।
किमर्थमिति चेत् – पुरुषार्थ एव हेतुः । पूरुषार्थः कर्तव्य इत्येवमर्थं गुणानां प्रवृत्तिः । तस्मादेतानि करणानि पुरुषार्थं प्रकाशयन्ति । (यद्यचेतनानीति) कथं स्वयं प्रवर्तन्ते – न केनचित् कार्यते करणम् । पुरुषार्थ एवैकः कारयतीति वाक्यार्थः । न केनचित् ईश्वरेण पुरुषेण कार्यते प्रबोध्यते करणम् ॥३१॥
बुद्ध्यादि कतिविधं तदित्युच्यते –
करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् ।
कार्यं च तस्य दशधाऽऽहार्यं धार्यं प्रकाश्यं च ॥ ३२ ॥
करणं महदादि त्रयोदशविधं बोद्धव्यम् । पञ्च बुद्धीन्द्रियाणि चक्षुरादीनि, पञ्च कर्मेन्द्रियाणि वागादीनि इति त्रयोदशविधं करणम् ।
तत्किं करोतीत्येतदाह – तदाहरणधारणप्रकाशकरम् । तत्राहरणं धारणं च कर्मेन्द्रियाणि कुर्वन्ति, प्रकाश बुद्धीन्द्रियाणि ।
कतिविधं कार्यं तस्येति तदुच्यते । कार्यं च तस्य दशधा । तस्य करणस्य कार्यं कर्तव्यं दशधा दशप्रकारम् । शब्दस्पर्शरूपरसगन्धाख्यं, वचनादानविहरणोत्सर्गानन्दाख्यमेतद्दशविधं कार्यं, बुद्धीन्द्रियैः प्रकाशितं कर्मेन्द्रियाण्याहरन्ति धारयन्ति चेति ॥ ३२ ॥
किं च –
अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् ।
साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम् ॥ ३३ ॥
अन्तःकरणमिति । बुद्ध्यहङ्कारमनांसि त्रिविधं, महदादिभेदात् ।
दशधा बाह्यं च । बुद्धीन्द्रियाणि पञ्च, कर्मेन्द्रियाणि पञ्च, दशविधमेतत्करणं बाह्यम् ।
तत् त्रयस्य विषयाख्यम् । बुद्ध्यहङ्कारमनसां भोग्यम् ।
साम्प्रतकालम् । श्रोत्रं वर्तमानमेव शब्दं शृणोति नातीतं न च भविष्यन्तम्, चक्षुरपि वर्तमानं रूपं पश्यति नातीतं नाऽनागतम्, त्वग् वर्तमानं स्पर्शम्, जिह्वा वर्तमानं रसम्, नासिका वर्तमानं गन्धं नातीतानागतं चेति एवं कर्मेन्द्रियाणि – वाग् वर्तमानं शब्दमुच्चारयति नातीति नाऽनागतं च, पाणी वर्तमानं घटमाददाते नातीतमनागतं च, पादौ वर्तमानं पन्थानं विहरतो नातीतं नाप्यनागतम्, पायूपस्थौ च वर्तमानावुत्सर्गानन्दौ कुरुतो नातीतौ नाऽनागतौ । एवं बाह्यं करणं साम्प्रतकालमुक्तम् ।
त्रिकालमाभ्यन्तं करणम् । बुद्ध्यहङ्कारमनांसि त्रिकालविषयाणि बुद्धिर्वर्तमानं घटं बुध्यते अतीतमनागतं चेति । अहङ्कारो वर्तमानेऽभिमानं करोति अतीतेऽनागते च । तथा मनो वर्तमाने संकल्पं कुरुते अतीतेऽनागते च । एवं त्रिकालमाभ्यन्तरं करणमिति ॥ ३३ ॥
इदानीमिन्द्रियाणि कति सविशेषं विषयं गृह्णन्ति, कानि निर्विशेषमिति तदुच्यते –
बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयिणी ।
वाग्भवति शब्दविषया शेषाणि तु पञ्चविषयाणि ॥ ३४ ॥
बुद्धीन्द्रियाणि । तानि सविशेषं विषयं गृह्णन्ति । सविशेषविषयं मानुषाणां शब्दस्पर्शरूपरसगन्धान् सुखदुःखमोहयुक्तान् बुद्धीन्द्रियाणि प्रकाशयन्ति । देवानां निर्विशेषान् विषयान् प्रकाशयन्ति ।
तथा कर्मेन्द्रियाणां मध्ये वाग्भवति शब्दविषया । देवानां मानुषाणां च वाग्वदति श्लोकादीनुच्चारयति । तस्माद् देवानां मनुष्याणां च वागिन्द्रियं तुल्यम् ।
शेषाण्यपि वाग्व्यतिरिक्तानि पाणिपादपायूपस्थसंज्ञितानि पञ्चविषयाणि । पञ्च विषयाः शब्दादयो येषां तानि पञ्चविषयाणि । शब्दस्पर्शरूपरसगन्धाः पाणौ सन्ति । पञ्चशब्दादिलक्षणायां भुवि पादो विहरति । पाय्विन्द्रियं पञ्चक्लृप्तम् उत्सर्गं करोति । तथोपस्थेन्द्रियं पञ्चलक्षणं शुक्रमानन्दयति ॥ ३४ ॥
सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात् ।
तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥ ३५ ॥
सान्तःकरणा बुद्धिः । अहङ्कारमनःसहितेत्यर्थः । यस्मात् सर्वं विषयमवगाहते गृह्णाति, त्रिष्वपि कालेषु शब्दादीन् गृह्णाति, तस्मात् त्रिविधं करणं द्वारि । द्वाराणि शेषाणि । करणानीति वाक्यशेषः ॥ ३५ ॥
किं चान्यत् –
एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः ।
कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ ३६ ॥
यानि करणान्युक्तानि । एते गुणविशेषाः किं विशिष्टाः प्रदीपकल्पाः प्रदीपवद्विषयप्रकाशकाः।
परस्परविलक्षणाः । असदृशाः, भिन्नविषया इत्यर्थः । (गुणविषया इत्यर्थः) ।
गुणविशेषाः । गुणेभ्यो जाताः ।
कृत्स्नं पुरुषस्यार्थम् । बुद्धीन्द्रियाणि, कर्मेन्द्रियाणि, अहङ्कारः, मनश्चैतानि स्वं स्वमर्थं पुरुषस्य प्रकाश्य बुद्धौ प्रयच्छन्ति, बुद्धिस्थं कुर्वन्तीत्यर्थः । यतो बुद्धिस्थं सर्वं विषयसुखादिकं पुरुष उपलभ्यते ॥ ३६ ॥
इदं चान्यत् –
सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः ।
सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् ॥ ३७ ॥
सर्वेन्द्रियगतं त्रिष्वपि कालेषु, सर्वम् । प्रत्युपभोगं, उपभोगं प्रति । देवमनुष्यतिर्यग्बुद्धीन्द्रियकर्मेन्द्रियद्वारेण सान्तःकरणा बुद्धिः साधयति सम्पादयति यस्मात्, तस्मात् सैव च विशिनष्टि प्रधानपुरुषयोर्विषयविभागं करोति । प्रधानपुरुषान्तरं नानात्वमित्यर्थः ।
