वन्दे क्लेशाद्यसंसृष्टं पुराणपुरुषं हरिम् ।
प्रकृत्या सीतया जुष्टं योगीशं योगदायिनम् ॥१॥
पतञ्जलिं सूत्रकृतं प्रणम्य
व्यासं मुनिं भाष्यकृतं च भक्त्या ।
भाष्यानुगां योगमणिप्रभाख्यां
वृत्तिं विधास्यामि यथामतीड्याम् ॥२॥
इह खलु भगवान् पतञ्जलिः प्रेक्षवत्प्रवृत्त्यङ्गं शास्त्रप्रतिपाद्यं दर्शयति ----
अथ योगानुशासनम् ॥ ( १ )
अत्र अथ शब्द आरम्भार्थः । योगशास्त्रमारभ्यत इत्यर्थः । यद्यपि हिरण्यगर्भेन शास्त्रं कृतं तथाsपि तद्विस्तृतम् इति मत्वा तदनुसृतं शास्त्रमारभ्यत इति ध्योतयति- अनुशासनम् इति ।
अत्र सूत्रे योगः शास्त्रप्रतिपाद्य उक्तः, अर्थात्तज्जिज्ञासुरधिकारी । फलं तु योगस्य कैवल्यम् । यथायोगं तेषां सम्बन्ध इत्यनुबन्धचतुष्टयं द्रष्टव्यम् ।
तत्र योगो द्विविधः सम्प्रज्ञातोsसम्प्रज्ञातश्चेति । स च चित्तस्य धर्मः । वृत्तीनां चित्तधर्मत्वेन तन्निरोधरूपयोगस्यापि तद्धर्मत्वात् । तस्य चित्तस्य पञ्च भूमयः – क्षिप्तम्, मूढम्, विक्षिप्तम्, एकाग्रम्, निरुद्धमिति । रजसा अत्यन्तं चित्तं क्षिप्तं दैत्यानाम्; तमसा निद्रादिमन्मूढं रक्षसाम् ; क्षिप्ताद्विशिष्टं विक्षिप्तं देवादीनाम् ; अत्यन्तचलचित्तस्य कादाचित्कं स्थिरत्वं विशेषः । तत्र क्षिप्तमूढयोर्योगगन्धोsपि नास्ति । विक्षिप्ते तु चित्ते कादाचित्को योगः प्रचुरविक्षेपवन्हिदग्धः अप्रतिष्ठितः निष्फलः न योगपक्षे वर्तते । एकाग्रे तु सत्त्वप्रधाने एकविषयस्थिते चित्ते रजस्तमोवृत्तिनिरोधः सात्विकवृत्तिविशेषः सम्प्रज्ञातयोगो भवति । तेन शब्दानुमानाभ्यां परोक्षत्वेन ज्ञातार्थः साक्षात् क्रियते । साक्षात्कारादविद्यादिक्लेशक्षयः ततः पुण्यपापकर्मणां दाहः ततः असम्प्रज्ञातो योगः । सात्त्विकवृत्तेरपि निरोधः संस्कारमात्रशेषे निरुद्धे चित्ते भवति । तदाह भाष्यकारः-
“यस्त्वेकाग्रे चेतसि सदभूतमर्थं प्रद्योतयति, क्षिणोति च क्लेशान् कर्मबन्धनानि श्लथयति, निरोधमभिमुखं करोति, स सम्प्रज्ञातयोग इत्याख्यायत” इति ॥
अधुना द्विविधस्य योगस्य साधारणं लक्षणमाह-
योगश्चित्तवृत्तिनिरोधः ॥ ( २ )
चित्तस्य रजस्तमोवृत्तीनां निरिधः योग इत्यर्थः । अतः सम्प्रज्ञाते सात्त्विकवृत्तिसत्वेsपि नाव्याप्तिः ।
नन्वेकस्य चित्तस्य क्षिप्ताद्यनेकभूमयः कुत इति चेत्, चित्तस्य त्रिगुणात्मकत्वादिति ब्रूमः । चित्तं हि ज्ञानसुखादिशीलत्वात् प्रवृत्ति ( गुणादि ) ( दुःखादि ) मत्त्वात् आलस्यदैन्यादिमत्त्वाश्च सत्त्वरजस्तमोगुणकं भवति । तत्र सत्त्वात् किञ्चिदूने रजस्तमसी मिथः समे यदा भवतः तदा सत्त्वात् तद्ध्यानाभिमुखं भूत्वा तमसा तत्पिधाने सति रजसा ऐश्वर्यं कामयमानं विषयप्रियं भवति विक्षिप्तम् । यदा तु तमःप्रधानं चित्तं मूढं तदा अश्रेयः अधर्माज्ञानावैराग्यानैश्वर्यमुपगच्छति । अज्ञानमत्र भ्रमः निद्रा च । रजःप्रधानं तु क्षिप्तम् । इमे क्षिप्तमूढे साधारणे भवतः । विक्षिप्तं तु प्रथमयोगिनः । सन्ति हि चत्वारो योगिनः – प्रथमकल्पिकः, मधुभूमिकः, प्रज्ञाज्योतिः, अतिक्रान्तभावनीयश्च इति तेषां लक्षणं तु वक्ष्यते । यदि पुनः सत्त्वप्रधानं वितमस्कं सरजस्कं भवति, तदा ऐकाग्र्यं सम्प्रज्ञातयोगसिद्धयोः मध्यमयोगिनोः चित्तं धर्मज्ञानवैराग्यैश्वर्यवद्भवति । यदा तु विधूतरजस्तमोमलं शुद्धसत्त्वं चित्तं तदानीं विवेकख्यातिं कृत्वा पुरुषमात्रध्यानं धर्ममेधाख्यं करोति तत्परं प्रसंख्यानमित्याचक्षते ध्यायिनः । ध्यानेन चितिशक्तिरपरिणामिनी अप्रतिसंक्रमा दर्शितविषया शुद्धा चानन्ता च इति निश्चित्य सत्त्वगुण-विकृतौ विवेकख्यातावपि विरक्तं सच्चित्तं तां निरुध्य संस्कारमात्रशेषं भवति चतुर्थस्य योगिनः । सोsयमसम्प्रज्ञातसमाधिः । अत्र हि न किञ्चित् प्रज्ञायत इत्यलम् ।
’चितिशक्तिरित्याद्यनन्ता च’ इत्यन्तं भाष्यम् । तत्र अप्रतिसंक्रमा इत्यस्य बिले सर्पवत् (बुद्ध्यादौ) (चित्ते) प्रविश्य न सञ्चरतीत्यर्थः । बुद्ध्या दर्शिता विषया यस्याः सा दर्शितविषया । सुखदुःखमोहशून्या शुद्धेत्यर्थः ।।
चतुर्थयोगिनश्चित्तं निरूपयितुं पातनिकामारचयति यदात्विति । धर्ममेघाख्यं सम्प्रज्ञातम् । तत् परमिति । तत्- सम्प्रज्ञाताख्यध्यानं परं प्रकृष्टं प्रसंख्यानमित्याचक्षते ध्यायिनः । चित्तसामानाधिकरण्यं च धर्मधर्मिणोरभेदविवक्षया द्रष्टव्यम् । ध्यानेन- सम्प्रज्ञातयोगेन । न प्रतिसङ्क्रमः सञ्चारः विद्यते यस्याः सा इति समासमभिप्रेत्य फलितार्थमाह चित्ते इति । बुद्ध्येति- बुद्धेः विषयप्रदर्शकत्वोक्त्या पुरुषस्य औदासीन्यं ज्ञापितमिति भावः ।।
ननु बुद्धिवृत्तिस्वभावस्य पुरुषस्य वृत्तिनिरोधे कथं स्थितिरित्यतः आह-
तदा द्रष्टुः स्वरूपेsवस्थानम् ॥ ( ३ )
यदा चित्तस्य शान्तघोरमूढानां सर्वासां वृत्तीनां निरोधस्तदा द्रष्टुश्चिदात्मनः स्वाभाविके रूपे स्थितिः कुसूमापाये यथा स्फटिकस्य तथेत्यर्थः पुरुषस्य चैतन्यमात्रं स्वभावो न वृत्तय इति भावः ॥
