श्रीकृष्णं सच्चिदानन्दं नत्वाऽथ क्रियते मया ।
योगसूत्रेषु व्याख्यानं सङ्क्षेपेण न विस्तरात् ॥ १ ॥
इह खलु श्रुतिस्मृतीतिहासाद्यखिलवाङ्मयप्रसिद्धधर्मार्थकाममोक्षपुरुषार्थचतुष्टयेषु तावन्मोक्षः परमपुरुषार्थः । स च श्रवणमनननिदिध्यासनसाध्यस्तत्राप्यखिलाधिकृतस्यासाधारणकरणीभूतस्या-ष्टाङ्गयोगेन प्रायेण कवलीकृतस्यैतन्मताभिमतस्य च यथायथं मोक्षाणिमादिसिद्धये च भगवान् पतञ्जलिः समाधितत्साधनविभूतिकैवल्याख्यपादचतुष्टयात्मकैकाध्यायपरिमितानि सूत्राणि चकार । तेषु च सूत्रेषु भगवान् बादरायणो भाष्यं चकार । तदुपरि च सर्वतन्त्रस्वतन्त्रा वाचस्पतिमिश्राष्टीकां चक्रुः । तत्र भाष्ये तट्टीकायां चातिगम्भीरत्वान्न सहसा सूत्रार्थः ईषद्व्युत्पन्नैर्मुमुक्षुभिरन्यैर्वा सूत्रार्थजिज्ञासुभिर्लब्धुं शक्यते । तथा च तदनुग्रहाय तानेवाश्रित्य सूत्रार्थबोधिनी वृत्तिरारभ्यते ।
तत्रेदमाद्यं सूत्रम् –
अथ योगानुशासनम् ॥ १ ॥
अथ-शब्दः आरम्भार्थः । श्रुतिमात्रेण मङ्गलप्रयोजकश्च । शास्यतेऽनेनेति शासनं शास्त्रं, योगानामनुशासनं योगानुशासनम् । तथाच योगशास्त्रमारभ्यत इत्यर्थः ॥ १ ॥
तत्र सम्प्रज्ञातासम्प्रज्ञातभेदेन वक्ष्यमाणेन द्विविधयोगस्य साधारणं लक्षणमाह –
योगश्चित्तवृत्तिनिरोधः ॥ २ ॥
चित्तस्य रजस्तमोवृत्तीनां वक्ष्यमाणानां निरोधः प्रतिलोमपरिणामेनोपशमो योग इत्यर्थः । अतो वक्ष्यमाणसम्प्रज्ञातसमाधेः सात्त्विकवृत्तिसत्त्वेऽपि नाव्याप्तिः । तत्र चित्तस्य त्रिगुणात्मकत्वात् क्षिप्तमूढविक्षिप्तैकाग्रनिरुद्धरूपपञ्चभूमयोऽवस्थाविशेषा भवन्ति । तत्र न तिसृणामुपयोगोऽपि तु द्वयोरेवान्त्ययोः । तत्र क्षिप्तं रजस उद्रेकादस्थिरं बहिर्मुखतया सुखदुःखादिविषयेषु विकल्पितेषु व्यवहितेषु सन्निहितेषु च रजःप्रेरितं भवति । तच्च सदैव दैत्यदानवादीनाम् । मूढं तमस उद्रेकात् कृत्याकृत्यविभागमगणय्य क्रोधादिभिर्विरुद्धकृत्येष्वेव निरतं भवति । तच्च सदैव रक्षःपिशाचादीनाम् । विक्षिप्तं तु सत्त्वोद्रेकाद् रजोविशिष्टं परिहृत्य दुःखसाधनं सुखसाधनेष्वेव शब्दादिषु प्रवृत्तं भवति । तच्च सदैव देवानां, रजसोऽप्यभावेन शुद्धसत्त्वोद्रेकाद् भगवद्भक्तानां देवासुरमनुष्यादीनां सात्त्विकवृत्तिविशिष्टमेकाग्रं भवति । तस्या अपि निरोधे निरुद्धं योगिनामेव भवति । व्यक्तमेतदाकरे ॥ २ ॥
ननु बुद्धिवृत्तिस्वभावस्य पुरुषस्य वृत्तिनिरोधे कथं स्थितिरित्यत आह-
तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ ३ ॥
यदा चित्तस्य शान्तघोरमूढानां सर्वासां वृत्तीनां निरोधस्तदा द्रष्टुश्चिदात्मनः स्वाभाविके स्वरूपे स्थितिः, कुसुमापाये यथा स्फटिकस्य तथेत्यर्थः । पुरुषस्य चैतन्यमात्रं स्वभावो, न वृत्तय इति भावः ॥ ३ ॥
ननु तर्हि व्युत्थाने स्वभावच्च्युतिः स्यादित्याशङ्क्याह –
वृत्तिसारुप्यमितरत्र ॥ ४ ॥
इतरत्र निरोधाद् व्युत्थाने सति याश्चित्तवृत्तयः शान्ताद्यास्तत्सारूप्यं वृत्तिमद्बुद्ध्यविवेकेन पुरुषस्य शान्तो दुःखीति वृत्तितादात्म्यभ्रम इत्यर्थः । अतो न स्वभावात् प्रच्युतिः । न हि लौहित्यभ्रमकाले स्फटिकस्य स्वभावाच्च्युतिरस्तीति भावः । निरोधे मुक्तिर्व्युत्थाने बन्ध इति सूत्रद्वयतात्पर्यम् ॥ ४ ॥