सूक्ष्ममित्यनधिकृततपश्चरणैरप्राप्यम् । इयं प्रकृतिः सत्त्वरजस्तमसां साम्यावस्था, इयं बुद्धिः, अयमहङ्कारः, एतानि पञ्चतन्मात्राणि, एकादशेन्द्रियाणि, पञ्च महाभूतानि, अयमन्यः पुरुष एभ्यो व्यतिरिक्तः, इत्येवं बोधयति बुद्धिर्यस्यावायात् अपवर्गो भवति ॥ ३७ ॥
पूर्वमुक्तं विशेषाविशेषविषयाणि, तत् के विषयाः तान् दर्शयति – तन्मात्राण्यविशेषाः तेभ्यो भूतानि पञ्च पञ्चभ्यः ।
तन्मात्राण्यविशेषाः तेभ्यो भूतानि पञ्च पञ्चभ्यः ।
एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च ॥ ३८ ॥
यानि पञ्च तन्मात्राणि अहङ्कारादुत्पद्यन्ते तानि – शब्दतन्मात्रं, स्पर्शतन्मात्रं, रूपतन्मात्रं, गन्धतन्मात्रं – एतानि अविशेषा उच्यन्ते । देवानामेते सुखलक्षणा विषया दुःखमोहरहिताः ।
तेभ्यः पञ्चभ्यः तन्मात्रेभ्यः पञ्च महाभूतानि, पृथिव्यप्तेजोवाय्वाकाशसंज्ञानि, यान्युत्पद्यन्ते, एते स्मृता विशेषाः । गन्धतन्मात्रात् पृथिवी, रसतन्मात्रादापः, स्पर्शतन्मात्राद्वायुः, शब्दतन्मात्रादाकाशम्, इत्येवमुत्पन्नानि एतानि महाभूतानि ।
एते विशेषा मानुषाणां विषयाः, शान्ताः सुलक्षणाः, घोरा दुःखलक्षणाः, मूढा मोहजनकाः । यथाकाशं कस्यचिदनवकाशादन्तर्गृहादेर्निर्गतस्य सुखात्मकं शान्तं भवति, तदेव पन्थानं गच्छतो वनमार्गाद् भ्रष्टस्य दिङ्मोहान्मूढं भवति । एवं वायुर्घर्मार्तस्य शान्तो भवति, शीतार्त्तस्य घोरः, धूलीशर्कराविमिश्रोऽतिवान् मूढ इति। एवं तेजःप्रभृतिषु द्रष्टव्यम् ॥ ३८ ॥
अथाऽन्ये विशेषाः –
सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः ।
सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते ॥ ३९ ॥
सूक्ष्माः तन्मात्राणि । यत्संगृहीतं सूक्ष्मशरीरं महदादिलिङ्गं सदा तिष्ठति संसरति च ते सूक्ष्माः ।
तथा मातापितृजाः स्थूलशरीरोपचायका ऋतुकाले मातापितृसंयोगे शोणितशुक्रमिश्रीभावेन उदरान्तः सूक्ष्मशरीरस्योपचयं कुर्वन्ति । तत् सूक्ष्मशरीरं पुनर्मातुरशितपीतनानाविधरसेन नाभीनिबन्धेनाप्यायते ।
तथा प्रारब्धं शरीरं सूक्ष्मैर्मातापितृजैश्च सह महाभूतैः त्रिधा विशेषैः पृष्ठोदरजङ्घाकट्युरःशिरःप्रभृति षाट्कौशिकं पाञ्चभौतिकं, रुधिरमांसस्नायुशुक्रास्थिमज्जासंभृतं – आकाशोऽवकाशदानात्, वायुर्वर्धनात्, तेजःपाकात्, आपः सङ्ग्रहात्, पृथिवी धारणात् – समस्तावयवोपेतं मातुरुदराद्बहिर्भवति । एवमेते त्रिविधा विशेषाः स्युः ।
अत्राह – के नित्याः के वाऽनित्याः – सूक्ष्मास्तेषां नियताः । सूक्ष्मास्तन्मात्रसंज्ञकास्तेषां मध्ये नियता नित्याः । तैरारब्धं शरीरं, कर्मवशात् पशुमृगपक्षिसरीसृपस्थावरजातिषु संसरति, धर्मवशादिन्द्रादिलोकेषु । एवमेतत् नियतं सूक्ष्मशरिरं संसरति न यावत् ज्ञानमुत्पद्यते । उत्पन्ने ज्ञाने विद्वान् शरीरं त्यक्त्वा मोक्षं गच्छति । तस्मादेते विशेषाः सूक्ष्माः नित्या इति ।
मातापितृजा निवर्तन्ते । तत् सूक्ष्मशरीरं परित्यज्य इहैव प्राणत्यागवेलायां मातापितृजा निवर्तन्ते । मरणकाले मातापितृजं शरीरमिहैव निवृत्त्य भूम्यादिषु प्रलीयते यथातत्त्वम् ॥ ३९ ॥
सूक्ष्मं च कथं संसरति तदाह –
पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् ।
संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् ॥ ४० ॥
यदा लोका अनुत्पन्नाः प्रधानादिसर्गे तदा सूक्ष्मशरिरमुत्पन्नमिति ।
किं चान्यत्, असक्तम् । न संयुक्तं तिर्यग्योनिदेवमानुषस्थानेषु, सूक्ष्मत्वात् कुत्रचिदसक्तं, पर्वतादिष्वप्रतिहतप्रसरं संसरति गच्छति ।
नियतं, नित्यम् । यावन्न ज्ञानमुत्पद्यते तावत्संसरति ।
तच्च महदादिसूक्ष्मपर्यन्तम् । महानादौ यस्य तन्महादादि, बुद्धिरहङ्कारो मन इति पञ्च तन्मात्राणि । सूक्ष्मपर्यन्तं तन्मात्रपर्यन्तं संसरति शूलग्रहपिपीलिकावत् त्रीनपि लोकान् ।
निरुपभोगम् । भोगरहितम् । तत् सूक्ष्मशरीरं पितृमातृजेन बाह्येनोपचयेन क्रियाधर्मग्रहणात् भोगेषु समर्थं भवतीत्यर्थः ।
भावैरधिवासितम् । पुरस्ताद्भावान् धर्मादीन् वक्ष्यामः, तैरधिवासितमुपरञ्जितम् ।
लिङ्गमिति । प्रलयकाले महदादिसूक्ष्मपर्यन्तं करणोपेतं प्रधाने लीयते । असंसरणयुक्तं सत् आसर्गकालमत्र वर्तते, प्रकृतिमोहबन्धनबद्धं सत् संसरणादिक्रियास्वसमर्थमिति । पुनः सर्गकाले संसरति तस्मात् लिङ्गं सूक्ष्मम् ॥ ४० ॥
किं प्रयोजनेन त्रयोदशविधं करणं संसरतीत्येवं चोदिते सत्याह –
चित्रं यथाश्रयमृते स्थाण्वादिभ्यो यथा विना छाया ।
तद्वद्विनाऽविशेषैः न तिष्ठति निराश्रयं लिङ्गम् ॥ ४१॥
चित्रं यथा कुड्याश्रयमृते न तिष्ठति, स्थाण्वादिभ्यः कीलकादिभ्यो विना छाया न तिष्ठति, तैर्विना न भवति । आदिग्रहणाद्यथा शैत्यं विना नापो भवन्ति शैत्यं वाऽद्भिर्विना, अग्निरुष्णं विना, वायुः स्पर्शं विना, आकाशमवकाशं विना, पृथिवी गन्धं विना, तद्वत् । एतेन दृष्टान्तेन न्यायेन विनाऽविशेषैः अविशेषैस्तन्मात्रैर्विना न तिष्ठति । अथ विशेषभूतानि उच्यन्ते, शरीरं पञ्चभूतमयं वैशेषिणा शरीरेण विना क्व लिङ्गस्थानं चेति, क्व एकदेहमुज्झति तदेवान्यमाश्रयति ।
