floral-decor

श्रीमन्नागोजीभट्टकृतः

वृत्तिः

change script to

अथ योगानुशासनम् ॥ १ ॥
अथशब्दः स्वरूपेण मङ्गलं दध्यादिवत्, अधिकारद्योतकश्च । योगोऽनुशिष्यते विविच्य बोध्यतेऽनेनेति योगानुशासनं शास्त्रमधिकृतं बोद्धव्यमित्यर्थः । हिरण्यगर्भाद्युपदिष्टस्यैव योगस्य विविच्य बोधनमत्रेति बोध्यम् ॥ १ ॥
योगलक्षणमाह –
योगश्चित्तवृत्तिनिरोधः ॥ २ ॥
चित्तस्यान्तःकरणस्य वक्ष्यमाणा या वृत्त्ययस्तासां निरोधो निवर्तनं योग इत्यर्थः । वृत्तिनिवर्तनं च जीवनयोनियत्नवदतीन्द्रियो यत्नविशेषश्चित्तनिग्रहरूपो वृत्तिविलयहेतुः, चित्तस्य वृत्तिसंस्कारशेषावस्था वा । सा चावस्था तारतम्यविशिष्टसंस्कारपरिणामधारा नतु वृत्त्यभाव एव । अभावस्याधिकरणावस्थाविशेषरूपत्वाद्वक्ष्यमाणसंस्कारजनकत्वानुपपत्तेः । अभावस्य संस्कारजनकत्वेऽतिप्रसङ्गात् । संस्कारवृद्धिं विनानुदिनं योगस्य कालवृद्धौ नियामकान्तरासंभवात् । अत्र सर्ववृत्तिनिरोधावचनात्संप्रज्ञातयोगोऽपि संगृहीतः । द्विविधो योगः संप्रज्ञातोऽसंप्रज्ञातश्च । तत्र यो ध्येयातिरिक्तवृत्तिनिरोधः स च विषयान्तरसञ्चाराख्यप्रतिबन्धकनिवृत्तिरूपतया विषयान्तरवासनाभिभवद्वारा धर्मविशेषद्वारा च ध्येयसाक्षात्कारहेतुः । चित्तं हि स्वत एव सर्वार्थग्रहणक्षमं विभु च । तमसावरणादेव तु न सर्वदा सर्वं गृह्णाति । अतस्तमोवर्धकानां विषयान्तरवासनापापादीनां क्षये [ योगतो वृत्तिः ] स्वयमेव ध्येयं वस्तु साक्षात्क्रियते चित्तेनेति सिद्धान्तः । अन्त्यः सर्ववृत्तिनिरोधः ।अत्रेदं बोध्यम् । क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति पञ्च चित्तस्यावस्थाविशेषाः । तत्र क्षिप्तं रजस उद्रेकादत्यन्तमस्थिरं शब्दानुरागि च । यथा दैत्यदानवदीनाम् । मूढं तमःसमुद्रेकात्कृत्याकृत्यविचारशून्यं क्रोधादियुतं निद्रादिमदधर्माद्यनुरागि च । यथा रक्षःपिशाचादीनाम् ।विक्षिप्तं सत्त्वोद्रेकाद्दुःखसाधनपरिहारेण सुखसाधनेष्वेव प्रवृत्तम् । यथा देवानाम् । चित्तं हि रजसा प्रवृत्तिशीलं , तमसा परापकारनिरतं , सत्त्वेन सुखमयं भवति । आसु तिसृषु विद्यमानोऽपि यत्किञ्चिच्चित्तवृत्तिनिरोधो न योगपक्षे तत्प्रतिद्वन्द्विविक्षेपोपसर्जनत्वात् । एकाग्रत्वं ध्येयातिरिक्तवृत्तिनिरोधः । तत्र हि सति कूटस्थनित्यचित्स्वरूपस्य हृदयदेशेऽन्तःकरणावच्छेदेनाभिव्यक्तस्य साक्षात्कारो भवति । साक्षात्कारे चाविद्योच्छेदात्तन्मूलक्लेशक्षयो भवति । अस्यामवस्थायां संप्रज्ञातयोगः । अत्र रजस्तमोमयवृत्तेः सर्वथा निरोधः । सात्विकी त्वात्मविषयास्त्येव । अस्य च ध्येयवस्तुपुरुषतत्त्वसाक्षात्कारद्वारा क्लेशाद्युच्छेदकत्वेन मोक्षहेतुता । निरुद्धं निरुद्धसकलवृत्तिसंस्कारमात्रशेषम् । अत्र सर्ववृत्तिनिरोधेऽसंप्रज्ञातः । अस्य चाखिलवृत्तिसंस्कारदाहद्वारा प्रारब्धस्याप्यतिक्रमेण मोक्षहेतुतेति वक्ष्यामः । तदुक्तम् –

’एकाग्रता चेद्ग्रह्यादौ निरोधश्चेच्चिदात्मनि ।
क्षिप्तादित्रिभुवस्त्यागात्कस्य मोक्षोऽत्र दूरतः’ इति ॥

यदाहि तमो रजोगुणमपि विजित्य त्रिगुणात्मकेऽपि चित्ते प्रधानं सत्त्वमावृणोति तदा रजस्तमःसमुत्सारणेऽशक्तत्वात्तमसा स्थगितं चित्तमधर्मावैराग्याद्युपगच्छति । एवं सर्वत्रेच्छाप्रतिघातरूपमनैश्वर्यं चोपगच्छति । विपर्ययज्ञानात्मकमज्ञानं निद्रारूपं चोपगच्छति । इदं मूढम् । यदा हि स्वन्यूनाभ्यां परस्परसमाभ्यां रजस्तमोभ्यां संसृष्टं सत्त्वं तदाऽणिमाद्यैश्वर्यशब्दादिविषयप्रियं भवति । इदं क्षिप्तमाद्यम् । यदा हि क्षीणतमस्करजसानुविद्धसत्त्वकं तदा धर्मज्ञानवैराग्यैश्वर्योपगं भवति । इदं विक्षिप्तम् । यदा तु लेशतोऽपि रजस्तमोमलरहितसत्त्वकं चित्तं तयोरपगमे संसारहेतुत्वादिदोषदर्शनान्निरुद्धबाह्यवृत्तिकं स्वरूपप्रतिष्ठं स्वाभाविकप्रसादादियुतं तदा सत्त्वपुरुषान्यताख्यातिरूपविवेकोपगं तन्मात्रवृत्तिकं भवति । एतदेवैकाग्रमित्युच्यते । अस्यैव परा काष्ठा धर्ममेघसमाधिः, यत्र चित्तस्य ध्यानमात्रप्रियता भवति । यदा तु – चिच्छक्त्यपेक्षया विवेकख्यातौ सत्त्वगुणात्मकत्वेनाधमत्वं गृह्णाति चिच्छक्तिः पुरुषाख्याऽपरिणामित्वात् बुद्धिवत्क्रियाराहित्येन विषयदेशे गमनरूपप्रतिसंक्रमरहिता विषयसङ्गरहिता च बुद्ध्या स्ववृत्तिद्वारा दर्शितविषया सुखदुःखमोहात्मकत्वरूपाशुद्धिरहिता अनन्ता च , विवेकख्यातिस्तु सत्त्वगुणकार्यापि परिणामिनी दीपशिखावद्विषयेषु संचरणात्प्रतिसंक्रमवती जडा सुखदुःखाद्यशुद्धिमती परिच्छिन्नत्वादन्तवती, मुखमपि विवेकिनो दुःखवद्धेयमेवेति तस्यामपि विरज्यते चित्तं – तदा सर्ववृत्तिनिरोध इति बोध्यम् । इदं निरुद्धम् ॥ २ ॥
नन्वेवं व्युत्थानकालीने यत्किंचिद्वृत्तिनिरोधेऽतिव्याप्तिः । किंच वृत्तिविषयकबोधस्वरूप एव पुरुष इति वृत्तिविलये तदनुभवरूपः पुरुषोऽपि नश्येत्, काष्ठापायेऽग्निवदित्यत आह –
तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ ३ ॥
तदेत्यनेन योग्यताबलात् सर्ववृत्तिनिरोधरूपोऽसंप्रज्ञातः परामृश्यते । संप्रज्ञाते तदभावस्योत्तरसूत्रारूढत्वात् । तदा सर्ववृत्तिनिरोधे द्रष्टुः ज्ञानस्वरूपस्य स्वरूपे निर्विषयचिन्मात्ररूपत्वे अवस्थानं भवतीत्यर्थः । जपापाये स्फटिकस्येव वृत्त्यपाये पुरुषस्य वृत्तिप्रतिबिम्बशून्यस्य स्वरूपेऽवस्थानमिति भावः । एवञ्च तदा वृत्त्यभावात्तदनुगतदुःखादिभोगनिवृत्तिः पुरुषार्थः । पुरुषस्यैतदेव स्वरूपं न बुद्धिवृत्तिविषयबोधः । तस्यौपाधिकत्वात् । तत्रोपाधिनिवृत्तावप्युपहितानिवृत्तिरिति न तन्नाशप्रसङ्गः । एवञ्च द्रष्टुरात्यन्तिकस्वरूपावस्थितिहेतुश्चित्तवृत्तिनिरोधो योगलक्षणम् । क्लेशकर्मादिपरिपन्थिचित्तवृत्तिनिरोधो वा । तच्च न व्युत्थानकालिकनिरोध इति न तत्रातिव्याप्तिः । संप्रज्ञातस्य चासंप्रज्ञातद्वारा स्वरूपावस्थितिहेतुत्वम् । प्रलयकालीनस्य समग्रसुषुप्तिकालीनस्य च निरोधस्य व्यावृत्तये आत्यन्तिकेति । स्वरूपावस्थानं चौपाधिकरूपनिवृत्तिपूर्वकः स्वरूपाप्रच्यवः । तन्निवृत्तिश्चोपाधिनिवृत्त्येति दिक् ॥ ३ ॥
इदानीमसंप्रज्ञातव्यतिरिक्ते व्युत्थानकाले चिच्छक्तेस्तादृशस्वरूपाया अपि औपाधिकमनर्थयोगं दर्शयति योगे लोकानां प्रवृत्तये –
वृत्तिसारुप्यमितरत्र ॥ ४ ॥
इतरत्र योगाभावकाले समानमेकं रूपं यस्य स सरूपस्तस्य भावः सारूप्यं वृत्तिभिः सारूप्यमित्यर्थः । व्युत्थाने हि बिम्बप्रतिबिम्बरूपयोर्वृद्धिवृत्तिपुरुषवृत्त्योः सारूप्यम् । वृत्तयोऽपि दीपशिखा इव द्रव्यरूपा भङ्गुराश्चित्तस्य परिणामाः । नचापरिणामिनः पुरुषस्य वृत्तिः, दर्शितविषयत्वात् । बुद्ध्या निवेदितविषयत्वं हि तत्त्वं, निवेदनं च स्ववृत्त्यारूढविषयस्य प्रतिबिम्बस्वरूपेण चितावाधानम् । एवञ्च ते प्रतिबिम्बा एव तस्य वृत्तयः । तदुक्तं भाष्ये – ’व्युत्थाने याश्चित्तवृत्तयः तदविशिष्टवृत्तिः पुरुषः’ इति । प्रतिबिम्बोऽपि न स्फटिकवत् किंत्वनिमान एव । एतद्यद्वृत्तिसारूप्यमेव वृत्त्याकारताख्यं तदेवास्यार्थोपरक्तवृत्तिभानं तस्य चाकारोऽयं घट इत्यादिरूप एव नतु वृत्तिबोधस्य पृथगाकारोऽस्ति । घटमहं जानामीत्यादि तु बुद्धेरेवाकारान्तरमिति कश्चित् । ज्ञानस्य स्वप्रकाशत्वादेवमभिलाप इत्यन्ये । वृत्त्यभिन्नैकरूपता चित्तेन सह द्रष्टुरिति भावः । बुद्धिपुरुषयोः संनिधानादभेदग्रहेण ताभिरेव वृत्तिभिः पुरुषोऽपि वृत्तिमानिवाकर्तापि कर्त्रेवाभोक्तापि भोक्तेव दुःखादिमानिव विवेकख्यातिरहितोऽपि तत्सहित एव विवेकख्यात्या प्रकाशते । भोक्तृत्वभोग्यतालक्षणसंबन्धश्चानाद्यविद्यानिमित्तकः