इदानीं निरोद्धव्यानां वृत्तीनामियत्तामाह –
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥ ५ ॥
तयप् प्रत्ययोऽवयववाची । वृत्तयोऽग्रिमसूत्रोक्ताः । प्रमाणादयः पञ्चवृत्तिविशेषा वृत्तिसमूहस्यावयविनोऽवयवा इत्यर्थः । पञ्चावयवा यासां ताः पञ्चतय्यः । तासां हानोपादानसिद्धये भेदमाह ॥ क्लिष्टा अक्लिष्टा इति ॥ रागादिक्लेशानां हेतवः । क्लिष्टा बन्धफलाः । सर्वो हि जन्तुः प्रमाणादिवृत्तिभिर्ज्ञातार्थेषु रागादिना कर्म कृत्वा सुखादिना बद्ध्यते । अक्लिष्टा मोक्षफलाः क्लेशनाशिन्यः आत्मगोचरा इत्यर्थः ॥ ५ ॥
ता एव पञ्चवृत्तीरुद्दिशति –
प्रमाणविपर्ययविकल्पनिद्रास्मृतय ॥ ६ ॥
इतोऽन्या वृत्तिर्नास्तीति उद्देशसूत्रस्य फलम् ॥ ६ ॥
तत्र प्रमाणवृत्तिं विभजते –
प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७ ॥
त्रीण्येव प्रमाणानीति भावः । तत्र मानसामान्यलक्षणमविसंवादि ज्ञानम् । तत्रापीन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात् तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षप्रमाणम् । गृहीतसंबन्धाल्लिङ्गाल्लिङ्गिनि सामान्यात्मनाऽध्यवसायोऽनुमानम् । आप्तवचनमागमः ॥ ७ ॥
विपर्ययं लक्षयति –
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८ ॥
अतद्रूपप्रतिष्ठं तद्रूपे स्वविषये स्वजन्यप्रतिष्ठाशून्यं बाधाविरोधीति यावत् । विकल्पेऽतिव्याप्तिवारणाय मिथ्याज्ञानपदम् ॥ ८ ॥
विकल्पं लक्षयति –
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९ ॥
नरशृङ्गादिश्रवणानन्तरं भवन्ती निर्विषया वृत्तिर्या सा विकल्प इत्यर्थः । वस्तुशून्यत्वान्नायं प्रमाणं, व्यवहारहेतुत्वाच्च न विपर्ययः ॥ ९ ॥
निद्रां लक्षयति –
अभावप्रययालम्बना वृत्तिर्निद्रा ॥ १० ॥
कार्यं प्रत्याययति जनयतीति प्रत्ययो हेतुः । जाग्रत्स्वप्नवृत्तीनामभावे हेतुस्तम् आलम्बनं विषयो यस्याः सा वृत्तिर्निद्रा । अस्याः सुखमहमस्वाप्सं, न किञ्चिदवेदिषमिति सुषुप्त्यनन्तरं जागरे स्मृतिदर्शनात् । स्मृतेश्चानुभवव्यतिरेकेणानुपपत्तेर्वृत्तित्वम् । वृत्तिशब्दोच्चारणं तु ज्ञानसामान्याभावो निद्रेति तार्किकस्वीकृतनिरासार्थं, भाष्यकृद्भिस्तु व्याख्यातम् । सा तु प्रबोधे प्रत्यवमर्शात् प्रत्ययविशेष एव । कथमितिचेदुच्यते । सुखमस्वाप्त्सं प्रसन्नं मे मनः प्रज्ञां मे विशारदीकरोति । दुःखमहमस्वाप्सं ग्लानं मे मनो भ्रमत्यनवस्थितं, गाढं मूढोऽहमस्वाप्सं गुरूणि मेऽङ्गानि क्लान्तं मे चित्तम् अलं मुषितमिव भवतीति । स खल्वयं प्रबुद्धस्य प्रत्यवमर्शो न स्याद् असति प्रत्ययाऽनुभवे, तदाश्रिताः स्मृतयश्च तद्विषया न स्युः । तस्मात् प्रत्ययविशेषो निद्रा । सा च समाधावितरप्रत्ययवन्निरोद्धव्येति । न च भाष्यकारविरोधाद् वृत्तिकारव्याख्यानां विरुद्धमिति शङ्क्यम् । वृत्तिकारस्य प्रसिद्धावस्थात्रयाभिप्रायात् । भाष्यकारस्य तु अवस्थात्रयस्याऽप्येकैकावस्थात्रैविध्याङ्गीकाराभिप्रायत्वान्न विरोधः ॥ १० ॥