निराश्रयम् । आश्रयरहितं लिङ्गं, त्रयोदशविधं करणमित्यर्थः ॥ ४१ ॥
किमर्थं तदुच्यते –
पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन ।
प्रकृतेर्विभुत्वयोगात् नटवद्व्यवतिष्ठते लिङ्गम् ॥ ४२ ॥
पुरुषार्थः कर्तव्य इति प्रधानं प्रवर्तते । स च द्विविधः – शब्दाद्युपलब्धिलक्षणो गुणपुरुषान्तरोपलब्धिलक्षणश्च । शब्दाद्युपलब्धिर्ब्रह्मादिलोकेषु गन्धादिभोगावाप्तिः, गुणपुरुषान्तरोपलब्धिर्मोक्ष इति । तस्मादुक्तं पुरुषार्थहेतुकमिदं सूक्ष्मशरीरं प्रवर्तत इति ।
निमित्तनैमित्तिकप्रसङ्गेन । निमित्तं धर्मादि, नैमित्तिकं, ऊर्ध्वगमनादि पुरस्तादेव वक्ष्यामः । प्रसङ्गेन, प्रसक्त्या ।
प्रकृतेः प्रधानस्य विभुत्वयोगात् । यथा राजा स्वराष्ट्रे विभुत्वात् यद्यदिच्छति तत्तत् करोतीति, तथा प्रकृतेः सर्वत्र विभुत्वयोगात् निमित्तनैमित्तिकप्रसङ्गेन व्यवतिष्ठते, पृथक् पृथग्देहधारणे लिङ्गस्य व्यवस्थां करोति।
लिङ्गं, सूक्ष्मैः परमाणुभिस्तन्मात्रैरुपचितं शरीरं त्रयोदशविधकरणोपेतं मानुषदेवतिर्यग्योनिषु व्यवतिष्ठते। कथं – नटवत् । यथा नटः पटान्तरेण प्रविश्य देवो भूत्वा निर्गच्छति, पुनर्मानुषः, पुनर्विदूषकः, एवं लिङ्गनिमित्तनैमित्तिकप्रसङ्गेनोदरान्तः प्रविश्य हस्ती, स्त्री, पुमान् भवति ॥ ४२ ॥
भावैरधिवासितं लिङ्गं संसरतीत्युक्तं, तत् के भावा इत्याह –
सांसिद्धिकाश्च भावाः प्राकृतिका वैकृतिकाश्च धर्माद्याः ।
दृष्टाः करणाश्रयिणः कार्याश्रयिणश्च कललाद्याः ॥ ४३ ॥
भावास्त्रिविधाश्चिन्त्यन्ते । सांसिद्धिकाः प्राकृता वैकृताश्च । तत्र सांसिद्धिका यथा भगवतः कपिलस्यादि सर्गे उत्पद्यमानस्य चत्वारो भावाः सहोत्पन्नाः – धर्मः, ज्ञानं, वैराग्यम्, ऐश्वर्यमिति । प्राकृताः कथ्यन्ते-ब्रह्मणश्चत्वारः पुत्राः सनकसनन्दनसनातनसनत्कुमारा बभूवुः । तेषामुत्पन्नकार्यकारणानां शरीरिणां षोडशवर्षाणाम् एते भावाश्चत्वारः समुत्पन्नाः, तस्मादेते प्राकृताः । तथा वैकृता यथा – आचार्यमूर्तिं निमित्तं कृत्वा अस्मदादीनां ज्ञानमुत्पद्यते, ज्ञानाद्वैराग्यं, वैराग्याद्धर्मः, धर्मादैश्वर्यमिति । आचार्यमूर्तिरपि विकृतिरिति तस्माद्वैकृता एते भावा उच्यन्ते, यैरधिवासितं लिङ्गं संसरति । एते चत्वारो भावाः सात्त्विकाः । तामसाः विपरीताः, ’सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम्’ इत्यत्र व्याख्याताः । एवमष्टौ – धर्मः, ज्ञानं, वैराग्यम्, ऐश्वर्यम्, अधर्मः, अज्ञानम्, अवैराग्यम् अनैश्वर्यमित् ।
अष्टौ भावाः क्व वर्तन्ते – दृष्टाः करणाश्रयिणः । बुद्धिः करणं तदाश्रयिणः । एतदुक्तम् – ’अध्यवसायो बुद्धिर्धर्मो ज्ञानम्’ इति ।
कार्यं देहस्तदाश्रयाः कललाद्याः, ये मातृजा इत्युक्ताः । शुक्रशोणितसंयोगे विवृद्धिहेतुकाः कललाद्या बुद्बुदमांसपेशीप्रभृतयः, तथा कौमारयौवनस्थविरत्वादयो भावाः, अन्नपानरसनिमित्ताः निष्पद्यन्ते । अतः कार्याश्रयिण उच्यन्ते अन्नादिविषयभोगनिमित्ता जायन्ते ॥ ४३ ॥
निमित्तनैमित्तिकप्रसङ्गेनेति यदुक्तमत्रोच्यते –
धर्मेण गमनमूर्ध्वं गमनमधस्ताद् भवत्यधर्मेण ।
ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥ ४४ ॥
धर्मेण गमनमूर्ध्वम् । धर्मे निमित्तं कृत्वा ऊर्ध्वं उपयाति । ऊर्ध्वमित्यष्टौ स्थानानि गृह्यन्ते । तद्यथा – ब्राह्मं, प्राजापत्यं, सौम्यम्, ऐन्द्रं, गान्धर्वं, राक्षसं, पैशाचमिति । तत् सूक्ष्मशरीरं गच्छति । पशुमृगपक्षिसरीसृपस्थावरान्तष्वधर्मो निमित्तम् ।
किं च, ज्ञानेन चापवर्गः । अपवर्गः च पञ्चविंशतितत्त्वज्ञानम् । तेन निमित्तेनापवर्गो मोक्षः । ततः सूक्ष्मशरीरं निवर्तते, परमात्मा उच्यते ।
विपर्ययादिष्यते बन्धः । अज्ञानं निमित्तम् । स चैव नैमित्तिकः प्राकृतो वैकारिको दाक्षिणिकश्च बन्धः इति वक्ष्यति पुरस्तात् । यदिदमुक्तम् –
प्राकृतेन च बन्धेन तथा वैकारिकेण च ।दाक्षिणेन तृतीयेन बद्धो नान्येन मुच्यते ॥ ४४ ॥
तथाऽन्यदपि निमित्तम् –
वैराग्यात् प्रकृतिलयः संसारो भवति राजसाद्रागात् ।
ऐश्वर्यादविघातो विपर्ययात् तद्विपर्यासः ॥ ४५ ॥
यथा कस्यचिद्वैराग्यमस्ति न तत्त्वज्ञानम् । तस्मात् अज्ञानपूर्वाद् वैराग्यात् प्रकृतिलयः, मृतोऽष्टासु प्रकृतिषु प्रधानबुद्ध्यहङ्कारतन्मात्रेषु लीयते न मोक्षः । ततो भूयोऽपि संसरति ।
तथा योऽयं राजसो रागः – यजामि, दक्षिणां ददामि, येनामुष्मिंल्लोकेऽत्र यद्दिव्यं मानुषं सुखमनुभवामि – एतस्मात् राजसात् रागात् संसारो भवति ।
तथा ऐश्वर्यादविघातः । एतदैश्वर्यं, अष्टगुणमणिमादियुक्तम् । तस्मादैश्वर्यनिमित्तात् अविघातो नैमित्तिको भवति, ब्राह्मादिषु स्थानेष्वैश्वर्यं न विहन्यते ।
किं चान्यत्, विपर्ययात् विपर्यासः । तस्याविघातस्य विपर्यासो विघातः भवति । अनैश्वर्यात् सर्वत्र विहन्यते ॥ ४५ ॥
एष निमित्तैः सह नैमित्तिकः षोडशविधो व्याख्यातः, स किमात्मक इत्याह –
एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः ।
गुणवैषम्यविमर्द्देन तस्य भेदास्तु पञ्चाशत् ॥ ४६ ॥
यथा एष षोडशविधो निमित्तनैमित्तिकभेदः व्याख्यातः, एष प्रत्ययसर्ग उच्यते । प्रत्ययो बुद्धिरित्युक्ता, ’अध्यवसायो बुद्धिर्धर्मो ज्ञानम्’ इत्यादि ।
स च प्रत्ययसर्गश्चतुर्धा भिद्यते – विपर्ययाशक्तितुष्टिसिद्धाख्यभेदात् । तत्र संशयोऽज्ञानं विपर्ययः यथा कस्यचित् स्थाणुदर्शने स्थाणुरयं पुरुषो वेति संशयः । अशक्तिर्यथा – तमेव स्थाणुं सम्यग्दृष्ट्वा संशयं छेत्तुं न शक्नोतीत्यशक्तिः । एवं तृतीयस्तुष्ट्याख्यो यथा – तमेव स्थाणुं ज्ञातुं संशयितुं वा नेच्छति, किमनेनास्माकमित्येषा तुष्टिः । चतुर्थः सिद्ध्याख्यो यथा – आनन्दितेन्द्रियः स्थाणुमारूढां वल्लिं पश्यति शकुनिं वा, तस्य सिद्धिर्भवति स्थाणुरयमिति ।
एवमस्य चतुर्विधस्य प्रत्ययसर्गस्य गुणवैषम्यविमर्द्देन तस्य भेदास्तु पञ्चाशत् । योंयं सत्त्वरजस्तमोगुणानां वैशम्यो विमर्द्दः, तेन तस्य प्रत्ययसर्गस्य पञ्चाशद्भेदा भवन्ति । तथा क्वापि सत्त्वमुत्कटं रजस्तमसी उदासीने, क्वापि रजः, क्वापि तम इति ॥ ४६ ॥
भेदाः कथ्यन्ते –
पञ्च विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात् ।
अष्टाविंशतिभेदा तुष्टिर्नवधाऽष्टधा सिद्दिः ॥ ४७ ॥
पञ्च विपर्ययभेदाः । ते यथा – तमः, मोहः, महामोहः, तामिस्रः, अन्धतामिस्रः इति । एषां भेदानां नानात्वं वक्ष्यतेऽनन्तरमेवेति ।
अशक्तेस्त्वष्टाविंशतिः भेदा भवन्ति, करणवैकल्यात् । तानपि वक्ष्यामः ।
तथा च तुष्टिर्नवधा । ऊर्ध्वस्रोतसि राजसानि ज्ञानानि ।
तथा अष्टविधा सिद्धिः । सात्त्विकानि ज्ञानानि तत्रैवोर्ध्वस्रोतसि। एतत् क्रमेणैव वक्ष्यते॥४७॥
तत्र विपर्ययभेदा उच्यन्ते –
भेदस्तमसोऽष्टविधो मोहस्य च, दशविधो महामोहः ।
तामिस्रोऽष्टादशधा, तथा भवत्यन्धतामिस्रः ॥ ४८ ॥
तमसस्तावदष्टधा भेदः । प्रलयः अज्ञानात् विभज्यते । सोऽष्टासु प्रकृतिषु लीयते, प्रधानबुद्ध्यहङ्कारपञ्चतन्मात्राष्टासु । तत्र लीनमात्मानं मन्यते मुक्तोऽहमिति, तमोभेद एषः ।
अष्टविधस्य मोहस्य भेदोऽष्टविध एवेत्यर्थः । यत्राष्टगुणमैश्वर्यं तत्र सङ्गादिन्द्रादयो देवा न मोक्षं प्राप्नुवन्ति । पुनश्च तत्क्षये संसरन्त्येषोऽष्टविधो मोह इति ।
दशविधो महामोहः। शब्दस्पर्शरूपरसगन्धा देवानामेते पञ्च विषयाः सुखलक्षणाः मानुषाणामप्येते एव शब्दादयः पञ्च विषयाः । एवमेतेषु दशसु महामोह इति ।
तामिस्रोऽष्टादशधा । अष्टविधमैश्वर्यं, दृष्टानुश्रविका विषया दश, एतेषामष्टादशानां सम्पदमनुनन्दन्ति विपदं नानुमोदयन्त्येषोऽष्टादशविधो विकल्पस्तामिस्रः ।
तथा तामिस्रमष्टगुणमैश्वर्यं, दृष्टानुश्रविका दशविषयाः, तथाऽन्धतामिस्रोऽप्यष्टादसभेद एव । किन्तु विषयसम्पत्तौ सम्भोगकाले य एव म्रियते, अष्टगुणैश्वर्याद्वा भ्रश्यते, ततस्तस्य महद्दुःखमुत्पद्यते, सोऽन्धतामिस्र्र इति । एवं विपर्ययभेदास्तमःप्रभृतयः पञ्च प्रत्येकं भिद्यमानाः द्विषष्टिभेदाः संवृत्ता इति ॥ ४८ ॥
अशक्तिभेदाः कथ्यन्ते –
एकादशेन्द्रियवधाः सह बुद्धिवधैरशक्तिरुद्दिष्टा ।
सप्तदश वधा बुद्धेर्विपर्ययात् तुष्टिसिद्धीनाम् ॥ ४९ ॥
’भवन्त्यशक्तेश्च करणवैकल्यादष्टाविंशतिभेदाः’ इत्युद्दिष्टम् । तत्र एकादशेन्द्रियवधाः – बाधिर्यम्, अन्धता, प्रसुप्तिः, उपजिह्विका, घ्राणपाकः, मूकता, कुणित्वं, खांज्यं, गुदावर्तः, क्लैब्यः, उन्माद इति ।
सह बुद्धिवधैरशक्तिरुद्दिष्टा । ये बुद्धिवधास्तैः सह अशक्तेरष्टाविंशतिभेदा भवन्ति ।
सप्तदश वाधा बुद्धेः । सप्तदस वधास्ते तुष्टिभेदासिद्धिभेदवैपरीत्येन । तुष्टिभेदा नव, सिद्धिभेदा अष्टौ ये ते, विपरीतैः सह एकादश वधाः, एवमष्टाविंशतिविकल्पा अशक्तिरिति ॥ ४९ ॥
विपर्ययात् तुष्टिसिद्धीनामेव भेदक्रमो द्रष्टव्यः । तत्र तुष्टिर्नवधा कथ्यते ।
अध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः ।
बाह्या विषयोपरमात् पञ्च, नव तुष्टयोऽभिहिताः ॥ ५० ॥
आध्यात्मिकाश्चतस्रः तुष्टयः । अध्यात्मनि भवा आध्यात्मिकाः, ताश्च प्रकृत्युपादानकालभाग्याख्याः । तत्र प्रकृत्याख्या – यथा कश्चित् प्रकृतिं वेत्ति तस्याः सगुणत्वनिर्गुणत्वं च, तेन तत्त्वं तत्कार्यं विज्ञायैव केवलं तुष्टस्तस्य नास्ति मोक्षः, - एषा प्रकृत्याख्या । उपादानाख्या – यथा कश्चिदविज्ञायैव तत्त्वान्युपादानग्रहणं करोति, त्रिदण्डकमण्डलुविविदिकाभ्यः मोक्ष इति, तस्यापि नास्ति मोक्ष इति एषा उपादानाख्या । तथा कालाख्या – कालेन मोक्षो भविष्यतीति किं तत्त्वभ्यासेन, इत्येषा कालाख्या तुष्टिः, तस्य नास्ति मोक्ष इति । तथा भाग्याख्या – भाग्येनैव मोक्षो भविष्यतीति भाग्याख्या । चतुर्धा तुष्टिरिति ।