प्रतिनियतयोरेव बुद्धिपुरुषयोः स्वस्वामिभावोऽनादिरेव । यथा ह्ययस्कान्तः स्वस्मिन्नेवायःसंनिधीकरणात् शल्यनिष्कर्षकतयोपकारी स्वामिनः खं भवति भोगसाधनत्वादेवं चित्तमयःसदृशविषयजातस्य स्वस्मिन्संनिधीकरणात् दृश्यत्वमुपकारं जनयन् पुरुषस्य स्वं, भोगसाधनत्वात् । यद्यपि भोग्यभोक्तृभावो न प्रलये तथापि स्वभुक्तवृत्तिवासनावत्त्वादिकमेव बुद्धौ पुरुषस्य स्वत्त्वं, चित्तस्य कार्यत्वेऽपि बीजावस्थया नित्यत्वादनादित्वाक्षतिः । तत्सारूप्यमेव चितेर्दुःखभोगः । प्रतिबिम्बस्वरूपदुःखहानमेव मोक्षः । ये त्वात्मनि मनःसयोगात्सुखाद्युत्पत्तिरिति वदन्ति तेषां कार्णद्वयकल्पनागौरवम् । आत्मनि विषयनिष्ठसुखाद्याकारवृत्तिस्वीकारे परिणामित्वापत्तिश्च । बुद्धावर्थविषयकत्वमनर्थाकारतैव बुद्धिपरिणामविशेषरूपा नतु तत्प्रतिबिम्बः, स्वप्नादौ विषयाभावेन तत्प्रतिबिम्बासंभवात् । पुरुषे तु सा परिणामरूपा न संभवतीति प्रतिबिम्बरूपैव । वृत्तीनामेव च प्रतिबिम्बार्पणसामर्थ्यमिति न संस्कारशेषाया बुद्धेरसंप्रज्ञाते प्रतिबिम्बनम्, उक्तस्वस्वामिभावस्यैव प्रतिबिम्बे नियामकत्वान्न परबुद्धिवृत्तेः परस्य भानम् । ’यथा संल्लक्ष्यते रक्तः केवलस्फटिको जनैः । रञ्जकाद्युपधानेन तद्वत्परमपुरुषः’ इति स्मृतेश्च प्रतिबिम्बस्वीकार इति दिक् । एवं बुद्धावपि चित्प्रतिबिम्ब आवश्यकः । अन्यथा कर्तृकर्मविरोधेन चैतन्यभानानुपपत्तिरिति ध्येयम् । उभयत्रोभयाकारबुद्धिपरिणाम एव प्रतिबिम्ब इति दिक् ॥ ४ ॥
वृत्तीनामियत्तामाह –
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥ ५ ॥
वृत्तिसमुदायरूपोऽवयवी पञ्चप्रकारावयवक इत्यर्थः । ते च वृत्तिसमुदायाः चैत्रमैत्रादिचित्तमेदाद्बहव इति बहुचनम् । धर्माधर्मवृद्धिरूपक्लेशफलिकाः क्लिष्टाः । सत्त्वपुरुषान्यतारूपविवेकज्ञानसाधनविषयाः ख्यातिसंज्ञा अक्लिष्टाः । तत्र क्लिष्टानामक्लिष्टाभिर्निरोधोऽक्लिष्टानां च परवैराग्येणेति बोध्यम् । तत्र क्लिष्टान्तर्वर्तिन्योऽप्यक्लिष्टाः क्लिष्टाभिरनभिभूताः स्वसंस्कारपरिपाकक्रमेण क्लिष्टा अभिभवन्तीति अक्लिष्टा एव भवन्तीति मिश्राणां नाधिक्यम् । वृत्तिभिः संस्काराः संस्कारैश्च वृत्तय इत्येवं वृत्तिसंस्कारचक्रमावर्तते आनिरोधयोगात् । निरोधावस्थां च चित्तं दग्धाखिलसंस्कारं प्रलयं याति । कृत्यादिलक्षणवृत्तीनां चैतन्निरोधेनैव निरोध इत्याशयेन पञ्चेत्युक्तम् । आसां वृत्तित्वं चैतैरेव व्यापारैश्चित्तस्य जीवनात् इति दिक् ॥ ५ ॥
तान्पञ्चप्रकारान्दर्शयति –
प्रमाणविपर्ययविकल्पनिद्रास्मृतय ॥ ६ ॥
स्पष्टम् ॥ ६ ॥
तासां क्रमेण लक्षणान्याह –
प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७ ॥
अनधिगततत्त्वबोधः प्रमा, तत्करणं प्रमाणमिति प्रमाणसामान्यलक्षणम् । अविसंवादि ज्ञानं वा प्रमा । तत्रेन्द्रियद्वारा स्वतो वा मनःसनिकर्षात् जायते यो विशेषतः पदार्थनिश्चयः तत्करणं वृत्तिः प्रत्यक्षं प्रमाणम् । तत्रेन्द्रियद्वारा निर्गतस्य चित्तस्येन्द्रियसाहित्येनैवार्थाकारः परिणामश्चित्तस्य शङ्खपैत्याद्याकारतायां नयनादिगतपित्ताद्यन्वयदर्शनात् । अत एव रूपादिवृत्तिषु चक्षुरादीनां करणत्वमुच्यते । वृत्तिश्च – ’अनन्ता रश्मयस्तस्य प्रभावत्यः स्थिता हृदि’ इति स्मृतेः प्रभावद् द्रव्यमेव । निश्चयत्वं च संशयभिन्नज्ञानत्वं तेन नेच्चाकृत्यादिष्वतिव्याप्तिः । स्वतो वेत्यनेन विवेकख्यातिरपि लक्षिता । ’इन्द्रियप्रणालिकया चित्तवृत्त्याकारस्य बाह्यवस्त्वाकारोपरागात् बाह्यार्थगोचरं सामान्यधर्मविशेषधर्मतादात्म्यापन्नस्याप्यर्थस्य सामान्यधर्मोपसर्जनकविशेषरूपेण भानम्’ इति भाष्यकृतः । तत्रापीन्द्रियप्रणालिकयेत्युपलक्षणम् । अनेनानुमित्यादिषु चित्तवृत्त्याकारेणैव साकारता वृत्तेः सामान्यविषयकत्वं च दर्शितम् । तदवच्छिन्ने एव व्याप्तिग्रहात् ॥ स्वप्नध्यानादौ चित्तवृत्तिघटाकारस्यैवानुभूयमानत्वात् तत्रापि चित्तवृत्तेर्घटाद्याकारतयानुभवात् चित्ते वासनारूपेण सर्वद्रव्यसत्तास्ति । ते हि वृत्तिसामग्र्या स्थूलाकारास्तस्यां भासन्त इति दिक् । प्रमाणफलमविशिष्टः पौरुषेयश्चित्तवृत्तिबोध इति भाष्यम् । वृत्तिरूपकरणस्य चित्तवृत्तिसमानाकारः पुरुषरूपो बोधः । तत्र हेतुगर्भविशेषणमविशिष्ट इति । चित्तवृत्तिसारूप्यापन्न इत्यर्थः ॥ यद्यपि स नित्यस्तथापि तत्तदाकारवैशिष्ट्येन फलत्वं पुरुषाश्रितत्वं चेति बोध्यम् । राजार्थे भृत्यव्यापारवत् पुरुषार्थमेव करणव्यापारात्तद्बोधस्यैव फलत्वं युक्तम् । वृत्तिश्च प्रदीपशिखावद्बुद्धेरग्रभागः । येन चित्तस्यैकाग्रताव्यवहारः । एकमग्रे विषयतया यस्य तद्भावो ह्येकाग्रता ॥ अयं घट इत्याकार एव वृत्तेर्बोधः । घटमहं जानामीति बुद्धेर्वृत्त्यन्तरं, चैतन्यस्य स्वप्रकाशतयाऽस्यैवाभिलापो वा । केचिद्बुद्धौ प्रतिबिम्ब एव पुरुषस्य वृत्तिस्तदेव वृत्त्याकारतामापन्नं बोधफलमिति । तन्न । प्रतिबिम्बस्य बुद्धिपरिणामरूपतया तुच्छत्वेनार्थभानरूपत्वानुपपत्तेः । किञ्च परस्परप्रतिबिम्बः स्मृतिसिद्धः । किञ्च जानामीत्येवं बुद्धिवृत्तौ भासमानं प्रतिबिम्बचैतन्यं न स्वज्ञेयं सम्भवति कर्तृकर्मविरोधात् । अतस्तस्या बिम्बचैतन्ये भानमावश्यकमिति दिक् ॥
लिङ्गजन्या वृत्तिः सामान्यविषयाऽनुमानम् । आप्तेन तत्त्वदर्शनकारुण्यकरणपाटवरूपाप्तिमता स्वयं दृष्टस्य श्रुतस्यानुमितस्य वार्थस्य स्वचित्तवृत्तिज्ञानसदृशज्ञानविषयतया परचित्ते समर्पयितुमुपदिश्यते यः शब्दस्तज्जन्या तदर्थविषया वृत्तिरागमः ॥ यत्र वक्ताऽदृष्टश्रुतानुमितार्थत्वेनाश्रद्धेयः स आगमोऽप्रमाणम् । अन्यस्तु प्रमाणम् । मन्वाद्युक्तार्थानामपि तन्मूलवेदवक्ता ईश्वरो दृष्टानुमितार्थः एवेति तेऽपि प्रमाणमेव । वृत्तयस्तु साक्षिभास्याः करणानपेक्षणात्। साक्षाद्दर्शनरूपमेव पुरुषस्य साक्षित्वम् । तदुक्तम् – “प्रमाता चेतनः शुद्धः प्रमाणं वृत्तिरेव च । प्रमाऽर्थाकारवृत्तीनां चेतने प्रतिबिम्बनम् ॥ प्रतिबिम्बितवृत्तीनां विषयो मेय उच्यते ॥ वृत्तयः साक्षिभास्याः स्युः करणस्यानपेक्षणात् ॥ साक्षाद्दर्शनरूपं च साक्षित्वं सांख्यसूचितम्’ इति ॥ सुखादिमत्यो हि वृत्तयः रूपादिमत्यो भार्या इव पुरुषस्य भोग्या इत्युच्यन्ते ॥ ७ ॥
विपर्ययं लक्षयति –
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८ ॥
विपर्यय इति लक्ष्यम् ।मिथ्याज्ञानमिति लक्षणम् । मिथ्येत्यस्य विवरणमतद्रूपप्रतिष्ठमिति, भासमानरूपाभाववद्विशेष्यकमित्यर्थः । यद्वाऽतद्रूपप्रतिष्ठमित्यस्य बुद्धिविषयाकारसनाकारविषयप्रतिष्ठं नेत्यर्थः । भ्रमस्थले बुद्धिवृत्त्याकारस्यैव विषये आरोप इति सिद्धान्तात् । अतः संशयोऽपि मिथ्याज्ञानमेव । मिथ्यात्वेन तज्ज्ञाने बाध्यत्वमप्यभिप्रेतम् । अतएव वक्ष्यमाणविकल्पस्य न विपर्ययत्वम् । नेदं रजतमिति ज्ञानोत्तरमिदं रजतमिति ज्ञानव्यवहारयोरभावः, शशशृङ्गमिति ज्ञानव्यवहारौ बाधज्ञानकालोत्तरमपीति विशेषात् । वस्तुतत्त्वविषयज्ञानेन प्रमाणेनाप्रमाणबाधनं दृष्टम्, एकचन्द्रज्ञानेनेव द्विचन्द्रज्ञानस्य । मिथ्याज्ञाने च दोषः कारणम् । सा चाविद्येति वक्ष्यते । भ्रमस्थले बुद्धिरूपचित्तवृत्त्याकारस्यैव विषये आरोपः । ’विप्र पृथिव्यादि चित्तस्थं न बहिष्ठं कदाचन । स्वप्नभ्रममदाद्येषु सर्वैरेवानुभूयते’ इति स्मृतेः ॥ अतद्रूपप्रतिष्ठमितिवचनादन्यथाख्यातिरत्र दर्शन इति । वैशेषिकमतादयं विशेषः – तेषां बाह्यरजतारोपः, अस्माकं त्वान्तरस्येति । अत एव प्राग्दृष्टमिदानीं नास्तीति स्वरूपतो बाधानुभवः ॥ केचित्तु – वस्तुतस्तु अतद्रूपप्रतिष्ठत्वं तद्रूपप्रकारकत्वाभाव इति असंसर्गाविशिष्टं ज्ञानं भ्रम इति मतेऽपि सूत्रं सुयोजमिति । विपर्यय एवाविद्यास्मिताराग्द्वेषाभिनिवेशरूपपञ्चपर्वाऽविद्या । रागादीनामविद्यानुगतत्वादविद्यापर्यायत्वं विपर्ययत्वं च । एषामेव तमोमोहमहामोहतामिस्रान्धतामिस्रेति संज्ञा इति दिक् ॥ ८ ॥