ननु तर्हि व्युत्थाने पुरुषस्य स्वभावात्प्रच्युतिः स्यादित्याशङ्क्याह-
वृत्तिसारूप्यमितरत्र ॥ ( ४ )
इतरत्र निरोधाद् व्युत्थाने सति याश्चित्तस्य वृत्तयः शान्ताद्यास्तत्सारूप्यं वृत्तिमद्बुद्ध्यविवेकात्पुरुषस्य ’शान्तो दुःखी मूढास्मि’ इति वृत्तितादात्म्यभ्रम इत्यर्थः । अतो न स्वभावात् प्रच्युतिः । न हि लौहित्यभ्रमकाले स्फटिकस्य श्वेतस्वभावात् प्रच्युतिरस्तीति भावः । निरोधे मुक्तिः व्युत्थाने बन्ध इति सूत्रद्वयतात्पर्यम् ।।
इदानीं निरोद्धव्यानां वृत्तीनामियत्तामाह –
वृत्तयः पञ्चतय्यः क्लिष्टा अक्लिष्टाः ॥ ( ५ )
राजवार्तिके- चित्तवृत्तिनिरोधान् व्याख्यातुकामेन सूत्रकारेण सूत्रद्वयेन यस्य व्युत्थाननिरोधयोर्मुक्तिबन्धौ तच्चित्तमिति व्याख्याय ’वृत्तय’ इत्यादिना वृत्तीर्व्याख्याय ’अभ्यासवैराग्याभ्याम्’ इत्यादिना पादशेषेण निरोधे व्याख्यातः- इति विशेष उक्तः । अवयवार्थस्तयप् । वृत्तिशब्दः वृत्तिसामान्यपरः । चैत्रमैत्रादिचित्तभेदेन वृत्तिसामान्यानां बहुत्वात् वृत्तय इति बहुवचनम् । अग्रिमसूत्रोक्ताः प्रमाणादयः पञ्च विशेषा वृत्तिसामान्यस्यावयवा इत्यर्थः । पञ्च अवयवा यासां ताः पञ्चतय्यः तासां हानोपादानसिद्धये भेदमाह- क्लिष्टा अक्लिष्टा इति । रागद्वेषादिक्लेशानां हेतवः क्लिष्टाः- बन्धफलाः । सर्वो हि जन्तुः प्रमाणादिवृत्तिभिर्ज्ञातेष्वर्थेषु रागादिना कर्म कृत्वा सुखादिना बध्यते । अक्लिष्टाः- क्लेशनाशिन्यो मुक्तिफलाः सत्त्वपुरुषान्यतागोचराः । ताः खलु अभ्यासवैराग्याभ्यां क्लिष्टवृत्तिप्रवाहमध्ये जायमानाः स्वजन्याक्लिष्टसंस्कारैः पुनःपुनरभ्यासेन प्रवृद्धैः क्लिष्टसंस्कारनिरोधेन क्लिष्टवृत्तिप्रवाहं निरुध्य परवैराग्येण स्वयं निरुध्यन्ते । ततः संस्कारशेषस्य चित्तस्य प्रलयो मुक्तिर्भवतीति भावः ।।
पञ्चवृत्तीरुद्दिशति-
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ ( ६ )
इतोsन्या वृत्तिर्नास्तीत्युद्देशसूत्रस्य फलम् ॥
तत्र प्रमाणवृत्तिं विभजते-
प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ( ७ )
त्रीण्येव प्रमाणानीति भावः । अत्र प्रमाकरणत्वं सामान्यलक्षणम् । प्रमा चाज्ञातार्थावगाहि पौरुषेयो बोधः वृत्तौ प्रतिबिम्बः । तत्करणं वृत्तिः । तत्रेन्द्रियसम्बन्धद्वारा चित्तस्य घटादिसम्बन्धे सति सामान्यविशेषात्मकेsर्थे व्यक्तिरूपविशेषनिर्धारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम् । तत्र अर्थाकारायां वृत्तौ चिदात्मनो यः प्रतिबिम्बः सोsपि वृत्तिद्वारा अर्थाकारः सन् फलं भवति । एवं सामान्यतो ज्ञाते परोक्षार्थे समाधिना विद्यमानविशेषवृत्तिः प्रमाणत्वमिति ज्ञेयम् । अनुमानागमयोर्व्याप्तिसङ्गतिग्रहापेक्षत्वात् वन्हित्वादिसामान्ये तद्ग्रहात् सामान्यविषयत्वमेव । तत्र व्याप्तिग्रहे सति पक्षवृत्तिलिङ्गज्ञानात् साध्यतावच्छेदकसामान्यनिर्धारणवृत्तिरनुमानम् । आप्तेन दृष्टोsनुमितो वा अर्थः येन शब्देनोपदिश्यते तस्माच्छब्दात् श्रोतुः तदर्थविषयावृत्तिरागमः । वेदस्य आप्तेश्वरप्रणीतत्वं वक्ष्यते ।।
विपर्ययं लक्षयति-
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ( ८ )
तत्तद्रूपे स्वविषये प्रतिष्ठाशून्यम् (बाधविरोधीति यावद्) । विकल्पोsपि बाधविरोधी तद्रूपाप्रतिष्ठ इत्यतिव्याप्तिनिरासाय मिथ्याज्ञानपदम् । तेन स्वविषये स्वजन्यव्यवहारलोपिसमतबाधवत्त्वमुच्यते । न च विकल्पे तादृशबाधोsस्ति । केषाञ्चित् पण्डितानां तत्र बाधबुद्धावपि यथापूर्वं व्यवहारालोपात् । संशयस्तु लक्ष्य एवेति नातिव्याप्तिरिति भावः । अस्यैव विपर्ययस्य भेदाः पञ्चक्लेशाः इति वक्ष्यते ।।
विकल्पं लक्षयति-
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ( ९ )
नरशृङ्गादिशब्दश्रवणानन्तरमवश्यं भवत्येव निर्विषया वृत्तिर्या सा विकल्प इत्यर्थः । अयं विकल्पो वस्तुशून्यत्वान्न प्रमाणम्, बोधेsप्यवश्यवं भावित्वाद्व्यवहारहेतुत्वाच्च न विपर्ययः । यथा ’चैतन्यमेव पुरुष’ इत्यभेदनिश्चयेsपि ’पुरुषस्य चैतन्यम्’ इति भेदविकल्पः, ’भावातिरिक्तभावो नास्ति’ इति निश्चयेsपि ’सर्वधर्माभाववन्पुरुष’ इति विशेषणविशेष्यभावविकल्पः । एवं ’राहोः शिर’ इत्यादिविकल्पा उदाहार्याः ॥
निद्रां लक्षयति-
अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥ ( १० )
कार्यं प्रत्ययते गच्छतीति प्रत्ययो हेतुः । जाग्रत्स्वप्नसुषुप्तीनामभावे हेतुः तमः आलम्बनं- विषयः यस्याः सा वृत्तिः निद्रा । वृत्तिपदस्यानुवर्तमानस्योच्चारणं ’ज्ञानाभावो निद्रा’ इति मतनिरासार्थम् । तथा हि – उत्थितस्य ’सुखमहमस्वाप्सम्’ इति स्मरणं बुद्धिसत्त्वसचिवतमो विषयं तदनुभवं कल्पयति । ’गाढमूढमहमस्वाप्सम्’ इति केवलतमोविषयं स्मरणं तदनुभवं कल्पयति । स चानुभवो बुद्धिधर्मो निद्रा । सा चैकाग्रवृत्तिकल्पा अपि तामसत्वात् योगार्थिना निरोद्धव्येति भावः ।।
स्मृतिं लक्षयति-
अनुभूतविषयासंप्रमोषः स्मृतिः ॥ ( ११ )