बाह्या विषयोपरमाच्च पञ्च । बाह्यास्तुष्टयः पञ्च विषयोपरमात् । शब्दस्पर्शरूपरसगन्धेभ्य उपरतोऽर्जुनरक्षणक्षयसंगहिंसादर्शनात् । वृद्धिनिमित्तं पाशुपाल्यवाणिज्यप्रतिग्रहसेवाः कार्याः, एतदर्जनं दुःखम् । अर्जितानां रक्षणे दुःखम् । उपभोगात् क्षीयत इति क्षयदुःखम् । तथा विषयोपभोगसंगे कृते नास्तीन्द्रियाणामुपशम इति सङ्गदोषः । तथा नाऽनुपहत्य भूतान्युपभॊग इति होंसादोषः । एवमर्जनादिदोषदर्शनात् पञ्चविषयोपरमात् पञ्च तुष्टयः ।
एवमाध्यात्मिकबाह्यभेदात् नव तुष्टयः । तासां नामानि शास्त्रान्तरे प्रोक्तानि – अम्भः, सलिलम्, ओघः, वृष्टिः, सुतमः, पारम्, सुनेत्रम्, नारीकम्, अनुत्तमाम्भसिकमिति । आसां तुष्टीनां विपरीता अशक्तिभेदाद् बुद्धिवधा भवन्ति । तद्यथा – अनम्भः, असलिलम्, अनोघ इत्यादिवैपरीत्याद् बुद्धिवधा इति ॥ ५० ॥
सिद्धिरुच्यते –
ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः ।
दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः ॥ ५१ ॥
ऊहो यथा कश्चिन्नित्यमूहते – किमिह सत्यं, किं परं, किं नैःश्रेयसं, किं कृत्वा कृतार्थः, स्याम् – इति चिन्तयतो ज्ञानमुत्पद्यते प्रधानादन्य एव पुरुष इति, अन्या बुद्धिः, अन्योऽहङ्कारः, अन्यानि तन्मात्राणीन्द्रियाणि पञ्च महाभूतानीत्येवं तत्त्वज्ञानमुत्पद्यते येन मोक्षो भवति । एषा ऊहाख्या प्रथमा सिद्धिः ।
तथा शब्दज्ञानात् प्रधानपुरुषबुद्ध्यहङ्कारतन्मात्रेन्द्रियपञ्चमहाभूतविषयं ज्ञानं भवति, ततो मोक्ष इत्येषा शब्दाख्या सिद्धिः ।
अध्ययनाद् वेदादिशास्त्राध्ययनात् पञ्चविंशतितत्त्वज्ञानं प्राप्य मोक्षं याति, इत्येषा तृतीया सिद्धिः ।
दुःखविघातत्रयम् । आध्यात्मिकाधिभौतिकाधिदैविकदुःखत्रयविघाताय गुरुं समुपगम्य तत उपदेशान्मोक्षं याति । एषा चतुर्थी सिद्धिः । एषैव दुःखत्रयभेदात् त्रिधा कल्पनीया । इति षट् सिद्धयः।
तथा सुहृत्प्राप्तिः । यथा कश्चित् सुहृज्ज्ञानमधिगम्य मोक्षं गच्छति । एषा सप्तमी सिद्धिः ।
दानम् । यथा कश्चिद्भगवतां प्रत्याश्रयौषधित्रिदण्डकुण्डिकादीनां ग्रासाच्छादनादीनां च दानेनोपकृत्य, तेभ्यो ज्ञानमवाप्य मोक्षं याति । एषा अष्टमी सिद्धिः ।
आसामष्टानां सिद्धीनां शास्त्रान्तरे संज्ञाः कृताः – तारम्, सुतारम्, तारतारम्, प्रमोदम्, प्रमुदितम्, प्रमोदमानम्, रम्यकम्, सदाप्रमुदितमिति । आसां विपर्ययात् बुद्धेर्वधा ये विपरीतास्त अशक्तौ निक्षिप्ताः । यथा – अतारम्, असुतारम्, अतारतारम् – इत्यादि द्रष्टव्यम् ।
अशक्तिभेदा अष्टाविंशतिरुक्ताः । ते – सहबुद्धिवधैरेकादशेन्द्रियवधा इति । तत्र तुष्टिविपर्यया नव, सिद्धीनां विपर्यया अष्टौ – एवमेते सप्तदश बुद्धिवधाः । एतैः सहेन्द्रियवधाः, अष्टाविंशतिरशक्तिभेदाः पश्चात् कथिता इति विपर्ययाशक्तितुष्टिसिद्धीनामेवोद्देशो निर्देशश्च कृत इति।
किं चान्यत्, सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः । सिद्धः पूर्वा या विपर्ययाशक्तितुष्टयस्ता एव सिद्धेरङ्कुशः, तद्भेदादेव त्रिविधः । यथा हस्ती गृहीताङ्कुशेन वशो भवति, एवं विपर्ययाशक्तितुष्टिभिर्गृहीतो लोकोऽज्ञानं प्राप्नोति । तस्मादेताः परित्यज्य सिद्धिः सेव्या । संसिद्धेस्तत्त्वज्ञानमुत्पद्यते । तस्मात् मोक्ष इति ॥ ५१ ॥
अथ यदुक्तं “भावैरधिवासितं लिङ्गम्” तत्र भावा धर्मादयोऽष्टावुक्ता बुद्धिपरिणामाः, विपर्ययाशक्तितुष्टिसिद्धिपरिणताः । स भावाख्यः प्रत्ययसर्गः । लिङ्गं च तन्मात्रसर्गश्चतुर्दशभूतपर्यन्त उक्तः । तत्रैकेनैव सर्गेण पुरुषार्थसिद्धौ किमुभयविधसर्गेणेत्यत आह –
न विना भावौर्लिङ्गं न लिङ्गेन भावनिर्वृत्तिः ।
लिङ्गाख्यो भावाख्यस्तस्माद् द्विविधः प्रवर्तते सर्गः ॥ ५२ ॥
भावैः प्रत्ययसर्गैर्विना लिङ्गं न, तन्मात्रसर्गो न, पूर्वपूर्वसंस्कारादृष्टकारितत्वादुत्तरोत्तरदेहलम्भस्य ।
लिङ्गेन तन्मात्रसर्गेण च विना भावनिर्वृत्तिर्न, स्थूलसूक्ष्मदेहसाध्यत्वाद्धर्मादेः । अनादित्वाच्च सर्गस्य बीजाङ्कुरवदन्योन्याश्रयो न दोषाय, तत्तज्जातीयापेक्षित्वेऽपि तत्तद्व्यक्तीनां परस्परानपेक्षितत्वात् । तस्मात् भावाख्यो लिङ्गाख्यश्च द्विविधः प्रवर्तते सर्ग इति ॥ ५२ ॥
किं चान्यत् –
अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति ।
मानुषश्चैकविधः समासतोऽयं त्रिधा सर्गः ॥ ५३ ॥
तत्र दैवमष्टप्रकारम् – बाह्यं, प्राजापत्यं, सौम्यं, ऐन्द्रं, गान्धर्वं, याक्षं, राक्षसं, पैशाचमिति । पशुमृगपक्षिसरीसृपस्थावराणि भूतानि, एवं पञ्चविधस्तैरश्चः । मानुषयोनिरेकैव । इति चतुर्दश भूतानि ॥ ५३ ॥
त्रिष्वपि लोकेषु गुणत्रयमस्ति, तत्र कस्मिन् किमधिकमित्युच्यते –
ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः ।
मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ॥ ५४ ॥
ऊर्ध्वमिति । अष्टसु देवस्थानेषु सत्त्वविशालः, सत्त्वविस्तरः, सत्त्वोत्कट ऊर्ध्वसत्त्व इति । तत्रापि रजस्तमसी स्तः ।
तमोविशालो मूलतः । पश्वादिषु स्थावरान्तेषु सर्वः सर्गस्तमसाधिक्येन व्याप्तः । तत्रापि सत्त्वरजसी स्तः ।
मध्ये, मानुषे रज उत्कटम् । तत्रापि सत्त्वतमसी विद्येते । तस्माद् दुःखप्राया मनुष्याः ।