विकल्पं लक्षयति –
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९ ॥
शब्दविषयकज्ञानमनुपतति तज्जन्यो वृत्तिविशेष इत्यर्थः । अनेन विशेषदर्शनकालेऽपि व्यवहारानिवृत्तेर्विपर्ययाद्भेद उक्तः । वस्तुशून्योऽर्थशून्यः । तेन प्रमाणवृत्तेर्भेद उक्तः । यथा चैतन्यपुरुषयोरभेदेन भेदस्य वस्तुतस्तत्राभावाच्चैतन्यं पुरुषस्य स्वरूपमिति शब्दज्ञानोत्तरं चैत्रस्य गौरित्यादाविव भेदमूलसंसर्गविषया वृत्तिः । यद्वा विवेकिनामपि शब्दप्रयोगज्ञानयोर्जनकस्तदारोपो विकल्पः । [भेद एव च व्यपदेशशब्देनोच्यते विशिष्टोऽपदेशो व्यवहारो यस्मादिति व्युत्पत्तेः ।] राहोः शिरो वन्ध्यासुत इत्यादि चोदाहरणम् । ………. (?) यथा बाणस्तिष्ठतीति । अत्र हि गतिनिवृत्तिः प्रतीयते । तत्राभावो नाम (न) कश्चिदर्थस्तस्माद्गतिनिवृत्तिः कल्पिता । तस्या अपि भावरूपत्वं तत्रापि पूर्वापरीभाव इति कल्पनापरम्परा । पूर्वापरीभूतकर्मक्षणप्रचयस्यैवैकफलावच्छिन्नस्य धात्वर्थत्वादिति दिक् । अन्यैरेतान्याहार्यज्ञानानीत्युच्यन्ते ॥ ९ ॥
निद्रां लक्षयति –
अभावप्रययालम्बना वृत्तिर्निद्रा ॥ १० ॥
प्रकृतत्वादुक्तानां वृत्तीनामभावस्य प्रत्ययः कारणं बुद्ध्यावरकं तमः तदालम्बना स्वपिमीत्याकारा आवरकतमोविषया च तदाच्छादितचित्तगतसुखादिविषया वृत्तिः सा निद्रेत्यर्थः । पुनर्वृत्तिपदं निद्राया वृत्तित्वे बहूनां विप्रतिपत्तेस्तद्दार्ढ्याय । ’जाग्रत्स्वप्नः सुषुप्तं च गुणतो बुद्धिवृत्तयः’ इति स्मृतेश्च । तदुद्भूततम आच्छादितबुद्धिसत्त्वस्य बाह्यवृत्त्यभावात् तद्गुणसुखादीन्यवबुध्यमानः पुरुषोऽन्तःसंज्ञ उच्यते । नच वृत्त्यभाव एवास्तु, सुखमहमस्वाप्सं प्रसन्नं मे मनः, दुःखमहमस्वाप्समकर्मण्यं मे मनो यतो भ्रमत्यनवस्थितम् , मुढोऽहमस्वाप्सं गुरूणि मे गात्राणि अलसमिव मे चित्तमिति सुप्तोत्थितस्य स्मरणानुभवात् । अनुभवाभावे हि कथं स्मृतिः स्यात् । तदन्यतमग्रहणे नियात्मकं त्वदृष्टाद्येवेति बोध्यम् ।अत एव ’त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत्’ इति श्रुत्या तत्रापि भोग्यमुक्तम् । यत्तु ’न तद्विभक्तमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्’ इति श्रुत्या सुषुप्ते ज्ञानसामान्याभाववचनं तत्समग्रसुषुप्तिपरं, यत्रायमनुभवः ’सुखमहमस्वाप्सं न किञ्चिदवेदिषम्’ इति । ’मुग्धेऽर्धसंपत्तिरिति वेदान्त्सूत्राच्च तत्र ’सुखम्’ इत्यस्य वृत्त्युत्थदुःखरहितमित्यर्थः । यत्तु सुषुप्तौ तमः साक्षिभास्यमेवेति । तन्न । साक्षिणोऽपरिणामित्वेन संस्कारस्मृत्योरसंभवात् । एषा चैकाग्रतुल्यापि तामसत्वाद्योगपरिपन्थिनीति । यत्तु त्वङ्मनोयोगरूपकारणाभावात्सुषुप्तौ ज्ञानसामान्याभाव इति । तन्न। इन्द्रियाद्युत्पत्तेः प्रागेव हिरण्यगर्भस्य ज्ञानोत्पत्त्यां ज्ञानसामान्ये तस्य हेतुत्वाभावात् । गाढतमोरूपदोषेण सर्ववृत्त्यभावस्यास्माभिरप्यङ्गीकारात् ॥ १० ॥
स्मृतिं लक्षयति –
अनुभूतविषयासंप्रमोषः स्मृतिः ॥ ११ ॥
अनुभूतविषयादधिकस्य संप्रमोषः स्तेयं परिग्रहो यत्र नास्ति सा वृत्तिः स्मृतिरित्यर्थः । अनुभूतविषयादनधिकविषयेति यावत् । एवं चानुभवसमानविषया प्रायः, कदाचिन्न्यूनविषया, सर्वथा नाधिकविषयेति तात्पर्यम् । तत्र घटमहं जानामीत्यनुव्यवसायरूपानुभवस्य विषय-वृत्तिरूपज्ञानोभयविषयकत्वात् , संस्कारस्य तादृशस्यैव जननात् तदुभयविषयैव स्मृतिरिति भाष्ये स्पष्टम् । अयं घट इति पूर्वानुभवतस्तत्समानविषयकस्य स घट इत्येव स्मरणस्यानुभवात् । व्यवसायतः संस्कारसत्त्वेऽपि तज्जन्यस्य भाष्यकृता स्मृतित्वानभ्युपगमात् । प्रमुष्टतत्ताकस्य शब्दजन्यपदार्थोपस्थित्यादिरूपस्य स्मरामीत्य(न)नुभवेनानुभवमध्ये एव प्रवेश इति कश्चित् ॥ अस्मदुक्तव्याख्याने तु तस्यापि स्मृतित्वे न दोषः ॥ वस्तुतो व्यवसायोऽपि उभयाकारनिर्भास उभयोरपि चितिप्रतिबिम्बनादिति बोध्यम् । अतएव घटमहं जानामीति ज्ञानविशेष्यकोऽनुभवः । स घट इति ग्राह्यविषयविशेष्यकं स्मरणम् । पूर्वानुभूततत्तेव तत्तावृत्तेर्विषयविषयकसंस्कारजनकत्वात्स्वविषयकसंस्कारजनकतेति भाष्याशयः । तत्रानधिगतार्थविषयोऽनुभवः । वृत्त्यन्तरगोचरार्थविषया स्मृतिरिति भेदः । नच स्वप्ने देशकालान्तरानुभूतस्य पित्रादेर्देशकालान्तरसंबद्धतया स्मरणेन तत्रापि संप्रमोषोऽस्त्येवेति चेत् । न । कल्पितस्मर्तव्यविषयत्वेन तस्य विपर्यात्मकत्वात् । प्रमाणाभासे प्रमाणव्यवहारवत् स्मृत्याभासत्वेन स्मृतिव्यवहारोऽन्येषाम् । यदाप्यनुभूतार्थमात्रविषयः स्वप्नस्तदापि प्रत्यक्षायमाणत्वेन भानादितरस्मृतिवैलक्षण्येन विपर्ययतैव तस्येति बोध्यम् । ईदृशस्मृतित्वमेवाभ्युपेत्य स्वप्नरूपा स्मृतिर्भावितस्मर्तव्येत्युक्तम् । भावितत्वेन सूचितः स्मर्तव्योऽर्थो ययेत्यर्थः ॥ अयमप्युत्सर्ग इति द्रष्टव्यम् । आसां च वृत्तीनां सुखदुःखमोहात्मकत्वात्क्लेशरूपतया एता निरोद्धव्या इति दिक् ॥ ११ ॥
अथासां निरोधे उपायमाह –
अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२ ॥
वक्ष्यमाणलक्षणाभ्यासवैराग्याभ्यां तन्निरोधः इत्यर्थः । तत्र चित्तनद्या विषयमार्गगं वृत्तिस्रोतः विषयदोषदर्शनजेन वैराग्येण प्रतिबध्यते । विवेकदर्शनाभ्यासेन च विवेकमार्गगं वृत्तिस्रोत उद्वाह्यते । तेन च ध्येयाकारवृत्तिप्रवाहस्य बलवत्वं दार्ढ्यं चेति उभयाधीनश्चित्तवृत्तिनिरोधः ॥ आभ्यां विनिवृत्तबाह्याभिनिवेशानां चित्तवृत्तीनामन्तर्मुखतया स्वकारणे चित्ते शक्तिरूपतयाऽवस्थाने सति निरोधाख्ये कैवल्याब्धौ चित्तनदी विलीयत इति दिक् ॥ १२ ॥
अभ्यासं लक्षयति –
तत्र स्थितौ यत्नाऽभ्यासः ॥ १३ ॥
तत्र तयोर्मध्ये राजसतामसवृत्तिरहितस्य सात्त्विकमात्रवृत्त्येकाग्रता स्थितिस्तत्र तन्निमित्तं तत्संपादनेच्छया तत्साधनविषयानुष्ठाने या यत्नधारा सोऽभ्यास इत्यर्थः ॥ १३ ॥
तस्यैव व्युत्थानसंस्कारेण अनादिनाऽप्रतिबन्धाय विशेषमाह –
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १४ ॥
सः अभ्यासो दीर्घकालेन सेवितो नैरन्तर्येण सेवितो ब्रह्मचर्येण श्रद्धातपआदिभिः सत्कारैश्च सेवितो दृढभूमिर्व्युत्थानसंस्कारानभिभूतो भवतीत्यर्थः ॥ १४ ॥
तत्रादावपरवैराग्यमाह –
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १५ ॥
अपरवैराग्यं तावच्चतुर्विधम् । यतमानसंज्ञा व्यतिरेकसंज्ञा एकेन्द्रियसंज्ञा वशीकारसंज्ञा च ॥ तत्र वैराग्यसाधनानामर्जनरक्षणक्षयहिंसाद्यनन्तदोषदर्शनादीनां ज्ञानपूर्वमनुष्ठानमाद्यम् । ’विरक्तिर्दोषदर्शनात्’ इति स्मृतेः ॥ जितान्येतानीन्द्रियाणी एतानि जेतव्यानीति व्यतिरेकावधारणं द्वितीयम् । बाह्येन्द्रियविषयेषु रागद्वेषादिक्षये सति एकस्मिन्नेव मनसि मानापमानादिविषयकरागद्वेषाद्यपसारणं तृतीयम् । एतत्त्रितयाभ्यासेन हि विषयसंयोगेऽपि दोषदर्शनमप्रतिविद्धं जायते ’वैराग्याद्दोषदर्शनम्’ इति स्मृतेः ॥ चतुर्थलक्षणमिदं सूत्रम् । दृष्टेष्वैहिकेषु स्त्र्यन्नपानैश्वर्यादिषु आनुश्रविकेषु वेदप्रतिपादितेषु स्वर्गकरणलीनत्वप्रकृतिलीनत्वाणिमाद्यष्टैश्वर्यादिषु वितृष्णस्य संनिहि(ता(?) तेषु रूपादिषु मा)नापमानादिषु चाक्षुब्धस्याऽऽद्यवैराग्यत्रययुक्तस्य चित्तस्य या वशीकारसंज्ञा प्रकृष्टविषयसांन्निध्येऽपि तेषूपेक्षाबुद्धिर्ममैवैते वश्या नाहमेषामिति च या बुद्धिस्तत्संज्ञकं वैराग्यमित्यर्थः । नतु रागाभावमात्रं विषयासान्निध्येन रागाभावे विरक्तत्वापत्तेः । आद्यवैराग्यत्रयवतोऽपि विषयसान्निध्ये योगभ्रंशो भवतीति चतुर्थवैराग्यमेव योगहेतुरिति भावः ॥ १५ ॥