प्रमाद्यनुभवो (पि) (हि) स्मृतेः पिता । तस्य विषयः स्मृतेः आत्मीयः। लोके पितुः स्वमिव पुत्रस्य । स्मृतेर्मूलानुभवाविषयस्तु परस्वम् । तद्ग्रहः सम्प्रमोषःस्तेयः । तथा चानुभूते विषये योsयम् असम्प्रमोषः अधिकाग्रहः, अनुभूतमात्रग्रह इति यावत् सा स्मृतिरित्यर्थः । वृत्तिस्थः पौरुषबोधोsनुभवः स्वप्रकाश इति तज्जन्यसंस्कारात् अनुभवार्थो भयविषयापि स्मृतिर्भवति । ननु स्वकाये गजवैशिष्ट्यमननुभूतमपि स्वप्ने स्मर्यते इति चेत्, न । तस्य विपर्ययत्वादिति भावः ।।
आसां वृत्तीनां निरोधोपायमाह-
अभ्यासवैराग्याभ्यां तन्निरोधः ॥ ( १२ )
सर्वस्य जन्तोः स्वभावतश्चित्तवृत्तिर्नदी विषयभूमिगा संसारसागराभिमुखी प्रवहति । तत्र विषये वैराग्येण तत्प्रवाहं भङ्त्वा सत्त्वपुरुषविवेकाभ्यासेन तस्या नद्याः प्रत्यक्प्रवाहः क्रियते । अनभ्यासे हि लयविक्षेपस्वभावस्य चित्तस्य वैराग्यात् विक्षेपभङ्गे निद्रा स्यात् तस्मादभ्यासवैराग्ये लयविक्षेपनिवृत्तिरूपप्रयोजनभेदेन निरोधे कार्ये समुच्चीयेते ।।
अभ्यासस्वरूपमाह-
तत्र स्थितौ यत्नोभ्यासः ॥ ( १३ )
तत्र- तयोर्मध्ये रजस्तमोवृत्तिशून्यस्य चित्तस्यैकाग्रता स्थितिः । तस्यां कार्यायां यानि साधनानि यमनियमादीनि तद्विषयः प्रयत्नः ( तदनुष्ठानम्) (अनुष्ठानम्) अभ्यास इत्यर्थः ।।
नन्वनादिप्रबलराजसतामसवृत्तिसंस्कारैर्विरोधिभिः कुण्ठितोsभ्यासो न स्थित्यै कल्पत इत्यत आह-
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ ( १४ )
तु शब्दः शङ्कानिरासार्थः । सः अभ्यासः दीर्घकालं तपोब्रह्मचर्यविद्याश्रद्धारूपसत्कारेण नैरन्तर्येण चासेवितः दृढसंस्कारः सन् व्युत्थानसंस्कारैर्नाभिभूयते । किन्तु स्थितिसमर्थो भवतीत्यर्थः । ’अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्य’ इति श्रुतिः । सत्कारं दर्शयति ।।
वैराग्यस्वरूपमाह-
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञावैराग्यम् ॥ ( १५ )
यतमानव्यतिरेकैकेन्द्रियवशीकारसंज्ञाः वैराग्यवृत्तयः चतस्रः । तत्र रागादीनां चित्तस्थानां कषायागां विषयेष्विन्द्रियप्रवर्तकानां पाकाय प्रयत्नो यतमानसंज्ञावैराग्यम् । ततः पक्वानां केषाञ्चित् कषायाणां पक्ष्यमाणेभ्यो विभागावधारणं व्यतिरेकसंज्ञावैराग्यम् । ततः पक्वानां सर्वेषामिन्द्रियप्रवर्तनाशक्तानां मनस्यौत्सुक्यरूपेणावस्थानमेकेन्द्रियसंज्ञावैराग्यम् ।स्त्रियोsन्नपानमित्यादिषु दृष्टेषु, गुरूच्चारणमनुश्रवः श्रवणं यस्य सोsनुश्रवो वेदः तदुक्तेषु आनुश्रविकेषु, स्वर्गादिदिव्यादिव्यविषयेषु च प्राप्तेषु विनाशपरितापसातिशयत्वासूयादिदोषाणामभ्यासेन साक्षात्कारात् वितृष्णस्य उपेक्षाबुद्धिः- वशीकारसंज्ञावैराग्यमित्यर्थः ।।
अपरं वैराग्यमुक्त्वा परं वैराग्यमाह-
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ ( १६ )
पूर्ववैराग्यमुत्तरवैराग्ये हेतुः । तथा हि- वक्ष्यमाणयोगाङ्गानुष्ठानादतिशुद्धचित्तस्य विषयेषु दोषदर्शनात् वशीकारसंज्ञकवैराग्ये सति गुर्वागमावगतस्य पुरुषस्य या ख्यातिः तदभ्यासात् धर्ममेघाख्यध्यानरूपान्नितान्तविध्वस्ततमोरजोमलं चित्तं सत्त्वमात्रदोषं अतिप्रसन्नं भवति । सोsयमतिशुद्धचित्तधर्मः प्रसादः धर्ममेघोत्तरावधिः तस्यैव फलीभूतः, परं गुणेभ्यो वैतृष्ण्यं वैराग्यमुच्यते यं मुक्तिहेतुसाक्षात्कारं वदन्ति मोक्षविदः । यस्योदये प्रक्षीणसर्वक्लेशो विधूताशेषकर्माशयः कृतविवेकख्यातावप्युपेक्षकः’कृतं कृत्यं’, ’प्राप्तं प्रापणीयम्’ इति मन्यते योगी, यदन्तरमेव चित्तमसम्प्रज्ञातसंस्कारमात्रशेषं भवति तत्परं वैराग्यम् । अपरं तु वैराग्यं वितमस्कस्य रजोलेशमलस्य चित्तस्य धर्मः, यतः प्रकृतौ लीना ऐश्वर्यमनुभवन्ति । यथोक्तम्- ’वैराग्यात्प्रकृतिलय’ इति ।।
एवमभ्यासवैराग्ये निरूप्य तत्साध्यं निरूपयन्नादौ संप्रज्ञातं चतुर्विधं दर्शयति-
वितर्कविचारानन्दास्मितारूपानुगमात्संप्रज्ञातः ॥ ( १७ )
यथा लोके प्राथमिकधानुष्कः स्थूलमेव लक्ष्यं विध्यति, पश्चात् सूक्ष्मं, तथा प्राथमिको योगी स्थूलमेव शालग्रामादिकं ध्यानेन साक्षात्करोति । स स्थूलसाक्षात्कारो वितर्कः । तस्य स्थूलस्य कारणं पञ्चतन्मात्रादिकं सूक्ष्मम् । तस्य ध्यानेन साक्षात्कारो विचारः । इन्द्रियाणि स्थूलानि प्रकाशकत्वात् सत्त्वरूपाणि तेषां ध्यानेन साक्षात्कारः आनन्दः । तेषां कारणं बुद्धिः पुरुषरूपेण ग्रहीत्रैकीभूता सती अस्मिता । तस्या ध्यानेन साक्षात्कारोsप्यस्मिता उच्यते । तत्र स्थूलं सूक्ष्मं च ग्राह्यम्, इन्द्रियाणि ग्रहणानि अस्मिताख्यो ग्रहीता । तेषु ग्रहीतृग्रहणग्राह्येषु ध्यानपरिपाकः संप्रज्ञातो योगः । स च वितर्कविचारानन्दास्मितास्वरूपैः चतुर्भिः अनुगमात् चतुर्विधः सवितर्कः, सविचारः, सानन्दः सास्मित इति । अत्र यथा घटज्ञानं मृद्विषयं तादात्म्यात् तथा स्थूलयोगः योगः स्थूलसूक्ष्मेन्द्रियास्मिताविषयकः । सूक्ष्मयोगस्त्रयविषयकः । अन्यौ द्व्-येकविषयौ इति विशेषो भाष्यकृद्भाषितः । तत्र मृज्ज्ञानं घटादिविषयं यथा तद्वत् सूक्ष्मादियोगाः स्थूलाद्यविषया इति मन्तव्यम् । भोजवृत्तौ तु इन्द्रियेषु सवितर्कमुक्त्वा तन्मात्रेषु सविचारमुक्त्वा अहङ्कारे सानन्दः, महत्तत्त्वे सास्मित इत्युक्तम् । तत्र ’अहम्’ इति विषयग्राहकान्तःकरणमहङ्कारः ।अन्तर्मुखं सत्तामात्रे महत्तत्त्वे लीनं, सत्तामात्रावभासकमस्मितेति तयोर्भेदः ।।