स्मृतिं लक्षयति –
अनुभूतविषयासंप्रमोषः स्मृतिः ॥ ११ ॥
असंप्रमोषोऽधिकाग्रहः । अनुभूतग्रह इति यावत् । सा स्मृतिरित्यर्थः । ननु स्वकरे गजवैशिष्ट्यमननुभूतमपि स्वप्ने स्मर्यते इतिचेन्न । तस्य विपर्ययत्वादिति भावः ॥ ११ ॥
आसां वृत्तीनां निरोधोपायमाह –
अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२ ॥
तत्र संसारसागराभिमुख्या विषयभूमिगायाश्चित्तवृत्तेः प्रवाहो वैराग्येण भज्यते । तत्प्रवाहभङ्गे निद्रा स्यात् । तद्भङ्गाय अभ्यासो विहितः । तेन लयविक्षेपप्रवाहो भज्यते । अतो द्वावेवोक्तौ ॥ १२ ॥
अभ्यासस्वरूपमाह –
तत्र स्थितौ यत्नाऽभ्यासः ॥ १३ ॥
तत्र तयोर्मध्ये रजस्तमोवृत्तिशून्यस्य चित्तस्य एकाग्रतास्थितिः । तस्यां कार्याणि यमनियमादीनि । तद्विषयकः प्रयत्नोऽनुष्ठानमभ्यास इत्यर्थः ॥ १३ ॥
नन्वनादिप्रबलराजसतामसवृत्तिसंस्कारैर्विरोधिभिःकुण्ठितोऽभ्यासो न स्थितौ इत्यत आह-
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १४ ॥
तुशब्दः शङ्काव्यावृत्त्यर्थः । सः अभ्यासो दीर्घकालनैरन्तर्येण ब्रह्मचर्यश्रद्धारूपसंस्कारेण च सेवितो दृढभूमिः दृढसंस्कारः । स व्युत्थानसंस्कारैर्नाभिभूयते, किन्तु स्थितिसमर्थो भवतीत्यर्थः ॥ १४ ॥
वैराग्यस्वरूपमाह –
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १५ ॥
दृष्टेषु स्त्र्यन्नपानादिषु एवमनुश्रवो वेदस्तदुक्तेषु आनुश्रविकेषु स्वर्गाणिमादिषु पूर्वोक्ताभ्यासेन साक्षात्काराद्वितृष्णस्योपेक्षाबुद्धिर्वशीकारसंज्ञा वैराग्यमित्यर्थः । तच्च भूमिकाजयक्रमेण लब्धुं शक्यते ॥
तदुक्तम् – वैराग्यमाद्यं यतमानसंज्ञं क्वचिद्विरागो व्यतिरेकसंज्ञकः ।
एकेन्द्रियाख्यं हृदि रागसौक्ष्म्यं तस्याप्यभावस्तु वशीकृताख्यम् ,इति ॥
तत्र स्वीकृतविषयान् सन्त्यक्तुमशक्नुवतोऽपि समानेच्छात्यागेनाद्यम् । ततोऽपि विषयाणां मध्ये प्रियवस्तुलावण्यादिव्यतिरेकेणाऽपि वृत्तिर्द्वितीयम् । तथा वृत्तावपि मनसि रागशैथिल्येन बाह्येन्द्रियैरेव सेवनं तृतीयम् । तत्राप्यौदासीन्यं चतुर्थमित्यर्थः ॥ १५ ॥
अपरं वैराग्यमुक्त्वा परं वैराग्यमाह –
तत्परं पुरुषख्यातेर्गुणवेतृष्ण्यम् ॥ १६ ॥
तत्र वशीकारसंज्ञके वैराग्ये जाते सति संप्रज्ञातप्रभावेन पुरुषस्य या ख्यातिः प्रधानाद्विविक्तस्य यः साक्षात्कार उच्यते तदभ्यासादशेषगुणत्रयव्यवहारेषु वैतृष्ण्यम् । तृष्णाविरोधिनी चित्तवृत्तिर्या भवति तत्परं श्रेष्ठं फलभूतं वैराग्यम् । तत्परिपाकाच्चित्तोपशमपरिपाकस्ततोऽविलम्बेन कैवल्यमित्यर्थः ॥ १६ ॥
इदानीं चतुर्विधं संप्रज्ञातं दर्शयति –
वितर्कविचारानन्दास्मितारूपानुगमात्संप्रज्ञातः ॥ १७ ॥
स्थूलसाक्षात्कारो वितर्कः । सूक्ष्मसाक्षात्कारो ध्यानेन स्थूलकारणपञ्चतन्मात्राविषयको विचारः। इन्द्रियाणामस्थूलरूपत्वेऽपि प्रकाशकत्वेन सात्त्विकरूपत्वात्तेषां ध्यानेन साक्षात्कार आनन्दः । तेषां कारणं बुद्धिः । सा ग्रहीत्रैकीभूताऽस्मितेत्युच्यते । तद्विषयकसाक्षात्कारोऽस्मिता । अत्र स्थूलं सूक्ष्मं च ग्राह्यं, ग्राहकाणीन्द्रियाणि, गृहीताऽस्मिता । तेषु ध्यानपरिपाकः संप्रज्ञातो योगः । स चैतैः स्वरूपैरनुगमाच्चतुर्विधः सवितर्क इत्यादिः ॥ १७ ॥