तत्परं पुरुषख्यातेर्गुणवेतृष्ण्यम् ॥ १६ ॥
उक्तवैराग्यवतो दृढतरगुणपुरुषविवेकज्ञानाद्धर्म-मेघसमाधिरूपाद्धेतोरुत्पद्यमानं सकलगुणेष्वात्मोपकरणेषु गुणरूपायां सत्वपुरुषान्यताख्यातौ च यद्वैतृष्ण्यं चित्तस्य ज्ञानप्रसादावस्थानिष्पन्नात्मज्ञानतारूपा तत्परमुत्कृष्टं वैराग्यमित्यर्थः । (पूर्व)विषयेष्विव ज्ञानेऽपि विनाशित्वादिदोषदर्शनसत्त्वेऽपि अविद्यानिवृत्त्याख्यप्रयोजनवशेन तत्र नालंबुद्धिरूपं वैराग्यम् । सम्यग्ज्ञानेनाविद्यानिवृत्तौ च तेनैव दोषदर्शनेन तत्राप्युपेक्षारूपं वैराग्यमिति भावः । यदुत्तरं निर्विषयज्ञानप्रसादमात्ररूपोऽसंप्राज्ञातः समाधिरिति तात्पर्यम् । अस्मिन्नेव वैराग्ये सति ऐहिककैवल्यनियमः ॥ १६ ॥
अथ संपज्ञातविभागमाह –
वितर्कविचारानन्दास्मितारूपानुगमात्संप्रज्ञातः ॥ १७ ॥
साक्षात्कारविशेषरूपैर्वितर्कादिभिरनुगमात् उपधानात्संप्रज्ञातश्चतुर्विधः । सम्यक् संशयविपर्ययराहित्येन प्रज्ञायते प्रकर्षेण ज्ञायते भाव्यस्वरूपं येन स संप्रज्ञातसमाधिः भावनाविशेषः । स सवितर्कः सविचारः सानन्दः सास्मितश्च । भावना च भाव्यस्य विषयान्तरपरिहारेण चेतसि पुनःपुनर्निवेशनम् । वितर्कादीनां क्रमेण निरोधस्यापि क्रमः । उच्चारोहे क्रमिकसोपानपरंपरावत् । स्वतो निरोधे क्रमाभावात् । वितर्कादिक्रम औत्सर्गिकः । एकदा चित्तस्य परमसूक्ष्मे प्रवेशस्य प्रायशोऽसम्भवात् ।’स्थूले विनिर्जितं चित्तं ततः सूक्ष्मं शनैर्नयेत्’ इति स्मृतेः । किञ्च स्थूलादिविषये रागे उत्तरोत्तरभूमौ चित्तसमाधानासम्भवः । अतः स्थूलादिसाक्षात्कारेण तत्र तत्र दोषदृष्ट्योत्तरोत्तरभूम्यारोहः । यदि तु कस्यचिदीश्वरप्रसादादादावेवोत्तरभूम्यारोहो भवति तेन पूर्वभूमिकाभ्यासस्तत्सिद्धिकामनां विना न कार्यः। एतच्च भूमिकाचतुष्टयमेकस्मिन्नेवालम्बने कर्तव्यम् । अन्यथा पूर्वपूर्वोपासनात्यागदोषापत्तेः, चित्तचाञ्चल्यदोषापत्तेश्च । तथाहि – यद्विराट्शरीरं चतुर्भुजादिकं वा स्वशरीरं वा पुरुषेश्वरसहितं जडचतुर्विंशतितत्त्वैः प्रकृत्या पुरुषेण च षड्विंशतितत्त्वसंघातं समष्टिव्यष्ट्यात्मकमालम्बनमधिकृत्य प्रथमं भावना प्रवर्तते तदालम्बनं, तत्रालम्बने स्थूलयोर्महाभूतेन्द्रिययोर्विद्यमानानामशेष-विशेषाणामतीतानागतवर्तमानव्यवहितविप्रकृष्टानां गुणदोषाणामदृष्टाश्रुतामतानामपि पूर्वापरानुसंधानेन शब्दार्थोल्लेखेन च भावनया यः साक्षात्कारः स वितर्क इत्युच्यते । तेन फलेनोपहितश्चित्तवृत्तिनिरोधो वितर्कानुगत इत्युच्यते । तत्रादृष्टाश्रुतामतानां पूर्वचिन्तनासम्भवेऽपि योगबलेनैवोत्तरोत्तरं तेषां साक्षात्कारो भवति । तस्यैव पुनः सवितर्कनिर्वितर्काख्यौ भेदौ वक्ष्यति । वितर्के विपरीततर्कणं शब्दार्थज्ञानविकल्परूपमित्यग्रे स्फुटम् । अत्र स्थूलसाक्षात्कारे तप्तायःपिण्डवदेकीभावेन पुरुषपर्यन्तानां भानमुत्तरे च पूर्वपूर्वहानिरिति भाष्ये स्पष्टम् । जपादिजन्यात् ध्रुवादीनां चतुर्भुजादिसाक्षात्काराच्चायं विलक्षणः । तेषां हि तपोध्यानादितुष्टः परमेश्वरः स्वयं शरीरं निर्माय पुरः प्रकटीभूय वागादिव्यवहारं चक्रे । योगिनस्तु योगबलेन वैकुण्ठश्वेतद्वीपादिरूपं पश्यन्तीति विशेषः । ततस्तत्रैवालम्बने दोषज्ञानेन स्थूलाकारदृष्टिं त्यक्त्वा कारणत्वेनानुगता ये तन्मात्राहंकारप्रकृतिरूपा भूतेन्द्रिययोः सूक्ष्मा अर्थास्तेषु क्रमेण धारणादित्रयेण यस्तद्गताशेषसाक्षात्कारः स विचारः, विशेषेण चरणं सूक्ष्मवस्तुपर्यन्तं यत्रेत्यर्थात्तदुपहितो विचारानुगतः । अस्य सविचारनिर्विचाररूपौ भेदौ वक्ष्यति । नच स्थूलालम्बने कथं सूक्ष्मदृष्टिर्यथार्था । सर्वेषां षड्विंशतितत्त्वकार्यतया कार्यकारणयोश्चाभेदेन षड्विंशतितत्त्वरूपत्वात् । तत्रापि कार्यरूपताऽस्थिरा कारणरूपतैव च सत्या । नचैवमप्यदृष्टस्य कथं भावना, श्रुतमतप्रकारतयैव सामान्यतो भावनासंभवात् । अश्रुतामतविषयस्य च योगजधर्मबलेनैव साक्षात्कार एवं सर्वत्र बोध्यम् । ततस्तत्रैवालम्बने तामपि दृष्टिं दोषदर्शनेन त्यक्त्वा चतुर्विंशतितत्त्वानुगतसुखरूपपुरुषार्थे धारणादित्रयेण पूर्ववदशेषविशेषतः सुखाकारः स आनन्दः ज्ञानज्ञेययोरभेदोपचारात् तदुपहितः सानन्दः । यद्यपि सुखवद्दुःखमोहावपि सर्वत्र तथापि सुखरागेणैव संसारादात्मदर्शनप्रतिबन्धाच्च तदेव मुख्यतोऽशेषविशेषतो योगेन द्रष्टव्यम् । यथा तत्र दोषदर्शनेन दुःखदृष्ट्या योगजसिद्धिष्वपि वैराग्यं स्यादित्याशयेनानन्दमात्रे योगोपदेश इति बोध्यम् । तत आनन्दपर्यन्तं दोषदर्शनेन विरज्य तत्रैवालम्बने जीवेश्वररूपं यत्पुरुषद्वयमस्ति तदन्यतरस्य कूटस्थचिन्मात्ररूपस्य जडेभ्यो विवेकेन य आत्माकारः साक्षात्कारः सोऽस्मिता, देहादिभिन्नोऽस्मीत्येतावन्मात्राकारत्वादस्मीत्येतावन्मात्राकारत्वाद्वा । इतः परं ज्ञातव्याभावादेषा चरमभूमिका । अत्रास्मिताशब्देन विविक्तचेतनाकारं मात्रतोपलक्ष्यते । तेनादीनभावेन(?)य ऐश्वरश्चेतनतत्वसाक्षात्कारस्तस्यापि संग्रहः । तदनुगतोऽस्मितानुगतः । अस्यैव परा काष्ठा धर्ममेघसमाधिरित्युच्यते । यस्योदये ज्ञानेऽप्यलंप्रत्ययरूपपरवैराग्यं जायते । तत्र पूर्वं जीवात्मविषयास्मिता । ततस्ततोऽपि सूक्ष्मा परमात्मविषया । जीवस्वरूपज्ञानं हि प्रत्यक्षं तत्रैव परिच्छिन्नकूटस्थत्वादिज्ञानस्यैव तत्साक्षात्कारत्वात् । अयमेव सत्वपुरुषान्यताख्यातिशब्देनोच्यते । पारमेश्वरयोगस्तु कौर्मे उक्तः – ’यत्र साक्षात्प्रपश्यन्ति विमुक्ता विश्वमीश्वरम्’ इति । कारणरूपेण विभुत्वेन च सर्वत्रानुगमादस्मिताया अचेतनघटाद्यालम्बनेष्वपि संभव इति दिक् । चत्वारोऽप्येते सालम्बनाः सबीजा इति चोच्यन्ते ध्येयरूपालम्बनयोगाद्वृत्तिबीजसंस्कारोऽन्तत(?)श्चेति ध्येयम् ॥ १७ ॥
असंप्रज्ञातमाह –
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८ ॥
तत्वज्ञानलक्षणवृत्तेरपि विरामोऽस्तु इति ’नेतिनेति’ इत्युदीरितो यः प्रत्ययो ज्ञानेऽप्यलंबुद्ध्यात्मा परवैराग्यरूपस्तस्याभ्यासात्पौनःपुन्याज्जायते यः संस्कारमात्रावशेषो वृत्तिनिरोधः स संप्रज्ञातादन्योऽसंप्राज्ञात इत्यर्थः । संस्कारमात्रशेष इत्यनेन मोक्षकालिकनिरोधव्यावृत्तिः । असंप्रज्ञाते हि संस्कारमात्रं तिष्ठति नतु वृत्तिः । मोक्षे तु चित्तस्यात्यन्तं विलयात्संस्कारोऽपि न तिष्ठतीति विशेषः । विरामप्रत्ययाभ्यासेन पूर्वसंस्कारनाशेऽपि तज्जन्यसंस्कारस्य शेषः । तज्जन्या वृत्तिस्तु नाग्रे । तत्र चित्तस्य संस्कारमात्रयुक्तस्य योगयन्त्रितस्यावस्थानम् । सुषुप्तौ तु लय इति विशेषः । सर्वसंगविवर्जितत्वेन निःशेषक्लेशराहित्येन च त्वमर्थशोधनं योगसिद्धान्तः । ततस्तत्पदार्थशोधनपूर्वकं वाक्यार्थनिष्ठता वेदान्तशास्त्रगम्या । तच्छोधनोपयुक्तत्वमात्रेणानेकत्ववादो जीवानामानन्दरूपत्वाभावश्चात्रोक्तो न तु वास्तव इत्यविरोधः । असंप्रज्ञातयोगवतः प्रारब्धवशाद्व्युत्थानेऽपि वृत्यभाव एव वृत्तिजनकसंस्काराणां नाशादिति दिक् ॥ १८ ॥
स च द्विधा भवप्रत्यय उपायप्रत्ययश्च । तत्राद्यं लक्षयति –
भवप्रययो विदेहप्रकृतिलयानाम् ॥ १९ ॥
