अथ योगानुशासनम् ॥ १ ॥
गुरुं प्रणम्य सूत्रार्थचन्द्रिका क्रियते मया । अनन्तेनेश्वरप्रीत्यै सच्चिदानन्दरूपिणम् ॥
अथशब्दोऽधिकारवाची योगो नाम समाधानम् । अनुशिष्यते व्याख्यायते येन तत् ॥ १ ॥
योगश्चित्तवृत्तिनिरोधः ॥ २ ॥
सत्त्वपरिणामरूपस्य चित्तस्य या वृत्तयः तासां निरोधो बहिर्मुखताविच्छेदादन्तर्मुखतया सकारणे लयः ॥ २ ॥
तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ ३ ॥
तस्मिन् समाधिनिरोधकाले द्रष्टुः पुरुषस्य स्वरूपे चिन्मात्रे अवस्थानं स्थितिर्भवति ॥ ३ ॥
वृत्तिसारुप्यमितरत्र ॥ ४ ॥
इतरत्र योगादन्यस्मिन् काले वक्ष्यमाणलक्षणवृत्तिभिः सारूप्यं तद्रूपत्वम् ॥ ४ ॥
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥ ५ ॥
वृत्तय इति। चित्तस्य परिणामविशेषाः क्लेशैराक्रान्ताः तद्भिन्नाः ॥ ५ ॥
प्रमाणविपर्ययविकल्पनिद्रास्मृतय ॥ ६ ॥
प्रमाणेति। एताः पञ्च वृत्तयः तासां व्याख्यासूत्राणि ॥ ६ ॥
प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७ ॥
प्रत्यक्ष। बाह्यवस्तुनि इन्द्रियद्वारेणचित्तस्योपरागादर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षम् । अनुमानं नाम गृहीतसम्बन्धाद्धेतोः पक्षे साध्यस्य सामान्यात्मना निश्चयः । आप्तस्य ईश्वरस्य वाक्यं वेदः ॥ ७ ॥
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८ ॥
विपर्यय इति । अतथाभूतेऽर्थे तथोत्पद्यमानं ज्ञानं विपर्ययः संशयोऽप्यतद्रूपप्रतिष्ठत्वान्मिथ्याज्ञानम् ॥ ८ ॥
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९ ॥
शब्देति। शब्दज्ञानानुपतनशीलः वस्तुनस्तथात्वमनपेक्षमाणो निश्चयो विकल्पः ॥ ९ ॥
अभावप्रययालम्बना वृत्तिर्निद्रा ॥ १० ॥
अनुभूतविषयासंप्रमोषः स्मृतिः ॥ ११ ॥
अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२ ॥
तत्र स्थितौ यत्नाऽभ्यासः ॥ १३ ॥
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १४ ॥
सत्त्विति। बहुकालं नैरन्तर्येणादरातिशयेन च सेव्यमानो दृढभूमिः स्थिरो भवति ॥ १४ ॥
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १५ ॥
तत्परं पुरुषख्यातेर्गुणवेतृष्ण्यम् ॥ १६ ॥
वितर्कविचारानन्दास्मितारूपानुगमात्संप्रज्ञातः ॥ १७ ॥
वितर्केति। वितर्कादिचतुष्टयभेदेन सम्यक् प्रकर्षेण ज्ञायते भाव्यस्य रूपं येन सः ॥ १७ ॥
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८ ॥
विरामेति। विरम्यतेऽनेन स चासौ प्रत्ययश्च तस्याभ्यासः पुनःपुनश्चेतसि निवेशनं तत्पूर्वं यस्य तादृशः संस्कारविशेषः असंप्रज्ञात इत्यर्थः । यत्र या काचिद्वृत्तिरुल्लसति तस्या नेतिनेतीति श्रुत्या निरासः कार्यः । तत्र व्युत्थानाद्याः संस्काराः समाधिप्रारम्भाद्यैः संस्कारैर्हन्यन्ते ॥ १८ ॥
भवप्रययो विदेहप्रकृतिलयानाम् ॥ १९ ॥
भवेति। विदेहप्रकृतिलयानां वितर्कादीनां समाधिः भवप्रत्ययः संकारः करणं यस्य ॥ १९ ॥
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ २० ॥