एवं ब्रह्मादिस्तम्बपर्यन्तः, ब्रह्मादिस्थावरान्त इत्यर्थः । एवम् अभौतिकः सर्गः, लिङ्गसर्गः, भावसर्गः, भूतसर्गः, दैवमानुषतैर्यग्योनाः, इत्येष प्रधानकृतः षोडशविधः सर्गः ॥ ५४ ॥
तत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः ।
लिङ्गस्याविनिवृत्तेः, तस्माद् दुःखं स्वभावेन ॥ ५५ ॥
तत्रेति । तेषु देवमानुषतिर्यग्योनिषु जराकृतं मरणकृतं चैव दुःखं चेतनः चैतन्यवान् पुरुषः प्राप्नोति, न प्रधानं, न बुद्धिः, नाहङ्कारः, न तन्मात्राणीन्द्रियाणि महाभूतानि च ।
कियन्तं कालं पुरुषो दुःखं प्राप्नोतीति तद्विविनक्ति – लिङ्गस्याविनिवृत्तेः । यत्तन्महदादि लिङ्गशरीरेणाविश्य तत्र व्यक्तीभवति तद्यावन्न निवर्तते संसारशरीरमिति तावत् संक्षेपेण त्रिषु स्थानेषु पुरुषो जरामरणकृतं दुःखं प्राप्नोति लिङ्गस्याविनिवृत्तेः, लिङ्गस्य विनिवृत्तिं यावत् । लिङ्गनिवृत्तौ मोक्षः, मोक्षप्राप्तौ नास्ति दुःखमिति । तत्पुनः केन निवर्तते, यदा पञ्चविंशतितत्त्वज्ञानं स्यात् सत्त्वपुरुषान्यताख्यातिलक्षणं – इदं प्रधानं, इयं बुद्धिः, अयमहङ्कारः, इमानि पञ्च महाभूतानि, येभ्योऽन्यः पुरुषो विसदृश इति । एवं ज्ञानाल्लिङ्गनिवृत्तिस्ततो मोक्ष इति ॥ ५५ ॥
प्रकृतेः किंनिमित्त आरम्भः इत्युच्यते –
इत्येष प्रकृतिकृतौ महदादिविशेषभूतपर्यन्तः ।
प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भः ॥ ५६ ॥
’इत्येषः’ परिसमाप्तौ निर्देशे च । प्रकृतिकृतौ प्रकृतिकरणे, प्रकृतिक्रियायां य आरम्भो महदादिविशेषभूतपर्यन्तः – प्रकृतेर्महान्, महतोऽहङ्कारः, तस्मात्तन्मात्राण्येकादशेन्द्रियाणि, तन्मात्रेभ्यः पञ्च महाभूतानि – इत्येषः ।
प्रतिपुरुषविमोक्षार्थम् । पुरुषं पुरुषं प्रति । देवमनुष्यतिर्यग्भावः गतानां विमोक्षार्थमारम्भः ।
कथं – स्वार्थ इव परार्थः आरम्भः । यथा कश्चित् स्वार्थं त्यक्त्वा मित्रकार्याणि करोति एवं प्रधानम् । पुरुषोऽत्र प्रधानस्य न किञ्चित् प्रत्युपकारं करोति । स्वार्थ इव न च स्वार्थः, परार्थ एव । अर्थः शब्दादिविषयोपलब्धिर्गुणपुरुषान्तरोपलब्धिश्च । त्रिषु लोकेषु शब्दादिविषयैः पुरुषा योजयितव्याः, अन्ते मोक्षेण – इति प्रधानस्य प्रवृत्तिः । तथा चोक्तम् – ’कुम्भवत् प्रधानं पुरुषार्थं कृत्वा निवर्तते’ इति ॥ ५६ ॥
अत्रोच्यते – अचेतनं प्रधानं चेतनः पुरुष इति । “मया त्रिषु लोकेषु शब्दादिभिर्विषयैः पुरुषो योज्योऽन्ते मोक्षः कर्तव्यः” इति कथं चेतनवत् प्रवृत्तिः । सत्यम्, किन्त्वचेतनानामपि प्रवृत्तिर्दृष्टा निवृत्तिश्च यस्मादित्याह –
वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ ५७ ॥
यथा तृणादिकं गवा भक्षितं क्षीरभावेन परिणम्य वत्सविवृद्धिं करोति, पुष्टे च वत्से निवर्तते, एवं पुरुषविमोक्षनिमित्तं प्रधानमित्यज्ञस्य प्रवृत्तिरिति ।॥५७ ॥
किं च –
औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः ।
पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तम् ॥ ५८ ॥
यथा लोकः इष्टौत्सुक्ये सति तस्य निवृत्त्यर्थं क्रियासु प्रवर्तते गमनागमनक्रियासु, कृतकार्यो निवर्तते, तथा पुरुषस्य विमोक्षार्थं शब्दादिविषयोपभोगलक्षणं गुणपुरुषान्तरोपलब्धिलक्षणं च द्विविधमपि पुरुषार्थं कृत्वा प्रधानं निवर्तते ॥ ५८ ॥
किं चान्यत् –
रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।
पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥ ५९ ॥
यथा नर्तकी शृङ्गारादिरसैः इतिहासादिभावैश्च निबद्धगीतवादित्रवृत्तानि रङ्गस्य दर्शयित्वा कृतकार्या नृत्यान्निवर्तते तथा प्रकृतिरपि पुरुषस्यात्मानं प्रकाश्य बुद्ध्यहङ्कारतन्मात्रेन्द्रियमहाभूतभेदेन निवर्तते ॥ ५९ ॥
कथं को वा अस्य निवर्तको हेतुस्तदाह –
नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः ।
गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति ॥ ६० ॥
नानाविधैरुपायैः प्रकृतिः पुरुषस्योपकारिणी, अनुपकारिणः पुंसः । कथम् – देवमानुषतिर्यग्भावेन, सुखदुःखमोहात्मकभावेन शब्दादिविषयभावेन ।
एवं नानाविधैरुपायैरात्मानं प्रकाश्य, अहमन्या त्वमन्य इति, निवर्तते । अतो नित्यस्य तस्यार्थं अपार्थं चरति कुरुते । यथा कश्चित् परोपकारी सर्वस्योपकुरुते, नात्मनः प्रत्युपकारमीहते, एवं प्रकृतिः पुरुषार्थं चरति करोत्यपार्थकम् ॥ ६० ॥
पश्चादुक्तम् – आत्मानं प्रकाश्य निवर्तते । निवृत्ता च किं करोतीत्याह –
प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति ।
या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥ ६१ ॥
लोके प्रकृतेः सुकुमारतरं न किञ्चिदस्तीत्येवं मे मतिर्भवति येन परार्थ एवं मतिरुत्पन्ना । कस्मात् – अहमनेन पुरुषेण दृष्टास्मीत्यस्य पुंसः पुनर्दर्शनं नोपैति, पुरुषस्यादर्शनमुपयातीत्यर्थः । तत्र सुकुमारतरं वर्णयति । केचित् ईश्वरं कारणं ब्रुवते –
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव वा ॥
महाभारत – ३,३०,८८.
