सत्यं ज्ञानमनन्तमद्वयसुखं ब्रह्मेति वेदेषु यत्
प्रोक्तं विष्णुशिवादिभिश्च बहुभी रूपैर्मतं वादिभिः॥
यन्मानाविषयः सदा गुरुकॄपासत्प्रेमयोगेन य्-
ल्लक्ष्यं तं समुपास्महे हृदि सदा कृष्णं जगद्देशिकम्॥१॥
योगं प्राह पितामहोऽथ भगवान् शेषः स्वयं संय्यमैः
सूत्रैर्भाष्यमिषेण सर्वविदितो व्यासः समस्तं परम्॥
तद्भाष्यं विशदीचकार मतिमान् मिश्रोऽथ भिक्षुस्तथा
दुर्बोधं हि तथापि मूढमतिभिः गूढं रहस्यं यतः॥२॥
अत्र सूत्रेषु गूढार्थद्योतिकां तनुते पराम्।
वुत्तिं नारयणो भिक्षुः सुगमां हरितुष्टये ॥३॥
स्वातन्त्र्यसत्यत्वसुखं प्रधाने
सत्यञ्च चिद्भेदमभेदवाक्यैः॥
व्यासो निराचष्ट न भावनाख्यं
योगं स्वयं निर्मितब्रह्मसूत्रैः॥४॥
अपिचाऽऽत्मपरं योगं व्याकरोत् मतिमान् मुनिः॥
भाष्यादिषु ततस्तत्राप्याचार्यप्रमुखैर्मतः॥५॥
मतो योगो भगवता गीतायामधिकोन्यतः॥
कृतः शुकादिभिस्तस्मदत्र सन्ततोऽतिसादराः ॥६॥
ब्रह्मविदाप्नोति परम्, ब्रह्मविद् ब्रह्मैव भवति, तमेव विदित्त्वा अतिमृत्युमेति नान्यः पन्था विद्यते अयनाय, तरति शोकमात्मवित् इत्यादि श्रुतितिसिद्धपरमपुरुषार्थसाधनतानन्दात्मसाक्षत्कारस्साधनतया श्रवणमनननिदिध्यासनानि, आत्मा वा अरे द्रष्टव्यः श्रोतव्यः मन्तव्यः निदिध्यासितव्य इत्यादिनाऽऽम्नातानि । तत्र निदिध्यासनं प्रधानम् । तत्सहकृतादेव मनसोऽलौककाऽबाधितात्मगोचरप्रमासम्भवात्, सर्वविज्ञानादिरूपफलसंवादाच्च । निदिध्यासनञ्चैकतानतादि रूपः राजयोगापरपर्यायः समाधिः। तत्साधनं तु क्रियायोगः चर्यायोगः, कर्मयोगः, हठयोगः, मन्त्रयोगः , ज्ञानयोगः, अद्वैतयोगः लक्ष्ययोगः, ब्रह्मयोगः, शिवयोगः, सिद्धियोगः वासनायोगः लययोगः, ध्यनयोगः, प्रेमभक्तियोगश्च । तदेतत् सर्वं सामान्यविशेषभावेनाष्टाग्ङ्योगेन कवलीकृतमिति मनसि निधाय साष्टाङ्गं सफलं योगं समाधिसाधनविभूतिकैवल्यार्थकैश्चतुर्भिः पादैः व्युत्पादयिष्यन् प्रेक्षावत्पृवृत्तये विषयप्रयोजनाधिकारिसम्बन्धान् दर्शयन् प्रथमं शास्त्रस्य आरम्भं प्रतिजानीते भगवान् पतञ्जलिः –
अथ योगानुशासनम् ॥ ( १ )
अथ शब्दः आरम्भार्थः श्रुतिमात्रेण मङ्गलार्थश्च, न प्रश्नाद्यानन्तर्यार्थः । शाब्दी हि आकाङ्क्षा शाब्देनैव पूर्यते इति न्यायेन शब्दानुपस्थितानन्तर्यार्थकत्वानौचित्यात् । शिष्यप्रश्नगुर्वाज्ञाश्रद्धादीनामविशेषेण विचारप्रयोजकतया कस्यानन्तर्ये तात्पर्यमित्यवधारयितुमशक्यत्त्वाच्च ॥