श्रद्धेति। अन्येषां श्रद्धापूर्वको चेतसः प्रसादः उत्साहः स्मृतिरेकाग्रताप्रविवेकः एतत्पूर्वको भवति ॥ २० ॥
तीव्रसंवेगानामासन्नः ॥ २१ ॥
तीव्रेति । संस्कारस्तीव्रो येषां तेषां समाधिलाभः शीघ्रं भवति ॥ २१ ॥
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ २२ ॥
मृद्विति ।मृदादिसंवेगभेदाद्योगिनोऽपि भिन्नाः तेषां समाधिलाभो दीर्घकालादिभेदेन भवतीत्यर्थः ॥ २२ ॥
ईश्वरप्रणिधानाद्वा ॥ २३ ॥
ईश्वरेति। सुगमोपायोग्यं भक्तिक्रियाविशेषः ईश्वरे सर्वक्रियाणामर्पणं वा ॥ २३ ॥
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ २४ ॥
क्लेशेति । अविद्यादयः क्लेशाः कर्मणि जात्यायुर्भोगाः आफलविपाकात् चित्ते शेरते इत्याशया वासनास्ताभिर्न संस्पृष्टः अन्येभ्यः पुरुषेभ्यः विशिष्टः ईशनशीलः ॥ २४ ॥
तत्र निरतिशयं सर्वज्ञबीजम् ॥ २५ ॥
तत्रेति । तस्मिन् भगवति सर्वज्ञत्वस्य यद्बीजं सर्वस्य मूलत्वाद्बीजमिव बीजं तत्र निरतिशयं कष्ठां प्राप्तम् ॥ २५ ॥
पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ २६ ॥
स इति । स ब्रह्मादीनामपि गुरुरुपदेष्टा यतः स कालेन नावच्छिद्यते अनादित्वात् तेषां पुनरादिमत्त्वादस्ति कालेनावच्छेदः ॥ २६ ॥
तस्य वाचकः प्रणवः ॥ २७ ॥
सुगमोपायमाह तस्येति । ईश्वराभिधायक ओंकारः ॥ २७ ॥
तज्जपस्तदर्थभावनम् ॥ २८ ॥
तज्जप इति । तस्य प्रणवस्य जपः प्रणववाच्यस्य ईश्वरस्य भावनं पुनः पुनश्चेतसि निवेशनमेकाग्रताया उपायः ॥ २८ ॥
ततः प्रत्यक्त्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ २९ ॥
तत इति । तस्माज्जपादर्थभावनाच्च विषयप्रातिकूल्येन अञ्चति या दृक्शक्तिस्तस्या अधिगमो ज्ञानं भवति वक्ष्यमाणान्तरायशक्तिप्रतिबन्धश्च भवतीत्यर्थः ॥ २९ ॥
व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चितविक्षेपास्तेऽन्तरायाः ॥ ३० ॥
व्याधीति । व्याधिर्ज्वरादिः, स्त्यानमकर्मण्यता, उभयकोत्यालम्बनं विज्ञानं संशयः, प्रमादोऽनवधानता, आलस्यं कायचित्तयोर्गुरुत्वम्, अविरतिर्विषयासक्तिः, भ्रान्तिदर्शनं विपर्ययज्ञानम्, अलब्धभूमिकत्वं समाधिभूमेरलाभः, अनवस्थितत्वं चित्तस्य समाधावप्रतिष्ठा । एते नव विघ्नानीत्युच्यन्ते ॥ ३० ॥
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ ३१ ॥
दुःखेति। तत्र दुःखं चित्तस्य रागजः परिणामो बाधजलक्षणः, दौर्मनस्यं करणैः सह मनसो दौस्थ्यम्, अङ्गमेजयत्वं सर्वाङ्गवेपथुः, प्राणो यत्र बाह्यवायुमाचामति स श्वासः, यत्कौष्ट्यं वायुं निश्वसिति स प्रश्वासः, एते विक्षेपैः सह भवन्तीति अभ्यासवैराग्याभ्यां निरोद्धव्याः ॥ ३१ ॥
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२ ॥
तत्प्रतिषेधार्थमिति । तेषां विक्षेपाणां निषेधार्थं कस्मिंश्चिदभिमते तत्त्वे अभ्यासः ॥ ३२ ॥
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चितप्रसादनम् ॥ ३३ ॥
मैत्रीति। मैत्री सौहार्दं मु(खि)(दि)तेषु, करुणां कृपां दुःखितेषु, मुदिना हर्षं पुण्यवत्सु, उपेक्षामौदासीन्यमपुण्यवत्सु भावयेत् । एवं मैत्र्यादिपरिकर्मणा चित्तं प्रसीदति रागद्वेषनिरासे सुखेन समाधेः प्रादुर्भावो भवत्येकाग्रता च ॥ ३३ ॥