अधुना सोपायमसम्प्रज्ञातमाह-
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोsन्यः ॥ ( १८ )
वृत्तीनामभावो विरामः तस्य प्रत्ययः- कारणं परवैराग्यं तदभ्यासः पूर्वः उपायो यस्य स तथा । अनेन पदेनोपाय उक्तः । अन्यः असम्प्रज्ञातः संस्कारशेषः। परं हि वैराग्यं संप्रज्ञातसंस्कारानप्यभिभूय स्वसंस्कारं शेषयति । स निर्बीजः समाधिः । निरालम्बनत्वात् कर्मबीजाभावाच्चेत्यर्थः ।।
अयमसंप्रज्ञातः द्विविधः- भवप्रत्ययः, उपायप्रत्ययश्च । तत्राद्यो मुमुक्षुभिर्हेयः । तमाह-
भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ ( १९ )
भूतेन्द्रियाणामन्यतमस्मिन्स्वीकारे अनात्मन्यात्मत्वभावनया देहपातानन्तरं भूतेन्द्रियेषु लीनाः षाट्कौशिकदेहशून्याः विदेहाः । अव्यक्तमहदहङ्कारपञ्चतन्मात्रेषु प्रकृतिष्वात्मत्वभावनया लीनाः प्रकृतिलयाः । तेषां चित्तं संस्कारमात्रशेषमित्यसंप्रज्ञातः । स तु भवप्रत्ययः । भवन्ति जायन्तेsस्यां जन्तव इत्यविद्या भवः, अनात्मन्यात्मत्वबुद्धिः स प्रत्ययो हेतुरस्य स तथा । अविद्यामूलोsयं योगोsन्तवत्फलः ।
यदाह वायुः-
दशमन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः ।
भौतिकास्तु शतं पूर्णं सहस्रं त्वाभिमानिकाः ॥
बौद्धा दशसहस्राणि तिष्ठन्ति विगतज्वराः ।
पूर्णं शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः ॥
पुरुषं निर्गुणं प्राप्य कालसंख्या न विद्यते ॥ इति ।
येषां विवेकख्यातिर्नास्ति, तेषां चित्तं लीनमप्युत्थाय संसारे पतति सुप्तचित्तवदिति भावः ॥
अधुना द्वितीयमुपादेयमाह-
श्रद्धावीर्य्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ ( २० )
पुरुषगोचरा सात्विकी (वृत्तिः) श्रद्धा । तथा वीर्यं- प्रयत्नो जायते । तेन यमनियमादिपरम्परया स्मृतिः ध्यानम् । तेन समाधिः । तेन प्रज्ञापुरुषगोचरख्यात्यभ्यासः सम्प्रज्ञातः ततः परवैराग्यादसम्प्रज्ञातः इतरेषां- मुमुक्षूणां योगिनां भवति ॥
श्रद्धादयः प्रज्ञान्ता उपायाः तत्पूर्वकोsयमुपायप्रयत्नः । ते चोपायाः प्राणिनां प्राक्संस्कारबलात् मृदुमध्यादिमात्रभेदाः त्रिविधाः । तथा च योगिनस्त्रयो भवन्ति-मृदूपायः, मध्योपायः, अधिमात्रोपायः इति । तत्र मृदूपायस्त्रिविधः- मृदुसंवेगः, मध्यसंवेगः तीव्रसंवेग इति । एवमितरावपि त्रिविधौ भवतः । एवं च नव योगिनो भवन्ति । तेषां चिरं चिरतरं क्षिप्रं क्षिप्रतरं सिद्धयो भवन्ति उपायतारतम्यात् । तत्र केषाञ्चित् क्षिप्रतरं सिद्धिरित्याह-
तीव्रसंवेगानामासन्नः ॥ ( २१ )
संवेगः वैराग्यं येषां तीव्रम् उपायाश्चाधिमात्राः तेषां योगिनामासन्नः समाधिः असम्प्रज्ञातस्ततो मोक्ष इत्यर्थः ।।
मृदुमध्याधिमात्रत्वात्ततोsपि विशेषः ॥ ( २२ )
तीव्रस्य संवेगस्यापि मृदुमध्यादिमात्रत्वात् ततः – मृदुतीव्रसंवेगस्य योगिन आसन्नात् समाधेः मध्यतीव्रसंवेगासन्नतरात् अधिमात्रतीव्रसंवेगस्यासन्नतमः समाधिलाभ इति ’विशेष’ इत्यर्थः ।।
ईश्वरप्रणिधानाद्वा ॥ ( २३ )
ईश्वरे कायिकाद्वाचिकान्मानसात् प्रणिधानात् भक्तिविशेषात् आसन्नतमः समाधिलाभः । वाशब्दः पूर्वोक्तोपायेनास्य भवत्युपायस्य विकल्पार्थः । भक्तेरन्यानपेक्षत्वात् । ईश्वरो हि भक्त्याभिमुखः सन् ’इदमिष्टमस्यास्तु’ इत्यनुगृह्णातीति भावः ।।
ईश्वरस्वरूपान्निरूपयति –
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ ( २४ )
क्लेशाः- अविद्यादयः पञ्च । कर्म- अधर्माधर्मौ । तयोः फलं विपाकः । फलानुकूलाः संस्काराः आशयाः । मनस्याशेरत इति व्युत्पत्तेः । यथा नरस्य करिजन्मनि काष्ठभोगसंस्कारा उद्भवन्ति, अन्यथा जीवनासंभवात् । तैः क्लेशादिभिः चित्तस्थैः परामृष्टः सांसारिकः पुरुषः, चित्ताविवेकेन भोक्तृत्वात् । तैः कालत्रयेsप्यसंबद्धः पुरुष ’ईश्वरः’ । विशेषपदेन कालत्रयासम्बन्धवाचिना मुक्तजीवेभ्यो व्यावृत्तिः कृता । तेषां पूर्वकाले बन्धत्रयसम्बन्धात् प्रकृतौ लीनानां प्राकृतौ बन्धः । भूतेन्द्रियेषु विकारेषु लीनानां वेदेहानां वैकारिकः अन्येषां देवनरादीनां दक्षिणाबन्धः, चित्ताधीनकर्मफलत्वादिति भेदः ।
ननु ज्ञानक्रियाशक्तिमत्त्वं परमैश्वर्यं पुरुषस्यापरिणामिनः कथमिति? उच्यते । अस्ति ईश्वरस्यानादिसिद्धं शुद्धसत्त्वात्मकं चित्तं प्रधानजं निरतिशयज्ञानक्रियाशक्तिमत् । स हि भगवान्संसारार्णवाज्जन्तूनामुद्धरणेच्छया तच्चित्तमुपादत्तेः तद्विना ज्ञानधर्मोपदेशभक्तानुग्रहायोगात् । न च- कथं चित्तोपादानात् प्रागिच्छाद्युदेति इति वाच्यम् । बीजाङ्कुरवदानिद्त्वात् सर्गप्रलयप्रवाहस्य । यदा सर्वकार्यस्य प्रलयः तदा भविष्यत्कल्पे लोकानुग्रहार्थम् ’इदं चित्तमुपादेयम्’ इति भगवता सङ्कल्पयते । तत्सङ्कल्पवासितं प्रधाने लीनं सत् सर्गादौ चित्तमुद्वहति । तेन चेशरोsनुगृह्णातीत्यनवद्यम् ।