योगः समाधिः । अनुशासनं हिरण्यगर्भोक्तेरनु पश्चाच्छिष्यते व्युत्पाद्यते लक्षणभेदफलसाधनैर्नेनेत्यनुशासनं, योगस्यानुशासनं योगानुशासनम् । योगप्रतिपादकं शास्त्रमारभ्यते इत्यर्थः । सुसाधनः सफलः योगः पर्तिपाद्यतया शास्त्रस्याभिधेयः । प्रतिपाद्ययोगद्वारा कैवल्यं फलम् । तत्कामश्चाधिकारी । शास्त्रफलयोः प्रयोज्यप्रयोजकभावः । शास्त्राभिधेययोस्तु प्रतिपाद्यप्रतिपादकभावः । अभिधेयस्य योगस्य कैवल्यस्य च साध्यसाधनभावः सम्बन्धः इति दिक् ॥१॥
सपरिकरो योगः प्रतिपाद्यते इति प्रतिज्ञातम् । तत्र योगलक्षणं योगशब्दप्रवृत्तिमित्तं च निर्दिष्टपञ्चदशप्रकारयोगसाधनव्यावृत्तमाह –
योगश्चित्तवृत्तिनिरोधः ॥२॥
तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥३॥ इति द्वाभ्याम् ॥
तत्र चित्तस्य महदहङ्कारभेदेन त्रिविधाऽन्तःकरणस्य वृत्तयः दीपस्य शिखा इव अवस्थापरिणामरूपा बाह्या, आभ्यन्तराश्च । तासां निरोधः उपशमो निरिन्धनाग्निवत् स्वकारणे लयः। तदा निरोधकाले द्रष्टुः प्रमातुरहमर्थस्यान्तःकरणावच्छिन्नस्य स्वरूपे विशेष्ये केवलचैतन्य आत्मन्यवस्थानं विषयतयाऽवस्थितिर्विद्यमानातेत्यर्थः । विषयता च व्यापारानुबन्धिनी । व्यापरश्च वृत्तिरेव । योगी यामहमेतावन्तं कालं समहितोऽभूवमिति स्मरणेन व्युत्थानेऽनुमिनोति । इत्थं च वृत्यन्तरनिरोधपूर्वकात्त्मगोचरधारवाहिकनिर्विकल्पकवृत्तिर्योगः इति लक्षणं सिद्धम्। मय्येकचित्ततायोगो वृत्यन्तरनिरोधत इति कूर्मपुराणादौ शिवोक्तेः । यत्रचैवात्मानात्मानं पश्यन्नात्मनि तुष्यतीति गीतायां भगवदुक्तेश्च । यद्यपि द्रष्टृगोचारया अपि तादृशवृत्तेः समाधित्वं वक्ष्यति सूत्रकारः तथाप्यत्र मयीत्यादि पृकृताभिप्रायम् । ततौपदेशिकवित्तिवारणाय विशेषणम् । अभावस्य निर्विषयत्वेन संस्कारऽजनकत्त्वात् योगस्य च संस्कारजनकत्वात् तथिवाग्रं वक्ष्यमाणत्वात् विशेष्यम् । तत्र सम्प्रज्ञातासाधरणाय निर्विकल्पकेति । सूत्रद्वयेन विशेषणविशेष्ययोर्द्वयोरुक्तिस्तु प्रत्येकस्यापि फलभेदज्ञापनाय । अत एव पादभेदेन विशेषणांशफलं विभूतितृतीयपादे, विशेष्यांशफलं च कैवल्यं चतुर्थपादे वक्ष्यति सूत्रकारः॥
अथवा शिवलक्षणा स्वस्वरूपाभिव्यक्तिर्महायोगो निरालम्बः। तत्साधनं त्वभावयोगः समाधिपदाभिधेयो निराभासः। तत्र प्रथमस्य लक्षणं तदेति। द्वितीयस्तु चित्तवृत्तीति ॥ योगस्तु द्विविधः ज्ञेयो ह्यभावः प्रथमः मतः अपरस्तु महायोगः सर्वयोगोत्तमोत्तमः। शून्यं सर्वे निराभासं सरूपं यत्र चिन्त्यते। अभावयोगः स् प्रोक्तो येनात्मनं प्रप्श्यति ॥ यत्र पश्यति चात्मानं नित्यानन्दं निरञ्जनम् । मयैक्यं स महायोगो भाषितः परमः स्वयमित्यादिस्मृतिभिरपि तथा ज्ञापनात् । अत्र सम्प्रज्ञातप्राणनिरोधादेः साधनाकोटावेव निवेशात् सम्प्रज्ञाते सात्विकविशिष्टवृत्तिसत्त्वेऽपि योगः प्राणनिरोधः इत्यनुक्तावपि च न हानिः । राजयोगविजिज्ञापयिषयैव लक्षणसूत्रप्रवृत्तेः। ननु सम्प्रज्ञातेऽस्मिन् ध्येयमात्रगोचरवृत्तिस्वीकारः,सर्ववृत्तिनिरोधे तु असम्प्रज्ञात इति भाष्येण विरुध्यते इति चेन्न । सम्प्रज्ञातं प्रकम्य, तामपि ख्यातिं निरुणद्धि इत्युत्तरग्रन्थेन विषिष्टवृत्तिमात्रनिरोधस्यैव तदर्थत्वज्ञापनात् । एतेन तत्र ध्येयवृत्तिसत्त्वे सर्ववृत्तिनिरोधाऽसिद्धिः । असत्वे तु समाधिशब्दार्थहानिः। मय्येकचित्ततेत्याद्युदाहृतस्मृत्या ध्येयमात्राकारवृत्तेरेव योगत्वकथनादित्याद्याशङ्कापि समाहिता । सर्वपदमठता सूत्रकारेणापि तज्ञापनात् । असम्प्रज्ञातशब्दादिभिरेव, न तत्र किञ्चित् सम्यगहन्त्वादिना प्रज्ञायते इत्यादि व्युत्पत्या तदर्थलाभाच्च। अत एव तावन्मनो निरोद्धव्यं हृदि यवद्गतक्षयम् । एतज्ज्ञानञ्च मोक्षश्च शेषोऽस्यो ग्रन्थविस्तरः इत्यादि श्रुतिषु यत्रोपरमते चित्तं निरुद्धं योगसेवयेत्यादिस्मृतिषु च मनोनिरोधस्यैवोक्तत्वेऽपि नात्र तथोक्तम्। तत्रापि विवक्षितविवेकेन मनोनिरोधस्य विशिष्टवृत्तिनिरोधात्मकत्वलाभदिति दिक् ॥
अथवा समाधित्वेन सम्प्रज्ञातस्याप्यग्रे वक्ष्यमाणत्वात् राजयोगवत् सम्प्रज्ञातोऽपि प्रतिज्ञासूत्रे योगशब्दाभिधेयः। तथा च युज समाधावित्यनुशासनादुभयविधसमाधेः स्वरूपसाधनभेदफलप्रतिपादकशास्त्रमारभ्यते इति प्रतिज्ञासूत्रार्थः। तदुभयसाधरणं लक्षणमाह ॥ योगश्चित्तव्रूत्तिनिरोधः इति॥
तत्र चित्तस्य राजसतामसवृत्तिनां निरोध उपशमः सम्प्रज्ञातः। सर्ववृत्तीनां निरोध उपशमः सम्प्रज्ञातः । सर्ववृत्तीनां निरोधोऽसम्प्रज्ञातः। यदत्मतत्वं प्रसमीक्ष्य़ देही एकः कृतार्थो भवति वीतशोकः *यदात्मतत्त्वेन तु ब्रह्मतत्त्वं दीपोपमेनेह मुक्तः प्रपश्यन्॥ अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपाशैः । यदा पञ्चवतिष्ठन्ते ज्ञानानि मनसा सह , बुद्धिश्च न विचष्टेत तामाहुः परमां गतिम् ॥ अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ॥ मन एव मनुष्य़ाणां कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं मोक्षो निर्विषयं स्मृतम् । सर्ववित्तिशून्यरूपासम्प्रज्ञातस्य तु समाध्यङ्गिनः योगस्य मधुमतीमधुप्रतीकाविशोकसंस्काराख्यासु भूमिषु सतीषु लक्ष्यस्य मणिमन्त्रादिन्यायेन कैवल्यहेतुत्वं स्वजन्यादृष्टद्वारात्मसाक्षात्करहेतुत्वं॥