अधुना सोपायमसंप्रज्ञातमाह –
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८ ॥
वृत्तीनामभावो विरामः । तस्य प्रत्ययः कारणं वैराग्यं, तदभ्यासः पूर्व उपायो यस्य स तथा । अनेन पदेन युक्तोऽन्यः असंप्रज्ञातः । परं वैराग्यं संप्रज्ञातशेषानभिभूय स्वसंस्कारं शेषयति स निर्बीजः समाधिः कर्मबीजाभावात् ॥ १८ ॥
अयमसंप्रज्ञातो द्विविधः, भवप्रत्यय उपायप्रत्ययश्च । तत्र मुमुक्षुभिर्हेयं भवप्रत्ययमाह –
भवप्रययो विदेहप्रकृतिलयानाम् ॥ १९ ॥
भूतेन्द्रियाणामन्यतरस्मिन् भावनया देहपातानन्तरं भूतेन्द्रियेषु लीना मांसशोणितलोममेदोऽस्थिमज्जारूपषाट्कौशिकदेहशून्या विदेहाः । अव्यक्तमहदहङ्कारपञ्चतन्मात्रेषु प्रकृतिरूपकारणेषु लीनाः प्रकृतिलया जीवाः । तेषां चित्तं संस्कारमात्रशेषमित्यसंप्रज्ञातः । स तु भवप्रत्ययः । भवन्ति जायन्तेऽस्यामिति अनात्मन्यात्मबुद्धिः । स प्रत्ययो हेतुर्यस्य स तथाऽविद्यामूलोऽयं योगोऽतो हेयः । अत एवोक्तं वायुपुराणे –
दशमन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः ।
भौतिकाश्च शतं पूर्णं सहस्रं त्वाभिमानिकाः ॥
बौद्धा दशसहस्राणि तिष्ठन्ति विगतज्वराः ।
पूर्णं शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः ॥
पुरुषं निर्गुणं प्राप्य कालसंख्या न विद्यते, इति ॥ १९ ॥
अधुना मुमुक्षूणामुपादेयं द्वितीयमाह –
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ २० ॥
पुरुषगोचरा सात्त्विकी श्रद्धा । तया वीर्यं प्रयत्नो जायते तेन यमनियमपरम्परया स्मृतिर्ध्यानम् । तेन समाधिः । तेन प्रज्ञा पुरुषगोचरख्यात्यभ्यासः संप्रज्ञातः । ततः परवैराग्यादसंप्रज्ञातः । इतरेषां पूर्वविलक्षणानां मुमुक्षूणां भवतीत्यर्थः ॥ २० ॥
तत्र प्रज्ञाता उपाया मृदुमध्याधिमात्रास्त्रिविधाः । तथा च योगिनोऽपि त्रयः । मृदूपायो, मध्योपायोऽधिमात्रोपायश्चेति । तत्र मृदूपायोऽपि त्रिविधः । मृदुवेगो, मध्यवेगस्तीव्रसंवेगश्चेति तत्र तीव्रसंवेगस्य क्षिप्रं समाधिमाह –
तीव्रसंवेगानामासन्नः ॥ २१ ॥
समाधिलाभः । संवेगो वैराग्यम् । अथवा वैराग्यानुकूलक्रियाहेतुर्दृढतरः संस्कार उत्कटवैराग्यमिति यावत् । येषामुपायाश्चाधिमात्रास्तेषां योगिनामासन्नः समधिरसंप्रज्ञातः । ततो मोक्ष इत्यर्थः ॥ २१ ॥
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ २२ ॥
तीव्रसंवेगस्यापि मृदुमध्याधिमात्रत्वात्ततो मृदुतीव्रसंवेगस्य योगिन आसन्नात् समाधेर्मध्यतीव्रसंवेगस्यासन्नतरस्ततोऽप्यधिमात्रतीव्रसंवेगस्यासन्नतमः समाधिलाभ इति विशेषः इत्यर्थः ॥ २२ ॥
इदानीमेतदुपायाद्विलक्षणमुपायान्तरमाह –
ईश्वरप्रणिधानाद्वा ॥ २३ ॥
ईश्वरे कायिकाद्वाचनिकान्मानसात् प्रणिधानाद् भक्तिविशेषादासन्नतमः समाधिलाभः । वाशब्दो भक्तिविकल्पार्थः ॥ २३ ॥
ईश्वरस्य स्वरूपमाह –
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ २४ ॥