अपरे स्वभावकारणका ब्रुवते –
“केन शुक्लीकृता हंसा मयूराः केन चित्रिताः ।“
स्वभावेनैव इति । अत्र सांख्याचार्या आहुः, निर्गुणत्वादीश्वरस्य कथं सुगुणाः प्रजाः जायेरन् । कथं वा पुरुषान्निर्गुणादेव । तस्मात् प्रकृतेर्युज्यते । यथा शुक्लेभ्यस्तन्तुभ्यः शुक्ल एव पटो भवति, कृष्णेभ्यः एवेति । एवं त्रिगुणात् प्रधानात् त्रयो लोकास्त्रिगुणाः समुत्पन्ना इति गम्यते । निर्गुण ईश्वरः, सुगुणानां लोकानां तस्मादुत्पत्तिरयुक्तेति । अनेन पुरुषो व्याख्यातः । तथा केषाञ्चित् कालः कारणमिति, उक्तं च –
’कालः पचति भूतानि कालः संहरते जगत् ।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥’
व्यक्ताव्यक्तपुरुषाः त्रयः पदार्थाः, तेन कालोऽन्तर्भूतोऽस्ति । स हि व्यक्तः ।
सर्वकर्तृत्वात् कालस्यापि प्रधानमेव कारणम् । स्वभावोऽप्यत्रैव लीनः । तस्मात् कालो न कारणं, नापि स्वभाव इति । तस्मात् प्रकृतिरेव कारणम्, न प्रकृतेः कारणान्तरमस्तीति ।
न पुनर्दर्शनमुपयाति पुरुषस्य । अतः प्रकृतेः सुकुमारतरं सुभोग्यतरं न किञ्चिदीश्वरादिकारमस्तीति मे मतिर्भवति ॥६१ ॥
तथा च लोके रूढं पुरुषो मुक्तः पुरुषः संसर्तीति चोदिते आह –
तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् ।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ ६२ ॥
तस्मात् कारणात् पुरुषो न बध्यते नापि मुच्यते नापि संसरति यस्मात् कारणात् प्रकृतिरेव नानाश्रया दैवमाणुषतिर्यग्योन्याश्रया बुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतस्वरूपेण बध्यते मुच्यते संसरति चेति ।
अथ मुक्त एव स्वभावात् स सर्वगतश्च कथं संसरति – अप्राप्तप्रापणार्थं संसरणमिति । तेन पुरुषो बध्यते पुरुषो मुच्यते पुरुषः संसरतीति व्यपदिश्यति । तेन संसारित्वं न विद्यते । सत्त्वपुरुषान्तरज्ञानात् तत्त्वं पुरुषस्याभिव्यज्यते, तदभिव्यक्तौ केवलः शुद्धो मुक्तः स्वरूपप्रतिष्ठः पुरुष इति ।
अत्र यदि पुरुषस्य बन्धो नास्ति ततो मोक्षोऽपि नास्ति । अत्रोच्यते – प्रकृतिरेवात्मानं बध्नाति मोचयति च । यत्र सूक्ष्मशरिरं तन्मात्रकं त्रिविधकरणोपेतं तत् त्रिविधेन बन्धेन बध्यते । उक्तं च –
प्राकृतेन च बन्धेन तथा वैकारिकेण च ।
दाक्षिणेन तृतीयेन बद्धो नान्येन मुच्यते ॥
तत् सूक्ष्मं शरीरं धर्माधर्मसंयुक्तम् ॥ ६२ ॥
प्रकृतिश्च बध्यते प्रकृतिश्च मुच्यते संसरतीति कथं तत् – उच्यते –
रूपैः सप्तभिरेव तु बध्नात्यात्मानमात्मना प्रकृतिः ।
सैव च पुरुषार्थं प्रति विमोचयत्येकरूपेण ॥ ६३ ॥
रूपैः सप्तभिरेव । एतानि सप्त प्रोच्यन्ते – धर्मः, ज्ञानं, वैराग्यम्, ऐश्वर्यम्, अधर्मः, अज्ञानं, अवैराग्यं, अनैश्वर्यम् – एतानि प्रकृतेः सप्त रूपाणि । तैरात्मानं स्वं बध्नाति प्रकृतिः आत्मना स्वेनैव । सैव प्रकृतिः पुरुषस्यार्थः पुरुषार्थः कर्तव्यः इति विमोचयत्यात्मानमेकरूपेण ज्ञानेन ॥ ६३ ॥
कथं तज्ज्ञानमुत्पद्यते –
एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् ।
अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥ ६४ ॥
एवमुक्तक्रमेण पञ्चविंशतितत्त्वालोचनाभ्यासात्, इयं प्रकृतिः, अयं पुरुषः, एतानि पञ्चतन्मात्रेन्द्रियमहाभूतानीति पुरुषस्य ज्ञानमुत्पद्यते – नास्मि नाहमेव भवामि, न मे मम शरीरं तत्, यतोऽहमन्यः शरीरमन्यत् । नाहमित्यपरिशेषः, अहङ्काररहितमपरिशेषम् ।
अविपर्ययाद्विशुद्धम् । विपर्ययः संशयः, अविपर्ययादसंशयात्, विशुद्धं केवलं, तदेव नान्यदस्तीति मोक्षकारणमुत्पद्यतेऽभिव्यज्यते ज्ञानं पञ्चविंशतितत्त्वज्ञानं पुरुषस्येति ॥ ६४ ॥
ज्ञाने पुरुषः किं करोति –
तेन निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्ताम् ।
प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः स्वस्थः ॥ ६५ ॥
तेन विशुधेन केवलज्ञानेन पुरुषः प्रकृतिं पश्यति । प्रेक्षकवत् प्रेक्षकेण तुल्यम् । अवस्थितः स्वस्थः । यथा रङ्गप्रेक्षकोऽवस्थितो नर्तकीं पश्यति । स्वस्थः, स्वस्मिंस्तिष्ठति स्वस्थ, स्वस्थानस्थितः।