विदेहाश्च प्रक्रुतिलयाश्चेति द्वन्द्वः । तत्र विदेहाः स्थूलदेहनिरपेक्षेण लिङ्गदेहेनाखिलव्यवहारक्षमा हिरण्यगर्भादयः । ते हि भूतेन्द्रियतन्मात्राहंकारमहतामन्यतमदात्मत्वेन प्रतिपद्य तदुपासनया तद्वासितान्तःकरणाः पिण्डपातान्तरं तदन्यतमे लीनां संस्कारमात्रशेषमनसः स्थूलदेहरहिता अवृत्तिकत्वात्कैवल्यमिवानुभवन्ति , प्राप्ताबधयस्तु पुनः संसारे विशन्ति । यथा वर्षातिपाते मृद्रूपा मण्डूकाः पुनर्वर्षासेकेन मण्डूकदेहमनुभवन्ति तद्वत् । ते हि दैनन्दिनप्रलये कदाचिच्च सर्गकालेऽपि स्वसंस्कारमात्रोपगतेन चित्तेन संस्कारशेषेण निरोधावस्थेन कैवल्यपदमिव प्राप्नुवन्तः प्राप्तेऽवधौ व्युत्थानकाले देवभावप्रापकसंस्कारेण तद्भावं प्राप्य तत्फलमैश्वर्यादिकं ततो भुक्त्वा मुच्यन्ते । ’दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः । भौतिकाश्च शतं पूर्ण सहस्रं त्वाभिमानिकाः ॥ बौद्धा दशसहस्राणि तिष्ठन्ति विगतज्वराः’ इयुक्तेः । तेषां च एतद्देहपातानन्तरं स्वस्वाधिकारावसरे प्रादुर्भावरूपजन्ममात्रकारणकत्वाद्भवप्रत्ययः । भवो जन्म प्रत्ययः कारणं यस्येत्यर्थात् । प्रकृतिलयाश्च प्रकृत्युपासनया तच्छवलेश्वरोपासनया वा ब्रह्माण्डं भित्त्वा महत्तत्वपर्यन्तावरणान्यतीत्य प्रकृत्यावरणं गताः तदुपासनया तद्वासनावासितान्तःकरणाः पिण्डपातान्तरं तत्र लीनास्तेऽपि साधनानुष्ठानं विनैव तत्राविर्भावरूपाज्जन्मत एव तथाविधा भवन्ति । ’पूर्णं शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः’ । इत्यवधिसमाप्तौ पुनः देवादिसंसारे विशन्ति । ततो मुच्यन्ते प्राग्वत् । तत्स्थास्तु विवेकख्यातेरभावात्साधिकारचेतसः कैवल्यपदमिवानुभवन्ति स्थूलदेहवृत्तिसजातीयवृत्त्यभावात् । अत एवेन्द्रियाद्युपासकानामिन्द्रियाद्यभिमानिसूर्यादिप्राप्तेः फलत्वेन श्रवणम् । अयं चैषां विदेहेभ्यो विशेषः – तेषामल्पमैश्वर्यं मलिनश्च विषयः । एते च तेषामपीशाः स्वसंकल्पमात्रेण निर्मलसत्वविषयभोगा ईश्वरकोटय इत्युच्यन्ते । प्रलये प्रकृतिलीनत्वात्स्वतन्त्रा न गृह्यन्ते तस्य पुरुषार्थत्वात् एवं च ते संसारप्राप्तिहेतुतया हेया इति भावः ॥ भवप्रत्यय इति पदं तन्त्रेण षष्ठीतत्पुरुषार्थकमपीति बोध्यम् ॥ १९ ॥
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ २० ॥
ते योगिनस्त्रयः । मृदूपायाः मध्योपायाः अधिमात्रोपायाश्च । उपायाः श्रद्धादयः । तेषां मृदुत्वादि प्राग्भवीयादृष्टवशात् । अधिमात्रत्वमतिशयितत्वम् । तेऽत्रप्रत्येकं त्रिधा मृदुसंवेगमध्यसंवेगतीव्रसंवेगाः । संवेग उपायानुष्ठाने शैघ्र्यम् । तस्यापि मृदुत्वादि प्राग्भवीयादृष्टादेव । तत्राधिमात्रोपायाः क्षिप्रसिद्धिभाजः तेषां क्षिप्रतरत्वे हेतुं दर्शयति –
तीव्रसंवेगानामासन्नः ॥ २१ ॥
अधिमात्रोपायानामित्यादिः, समाधिलाभस्तत्फललाभश्चेति शेषः ।’विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनि’ इति स्मृतेः ॥ २१ ॥
तत्रापि विशेषमाह –
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ २२ ॥
मृदुतीव्रो मध्यतीव्रः अधिमात्रतीव्र इति शैघ्र्यं त्रिधा । एवं च मृदुतीव्रसंवेगस्यासन्नस्ततो मध्यतीव्रसंवेगस्यासन्नतरः ततोऽप्यधिमात्रसंवेगस्यासन्नतम इत्यर्थः । ततोऽपीत्यपिशब्द आगामिसूत्रस्थसाधनापेक्षया आसन्नतमसमाध्यादिलाभे ॥ २२ ॥
गुप्तं सुखदोषायान्तरमाह –
ईश्वरप्रणिधानाद्वा ॥ २३ ॥
पूर्वसूत्रस्थं विशेष इत्यनुवर्तते । वक्ष्यमाणलक्षणेश्वरस्य परब्रह्मादिशब्दवाच्यस्यौपाधिकैश्वर्योपलक्षितस्य चिन्मात्रपुरुषविशेषस्य प्रणिधानं ’तज्जपस्तदर्थभावनम्’ इति वक्ष्यमाणं तद्विषयकधारणाध्यानसमाधित्रयादल्पादिति आसन्नतमो योगस्तत्फलं च भवति । पूर्वं हि संप्रज्ञातो जीवात्मसाधारण उक्तः । तत्र जीवात्मविषयसंप्रज्ञातादुक्तोपायेनैवासंप्रज्ञातस्यासन्नतमता । परमात्मसंप्रज्ञातात् तं विनापि स आसन्नतम इति भावः । अत एव श्रुत्यादिषु प्रायेण परब्रह्मज्ञानमेव मोक्षहेतुत्वेनोपदिश्यते । तस्मादयं मुख्यो मार्ग इति तत्त्वम् । किञ्च ब्रह्मात्मना चिन्तनरूपप्रेमलक्षणया भक्त्याभिमुखईश्वरोऽस्य मोक्षो भवत्वित्यभिध्यायति । एवञ्च तस्याव्याहतेच्छत्वात्तद्रूपादभिध्यानस्य मोक्ष आसन्नतम इति तात्पर्यम् ॥ २३ ॥
अथ जीवव्यावृत्तमीश्वरस्वरूपमाह –
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ २४ ॥
अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः । कर्म धर्माधर्मौ । विपाकाः कर्मफलानि जन्मायुर्भोगाः । आशयस्तदनुगुणं संसारसामान्यम् । एतैः कालत्रयेऽप्यपरामृष्टः पुरुषविशेष ईश्वर इत्यर्थः । जीवन्मुक्तप्रकृतिलीनादिव्यावृत्तये कालत्रयेऽपीति परामर्शशून्यत्वार्थकापरामृष्टपदलब्धम् ।यद्यपि जीवा अपि क्लेशादिशून्या एव तेषामन्तःकरणधर्मत्वात्, तथापि स्वाश्रयस्वामित्वसंबन्धेनैव क्लेशाद्यभावस्य विवक्षणान्न दोषः । जीवा हि तत्फलदुःखादिभोक्तृत्वात् क्लेशाद्याश्रयचित्तस्वामिनः । तदुक्तम् – स हि तत्फलभोक्तेति । यथा योद्धृषु वर्तमानौ जयपराजयौ स्वामिनि व्यपदिश्येते इति च भाष्ये । ईश्वरत्वं चास्येच्छामात्रेण सकलजगदुद्धरणक्षमत्वम् । तच्च ज्ञानक्रियासामर्थ्यातिशयसंपत्तिं विना न, सा चापहतरजस्तमोमलविशुद्धसत्वोपादानं विनेत्यालोच्य स्वयमेव सत्वमयं प्रधानमुपादत्ते । एतावतैव प्रधानप्रेरकतास्य यत् लोकोद्धरणेच्छया तदङ्गीकारः । उपादानोऽपि नास्मदादिवत्तत्त्वमविद्वान् भवति । नहि नटो रामत्वमारोप्य तास्ताश्चेष्टा दर्शयन् भ्रान्तो भवति । एवञ्चेदमाहार्यमस्य रूपम् । बाधकालीनेच्छाजन्यं ज्ञानमाहार्यम् । नचेच्छाया सत्वोपादानं तेनचेच्छेत्यन्योन्याश्रयः, अनादित्वात् । पूर्वकल्पसंहारकाले पूर्णे मया सत्त्वप्रकर्ष उपादेय इति प्रणिधानपूर्वकं तत्संहारे, ईश्वरसत्त्वे प्रधानसामान्यमुपागतेऽपि तदवधौ पूर्णे प्रणिधानवशात्पुनस्तदुपादत्ते इत्यनादित्वेन शाश्वतिकत्वान्न दोषः । एवं संहारकाले तमउपादाने इति बोध्यम् । तत्र प्रकृतेर्द्वे शक्ती साहजिके सृष्टिशक्तिर्लयशक्तिश्चेति । तत्रेश्वरेण सत्वपरिग्रहे सृष्टिशक्तेरुद्बोधः । तमःपरिग्रहे लयशक्तेरुद्बोधः । तमःपरिग्रहे च योगनिद्रेत्युच्यते । तत्तच्छक्त्युद्बोधे त्वनादिवासनासहकारेण तत्तत्पुरुषभोगार्थं तथा तथा प्रधानं परिणमते इति न वैषम्यनैर्घृण्ये ईश्वरस्य प्रसज्येते इति बोध्यम् । नन्वीदृशे तस्मिन् किं मानमिति चेच्छ्रुतिस्मृत्यादिशास्त्रमिति गृहाण । तत्कर्तृकमन्त्रायुर्वेदादौ अर्थाव्यभिचारनिश्चयात् प्रामाण्यस्य इष्टत्वेनान्यत्रापि तत्कर्तृके तत्स्वरूपबोधकेऽपि तन्निश्चयात् । नच तस्यान्यकर्तृकत्वं सम्भवति । ओषधीनां तत्संयोगानां चान्वयव्यतिरेकयोरन्यस्य सहस्रेणापि पुरुषायुषैरशक्यत्वात् । नचागमादन्वयव्यतिरेकौ ताभ्यां चागम इति तत्संतानयोरनादित्वान्न दोषः, महाप्रलये तयोर्विच्छेदात् । विसंदृशपरिणामक्षीरेक्षुरसादेर्दधिगुडादिरूपात्परिणामात्पूर्वसदृशपरिणामावश्यकत्वेन साम्यावस्थारूप-सदृशपरिणामस्यैव महाप्रलयत्वात् । तस्मादीश्वरबुद्धिसत्वप्रकर्षादेव वेद इति सिद्धम् । तस्य तत्त्वं वेदकारणात् वेदेन तथा बोधनाच्च, शास्त्रं तदेव बोधयति सदैवेश्वरः सदैव मुक्त एकश्चेति । अतस्तदैश्वर्य तज्ज्ञानं च साम्यातिशयनिर्मुक्तम् । अन्येषां त्वौपचारिकमैश्वर्यमिति दिक् ॥ २४ ॥
तत्र मानान्तरमाह –
तत्र निरतिशयं सर्वज्ञबीजम् ॥ २५ ॥