क्लिश्यन्तीति क्लेशा अविद्यादयः पञ्च । कर्म धर्माधर्मौ । तयोः फलं विपाकः । फलानुकूलाः संस्कारा आशयाः । मनस्याशेरत इति व्युत्पत्तेः । तैः क्लेशादिभिः कालत्रयेऽप्यसंबन्धः पुरुष ईश्वरः । विशेषपदेन वस्तुतः कालत्रयासंबन्धजीवेभ्यो व्यावृत्तिः कृता ॥
अत्र भाष्यम् । वक्ष्यमाणा अविद्यादयः क्लेशाः, कुशलाकुशलानि कर्माणि, तत्फलं विपाकः, तदनुगुणा वासना आशयाः । ते च मनसि वर्तमाना अपि पुरुषे व्यपदिश्यन्ते । स हि तत्फलस्य भोक्तेति । यथा जयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते । यो ह्यनेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वर इति । कैवल्यं प्राप्तास्तर्हि सन्ति च बहवः केवलिनः । ते हि त्रीणि बन्धनानि छित्वा कैवल्यं प्राप्ताः । ईश्वरस्य च तत्संबन्धो न भूतो न भावी । यथा मुक्तस्य पूर्वा बन्धकोटिः प्रज्ञायते, नैवमीश्वरस्य । यथा प्रकृतिलीनस्योत्तरा बन्धकोटिः सम्भाव्यते । स तु सदैव मुक्तः सदैवेश्वर इति । योऽसौ प्रकृष्टसत्त्वोपादानादीश्वरस्य शाश्वतिक उत्कर्षः स किं सनिमित्तः , आहोस्विन्निर्निमित्त इति ॥ तस्य शास्त्रं निमित्तम् ॥ शास्त्र पुनः किन्निमित्तम् । प्रकृष्टसत्त्वनिमित्तम् ॥ एतयोः शास्त्रोत्कर्षयोरीश्वरसत्त्वे वर्तमानयोरनादिसम्बन्धः । तस्मादेतद्भवति सदैवेश्वरः सदैव मुक्त इति । तच्चैतस्यैश्वर्यं साम्यातिशयविनिर्मुक्तम् । न तावदैश्वर्यान्तरेण तदतिशय्यते । यदेवातिशायितं तस्मादेव तत् स्यात् । तस्माद्यत्र काष्ठाप्राप्तिरैश्वर्यस्य स ईश्वरः । न च तत्समानमैश्वर्यमस्ति । कस्मात् सः । तुल्ययोरेकस्मिन् युगपत्कामितेऽर्थे नवमिदमस्तु पुराणमिदमस्त्विति एकस्य सिद्धावितरस्य प्राकाम्यविघातादूनत्वं प्रसक्तम् । द्वयोश्च तुल्ययोर्युगपत्कामितार्थप्राप्तिर्नास्ति । अर्थस्य विरुद्धत्वात् । तस्माद्यस्य साम्यातिशयविनिर्मुक्तमैश्वर्यं स ईश्वरः । स च पुरुषविशेष इति ॥ २४ ॥
तस्य सर्वज्ञत्वेऽनुमानमाह –
तत्र निरतिशयं सर्वज्ञबीजम् ॥ २५ ॥
तत्र ईश्वरे निरतिशयं सर्वज्ञत्वबीजं ज्ञापकमित्यर्थः । तथा चायं प्रयोगः । अस्मदादीनां ज्ञानं निरतिशयज्ञानेनाऽविनाभुतं, सातिशयत्वाद्, यत् सातिशयं तत् समानजातीयेन निरतिशयेन युक्तम् । यथा कुम्भपरिमाणं विभुपरिमाणेन । तथाच निरतिशयं ज्ञानं सर्वज्ञत्वमन्तरा नोपपद्यते इति सिद्धं सर्वज्ञत्वम् । तस्य जीवे बाधादितरस्मिन् कल्पना स्यात् । तदपेक्षया श्रुतिसिद्धानां शिवनारायणादीनामुपाधिभेदेन भिन्नत्वेनावगम्यमानानां कल्पनं साधीय इति दिक् ॥ २५ ॥
तस्य भगवतो ब्रह्मदिभ्यो भेदमाह –
पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ २६ ॥
स ईश्वरः पूर्वेषां सर्गादावुत्पन्नानां हिरण्यगर्भादीनां कालपरिच्छिन्नानां गुरुर्धर्मार्थकाममोक्षोपदेष्टा। कालेनानवच्छेदात् । अनद्यनन्तत्वादित्यर्थः ॥ २६ ॥
इदानीं परमेश्वरं निरूप्य तत्प्रणिधानं वक्तुं रहस्यमाह –
तस्य वाचकः प्रणवः ॥ २७ ॥
तस्येश्वरस्य । प्रणव ओङ्कारः ॥ २७ ॥
एवं वाचकमुक्त्वा प्रणिधानमाह –
तज्जपस्तदर्थभावनम् ॥ २८ ॥
तस्य प्रणवस्य जपः प्रणवाभिधेयस्येश्वरस्य भावनम् । एवं प्रणवं जपतस्तदर्थं च भावयतश्चित्तमेकाग्रं भवति ॥ २८ ॥
समाधिलाभरूपफलमुक्त्वा फलान्तरमपि तदनुगुणमाह –