ननु तादृशाचित्तसत्त्वे किं मानमिति चेत् – ’स्वाभाविकी ज्ञानबलक्रिया च, एष सर्वेश्वर’ इत्यादिवेदवाक्यमिति ब्रूमः । वेदः निरतिशयज्ञानशक्तिमच्चित्तसचिवेश्वरप्रणीतः, अतः प्रमाणमिति संक्षेपः ।।
एवं वेदप्रामाण्यात्सिद्धः सर्वज्ञः ईश्वरः । तस्य सर्वज्ञत्वेsनुमानमप्याह-
तत्र निरतिशयं सर्वज्ञबीजम् ॥ ( २५ )
अस्मदादीनां ज्ञानं निरतिशयेन ज्ञानेनाविनाभूतं भवितुमर्हति, सातिशयत्वात् यत्सातिशयं तत्समानजातीयेन निरतिशयेन युक्तं, यथा कुम्भपरिमाणं विभुपरिमाणेन तत्सिद्धं निरतिशयं ज्ञानं सर्वज्ञस्य बीजज्ञापकं यत्र निरतिशयं ज्ञानं तत्र सर्वज्ञत्वं ज्ञायत इत्यर्थः । तस्य सामान्येन सिद्धस्य सर्वज्ञस्य श्रुत्यादिसिद्धाः शिवविष्णुनारायणमहेश्वरादिसंज्ञाः । तथा च वायुपुराणे-
सर्वज्ञता नृभिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः ।
अनन्तशक्तिश्च विभोर्विधिज्ञाः पडाहुरङ्गानि महेश्वरस्य ।
ज्ञानवैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः ।
स्रष्टृत्वमात्मसम्बोधो ह्यधिष्ठातृत्वमेव च ॥
अव्ययानि दृशैतानि नित्यं तिष्ठन्ति शङ्करे । इति ।
तथा महाभारते –
अनाधिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ।। इत्यादि ।
तस्य भगवतो ब्रह्मादिभ्यो विशेषमाह-
पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ ( २६ )
’पूर्वेषां’ सर्गादावुत्पन्नानां कालपरिच्छिन्नानां ब्रह्मादीनां गुरुः-ईश्वरः । कुतः ? कालेनानवच्छेदात्- अनाद्यन्तत्वादित्यर्थः । तथा च श्रुतिः- ’यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै’ इत्याद्या ।।
एवमीश्वरं निरूप्य तत्प्रणिधानं वक्तुं तस्य रहस्यसंज्ञामाह-
तस्य वाचकः प्रणवः ॥ ( २७ )
सृगमं सूत्रम् । ननु शब्दस्य वाचकत्वम् अभिधाख्या शक्तिः, शब्दार्थयोः सम्बन्धः इत्युच्यते । सा किं सङ्केतेन क्रियते व्यज्यते वा । नाद्यः । प्रतिकल्पं स्वतन्त्रेश्वरस्य सङ्केतभेदेन शब्दार्थाव्यवस्थाप्रसङ्गात् । न द्वीतीयः । सूर्यादिशब्दानां पुत्रेषु पित्रा सङ्केतवैफल्यापातात् । न हि तत्र सङ्केतव्यङ्ग्या शक्तिरस्ति । न चासति व्यङ्ग्ये व्यञ्जकमर्थवत् । तस्मादिदं सङ्केतसूत्रं व्यर्थमिति चेत्- उच्यते । स्थितैव शक्तिः सङ्केतेन व्यज्यते; यथा स्थित एव पितृपुत्रभावो ’ममायं पुत्रः’ इति वाक्येन व्यज्यते तद्वद्गवादिशब्देषु प्रलये प्रधानसाम्यं गतेषु सर्गादौ पुनः शक्त्या सहोद्भूतेषु स्थितामेव तत्तच्छब्दस्य तत्तदर्थे शक्तिमीश्वरः सङ्केतेन ज्ञापयति । जीवानां लुप्तसंस्कारत्वात् । अधुनातनपित्रादिसङ्केतस्तु शक्तेरुत्पादकः ।
केचित्तु- सर्वशब्दानां सर्वार्थेषु शक्तिरस्तीति पित्रादिसङ्केतोsपि व्यञ्जकः । गवादिशब्दानां तु वेदार्थव्यवस्यार्थमीशवरसङ्केतेनार्थविशेषे शक्तिर्नियम्यत इत्याहुः । सर्वथापि वैदिकशब्दार्थसम्बन्धो व्यवस्थितव्यवहारतया नित्य इति सिद्धम्॥
एवं वाचकमुक्त्वा प्रणिधानमाह-
तज्ज्पस्तदर्थभावनम् ॥ ( २८ )
अस्य भाष्यमेव लिख्यते । ’प्रणवस्य जपः प्रणवाभिधेयस्य चेश्वरस्य भावनं तदस्य योगिनः प्रणवं जपतः प्रणवार्थं च भावयतः चित्तमेकाग्रं सम्पद्यते ।
तथा चोक्तम्-
स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमानयेत् ।
स्वाध्याययोगसम्पत्या परमात्मा प्रकाशते । इति ।।
अस्येश्वरप्रणिधानस्यासन्नतमः समाधिलाभः फलमिति पूर्वमुक्तम् । अधुना फलान्तरमपि तदनुगुणमाह -
ततः प्रत्यक्चेतनाधिगमोsप्यन्तरायाभावश्च ॥ ( २९ )
प्रतीपं विपरीतमञ्चतीति जानातीति ’प्रत्यग्’ भ्रान्त इत्यर्थः । अनेनेश्वराद् भेद उक्तः बुद्धेरप्यन्तरं वा । प्रत्यक्च असौ चेतनश्च तस्याधिगमः- साक्षात्कारः, ततः- प्रणिधानात् भवति । अपि च अन्तरायाणामभावश्च भवति ।
ननु स्वभिन्नेश्वरप्रणिधानात् स्वसाक्षात्कारः कथं स्यात् ? अभ्यास-तज्जन्यज्ञानयोः षड्जादावेकविषयत्वदर्शनादिति चेत् – उच्यते । यथैवेश्वरोsसङ्गश्चिद्रूपः कूटस्थः क्लेशादिशून्यः तथैव जीव इति सादृश्यादीश्वरध्यानं तदनुग्रहद्वारा जीवस्वरूपसाक्षात्कारहेतुरित्यनवद्यम् ॥
अन्तरायानाह-
व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्त्वानि चित्तविक्षेपास्तेsन्तरायाः ॥ (३०)
ये चित्तं योगाद्विक्षिपन्ति – भ्रशयन्ति ते चित्तविक्षेपाः योगस्यान्तरायाः – विघ्ना नव । तत्र व्याधिः वातपित्तश्लेष्माणामन्नरसस्येन्द्रियाणां च वैषम्यम् । स्त्यानम्- चित्तस्य लघुत्वेsपि कर्मानर्हता । संशयः प्रसिद्धः । योगाङ्गाननुष्ठानं प्रमादः । आलस्यम्- चित्तस्य गुरुत्वादप्रवृत्तिः । अविरतिः- विशयतृष्णा । भ्रान्तिदर्शनम्- एककोटिको विपर्ययः । अलब्धभूमिकत्वम्- समाधिभूम्यलाभः । मधुमत्यादयः समाधिभूमयो वक्ष्यन्ते । अनवस्थिरत्वं नाम लब्धायां भूमौ चित्तस्यास्थिरत्वम्, पूर्वभूमौ हि स्थितं चित्तं उत्तरभूमिं जायते । तस्मादस्थिरत्वं दोष इत्यर्थः ।।