सर्वज्ञत्वस्यानुमापकं यज्ञानस्य सातिशयत्वमयमितो बहुज्ञानवानित्येवं तत्तत्रेश्वरे निरतिशयं विश्रान्तमित्यर्थः । ज्ञानं च क्वचित्प्राप्तकाष्ठं सातिशयत्वात् परिमाणवदित्यनुमानम् । अत्र श्रुतिरनुकूलस्तर्कः । तस्य शिवेश्वरविष्ण्वादिविशेषसंज्ञावत्वं सर्वज्ञत्वतृप्तिचैतन्यस्वातन्त्र्यालुप्तशक्तित्वानन्तशक्तित्वरूपषडङ्गवत्वं ज्ञानवैराग्यैश्वर्यतपःसत्यक्षमाधृतिस्रष्टृत्वात्मबोधाधिष्ठातृत्वरूपदशाव्ययत्वं च श्रुत्यादितोऽवसेयम् । नन्वेवं नित्यतृप्तस्य स्वार्थतृष्णासंभवात् अप्रयोजना कथं प्रवृत्तिः । प्राणिकरुणया तत्प्रवृत्त्यानित्यत्वाद्वा न दोष इति चेत् । दुःखबहुललोकसर्जनानुपपत्तिरेवेति चेन्न । ज्ञानधर्मोपदेशेन पुरुषकैवल्याय करुणया प्राण्यनुग्रहाय तदुपपत्तेः । भोगविवेकख्यातिरूपकार्यकरणेन चरितार्थचित्तनिवृत्तौ हि कैवल्यं भवति । अतस्तदुपयोगिवैराग्यनिष्पत्तये दुःखबहुललोकसर्जनोपपत्तिरपि, उपपादितरीत्या शङ्कानुदयाच्चेति दिक् ॥ २५ ॥
तत्र ब्रह्मादिभ्यो विशेषमाह –
पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ २६ ॥
स एष ईश्वरः पूर्वेषां पूर्वसर्गोत्पन्नानामपि ब्रह्मविष्णुहरादीनामपि ब्रह्मविष्णुरादीनामपि गुरुः स्रष्टाऽन्तर्यामिविधया वेदादिद्वारा ज्ञानचक्षुःप्रदश्च कालानवच्छिन्नत्वात्तेषां कालेन शतवर्षादिनावच्छेदादिति भावः । ’यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै’ इति श्रुतिरिति भावः । अस्य च निमित्तकारणत्वान्न प्रकृतिस्वातन्त्र्यक्षतिः । घटे कुलालवत् दण्डादीनां कारण्त्वेऽपि तद्वदेवास्य स्वतन्त्रत्वमपि। अत्रेश्वरस्य सर्वपितृत्ववचनात्सर्वान्तर्यामित्वेन रूपेण गुरुत्वेन जीवानामपि आत्मेश्वर इति वेदान्तवाक्यार्थोऽपि सूचितः । यो हि यस्याधिष्ठाता स यस्यात्मेति दृष्टम् । यथा सूर्यश्चक्षुषः। यथा वा जीवो देहस्य तेनाविभागलक्षणोऽभेद एव ’अविभागो वचनात्’ इति सूत्रेण वेदान्तेऽप्युक्तः । एतन्मूलक एव जीवब्रह्मणोरंशांशिभावव्यवहार इति दिक् । एतत्सर्गादौ स सिद्धस्तथा क्रान्तसर्गादावप्यागमात्स सिद्ध इति ॥ २६ ॥
तत्प्रणिधानाय तन्मन्त्रमाह –
तस्य वाचकः प्रणवः ॥ २७ ॥
तस्येश्वरस्य । एवंचेश्वरः प्रणववाच्यः । वाच्यवाचकभावश्च स्वाभाविकः ईश्वरस्यैतत्सूत्ररूपसंकेतात् । ननु यदि स्वाभाविकः सम्बन्धः शब्दार्थयोः सङ्केतेन व्यज्यते ततो यत्र नास्ति न तत्र व्यज्येत । नह्यविद्यमानो घटो दीपेन व्यज्यते । तस्मात्सङ्केत एव वाचकत्वं, सङ्केतकृतमिति तु राहोः शिर इतिवदिति चेन्न जनकत्वादेरपीश्वरसङ्केतरूपत्वापत्तेः । सर्वेषु च शब्देषु सर्वार्थसम्बन्धोऽस्त्येवेति नोक्तदोषः । सङ्केतस्त्वीश्वरस्य स्थितमेव सम्बन्धं बोधयति । पितापुत्रसम्बन्धस्यायमस्य पितेति सङ्केतेन बोधवत् । एवं चेदं सूत्रं ईश्वरसङ्केतरूपम् । अन्यथास्य तत्त्वमपि भज्येत । एवञ्च यत्रार्थे ईश्वरसङ्केतः स तस्य वाच्यः । अन्यस्तु लक्ष्यादिरिति विवेकः । सङ्केतश्चाध्यासरूप इति तृतीयो भाष्यकृत्वक्ष्यति । अध्यासश्चैश्वरो योऽयं शब्दः सोऽयमर्थ इत्याकार एव । अस्यायमर्थ इति तु विकल्पः । एवं च तद्विषयस्तन्मूलं चाविभागरूपतादात्म्यमेव शक्तिरिति बोध्यम् । प्रलये शब्दानां प्रधानसाम्ये जातेऽपि संस्कारवशात्सर्गान्तरे पूर्ववच्छक्तियुक्तानामेवाविर्भावः । पूर्वसङ्केतानुसारेण च भगवता सङ्केतः क्रियते। व्यवहारपरम्पराया नित्यतया च नित्यः शब्दार्थसम्बन्धः इति आगामिनो योगिनः प्रतिजानते इति भाष्यकृदः ॥ १७ ॥
अथ तत्प्रणिधानमाह –
तज्जपस्तदर्थभावनम् ॥ २८ ॥
तस्य प्रणवस्य जपस्तेन सहाचिन्त्यैश्वर्ययुक्तस्य तदर्थस्य प्ररमात्मनः श्रद्धाद्यैर्भावनं ध्यानम् । वाच्यवाचकभावं ज्ञात्वा क्रियमाणं सर्वार्थदमुपासनम् । [सर्वार्थाश्चित्तैकाग्र्यादयः ] प्रणवे ब्रह्मविष्ण्वादिध्यानमपि तदन्तर्यामिचैतन्याभिप्रायेण ॥ २८ ॥
अस्योत्कर्षमाह –
ततः प्रत्यक्त्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ २९ ॥
तत ईश्वरप्रणिधानात्, प्रतीपं विपरीतमञ्चति विजानाति स चासौ चेतनश्चेति प्रत्यक्चेतनो जीवस्तदधिगमस्तत्साक्षात्कारः । नचेश्वरविषयात्प्रणिधानात्कथं जीवसाक्षात्कारः? सादृश्यात् । यथैकशास्त्राभ्यासः सदृशार्थशास्त्रान्तर-ज्ञानजनकः । यथेश्वरः शुद्धः प्रसन्नः केवलोऽनुपसर्गस्तथा बुद्धेः प्रतिसंवेद्यपि जीव इति । अन्तरायाणां योगविघ्नानां व्याध्यादीनां निवृत्तिश्च भवतीत्येवमुत्कर्षोऽस्येति भावः ॥ २९ ॥
तानन्तरायानाह –
व्याधिस्त्यान​संशयप्रमादालस्या​विरतिभ्रान्तिदर्शनालब्ध​भूमिकत्वानवस्थितत्वानि चितविक्षेपास्तेऽन्तरायाः ॥ ३० ॥
रजस्तमोजन्या एते नव चित्तविक्षेपकत्वाद्योगान्तरायाः । चित्तस्य विक्षेपोऽनेकवृत्तित्वम् । व्याधिर्वातपित्तश्लेष्मणां वैषम्यजन्यः। स्त्यानं योगानुष्ठानाक्षमत्वम् । संशयः शास्त्रोक्तसाधनेषूभयकोटिस्पृग्ज्ञानम् । प्रमादः शमादिभावनाभावः । आलस्यं कायचित्तयोर्गुरुत्वादप्रवृत्तिः । अविरतिर्विषयाभिलाषः । भ्रान्तिदर्शनं शास्त्रोक्तार्थविपरीतनिश्चयः । अलब्धभूमिकत्वं वक्ष्यमाणयोगभूमीनां साधनानुष्ठानेऽप्यलाभः । अनवस्थितत्वं योगभूमिलाभेऽपि योगभ्रंशः ॥ ३० ॥
अन्यानप्यन्तरायानाह –
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ ३१ ॥
दुःखं स्वतो द्वेष्यम् । दौर्मनस्यं चित्तचाञ्चल्यम् । अङ्गमेजयत्वं अङ्गकम्पः । श्वासो बाह्यवायोरन्तःप्रवेशः । प्रश्वासः आन्तरवायोर्बहिर्निर्गमः । एते चित्तचाञ्चल्यरूपविक्षेपसहभुवः तज्जन्या इत्यर्थः ॥ ३१ ॥
ईश्वरप्रणिधानवतस्त्वेते स्वत एव न भवन्तीत्युक्तम् । तदभाववतस्तु बलवदभ्यासनिरसनीया एत इत्याह –
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२ ॥
तेषामन्तरायाणां प्रतिषेधार्थमन्ततो यत्र कुत्रचिदप्येकार्थेऽभ्यासः कार्यः । तेन चोदितायामेकाग्रतायां विक्षेपः प्रशममुपयन्ति । एकाग्रतोपदेशादेव चित्तमेषामक्षणिकं स्थिरमनुभूतस्मृतिदर्शनाच्च स्वकृतकर्मोपभोगाच्च । यदहमद्राक्षं तत्स्पृशामि यच्चास्प्राक्षं तत्पश्यामीति प्रत्यभिज्ञानाच्च, अहंप्रत्ययगोचरश्चित्तमेव । एकाग्रतोपदेशादेव नाणु किन्तु विभु, योगिनां सर्वावच्छेदेनैकदाखिलसाक्षात्काराच्च, अयोगिनामपि दीर्घशष्कुलीभक्षणादौ अनेकेन्द्रियवृत्त्यनुभवाच्च । नच तेषां योगजधर्म एव प्रत्यासत्तिः, संयोगादिलौकिकप्रत्यासत्त्यैवोपपत्तौ तत्कल्पने गौरवादन्योन्यव्यभिचाराच्च, तद्वारणाय साक्षात्कारेष्ववान्तरजातिकल्पने गौरवम् । अत एव न मध्यमपरिमाणं प्रलये विनाशेनादृष्टाधारतानुपपत्तेः । अतो विभु । तस्य च सर्वार्थग्रहणसमर्थस्य तमआख्यावरणभङ्ग एव योगेन क्रियते । सुषुप्तौ तमसो वृत्तिप्रतिबन्धकत्वसिद्धेः । विभोरपि गतिश्रुतिरात्मन इव प्राणेन्द्रियाद्युपाधिनोपपन्ना। विभोरपि प्रधानस्य (?) कार्यरूपत्वदर्शनात् । तदुक्तं भाष्ये – एकमनेकार्थमवस्थितं च चित्तमिति । विशोकावेति सूत्रे बुद्धिसत्त्वं भास्वरमाकाशकल्पमिति चोक्तम् ॥ ३२ ॥
इदानीं श्रद्धावीर्यादिरूपोपायाभ्यासे स्थितिसाधने वशीकारद्वारेणाप्रतिबन्धहेतूनाह –
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चितप्रसादनम् ॥ ३३ ॥
प्रसादनं स्थितिनिबन्धनम् । निबन्धनत्वं च स्थितिहेतुश्रद्धाद्यप्रतिबन्धद्वारा स्थित्यभ्रंशहेतुत्त्वम् । सुखादिशब्दाश्च सुखितादिवाचिनः । तेषु क्रमेण मैत्र्यादीनामुत्पादनाभ्यासात्प्रसन्नं चित्तमेकाग्रं स्थितिपदं लभते इत्यर्थः। मैत्री सौहार्दम् । करुणा निरुपाधिः परदुःखप्रहाणेच्छा । मुदिता प्रीतिः । उपेक्षा औदासीन्यम्। एषां च परिकर्मेति संज्ञा । एकाग्रताहेतुश्चित्तसंस्कारः परिकर्म । स च विषयकालुष्यराहित्यरूपश्चित्तप्रसादः । रागद्वेषेर्ष्यासूयामर्षपापादिमलापसारणद्वारा एते तद्धेतवः ॥ ३३ ॥