ततः प्रत्यक्त्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ २९ ॥
प्रतीपं विपरीतमञ्चति जानातीति प्रत्यग् भ्रान्त इत्यर्थः । अनेनेश्वराद्भेद उक्तः । प्रत्यक् चासौ चेतनश्च तस्याधिगमः साक्षात्कारस्ततः प्रणिधानाद्भवति । अपिचान्तरायाणामभावो भवति ॥ २९ ॥
अन्तरायानाह –
व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चितविक्षेपास्तेऽन्तरायाः ॥ ३० ॥
ये चित्तं योगाद्विक्षिपन्ति ते विक्षेपा योगस्यान्तराया विघ्ना नव । तत्र वातादीनामिन्द्रियाणां च वैषम्यं व्याधिः । स्त्यानं चित्तलघुत्वेऽपि कर्मानर्हता । संशयः सिद्ध्यति न वेति । प्रमादो योगाङानामननुष्ठानलक्षणः । आलस्यं चित्तस्य गुरुत्वादप्रवृत्तिः । अविरतिर्विषयतृष्णा । भ्रान्तिदर्शनम् एककोटिविपर्ययः । अलब्धभूमिकत्वं समाधिभूम्यलाभः । मधुमत्यादयः समाधिभूमयो वक्ष्यन्ते । अनवस्थितत्वं नाम लब्धायां भूमौ चित्तस्याऽस्थिरत्वम् । पूर्वभूमौ स्थिरं हि चित्तम् उत्तरभूमिं जयेत् । तस्मादस्थिरत्वं दोषः ॥ ३० ॥
न केवलमेते योगनाशाकाः, किन्तु दुःखादीनपि कुर्वन्तीत्याह –
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ ३१ ॥
दुःखं शारीरं कामजं मानसं व्याघ्रादिजमाधिभौतिकम् । ग्रहपीडादिजमाधिदैविकम् । दौर्मनस्यमिच्छाविघातात् । क्षोभो मनसि । अङ्गमेजयतो भावोऽङ्गमेजयत्वं । अङ्गानां कम्प इत्यर्थः । अनिष्कृतः प्राणो यद् बाह्यं वायुमन्तःप्रवेशयति स श्वासः । समाध्यङ्गरेचकविरोधीत्यर्थः । एवमनिच्छतः कोष्ठस्थस्य वायोर्बहिर्गमनं प्रश्वासः पूरकविरोधात् । एतैर्विक्षेपैः सह भवन्तीत्यर्थः ॥ ३१ ॥
ईश्वरप्रणिधानादेतेषामभाव इत्युक्तमुपसंहरति –
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२ ॥
विक्षेपाणां नाशार्थमेकतत्त्वाभ्यासोऽभिमतध्यानं कार्यमित्यर्थः ॥ ३२ ॥
तस्य चित्तस्यासूयादिमलवतो योगसम्भवात्तन्मलनिरासोपायमाह –
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चितप्रसादनम् ॥ ३३ ॥
मैत्री सुखिषु मित्रता । दुःखिषु करुणा दया । पुण्यवृत्तिषु हर्षो मुदितम् । अपुण्यशब्दितपापादिके उपेक्षां भावयेत् । तया वृत्त्या चित्तस्य प्रसादनं भवति । सुखादिषु यथाक्रममुक्तभावनया सात्त्विको धर्मो जायते । तेन च शुक्लेन धर्मेण चित्तं प्रसन्नं भवति । प्रसन्ने च स्थितिपदं लभते ॥ ३३ ॥
एवं मैत्र्यादिभावनया प्रसन्नस्य चित्तस्य स्थित्युपायानाह-
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ ३४ ॥
नासिकापुटाभ्यां प्राणस्य प्रच्छर्द्दनं रेचनम् । रेचितस्य प्राणस्य बहिरेव विधारणं कुम्भकम् । यथाशक्ति ताभ्यामेकत्र लक्ष्ये चित्तं स्थितिं लभते । प्राणजये चित्तजयस्तयोरविभागात् प्राणायामस्य सर्वपापनाशकत्वात् पापनिवृत्तौ चित्तं स्थिरं भवति । वा शब्दो वक्ष्यमाणोपायविकल्पार्थः ॥ ३४ ॥
उपायान्तरमाह –
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ॥ ३५ ॥