अथवा निरोधः ;- चित्तवृत्तयोनिरुध्यन्तेऽस्मिन् इति व्युत्पत्या वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञं परमात्मनि । एकीकृत्य विमुच्येत योगयुक्तः स उच्यते इत्यादि स्मृतेश्च सर्वानर्थविरोध्यखण्डाकारवृत्तिपर्यवसायी बोध्यः । विरोधिपदार्थस्यैव नाश्यनाशरूपत्वात् प्रगभावादौ तथा दर्शनात् । अत एव वृत्तिविशेषरूपाभ्यां सम्प्रज्ञाताऽसंप्रज्ञाताभ्यां योगस्य विभजनमप्यग्रे संगच्छते । अत एव न योगस्य वैर्थ्यमपि । तादृशवृत्तेर्भावनासहकृतमनः प्रमाणजन्यत्वेनापरोक्षतयाऽज्ञानोच्छेदक्षमत्वादित्यग्रे स्फुटी भविष्यति ।द्वौ क्रमौ चित्त नाशस्य योगो ज्ञानञ्च राघव ।योगो वृत्ति निरोधो हि ज्ञानं सम्यगवेक्षणम् । असाध्यः कस्यचिद् योगः कस्यचित् तत्वनिश्चयः । प्रकारौ द्वौ ततो देवो जगाद परमः शिव इत्यादिना वासिष्ठे योगज्ञानयोः पृथक्त्वकथनं तु योगवृत्तेः शास्त्रजवृत्या विकल्पार्थम् ।बहिर्मुखानां वाक्यतोऽखण्डार्थबोध्यस्यापि दुर्लभत्वात् इति संक्षेपः ।
सोऽयं योगः भूमिविशेषः एव आविर्भवति, न सर्वासु भूमिषु । तथा हि चित्तस्य त्रिगुणात्मकत्वात् क्षिप्तमूढविक्षिप्तैकाग्रनिरुद्धाख्याः पञ्चभूमयोऽवस्थाविशेषाः भवन्ति ।तत्र न तिसृणामुपयोगः । बहिःप्रवृत्तिभूयस्त्वात् । अपि तु द्वयोरेवान्त्ययोः। तत्र क्षिप्तं रजसः उद्रेकादस्थिरं बहिर्मुखतया सुखदुःखादिविषयेषु व्यवहितेषु विकल्पितेषु संनिहितेषु च प्रेरितं भवति । तच्च सदैव दैत्यदानवादीनाम् । मूढं तमस उद्रेकात् कृत्याऽकृत्यविभागमुल्लङ्घ्य क्रोधादिभिर्विरुद्धकृत्येष्वेव निरन्तरं भवति । तच्च सदैव रक्षः पिशाचादीनाम् । विक्षिप्तं सत्वोद्रेकाद्रजोविशिष्टं दुःखसाधनं परिहृत्य सुखसाधनेष्वेव शबादिषु प्रवत्तं भवति ।तच्च सदिव देवानाम् । एकाग्र्यं तु रजसोऽप्यभावेन शुद्धसत्वोद्रेकादात्ममात्रगोचरं सगुणब्रह्मगोचरं वा सविकल्पकसात्विकवृत्तिविषिष्टम् ।तच्च सदैव भगवद्भक्तानाम् । देवासुरगन्धर्वरक्षोमनुष्यप्रभृतीनां निरुद्धम् । तच्चापि निरोधविशिष्टं योगिनामेव भवति । वर्तमानाध्वनि प्रवेशलक्षणनिरोधस्यानात्माकारसर्ववृत्तिनिरोधेच्छासहकृतसम्प्रज्ञातादिपाटवैकसध्यस्यान्यत्रासम्भवात् । तस्मान्निरोध एवाऽसम्प्रज्ञातः ॥२॥