प्रसादस्य पसाधनान्तरमाह –
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ ३४ ॥
प्राणस्य प्रच्छर्दनं वमनं रेचनम् । विधारणं कुम्भकम् । एतच्च पूरकोपलक्षणम् । एतद्वा चित्तप्रसादस्य कारणम् । वाशब्दो वक्ष्यमाणापेक्षया विकल्पे । मैत्र्यादिभावनायाः सर्वैः सह समुच्चयादिति मिश्राः । “इन्द्रियाणां बलं प्राणास्तेषां यत्नेन निग्रहात् । विक्षेपहेतवोऽक्षाणां दह्यन्ते दोषराशयः” इति स्मृतिः । यद्वा प्रच्छर्दनविधारणे रेचकपूरकौ तावन्मात्रप्राणायामस्यापि नाडीशुद्ध्यर्थं वसिष्ठसंहितादावुक्तत्वात् ॥ ३४ ॥
उपायान्तरमाह स्थितौ –
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ॥ ३५ ॥
मनसो नासिकाग्रजिह्वाग्रतालुजिह्वामध्यजिह्वामूलेषु योगशास्त्रोक्तप्रकारेण धारणात् क्रमेण तन्मात्ररूपदिव्यगन्धदिव्यरूपदिव्यस्पर्शदिव्यशब्दविषया या प्रवृत्तिः पकृष्टा साक्षात्काररूपा वृत्तिः संविदुत्पद्यते । ता उत्पन्ना वृत्तयश्चित्तस्यैकाग्रताकारणानीत्यर्थः । एवं चन्द्रादित्यग्रहमणिप्रदीपमणिरत्नादिवृत्तयोऽपि । शास्त्रोक्तार्थैकदेशसाक्षात्कारेणार्थान्तरेऽपि संशयादित्यागेन श्रद्धावीर्याद्यप्रतिबद्धं भवतीत्याशयः ॥ ३५ ॥
उपायान्तरमाह –
विशोका वा ज्योतिष्मती ॥ ३६ ॥
विगतशोका प्रकाशरूपा च प्रवृत्तिर्मनसः स्थैर्यहेतुरित्यर्थः । सा चान्तःकरणस्य पुरुषस्य वा योगजसाक्षात्काररूपा वृत्तिः । तयोश्च विधूतरजस्तमोमलतया सत्त्वमयत्वेन सुखमयत्वाद्विशोकत्वम् । प्रकाशमयत्वाज्ज्योतिष्मतीत्वम् । सा च चाञ्चल्यहेतुशोकनाशकत्वात्तत्स्थैर्यकरी । नन्वात्मसाक्षात्कारे पुनश्चित्तस्थितेः क उपयोग इति चेत् । असंप्रज्ञातहेतुपरवैराग्यायेति गृहाण । तथा साक्षात्काराभ्यासं विना मिथ्याज्ञानवासनानुन्मूलनेन तदुन्मूलनार्थं परमात्मनि चित्तसमाधानार्थं च ॥ ३६ ॥
उपायान्तरमाह –
वीतरागविषयं वा चित्तम् ॥ ३७ ॥
वीतरागं सनकादिचित्तं तद्विषयध्यानात् ध्यातृचित्तमपि तद्वत् स्थिरस्वभावं भवति । यथा कामुकचिन्तया चित्तं कामुकं भवतीत्यर्थः ॥ ३७ ॥
उपायान्तरमाह –
स्वप्ननिद्राज्ञानालम्बनं वा ॥ ३८ ॥
यदा जाग्रज्ज्ञाने स्वप्नज्ञानदृष्टिः क्रियते भङ्गुरविषयत्वात्तदा ततो विरक्तं चित्तं स्थिरं भवति । तथा जाग्रत्पुरुषज्ञानेषु सुषुप्तिज्ञानदृष्टिः क्रियते स्वरूपावरणसाम्यात्तदा तद्विरक्तं चित्तं स्थिरं भवतित्यर्थः ॥ ३८ ॥
उपायान्तरमाह –
यथाभिमतध्यानाद्वा ॥ ३९ ॥
यदेवाभिमतं हरिहरमूर्त्यादि तदेव ध्यायेत् । तत्र लब्धस्थितिपदमन्यत्रापि स्थिरं भवतीत्यर्थः । प्रसादमारभ्यैतदन्तानां परिकर्मसंज्ञा शास्त्रे । एषामनुष्ठाने ऐच्छिको विकल्पः ॥ ३९ ॥
चित्तस्थैर्यगमकपरिकर्मनिष्पत्तेः फलमाह –
परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥ ४० ॥
तत्संज्ञकमस्य वैराग्यमित्यर्थः । तद्युक्तं न पुनः परिकर्माभ्यासमपेक्षते । तदेवमभ्यासवैराग्यादिकं परिकर्मान्तं योगस्यान्तरङ्गसाधनमुक्तम् । योगद्वयं चावान्तरभेदैरुक्तम् ॥ ४० ॥
अथ संप्रज्ञातफलमाह –
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ ४१ ॥
क्षीणवृत्तेर्निरुद्धध्येयातिरिक्तवृत्तेः निष्पन्नसंप्रज्ञातयोगस्येति यावत् । हेतुगर्भ चैतत् । समापत्तिरिति साक्षात्कारसंज्ञा । स्वत एव सर्वार्थग्रहणसमर्थस्य विषयान्तरव्यासङ्गदोषरूपं तत्तद्ग्रहणे प्रतिबन्धकवृत्त्यन्तरनिरोधेन तदपगमेन तदपगमे सति ग्रहीत्रादिषु ध्येयेषु समापत्तिः साक्षात्काररूपा वृत्तिः स्वत एव भवति । सा च तत्स्थतदञ्जनतारूपा तेषु ग्रहीत्रादिषु स्थितस्य चित्तस्याशेषविशेषैः सम्यक्तदाकरतारूपेत्यर्थः । तत्र दृष्टान्तोऽभिजातस्य मणेरिति । यथाभिजातस्य स्वभावतो निर्मलस्य स्फटिकादेः बाह्यमलापकर्षे सन्निकृष्टवस्त्राकारता तद्वत् । अत्र ग्रहीता पुरुषसामान्यम् । ग्रहणं त्रयोदशविधं करणम् । ग्राह्यं च स्थूलसूक्ष्मतररूपेण त्रिविधं पञ्चमहाभूतपञ्चतन्मात्रप्रकृतिरूपम् । अनेन योगविषयः सर्वोऽपि संगृहीतः । तत्र ग्रहीतृसमापत्तौ स्थूलसूक्ष्मविषयकत्वरूपविशेषाभावः सा एकविधैवास्मितारूपा । ग्राह्यग्रहणसमापत्ती तु स्थूलसूक्ष्मविषयत्वात्सविशेषे । तत्र स्थूलं तन्मात्रकार्याणि भूतानि अहङ्कारकार्याणि च । तदितरत्प्रकृतिपर्यन्तं सूक्ष्मम् ॥ ४१ ॥
तत्र स्थूलसमापत्तेः सवितर्कनिर्वितर्काख्यौ विशेषावाह –
तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥ ४२ ॥
सूक्ष्मविषयायास्तृतीयसूत्रे वक्ष्यमाणतयाऽत्रसूत्रे स्थूलविषयाग्रहणम् । तत्र गौरितिशब्दो गौरित्यर्थो गौरिति ज्ञानमित्यविभागरूपा ये शब्दार्थज्ञानविकल्पा अभेदभ्रमास्तद्युक्ता गवादिस्थूलसमापत्तिर्विपरीततर्कणयोगात्सवितर्कसंज्ञेत्यर्थः । अत एव स योगः सविकल्प इत्युच्यते । लोकेऽपीदृशं ज्ञानं सविकल्पकमुच्यते । एतद्विकल्पशून्यश्च निर्विकल्पकयोग इति । वस्तुत उदात्तत्वादिधर्मैः शब्दस्य जडत्वमूर्तत्वादिभिरर्थस्य प्रकाशमूर्तिविरहादिभिर्ज्ञानस्य परस्परस्माद्भेद एव । शब्दाद्यभेदविकल्प आरोपसामान्योपलक्षकः ॥ ४२ ॥
स्थूलसमापत्तेर्द्वितीयं भेदमाह –
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ ४३ ॥
पूर्वसूत्रोक्तविकल्पे संकेतग्राह्यशक्तिस्मृतिरेव बीजम् । श्रवणमनननिदिध्यासनैर्हि समापत्तिर्जायते । तत्र श्रवणं शक्तिस्मृतिकार्य शक्तिश्च शब्दार्थयोर्वृत्त्येश्वरकल्पिताभेदकल्पिताभेदाध्यवसायरूप-संकेतग्राह्योऽभेद एवेति तज्जन्ये शाब्दबोधेऽपि तयोरभेदे उपनीतत्त्वाद्भासते । ततः श्रवणकार्ये मनने निदिध्यासनरूपे प्रथमसाक्षात्कारे च भासते । उपनयसाम्यात् । यदा ध्येयावेशवशाच्छक्तिस्मृतेः परिशुद्धिरपगमो भवति तज्जन्यश्रुतानुमितसाक्षात्काराणामपि । विकल्परूपाणां परिशुद्धिरपगमः तदा समापत्तिः स्वरूपशुन्येव भवति । शब्दज्ञानास्फुरणेनाभेदारोपासंभवात् । तदा स्वरूपमात्रनिर्भासाऽविकल्पितरूपा परिच्छीन्ना ध्येयार्थमात्रावगाहिनी स्थूलसमापत्तिर्निर्वितर्कसंज्ञेत्यर्थः। इयं समापत्तिः परं प्रत्यक्षमुच्यते, अविद्यालेशेनाप्यसंपर्कात् । पूर्वा चापरं प्रत्यक्षमविद्यालेशसत्त्वात् । स चार्थः क इत्यत्रोक्तं भाष्ये महत्त्वसमानाधिकरणैकत्वविषयैकबुद्धिविषयोऽणुप्रचयविशेषरूपावयवी घटादिरूपः । अणुशब्देन तन्मात्राणि परमाणवश्च । तत्र च रूपरसादिपरमाणूनां नैरन्तर्येण सङ्कलिततयावस्थानम् । सच तेभ्यो नात्यन्तभिन्नः, गवाश्ववद्धर्मधर्मिभावानुपपत्तेः । नात्यन्तमभिन्नः, धर्मिवदेव तदनुपपत्तेः । तस्मात्ततो भिन्नोऽभिन्नश्च । स च तदनुभवतद्व्यवहाराभ्यां विप्रतिपन्नं प्रत्यनुमेयः । कारणभेदादेव तदाकारो धर्मान्तरस्य कपालादेरुदये च तिरोभवन्नष्ट इति व्यवह्रियमाणः अणुसाध्यक्रियाभिन्नतदसाध्यमधूदकादिधारणलक्षणक्रियावान्, स्पर्शवान्, महत्त्ववान्, एकत्त्ववान्, किञ्चिदपेक्षयाणुत्ववांश्चेति ॥ ४३ ॥
उक्तं द्वैविध्यं सूक्ष्मविषयसमापत्तावतिदिशति –
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ ४४ ॥