नासाग्रे चित्तस्य संयमाद्दिव्यगन्धसाक्षात्कारो भवति । एवं रसनादावपि ज्ञेयम् । ताः संविदो विषयवत्यः प्रवृत्तयः शीघ्रमुत्पन्नाः सत्यो विश्वासमुत्पाद्येश्वराद्यतिसूक्ष्मे लक्ष्ये मनसः स्थितिं निबध्नन्तीत्यर्थः । तथा च शास्त्रीयानुभवविशेषे जाते श्रद्धया योगी यः कोऽपि प्रवर्त्तत इति भावः ॥ ३५ ॥
विशोका वा ज्योतिष्मती ॥ ३६ ॥
अष्टदलध्यानादिक्रमेण मनसः संयमाज्ज्योतिःस्वरूपात्मविषया ज्योतिष्मती विशोका दुःखरहिता संविदुत्पद्यते सा मनसः स्थितिहेतुरित्यर्थः ॥ ३६ ॥
वीतरागविषयं वा चित्तम् ॥ ३७ ॥
वीतरागं यच्चित्तं परित्यक्तविषयाभिलाषमित्यर्थः । तद्विषयं तत्र धार्यमाणं योगिनश्चित्तं स्थितिपदं प्राप्नोतीत्यर्थः ॥ ३७ ॥
स्वप्ननिद्राज्ञानालम्बनं वा ॥ ३८ ॥
अत्र ज्ञानशब्दो ज्ञेयपरः ॥ स्वप्ने भगवतो यद्रूपं भगवतोऽत्यन्तप्रियमाराधयन्नेव प्रबुद्धस्तत्रैव चित्तं धारयेत् । निद्रायां तु सुप्तौ यत् सुखं तत्र धारयेत् । एवं स्वप्ननिद्रान्ते सालम्बनं चित्तं स्थितिं प्राप्नोतीत्यर्थः ॥ ३८ ॥
यथाभिमतध्यानाद्वा ॥ ३९ ॥
किं बहुना, कृष्णादिरूपं यदेवेष्टं तदेव ध्यायेत् । तत्र लब्धस्थितिकमन्यत्रापि लभते ॥ ३९ ॥
चित्तस्थितिजयस्य ज्ञापकमाह –
परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥ ४० ॥
अस्य सूक्ष्मे निविशमानस्य वशीकारोऽप्रतिघातः । स एव ज्ञापकमित्यर्थः ॥ ४० ॥
सम्प्रज्ञातयोगस्य विषयं स्वरूपं च निर्दिशति-
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ ४१ ॥
अत्र पाठक्रमादर्थक्रमो बलीयान् । तथाचाभ्यासवैराग्याभ्यां क्षीणरजस्तमोवृत्तिकस्य तत्तद्रूपता तस्याः सम्यगापत्तिःसम्प्रज्ञात इत्यर्थः । स च वितर्कादिविषयभेदाच्चतुर्विधः । तत्र दृष्टान्तमाह ॥ अभिजातस्य स्वच्छस्य मणेर्जपाकुसुमाद्युपरक्तस्य स्वरूपाभिभवेन रक्ताद्याकारता यथा भवति तथेत्यर्थः ॥ ४१ ॥
सोऽपि संप्रज्ञातः सवितर्कनिर्वितर्कसविचारनिर्विचारभेदैश्चतुर्धा ।तत्र सवितर्कायाः स्वरूपमाह–
तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥ ४२ ॥
तत्र तासु मध्ये सवितर्का समापत्तिरेषा ज्ञेया । तथाहि । गौरित्युक्ते शब्दार्थज्ञानानि त्रीण्यभिन्नानि । तत्र गौरित्येको विकल्पः । अयं हि गौरित्युपात्तयोरर्थज्ञानयोः शब्दाभेदविषयकः । तथा समाधिप्रज्ञा शब्दार्थज्ञानविकल्पैः सङ्कीर्णा तैस्तुल्या भवति । विकल्पत्वाविशेषात् ॥ ४२ ॥
निर्वितर्कामाह –
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ ४३ ॥
गवादिशब्दानां सङ्केतो विकल्पितेष्वेव लोके गृह्यते । तस्य स्मृत्या शाब्दज्ञानं परार्थानुमितिश्च विकल्प एव जायते । तत्र स्मृतिपरिशुद्धौ सत्याम् अर्थमात्रतात्पर्यवता चित्तेनार्थमात्राऽवभासात् । सङ्केतस्मृतेस्त्यागे सति सविकल्पत्यागादर्थमात्रमविकल्पितार्थरूपं यद्ग्राह्यं तत्स्वरूपेणैव निर्भासमाना निर्वितर्का समापत्तिरित्यर्थः ॥ ४३ ॥
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ ४४ ॥
विशिष्टेषु स्ववाचकशब्दज्ञानाभ्यासभेदेन विकल्पितेषु या समापत्तिः सा सविचारेत्युच्यते । तेष्वेव विशेषणशून्येषु अर्थमात्रेषु या समापत्तिः सा निर्विचारेति भावः ॥ ४४ ॥
ननु किमस्या ग्राह्यसमापत्तेः परमाणुष्वेवावसानम् ? नेत्याह –