निरोधवांस्तु योगी । द्विविधः ;- युक्तोऽयुक्तश्च । तत्र युक्तः समाहितमनाः । यः केवलसमाधिनिष्टः मोक्षमभिवाञ्छति । अयुक्तस्त्वसमाहितमनाः प्रारब्धदोषात् प्रतिभादिसिध्यादिकमपि वाञ्छन्नुपहतसमाधिः। तत्रायुक्तोऽनेकार्थद्र्ष्टत्वेन सोपाधिरपि ।युक्तो योगे स्थितः किंस्वरूपः । किं सांख्यपातञ्जलादिसम्मतश्चित्तत्तकार्यसाक्षिमात्ररूपः? उत किं बोधरूपोऽपि संस्तदानीं सविषयत्वनिर्वाहकवृत्याद्युपाधेरभावन्निर्विषय एव् ।अथवा तार्किकवैशेषिकप्रभाकरसम्मतः सुषुप्त्यादाविव साम्ग्र्यभावेन विषयमगृह्णन् तदानीमपि जड एव । काष्टादिवान्निर्विषयस्य प्रकाशत्वायोगात् । उत आत्मनः संयोगविशेषादात्ममात्रद्रष्टा चेतनः । अथवा शून्यवादिविज्ञानवादिसम्मतो दशाक्षयं दीपादिवद् विषयनिरूप्यो विषयोपरमान्न पश्यति ? उत प्रवृत्तिविज्ञानोपरमेऽपि सुषुप्ताविवाऽऽलयविज्ञानसन्ततिरूपस्तिष्ठतीत्याशङ्क्य तदानीमपि विद्यमान चित्तरोधरूपस्य सर्वथा निर्विषयत्वायोगेन प्रथमद्वितीयपक्षस्य बाधात् तार्किकोक्तयोः तृतीयतुर्ययोस्तु, योयं विज्ञानमय इत्यादिश्रुत्या तन्मते विशेषगुणयोगेनैवात्मनः प्रत्यक्षस्याङ्गीकारादात्ममात्रदर्शनरूपनिर्विकल्पकसमाधेर्बाधेन च भाधात् । बौद्धभिमतयोः पञ्चमषष्ठपक्षयोः तु अविनाशी वा अरे अयमात्मा अनुच्छ्इत्तिधर्मेत्यादिश्र्युत्या असतः क्षणिकत्वायोगेन च बाधात् स्वाभोप्रेतं प्रथमपक्षमेव सिद्धान्तयति ॥ तदा द्रष्टुः स्वरूपे अवस्थानम् इति । तदा सकलचित्तवृत्तिनिरोधकाले द्रष्टुः चित्ततदृत्तिनिरोधपरिणामसाक्षिणः चित्तशक्तेः पुरुषस्य स्वरूपे तत्त्वेन चित्तादेरपि अनवगाहितया निर्विषये निरुपप्लवे स्वप्रकशानावृतसच्चिद्रूपे अवस्थानं कुसुमापाये स्फटिकस्य अलोहिते स्वस्वरूप इव क्लेशाद्यपाये चित्तद्यसंक्रमेण कर्तृत्वाद्यभिमाननिवृत्या अभेदेनावस्थितिः इत्यर्थः । स्वभावत् स कर्यचित्तरोधात्माऽपि सन् निरुपाधिस्वरूपात्मना तिष्ठतीति यावत् ।इत्थञ्च चितिशक्तेः पुरुषस्य निर्विषयस्वप्रकाशसच्चिद्रूपता एव स्वरूपम् ।
विषयग्राहिता तु औपाधिकी । तस्याश्च निरोधकालेऽसत्वेऽपि न हनिः। पाकनिवृत्तौ पाचकस्येव तदुपक्षितसाक्षिस्वरूपस्याबधात् । तस्मात् स्वतो निरुपाधिसत्स्वप्रकाशरूपस्यप्यात्मनः उपाधिभिः औपाधिकस्वरूपस्य तत्र तर निरोधसमाधिना संस्कारसहितचित्तशेषवृत्तिनिरोधे शान्तघोरमूढावस्थानिवृत्तौ हि जीवन्नेव विद्वान् हर्षामर्षाभ्यां विमुच्यते इत्यादि श्रुत्युक्ता निर्विकारस्वरूपाऽवस्थितिरूपाजीवन्मुक्तिः भवति । परममुक्तिस्तु वक्षमाणप्रज्ञाकाष्ठायां प्रान्तभोगान्ते प्रतिप्रसवेनौपाधिकरूपात्यन्तिकनिवृत्तावात्यन्तिकस्वरूपावस्थानमिति बोध्यम् । व्यक्तीभविषय्ति चेदमुपरिष्टादिति दिक् ॥३॥
ननु तर्हि व्युत्थाने स्वभावत् प्रच्युतिः स्यात् । आम्लेन दुग्धस्य दधिभाववच्चित्तादिभिरनौपाधिकस्यौपाधिकभावजननात् । तत्राह –
वृत्तिसारूप्यमितरत्र॥४॥