न केवलमेते विक्षेपा योगनाशका;, किन्तु दुःखादीनपि कुर्वन्तीत्याह-
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ ( ३१ )
दुःखं व्याधिजं शरीरम् । कामादिजं मानसम्, तद्वयमाध्यात्मिकम् । व्याघ्रादिजमाधिभौतिकम् । ग्रहपीडादिजमाधिदैविकम् । दौर्मनस्यमिच्छाविधातात् क्षोभो मनसि । अङ्गमेजयतोsभावः अङ्गमेजयत्त्वमङ्गानां कम्पनमित्यर्थः । अनिच्छतः प्राणोsयं बाह्यवायुमन्तः प्रवेशयति स श्वासः, समाध्यङ्गरेचकविरोधीत्यर्थः । एवमनिच्छतः कौष्ट्यस्य वायोर्बहिर्गमनं प्रश्वासः, पूरकविरोधी । एते विक्षेपैः सह भवन्ति विक्षिप्तचित्तस्य भवन्तीत्यर्थः ।।
ईश्वरप्रणिधानादेतेषामभाव इत्युक्तमुपसंहरति-
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ( ३२ )
विक्षेपातां नाशार्थमेकतत्त्वस्य ईश्वरस्य अभ्यासः ध्यानं कार्यमित्यर्थः । अत्र भाष्यकारैः ’स्थायि चित्तं स्यात् तस्यैकाग्रता सम्पादनीया’ इति क्षणिकमतमाशङ्क्य ’सोsहम् इति प्रत्यभिज्ञानात् चित्तमेकमनेकार्थावगाहि स्थायि विद्यत इति साधितम् ॥
तस्य चित्तस्यासूयादिमलवतो योगायोगात्तन्मलनिरासोपहानाह-
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥ ( ३३ )
सुखिषु प्राणिषु मैत्रीं- मित्रताम्, दुःखितेषु करुणां-दयाम्, पुण्यवर्तिषु मुदितां- हर्षम्, अपुण्यशब्दितपापवृत्तिषु उपेक्षां- मध्यस्थवृत्तिं भावयेत् ( तया भावनया ) ( तथा भावनया ) चित्तस्य प्रसादनं भवति । सुखादिषु यथाक्रममुक्तया भावनया सात्त्विको धर्मो जायते । तेषु ईर्ष्या- अपकारेच्छा । असूयाद्वेषाणां चित्तमलानां विनाशात्तेन च शुक्लेन धर्मेण चित्तं प्रसन्नं भवति । प्रसन्नं च वक्ष्यमाणेभ्य उपायेभ्य एकाग्रं स्थितिपदं लभते इति तात्पर्यम् ॥
इदानीं मैत्रेयादिभावनया प्रसन्नस्य चित्तस्य स्थित्युपायानाह-
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ ( ३४ )
नासिकापुटाभ्यां प्राणस्य प्रच्छर्दनं- रेचनं, रेचितस्य प्राणस्य बहिरेव विधारणं यथाशक्ति ।ताभ्यां चित्तमेकत्र लक्ष्ये स्थितिं लभते । प्राणजये चित्तस्य जयः तयोरविभागात् प्राणायामस्य सर्वपापनिवर्तकत्वात् पापनिवृत्तौ चित्तं स्थिरं भवति । ’वा’ शब्दो वक्ष्यमाणोपायान्तरापेक्षया विकल्पार्थः, न तु मैत्र्यादिभावनापेक्षया । तद्भावनायाः सर्वोपायसहकारित्वेन समुच्चयादिति मन्तव्यम् ॥
उपायान्तरमाह ।
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥ ( ३५ )
नासाग्रे चित्तस्य संयमात् दिव्यगन्धसाक्षात्कारो भवति । जिह्वाग्रे संयमात् दिव्यरसस्य संविद्भवति । तालुनि रूपसंवित्, जिह्वामध्ये स्पर्शसंवित्, जिह्वामूले शब्दसंवित् । एताः संविदः गन्धादिविषयवत्यः प्रवृत्तयः शीघ्रमुत्पन्नाः सत्यः विश्वासमुत्पाद्यातिसूक्ष्मेश्वरादौ लक्ष्ये मनसः स्थितिं निबन्धन्तीत्यर्थः । शास्त्रोक्तविशेषस्य कस्यचिदनुभवे सत्यतिसूक्ष्मेsपि अतिश्रद्धया संयमार्थं योगी प्रवर्त्तत इति भावः ।।
विशोका वा ज्योतिष्मती ॥ ( ३६ )
अष्टदलं हृत्पद्मं रेचकेनोर्ध्वमुखं ध्यात्वा तत्कर्णिकास्थायाम् ऊर्ध्वमुख्यां सुषुम्नाख्यनाड्यां संयमनात् मनसः संविद्भवति । तन्मनः सूर्येन्दु-ग्रहमणीनां या या प्रभा तत्तद्रूपेणानेकधा भवति तत्सात्विकं ज्योतिर्मनः । तस्य कारणं सात्विकोsहङ्कारः निस्तरङ्गमहोदधिकल्पो व्यापी । तस्यापि ज्योतिः स्वरूपस्य संयमात् संविद्भवति । सैषा द्विविधा संविद् । ज्योतिष्मती- मनोsहङ्कारा ( ख्यान्यो) तिर्विषया, विशोका-दुःखशून्या, प्रवृत्तिरुत्पन्ना मनसः स्थितिहेतुरित्यर्थः ॥
वीतरागविषयं वा चित्तम् ॥ ( ३७ )
व्यासशुकादीनां वीतरागं यच्चित्तं तद्विषयं तत्र धार्यमाणं योगिनः चित्तं स्थितिपदं लभत इत्यर्थः ।।
स्वप्ननिद्राज्ञानालम्बनं वा ॥ (३८)
ज्ञानशब्दो ज्ञेयपरः । स्वप्ने भगवतो मूर्तिमत्यन्तमनोहरामाराधयन्नेव प्रबुद्घः तत्रैव चित्तं धारयेत् । निद्रायां सुषुप्तौ यत्सुखं जायते तत्र धारयेत् । एवं स्वप्ननिद्राज्ञेयालम्बनं चित्तं स्थितिं लभते ॥
यथाभिमतध्यानाद्वा ॥ ( ३९ )
किंबहुना । यदेवेष्टं शिवरामकृष्णादिरूपं तदेव ध्यायेत् । तत्र लब्धस्थितिकमन्यत्रापि स्थितिं लभते । अभिमतमनतिक्रम्य यथाभिमतम् । तस्य ध्यानादिति विग्रहः ॥
ननु चित्तस्थितिर्जायत इत्यत्र किं ज्ञापकमित्यत्राह-
परमाणुपरममहत्त्वान्तोsस्य वशीकारः ॥ ( ४० )
अस्य- चित्तस्य सूक्ष्मे निविशमानस्य यः परमाण्वन्तो वशीकारः अप्रतिघातः । तथा स्थूले निविशमानस्य परममहत्त्वाकाशान्तोsप्रतिघातः । तेन परेण वशीकारेण चित्तं लब्धस्थितिकमिति ज्ञात्वा स्थित्युपायानुष्ठानादुपरमतीत्यर्थः ।।
एवं चित्तस्थितेरुपाया उक्ताः । ज्ञापकश्च वशीकार उक्तः ।संप्रति लब्धस्थितिकस्य चित्तस्य किं विषयः किंरूपश्च संप्रज्ञातो योगो भवति अत उत्तरं पठति-