एतयैव सवितर्कनिर्वितर्करूपया स्थूलविषयया समापत्त्या सूक्ष्मविषयापि सविचारनिर्विचाररूपा समापत्तिद्वयी व्याख्याता । अन्योपरागानुपरागसाम्येनेत्यर्थः । अत्र विकल्पतच्छून्यत्वयोर्नातिदेशः स्थूलविषयायां निर्वितर्काख्यपूर्वभूमिकायां त्यक्तस्य विकल्पस्य सूक्ष्मविषयोत्तरभूमिकायामसंभवादिति । तदुक्तं भाष्ये ’एवमुभयोरेतयोर्निर्वितर्कया विकल्पहानिर्व्याख्याता’ इति । तत्र स्थूलरूपं यत्कार्यं तदुपरागेण सूक्ष्मे समापत्तिः सविचारा, कार्यकारणविचारघटितत्त्वात् । तस्यां हि स्थूलकार्यघटादिवैशिष्ट्यं तत्र चाणूनामुपर्यधोदेशावच्छिन्नत्वं पार्थिवपरमाणौ गन्धतन्मात्रप्रधानपञ्चतन्मात्रानुगमः । आप्ये गन्धतन्मात्रभिन्नरसतन्मात्रप्रधानचतुरनुगमः । तैजसे तद्द्वयरहितरूपतन्मात्रप्रधानत्र्यनुगमः, वायवीये स्पर्शशब्दतन्मात्रानुगमः । नाभसे शब्दतन्मात्रानुगमस्तद्विशिष्टा बुद्धिरुपजायते । एवं च तत्तत्परमाणुस्तत्तन्मात्रप्रचयात्मा, तन्मात्रमपि गन्धाद्यणुप्रचयात्मकमिति बोध्यम् । तदुत्तरोत्पद्यमाना च केवलसूक्ष्मविषया निर्विचारेति विभागः । यद्यपि तन्मात्रादिसूक्ष्ममपि सर्वधर्मात्मकं तद्वच्च तथापि साक्षात्काराभ्यासेनातीतानगतवर्तमानसकलतद्धर्मापगम इति दिक् ॥ ४४ ॥
सूक्ष्मो विषयः कियत्पर्यन्त इत्याकाङ्क्षायामाह –
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५ ॥
न क्वापि लयं गच्छतीत्यलिङ्गं प्रधानं तत्पर्यन्तं सूक्ष्मो विषयः इत्यर्थः । तत्त्वान्तरप्रकृतित्वमत्र सूक्ष्मत्वं विवक्षितमित्यर्थः । न च जलादिभूतचतुष्टयेऽतिव्याप्तिः । भूतानामुत्तरोत्तरभूतेषु आधारकारणमात्रत्वात्तन्मात्राणामेव भूतोपादानत्वात् । अन्यथाष्टप्रकृतित्वसिद्धान्तविरोधः स्यात् । पुरुषस्तु न परिणामिकारणं किन्त्वधिष्ठानकारणं तेषां संसर्गे निमित्तकारणं चेति न तस्येदृशसौक्ष्म्यमिति भावः ॥ ४५ ॥
इदानीं यथोक्तसमापत्त्याख्यकार्यमुखेन सबीजपरिभाषापूर्वकं संप्रज्ञातसामान्यलक्षणमाह –
ता एव सबीजः समाधिः ॥ ४६ ॥
ता एव ग्राह्यग्रहणग्रहीतृषु समापत्तस्य एव सबीजः समाधिः संप्रज्ञातयोग इत्यर्थः। समापत्तिरूपसाक्षात्कारहेतुत्वाद् योगस्य समापत्तित्वं कार्यकारणभेदात् । आनन्दस्य बुद्धिधर्मत्वेनानन्दसमापत्तेर्ग्रहणसमापत्तावेव प्रवेशः, समापत्तीनां दुःखनिवृत्तिबीजसंस्कारहेतुत्वात्, तद्धेतोः वृत्तिनिरोधरूपयोगस्यापि सबीजत्वम् । समाधिशब्दश्चाङ्गाङ्गिनोरभेदेन योगे प्रयुक्त इति दिक् ॥ ४६ ॥
उक्तासु समापत्तिषु इतरासां निर्विचारफलकत्वान्निर्विचारायाः फलमाह –
निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ ४७ ॥
ध्येयगताशेषविशेषग्राहिणी निश्चलैकाग्रता चित्तस्य वैशारद्यम् । निर्विचारसमापत्त्या एव वैशारद्ये सति अध्यात्मम् आत्मनि बुद्धौ प्रसादो भवति येन पुरुषादिसाक्षात्कारस्तद्योगं विनापि भवतीत्यर्थः ॥ ४७ ॥
तदेवाह –
ऋतंभरा तत्र प्रज्ञा ॥ ४८ ॥
ऋतं सत्यं कूटस्थनित्यं पुरुषं बिभर्ति तादृशी तत्संज्ञा प्रज्ञा साक्षात्कारस्तत्र प्रसादे सति भवतीत्यर्थः । तदुक्तम् – ’आगमेनानुमानेन ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम्’ इति । पूर्वार्धेन श्रवणमनननिदिध्यासनान्युक्तानि ॥ ४८ ॥
नन्वागमानुमानाभ्यामर्थतत्त्वनिर्णयेऽलं तदुत्तरयोगेनेत्यत आह –
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ ४९ ॥
शब्दानुमाने हि सामान्यविषये तद्विषयातिरिक्तविषया च योगजप्रज्ञा विशेषविषयत्वादित्यर्थः । लौकिकप्रत्यक्षमपि न सूक्ष्मव्यवहितविप्रकृष्टविषयमित्यपि बोध्यम् । योगजज्ञानं तु सकलविशेषग्राहकमिति अनधिगतार्थगन्तृत्वात्तस्य प्रामाण्यम् । ननु पुरुषे विशेषाभावात्तत्प्रज्ञाकेन विशेषेण सफला स्यादिति चेन्न, अन्ततः स्वस्वोपाधिबिम्बानामेवातीतानागतवर्तमानानां भोगरूपाणां मुक्तामुक्तसकलपुरुषेष्वन्योन्यं विशेषत्वादिति बोध्यम् ॥ ४९ ॥
अथ संप्रज्ञातपरंपरायाः फलमाह –
तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ ५० ॥
तज्जः एकाग्रसाक्षात्कारधारारूपया संप्रज्ञातप्रज्ञया जनितः संस्कारोऽन्येषां व्युत्थानसंस्काराणां प्रतिबन्धी तज्जन्यवृत्त्याख्यकार्यविरोधीत्यर्थः । अत्र संप्रज्ञातपरंपरया समाधिप्रज्ञासंस्कारदार्ढ्येन दुःखहेतुव्युत्थानसंस्काराभिभवः, तस्य धर्ममेघसमाधिना परिसमाप्तिः । स च सिद्धिकामनात्यागेन निरन्तरोत्पन्नात्सत्त्वपुरुषान्यताख्यातिप्रवाहात्सवासनाविद्यासंस्कारनिवृत्तौ तस्यामपि ख्यातौ प्रयोजनाभावेन दुःखात्मिकायामलंप्रत्ययरूपवैराग्ये सति जायते इति ज्ञेयम् । यदुत्तरमसंप्रज्ञातोदयः सर्वज्ञतादिजनकं प्रकृष्टं धर्म मेहति वर्षतीति व्युत्पत्तेः । अस्यामवस्थायां जीवन्मुक्त उच्यते, ततः प्राक् सत्यां कामनायां भूतेन्द्रियप्रकृतिजयोत्थः स्वेछाभोगश्च भवति । मोक्षान्यथानुपपत्त्यैवाविद्यासंस्काराणां विद्यासंस्कारदार्ढ्येन नाशः । अविद्यासंस्कारातिरिक्तसंस्काराणां च चित्तनाशेनैव नाशः । कस्यचित्तु सर्वज्ञत्वादिजनकधर्ममेघाभावेऽपि ज्ञानादविद्यानिवृत्तौ उत्तरक्लेशाभावात्कर्मविपाकाभावेऽपि प्रारब्धकर्मभोगहेतुवासनानामनुच्छेदेन प्रारब्धकर्मभोगानन्तरं देहपाते कैवल्यं भवतीति ज्ञेयम् । यत्तु योगस्याशेषपापनाशकत्वं श्रूयते तत्तु ज्ञानप्रतिबन्धकाशेषपापनाशपरम् । यत्तु तज्जन्यज्ञानस्य सर्वकर्मनाशकत्वं तत्प्रारब्धातिरिक्तसर्वकर्मनाशपरम् । ज्ञानेन प्रारब्धनाशे जीवन्मुक्तिप्रतिपादकश्रुतिविरोधश्च स्यात्तस्य सर्वकर्मनाशकत्वमविद्यादिक्लेशसहकार्युच्छेदेन स्वविपाकानारम्भकत्वं, प्रारब्धकर्मभोगे तु वासनैव तद्धेतुसहकारिणीति बोध्यम् ॥ ५० ॥
ननु व्युत्थानसंस्काराभिभवेऽपि प्रज्ञासंस्काराभिभवाभावात्तत्प्रवाहानिवृत्तौ तत्रैव जन्मनि शीघ्रं मोक्षो न स्यादत आह –
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ ५१ ॥
परवैराग्येण स्वसंस्कारद्वारा प्रज्ञाकृतसंस्काराणां प्रज्ञायाश्च निरोधे कारणाभावेन कार्यानुत्पादान्निर्बीजः समाधिर्भवतीत्यर्थः । तत्र पूर्वपूर्वासंप्रज्ञातसंस्कारस्याप्युत्तरोत्तरासंप्रज्ञातेनात्यन्ताभिभवे जायमाने चरमासंप्रज्ञातो निर्बीजकाष्ठा भवति । उत्तरोत्तरासंप्रज्ञातेषु कालवृद्ध्या पूर्वपूर्वासंप्रज्ञातानां संस्कारजनकत्वं सिद्ध्यति संस्कारवृद्ध्यैव कालवृद्ध्यौचित्यात् । स च यथा यथातिशीयते तथा तथा तत्त्वज्ञानपर्यन्ताखिलसंस्कारान् संप्रज्ञातयोगजास्तनूकरोति । एवं पूर्वपूर्वसंस्कारसहकृतचरमासंप्रज्ञातेन निःशेषतः प्रज्ञातत्संस्कारदाहः। ततः प्रारब्धमपि कर्म न स्वविपाकसमर्थं, सहकारिणां दग्धत्वात् । प्राग्भवीयभोगसंस्कारा हि तत्सहकारिणः । ततः पुरुषार्थसमाप्त्या चरिताधिकारं चित्तमसमाप्तभोगकेनैव प्रारब्धकर्मणा निरोधसंस्कारैश्च सह स्वकारणेऽत्यन्तं लीयते । इयमेव चित्तस्य महानिद्रा पुरुषस्य कैवल्यमात्यन्तिको दुःखात्मकाखिलदृश्यवियोगः, तदुक्तं – ’मनसोभ्युदयो नाशो मनोनाशो महोदय’ इति । ननु ज्ञानेनैव प्रारब्धभोगोत्तरं मोक्षसिद्धौ किमनेन योगेनेतिचेन्न, प्रारब्धस्याप्यतिक्रमेण झटिति मोक्षार्थत्वात् । अत्र वदन्तिविवेकसाक्षात्काररूपं ज्ञानं सांख्यपदवाच्यं, सर्वासर्वचित्तवृत्तिनिरोधरूपो द्विविधो योगश्चोभयमपि व्यापारभेदात्स्वातन्त्र्येण मोक्षकारणमत्र शास्त्रे विवक्षितम् । तत्र केवलज्ञानेन मोक्षे जनयितव्येऽभिमाननिवर्तकात्मसाक्षात्कारपर्यन्त एव संप्रज्ञातोऽपेक्ष्यते नतु वृत्त्यन्तरवासनाक्षयाद्यर्थ संप्रज्ञातपरंपरापि । प्रारब्धसमाप्तौ तु सत्यां सर्ववासनानां चित्तेन सह नाशात्। अन्ये तु तमेव विदित्वेति श्रुतेः कस्यचित्खल्पयोगेनापि ज्ञानं, एतदन्तयोगेन तु भवत्येव ज्ञानमित्याशयः। ’यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते’ इति गीतावाक्ये सम्यक्ख्यातं संख्या तत्त्वसाक्षात्कारस्तदुपायैर्गौबलीवर्दन्यायेन श्रवणमनननिदिध्यासनरूपैर्यज्ज्ञानं प्राप्यते तद् योगैरपि प्राप्यते(?) इति न तद्विरोध इत्याहुः ॥ ५१ ॥
॥ श्रीनागोजीभट्टीयायां पातञ्जलवृत्तौ समाधिपादः प्रथमः ॥