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५ ॥
अस्याः समापत्तेः सूक्ष्मविषयत्वम् अलिङ्गे प्रधाने पर्यवस्यति । प्रधानं विलयं न गच्छतीत्यलिङ्गमुच्यते । पुरुषस्य सत्त्वेऽपि अनुपादानत्वात् प्रधानपर्यन्तमेव समापत्तिरिति सिद्धम् ॥ ४५ ॥
एवं स्थूले सूक्ष्मे च ग्राह्ये चतस्रः समापत्तय उक्ताः । सम्प्रति तासां सम्प्रज्ञातत्वमुपसंहरति –
ता एव सबीजः समाधिः ॥ ४६ ॥
ग्रहणग्रहीत्रोरपि सविकल्पत्वनिर्विकल्पत्वभेदेन सानन्दा आनन्दमात्रा सास्मिता अस्मितामात्रा चेति चतस्रः समापत्तयो भवन्ति उक्तन्यायसाम्यात् । एवमष्टसमापत्तयो यास्ता एव सबीजः समाधिः सम्प्रज्ञातः । विवेकख्यात्यभावेन बन्धबीजसत्त्वात् सबीजत्वं द्रष्टव्यम् ॥ ४६ ॥
तत्र निर्विचारसमापत्तेः फलतोऽतिशयमाह –
निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ ४७ ॥
रजस्तमोमलापेतस्य संप्रज्ञातस्य अन्तःकरणस्य यो निर्विचारः सूक्ष्मवस्तुविषयकनिर्विकल्पकसमाधिस्तस्य वैशारद्ये प्रवाहरूपपाटवे सति अध्यात्मप्रसादोऽत्यन्तसत्त्वोद्रेको भवतीत्यर्थः ॥ ४७ ॥
तत्फलमाह –
ऋतंभरा तत्र प्रज्ञा ॥ ४८ ॥
तत्र ऋतं सत्यमेव गृह्णाति प्रज्ञायते । तथाच निरोधसमाधिरूपस्य योगस्य पुण्यविशेषद्वारा यथार्थप्रत्यक्षहेतुत्वमितिभावः ॥ ४८ ॥
अत एव तस्य क्लृप्तमाभ्यो विषयतो विशेषमाह –
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ ४९ ॥
शब्दानुमानयोः पदार्थतावच्छेदकव्यापकतावच्छेदकपुरस्कारेणैव ज्ञानजनकत्वात्तद्ग्रहणायोग्य-विशेषविषयकत्वादिति यावत् ।
वेदान्तिनस्तु शब्दस्य पदार्थतावच्छेदकपुरस्कारेणैव ज्ञानजनकत्वे मानाभावः । तथाच शब्दस्य विषयस्तच्छक्यो तल्लक्ष्यश्च ग्राह्यः । तेन च ब्राह्मणशब्दलक्ष्यत्वेऽपि न क्षतिः । तथा च महावाक्यार्थबोधप्रयोजकीभूताऽवान्तरवाक्यस्थपदजन्यस्मृतिकारणीभूतानुभवजनकत्वम् असम्प्रज्ञातयोगस्य स्वजन्यधर्मद्वारेति न कोऽपि विरोधो, न वा महावाक्यार्थबोधानुपपत्तिरपीति भाव इति प्राहुः । यथा च पदार्थतावच्छेदकपुरस्कारेणैव ज्ञानजनकत्वनियमाभावस्तथाव्यक्तमाकर इति दिक् ॥ ४९ ॥
नन्वनादिना शब्दादिविषयभोगसंस्कारेणातिबलीयसाऽभिहता समाधिप्रज्ञा न स्थितिं लभेत इत्यत आह –
तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ ५० ॥
निर्विचारसमाधिप्रज्ञाजन्यः संस्कारो व्युत्थानसंस्कारस्य प्रतिबन्धी बाधक इत्यर्थः । कथमेतदितिचेत् । प्रज्ञासंस्कारस्य तत्त्वसंस्पर्शित्वादिति ध्येयम् ॥ ५० ॥
ननु संप्रज्ञातसंस्कारप्रबलं चित्तं तत्प्रज्ञापरम्परामेव जनयेत् । तथाच कथं निर्बीजसमाधिं कुर्यात् तत्राह –
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ ५१ ॥
पुरुषख्यात्यनन्तरं परवैराग्यसंस्कारप्रचयेन तस्य सम्प्रज्ञातसमाधिप्रज्ञासंस्कारस्य, अपिशब्दात् प्रज्ञायाश्च निरोधे सति सर्वस्य प्रज्ञातज्जसंस्कारप्रवाहस्य निरोधादवसिताधिकारत्वेन चित्तस्य कृत्याभावान्निमित्तापाये नैमित्तकापाय इति न्यायेन निर्बीजः समाधिर्भवति ॥ ५१ ॥
इति समाधिपादटीकायां पातञ्जले सांख्यप्रवचने योगशास्त्रे समाधिपादः प्रथमः समाप्तः ॥ १ ॥