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ ( ४१ )
यथा अभिजातस्य – कुलीनस्य अतिस्वच्छस्य स्फटिकमणेः जपाकुसुमाद्युपरक्तस्य स्वरूपाभिभवेन रक्ताद्याकाराता भवति, तथाभ्यासवैराग्याभ्यां क्षीणरजस्तमोवृत्तिकस्य चित्तमणेः स्थूलसूक्ष्मभूतात्मकग्राह्येण ग्रहणैः इन्द्रियैः -गृहीत्रा पूर्वोक्तास्मिताख्यपुरुषेण च उपरक्तस्य ( स्वरूपाभिभवेन ) ( स्वरूपान्तःकरणाभिभवेन ) या ग्राह्याकारतापत्तिः स संप्रज्ञातः । पूर्वोक्तवितर्कविचारानन्दास्मितानुगमात् चतुर्विधः चतुर्विषयकः प्रत्येतव्यः । अत्र सूत्रेsर्थक्रमबलात् पाठं भङ्का ग्राह्यग्रहणग्रहीतृषु तत्स्थस्य – तदुपरक्तस्य चित्तस्य तदञ्जनता स्वरूपपरित्यागेन तद्रूपता तस्याः सम्यगापत्तिरिति व्याख्येयम् । स्थूलसूक्ष्मक्रमेणैव चित्तस्य ग्रहीत्रुपरागात् । तत्स्थेति भिन्नं पदम् । अविभक्तिकस्यान्तं कृत्वा क्षीणवृत्तेः तत्स्थस्येति योज्यम् । यद्वा तत्स्थं च तदञ्जनं च तस्य भावस्तत्ता । ( क्षीणवृत्तेः) तया समापत्तिरित्यर्थः ॥
सेयं सम्प्रज्ञाताख्या समापत्तिः पुनरवान्तरभेदाच्चतुर्धा भवति । सवितर्का निर्वितर्का सविचारा निर्विचारा इति । तत्र सवितर्कायाः स्वरूपमाह-
तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥ ( ४२ )
तत्र- तासु समापत्तिषु मध्ये । सवितर्का समापत्तिरेषा ज्ञेया । तथा हि- गौः इत्युक्ते शब्दार्थज्ञानानि त्रीण्यभिन्नानि भासन्ते । तत्र ’गौरिति शब्दः’ इत्येको विकल्पः । अयं हि गौरित्युपात्तयोरर्थज्ञानयोः शब्दाभेदविषयकः । तथा ’गौरित्यर्थ इत्येको विकल्पः । तत्र गौरित्युपात्तयोः शब्दज्ञानयोरर्थाभेदविषयकः । एवं ’गौरिति ज्ञानम्’ इत्येको विकल्पः, अयं तु गौरित्युपात्तयोः शब्दार्थयोर्ज्ञानाभेदगोचरः । त्रय एते विकल्पाः, असदभेदगोचरत्वात् । एवं ’घटः पटः’ इत्यादयो विकल्पा ज्ञेयाः । तत्र शब्दज्ञानाभ्यामभेदेन विकल्पिते स्थूले गवाद्यर्थे समाहितचित्तस्य योगिनः समाधिजन्यसाक्षत्कारो यथा कल्पितार्थमेव गृह्णाति, तथा सा समाधिप्रज्ञा शब्दार्थज्ञानानां विकल्पैः सङ्कीर्णा तैः तुल्या भवति, विकल्पत्वाविशेषात् । सा सङ्कीर्णा सवितर्का समापत्तिरित्यर्थः ।।
निर्वितर्कामाह-
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ ( ४३ )
गवादिशब्दानां शक्तिरूपः सङ्केतो विकल्पितार्थेष्वेव लोके गृह्यते । तस्य स्मृत्या शाब्दज्ञानं परार्थानुमितिश्च विकल्प एव जायते । तथा च श्रुते वा अनुमिते वा अर्थे श्रुत्यनुमितिरूपविकल्पमूला समापत्तिः सवितर्का भवति । स्मृतिपरिशुद्धौ सत्याम् अर्थमात्रतात्पर्यवता चित्तेनार्थमात्राभ्यासात् सङ्केतस्मृतेस्त्यागे सति तत्कार्यस्य विकल्पस्य त्यागात् समाधिप्रज्ञा स्वीयं ग्राहकत्वं प्रज्ञारूपं यत् तेन शून्येव भूत्वा अर्थमात्रनिर्भासात् अविकल्पितार्थरूपं यद्ग्राह्यं तत्स्वरूपेणैव निर्भास्यमाना निर्वितर्कसमापत्तिरित्यर्थः । तत्र सवितर्कसाक्षात्कारो यः तदपरं प्रत्यक्षं विकल्पत्वात् । निर्वितर्कप्रत्यक्षं तु परं सत्यार्थविषयत्वात् । स च सत्यार्थो गोघटादिखयवी ज्ञेयः । अत्र ’परमाणुपुञ्जातिरिक्तोsवावी नास्ति’ इति बौद्धमतमाशङ्क्य ’महानेको घट’ इत्यबाधितानुभवादस्ति, स चास्माकं मते भूतसूक्ष्मरूपाणां परमाणूनां परिणामः । तस्य च स्वोपादानेन भेदाभेदात्मकं तादात्म्यमिति भाष्ये साधितम् ।।
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ ( ४४ )
स्थूलपरिणामघटादिषु उपादानत्वेनानुगता ये परमाणवः पञ्चतन्मात्राणां ( विकाररूपेण स्थिताः ) ( विकारभूतरूपेण संस्थिताः ) सूक्ष्माः तेषु विषयेषु स्वीयकार्यकारणदेशकालनानाविशेषणविशिष्टेषु स्ववाचकशब्दज्ञानाभ्यामभेदेन विकल्पितेषु या समापत्तिः सा सविचारा इत्युच्यते । तेष्वेव सर्वविशेषणशून्येषु अर्थमात्रेषु परमाणुषु या समापत्तिः सा निर्विचारा । सा खलु सत्यार्थमात्रस्वरूपा समाधिप्रज्ञा स्वरूपशून्येव निर्भासते । एतया च स्थूलगोचरया सवितर्कया निर्वितर्कया च व्याख्यातया सूक्ष्मविषया सविचारा निर्विचारा च व्याख्याता भवतीत्यर्थः ।।
ननु किमस्याः ग्राह्यसमापत्तेः परमाणुष्वेवावसानम्, नेत्याह-
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ( ४५ )
अस्याः समापत्तेः सूक्ष्मविषयत्वमलिङ्गे प्रधाने पर्यवस्यति । तथा हि पार्थिवः परमाणुः गन्धतन्मात्रात् इतरतन्मात्राङ्गकात् जायते । आप्यस्तु गन्धतन्मात्रवर्जितात् रसतन्मात्रादितन्मात्राङ्गकाद् । तैजसस्तु गन्धरसद्वयवर्जितात् रूपतन्मात्रादितरद्वयाङ्गकाद् । वायव्यस्तु पूर्वहीनात् स्पर्शतन्मात्रात् शब्दतन्मात्राङ्गकाद् । नभसः परमाणुस्त्वेकस्मादेव शब्दतन्मात्राज्जायत इति प्रक्रिया । अतो विकारेभ्यः परमाणुभ्यः उपादानानि पञ्च तन्मात्राणि सूक्श्माणि, तेभ्योsप्यहङ्कारः सूक्ष्मः तस्मादपि महान्, महतोsपि प्रधानम् । तद्विलयं न गच्छतीत्यलिङ्गमुच्यते । ततः परं सूक्ष्ममुपादानं नास्ति । पुरुषस्य सत्त्वेsप्यनुपादानत्वात् । पुरुषो हि भोगापवर्गार्थी सन् पुरुषार्थनिमित्तके सर्गे निमित्तमात्रं भवति । तस्मात् सूक्षमग्राह्यसमापत्तिः प्रधानपर्यन्तेति सिद्धम् ॥