कथम्भूतां प्रकृतिं – निवृत्तप्रसवाम् । निवृत्तबुद्ध्यहङ्कारकार्याम् । अर्थवशात् सप्तरूपविनिवृत्ताम् । निवर्तितोभयपुरुषप्रयोजनवशात्, यैः सप्तभी रूपैर्धर्मादिभिरात्मानं बध्नाति तेभ्यः सप्तभ्यो रूपेभ्यो विनिवृत्तां प्रकृतिं पश्यति ॥ ६५ ॥
रङ्गस्थ इत्युपेक्षक एको दृष्टाहमित्युपरमत्येका ।
सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य ॥ ६६ ॥
रङ्गस्थ इति । यथा रङ्गस्थ इत्येवमुपेक्षकः एकः केवलः शुद्धः पुरुषः । तेनाहं दृष्टेति कृत्वा उपरता निवृत्ता, एका एकैव प्रकृतिः त्रैलोक्यस्यापि प्रधानकारणभूता । न द्वितीया प्रकृतिरस्ति, मूर्तिभेदे जातिभेदात् ।
एवं प्रकृतिपुरुषयोर्निवृत्तावपि व्यापकत्वात् संयोगोऽस्ति, न तु संयोगकृतः सर्गः । सति संयोगेऽपि तयोः । प्रकृतिपुरुषयोः सर्वगतत्त्वात् सत्यपि संयोगे प्रयोजनं नस्ति सर्गस्य, सृष्टेश्चरितार्थत्वात् । प्रकृतेर्द्विविधं प्रयोजनम् – शब्दविषयोपलब्धिर्गुणपुरुषान्तरोपलब्धिश्च । उभयत्रापि चरितार्थत्वात् सर्गस्य नास्ति प्रयोजनं, यः पुनः सर्ग इति । यथा दानग्रहणनिमित्त-उत्तमर्णाधमर्णयोर्द्रव्यविशुद्धौ सत्यपि संयोगे न कश्चिदर्थसम्बन्धो भवति, एवं प्रकृतिपुरुषयोरपि नास्ति प्रयोजनमिति ॥ ६६ ॥
यदि पुरुषस्योत्पन्ने ज्ञाने मोक्षो भवति ततो मम कस्मान्न भवति – इत्यत उच्यते –
सम्यग्ज्ञानाधिगमाद्धर्मादीनामकारणप्राप्तौ ।
तिष्ठति संस्कारवशाच्चक्रभ्रमणवद्धृतशरीरः ॥ ६७ ॥
यद्यपि पञ्चविंशतितत्त्वज्ञानं सम्यक् ज्ञानं भवति, तथापि संस्कारवशात् धृतशरीरो योगी तिष्ठति कथम् –चक्रभ्रमवत्, चक्रभ्रमेण तुल्यम् । यथा कुलालश्चक्रं भ्रमयित्वा घटं करोति मृत्पिण्डं चक्रमारोप्य, पुनः कृत्वा घटं पर्यामुञ्चति, चक्रं भ्रमत्येव संस्कारवशात् ।
एवं सम्यग्ज्ञानाधिगमात्, उत्पन्नसम्यग्ज्ञानस्य धर्मादीनामकारणप्राप्तौ । एतानि सप्तरूपाणि बन्धनभूतानि सम्यग्ज्ञानेन दग्धानि, यथा नाग्निना दग्धानि बीजानि प्ररोहणसमर्थानि, एवमेतानि धर्मादीनि बन्धनानि न समर्थानि । धर्मादीनामकारणप्राप्तौ संस्कारवशात् धृतशरीरस्तिष्ठति । ज्ञानाद्वर्त्तमानधर्माधर्मक्षयः कस्मान्न् भवति वर्तमानत्वादेव, क्षणान्तरे क्षयमप्येति । ज्ञानं त्वनागकर्म दहति, वर्तमानशरीरेण च यत्करोति तदपीति, विहितानुष्ठानकरणादिति । संस्कारक्षयाच्छरीरपाते मोक्षः ॥ ६७ ॥
स किंविशिष्टो भवतीत्युच्यते –
प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ ।
ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति ॥ ६८ ॥
धर्माधर्मजनितसंस्कारक्षयात् प्रापे शरिरभेदे चरितार्थत्वात् प्रधानस्य निवृत्तौ, ऐकान्तिकमवश्यं, आत्यन्तिकमनन्तर्हितं कैवल्यं, केवलभावान्मोक्षः, उभयमैकान्तिकमित्येवंविशिष्टं कैवल्यमाप्नोति ॥ ६८ ॥
पुरुषार्थज्ञानमिदं गुह्यं परमर्षिणा समाख्यातम् ।
स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम् ॥ ६९ ॥
पुरुषार्थो मोक्षः, तर्थमिदं गुह्यं रहस्यं परमर्षिणा श्रीकपिलर्षिणा समाख्यातं, सम्यगुक्तम् । यत्न ज्ञाने भूतानाम् वैकारिकाणां स्थित्युत्पत्तिप्रलया अवस्थानाविर्भावतिरोभावाश्चिन्त्यन्ते विचार्यन्ते । येषां विचारात् सम्यक् पञ्चविंशतितत्त्वविवेचनात्मिका सम्पद्यते संवित्तिरिति ॥ ६९ ॥
सांख्यं कपिलमुनिना प्रोक्तं संसारविमुक्तिकारणं हि ।
यत्रैताः सप्ततिरार्या भाष्यं चात्र गौडपादकृतम् ॥
एतत्पवित्रमग्न्यं मुनिरासुरयेऽनुकम्पया प्रददौ ।
आसुरिरपि पञ्चशिखाय तेन च बहुधा कृतं तन्त्रम् ॥ अ ॥
शिष्यपरम्परयाऽऽगतमीश्वरकृष्णेन चैतदार्याभिः ।
संक्षिप्तमार्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ॥ आ॥
सप्तत्यां किल येऽर्थास्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य ।
आख्यायिकाविरहिताः परवादविवर्जिताश्चापि ॥ इ ॥
अ । अन्वयः । - मुनिः एतत् अग्न्यं पवित्रम् अनुकम्पया आसुरये प्रददौ । आसुरिरपि पञ्चशिखाय (प्रददौ) तेन च बहुधा तन्त्रं कृतम् ।
आ । अन्वयः । - शिष्यपरम्परया आगतम् एतत् आर्यमतिना ईश्वरकृष्णेन सिद्धान्तं सम्यग् विज्ञाय आर्याभिः संक्षिप्तम् ।
इ । अन्वयः । -सप्तत्यां ये अर्थाः किल ते कृत्स्नस्य षष्टितन्त्रस्य अर्थाः आख्यायिकाविरहिताः परवादविवर्जिताश्चापि ।
समाप्ता इमाः सगौडपादभाष्याः सांख्यकारिकाः ॥