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ ३४ ॥
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ॥ ३५ ॥
विशोका वा ज्योतिष्मती ॥ ३६ ॥
विशोकेति। ज्योतिःशब्देन सात्त्विकः प्रकाश उच्यते, सोऽतिशयवान् यस्यां सा ज्योतिष्मती प्रवृत्तिरुत्पन्ना विशोका विगतशोका सुखमयसत्त्वाभ्यासबलाच्चेतःस्थितिकर्त्री ॥ ३६ ॥
वीतरागविषयं वा चित्तम् ॥ ३७ ॥
वीतेति। परित्यक्तविषयाभिलाशं चित्तं मनसः स्थितिनिबन्धनं भवतीति ॥ ३७ ॥
स्वप्ननिद्राज्ञानालम्बनं वा ॥ ३८ ॥
स्वप्नेति। मत्यस्तमितबाह्यवृत्तिर्मनोमात्रेणैव यत्र भोक्तृत्वमात्मनः स स्वप्नः । निद्रा निरालम्बनं ज्ञानं चेतसः स्थितिहेतुः ॥ ३८ ॥
यथाभिमतध्यानाद्वा ॥ ३९ ॥
यथेति । यथाभिमते वस्तुनि बाह्ये आभ्यन्तरे नाडीचक्रादौ वा भाव्यपाने चेतसः स्थितिहेतुर्भवति ॥ ३९ ॥
परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥ ४० ॥
परमाण्विति । एभिश्चित्तस्थैर्यं भावयतो योगिनः सूक्ष्मभावनद्वारेण परमाण्वन्तो वशीकारः परमाणुपर्यन्ते सूक्ष्मे आकाशादिस्थूले चेतसोऽप्रतिघातो भवति ॥ ४० ॥
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ ४१ ॥
तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥ ४२ ॥
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ ४३ ॥
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ ४४ ॥
एतयैवेति । एतयैव सवितर्कया निर्वितर्कया सविचारा निर्विचारा च व्याख्याता । सूक्ष्मस्तन्मात्रेन्द्रियादिर्विषयो यस्याः सा पूर्णा स्थूलविषया ॥ ४४ ॥
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५ ॥
सूक्ष्मेति। सविचारनिर्विचारयोः समापत्त्योः यत्सूक्ष्मविषयत्वं तदलिङ्गपर्यवसानं न क्वचिद्धीयते न वा किञ्चिल्लिङ्गानि गमयतीत्यलिङ्गं प्रधानं तत्पर्यन्तं सूक्ष्मविषयत्वम् ॥ ४५ ॥
ता एव सबीजः समाधिः ॥ ४६ ॥
निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ ४७ ॥
ऋतंभरा तत्र प्रज्ञा ॥ ४८ ॥
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ ४९ ॥
श्रुतेति। श्रौतमागमज्ञानम् । अनुमानमुक्तलक्षणम् । ताभ्यां या जायते प्रज्ञा सा सामान्यविषया, इयं निर्विचारवैशारद्यसमुपेता ताभ्यां विलक्षणा विशेषविषयत्वात्, अस्यां हि सूक्ष्मव्यवहितविप्रकृष्टविषयाः स्फुटं भासन्ते । अतस्तस्यां यत्नो विधेयः ॥ ४९ ॥
तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ ५० ॥
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ ५१ ॥
तस्यापीति। तस्यापि निरोधे तस्य सम्प्रज्ञातस्य निरोधे प्रविलये सति सर्वासां चित्तवृत्तीनां स्वकारणे प्रविलयात् या संस्कारमात्रात् वृत्तिरुदेति तस्यां नेति नेतीति पर्युदासान्निर्बीजः समाधिराविर्भवति यस्मिन् सति पुरुषः शुद्धो भवति ॥ ५१ ॥
इति योगचन्द्रिकायां प्रथमः समाधिपादः ॥ १ ॥