एवं स्थूले सूक्ष्मे च ग्राह्ये चतस्रः समापत्तयः उक्ताः । सम्प्रति तासां सम्प्रज्ञातत्वमुपसंहरति-
ता एव सबीजः समाधिः ॥ ( ४६ )
ग्रहणग्रहीत्रोरपि सविकल्पत्वनिर्विकल्पत्वभेदेन सानन्दा, आनन्दमात्रा, सास्मिता, अस्मिता चेति चतस्रः समापत्तयः भवन्ति उक्तन्यायसामान्यात् । एवमष्टसमापत्तयो याः ता एव सबीजः समाधिः-संप्रज्ञातः विवेकख्यात्यभावेन बन्धबीजसत्त्वात् सबीजत्वं द्रष्टव्यम् ॥
तत्र निर्विचारसमापत्तेः फलतोsतिशयमाह-
निर्विचारवैशारद्येsध्यात्मप्रसादः ॥ ( ४७ )
रजस्तमोमलापेतस्य बुद्धिसत्त्वस्य स्वच्छस्थितिरूपप्रवाहः प्रधानान्तसूक्ष्मग्राह्यगोचरः यः सोsयं निर्विचारसमाधेर्वैशारद्यम् । तस्मिन् सत्यक्रमेण परमाण्वादिप्रधानान्ततत्त्वसमूहालम्बनः साक्षात्कारः योगिनः स्वात्मनिष्ठोsध्यात्मप्रसादो भवतीत्यर्थः ॥
अस्य प्रसादस्य योगिसम्मतां संज्ञामाह-
ऋतम्भरा तत्र प्रज्ञा ॥ ( ४८ )
तत्र वैशारद्ये सति या प्रज्ञा निर्विचारा समाधिजन्या तस्य ऋतम्भरेति संज्ञा भवति । ऋतमविकल्पितं सत्यं बिभर्तीति व्युत्पत्तेरित्यर्थः ॥
तस्याः क्लृप्तप्रमाणेभ्यो विषयतः विशेषमाह-
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ ( ४९ )
गवादिशब्दानां गोत्वादिसामान्ये शक्तिः न व्यक्तिविशेषेषु । तेषामानन्त्येनाशक्यग्रहत्वात् । एवं व्याप्तिरपि वन्हित्वादिसामान्यं गृह्यते । अतः श्रुतानुमानप्रज्ञयोः सामान्यं वस्तु विषयः । तथा हि – लोके शब्दलिङ्गज्ञानानन्तरं गोवन्ह्यादिवस्तुमात्रं ज्ञायते, न व्यक्तिविशेष इति स्वसाक्षिकमेतत् । ऐन्द्रियकप्रत्यक्षं यद्यपि गोपटादिविशेषविषयम्, तथापि सूक्ष्मव्यवहितविप्रकृष्ट-वस्तुविशेषः समाधिप्रज्ञाया असाधारणो विषयः । न च सूक्ष्मादिषु श्रुतानुमानप्रकाशितेषु प्रसरन्ती समाधिप्रज्ञा कथं स्वमूलश्रुतानुमानागोचरविशेषगोचरा स्यात् इति वाच्यम् । बुद्धेः स्वतः सर्वग्रहणशक्तत्वात् । बुद्धिसत्त्वं हि प्रकाशस्वभावं सर्वार्थग्रहणसमर्थमपि तमसा आवृतं सद् मानमपेक्ष्याल्पविषयं भवति । यदा तु समाधिना विगततमः पटलं सर्वतः प्रकाशमानमतिक्रान्तमानमर्य्यादं भवति, तदा प्रकाशनान्त्यात् किं नामगोचरः स्यात् । तस्मात् समाधिप्रज्ञा विशेषार्थगोचरत्वात् मानान्तरविषयत्वादन्यविषयेत्यर्थः ।
तदुक्तम्-
प्रज्ञाप्रासादमारुह्य ह्यशोच्यः शोचतो जनान् ।
भूमिष्ठानिव शैलस्थः सर्वान् प्राज्ञोsनुशोचति ॥ इति
जनान् समाधिशून्यान् मानभृत्यानित्यर्थः ॥
(स्वतः) इतरप्रमाणसहकारं विना । अतिक्रान्तमानमर्यादं अतिक्रान्ता मानमर्यादा प्रमाणानुसारित्वरूपा येन तत्तथा । प्रमाणानुसारिता च प्रमाणविषयमात्रग्राहकता । प्रज्ञाप्रसादम्- ऋतम्भरा प्रज्ञारूपोच्चगृह्यम् । आरुह्य- प्राप्य । मानभृतान्- मानाधीनान् ।।
नन्वनादिना शब्दादिविषयभोगसंस्कारेणातिबलीयसाभिहता समाधिप्रज्ञा न स्थितिं लभत इत्याह-
तज्जः संस्कारोsन्यसंस्कारप्रतिबन्धी ॥ ( ५० )
निर्विचारसमाधिप्रज्ञाजन्यः संस्कारः व्युत्थानसंस्कारस्य प्रतिबन्धीबाधक इत्यर्थः । अनादिरपि व्युत्थानसंस्कारः तत्त्वास्पर्शित्वात् तत्त्वस्पर्शिप्रज्ञासंस्कारेण बाध्यते । तद्धाने व्युत्थानप्रत्यया न भवन्ति । समाधिप्रज्ञा तु भवति । ततः संस्कारः पुनः पुनरिति समाधिसंस्कारोपचयात् सर्वात्मना क्लेशक्षये सति भोगान्निर्विण्णं चित्तं पुरुषाभिमुखं विवेकख्यातिं कृत्वा कृतकृत्यं लीनं भवति समाप्ताधिकारत्वात् । ख्यातिपर्यवसानं हि चित्तचेष्टितमिति ॥
ननु सम्प्रज्ञातसमाधिप्रज्ञासंस्कारप्रचुरं चित्तं तत्प्रज्ञापरम्परामेव कुर्वन् कथं निर्बीजसमाधिं कुर्यादित्यत आह-
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥
पुरुषख्यात्यनन्तरं परवैराग्यसंस्कारप्रचयेन तस्य- संप्रज्ञातसमाधिप्रज्ञासंस्कारस्य । ’अपि’ शब्दात् प्रज्ञायाश्च निरोधे सति सर्वस्य प्रज्ञातज्जसंस्कारप्रवाहस्य निरोधात् अवसिताधिकारत्वेन चित्तस्य कृत्याभावात् ’निमित्तापाये नैमित्तिकापायं’ इति न्यायेन निर्बीजः समाधिर्भवति ।
तदुक्तम्-
आगमेनानुमानेन ध्यानाभ्यासरसेन च ।
त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ॥ इति ।
श्रवणेन, मननेन, पुरुषमात्रध्यानाभ्यासो धर्ममेघाख्यः । तद्रसेन परवैराग्येण प्रज्ञाप्रसादात्मना, पुरुषं साक्षात्कुर्वन् निर्बीजं योगं लभत इत्यर्थः । कालक्रमेण निर्बीजनिरोधसंस्कारप्रचये सति स्वप्रकृतौ चित्तं लीयते हेत्वभावात् । कृत्यशेषलक्षणाधिकारो हि चित्तस्य स्थितिहेतुः । न हि कृतभोगविवेकख्यातिनश्चित्तस्य कृत्यशेषोsस्ति । तस्माच्चित्तस्य प्रलये पुरुषः स्वरूपमात्र-प्रतिष्ठः केवलो मुक्त इति सिद्धम् ॥
इति श्रीगोविन्दानन्दभगवत्पूज्यपादशिष्यरामानन्दसरस्वतीकृतायां पातञ्जलसूत्रवृत्तौ योगमणिप्रभायां समाधिपादः प्रथमः ॥
॥ इति प्रथमः पादः ॥