वृत्तीति इतरत्र व्युत्थाने वृत्तिसारूप्याऽञ्चितेन सह द्रष्टुर्वृत्तौ सारूप्यमवैलक्षण्यम् इत्यर्थः। शान्तघोरमूढाश्चित्तस्य वृत्तयः क्षणभङ्गुराः। ताभिरवशिष्टाः तत्प्रतिबिम्बरूपाः पुरुषस्य भवन्ति । याभिः शान्तोऽस्मि, दुःखितोऽस्मि, मूढोऽस्मि इति अध्यवस्यति। अतो न स्वभावात प्रच्युतिः। न हि लौहित्यप्तैबिम्बकालेऽपि स्फटिकस्य स्वभावात् प्रच्युतिरस्ति। अतात्विकान्यथाभावस्य विकारित्वाप्रयोजकत्वादिति भावः॥४॥
इदानीं चित्तस्येच्छाविलक्षणानेकवृत्तीनां निरोद्धव्यानां सत्वेऽपि तासां वक्ष्यमाणपञ्चप्रकारवृत्तिनिरोधेनैव निरोधो भवतीत्यभिप्रेत्य पुम्प्रयत्न निरोद्धव्याः पञ्चप्रकारा एवेत्याह –
वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः॥५॥
वृत्तय इति वृत्तयश्चैत्रादिभेदात् वृत्तिसमूहाः, पञ्चतय्यः पञ्चप्रकारा अवयवा यासां ताः। अवयविनो वृत्तिसमूहाः प्रमाणादिपञ्चप्रकारावयवका इति यावत्। तासां हानोपादानसिद्धये भेदमाह॥ क्लिष्टाऽक्लिष्टा इति॥ तत्र क्लिष्टा विविधानेकविषयवासनानिबन्धना रागादिहेतुतया दुःखाख्यक्लेषफलिका विषयाकारवृत्तयो राजस्यस्तामसस्यश्च। ताभिस्तृष्णादिद्वारा परानुग्रहनिग्रहाभ्यां धर्माधर्मयोरुत्पत्या दुःखधराया एवानुभवात्। अक्लिष्टा विवेकख्यातितत्साधनसम्बन्धाः क्लेषफलकवृत्तिविरोधिन्यः सात्विक्यः। अक्लिष्टत्वं च यद्यपि प्रमाणवृत्तरात्मगोचरायाःक्लेशादिविरोधित्वेन, विपर्यस्य शालग्रामादौ विष्ण्वादिधीरूपस्य पुण्यविशेषजनकत्वेन, विकल्पस्य भेदवादिमते तत्त्वमस्यादि वाक्यजन्याभेदबोधस्य कथञ्चित् तत्तदुद्धारकत्वेन, निद्रायाः सुखाद्यनुभावकत्वेन, स्मृतेर्नीलमेघादिदर्शनेन श्रीकृष्णादि विषयिण्या अदृष्टोतादकत्वेन स्फुटं, ताभिरेव च यथासम्भवं दृष्टाऽदृष्टद्वार क्लिष्टावृत्तीनां निरोधश्च भवतीत्यतो तासां निरोधो, न वा सर्वासां निरोधनार्थं साधनान्तरप्रत्ययासश्चोचित्तस्तथाप्यासां साक्षान्निर्वाणहेतुत्वस्वस्वरूपाननुगुणत्वेन निरोधः सर्वासामात्यन्तिकनिरोधार्थं प्रयासान्तरश्चोचित एवेति भावः॥५॥
ता एव पञ्चवृत्तीरूपदिशति –
प्रमाणविकर्ययविकल्पयनिद्रास्मृतयः॥६॥
प्रमाणेति उद्देशफ्लमितोन्याः साक्षान्निरोद्धव्या वृत्तयो न सन्तीति। यद्यपि लाघवतर्कानुगृहीतान्वयव्यतिरेकाभ्यां विशेषांशज्ञानस्याऽप्रमात्वावच्छिन्नं प्रति हेतुत्वावधारणात् विपर्ययादीनां साक्षाश्रिताऽविद्यावृत्तित्वपक्षस्य वेदान्तिभिरङ्गीकृतस्य युकतत्वान्न चित्तवृत्तित्वकथनं युक्तं, तथापि स्वमतेऽनिर्वचनीयाऽनाद्यज्ञानस्य मानाभावेनानङ्गीकारान्मनः परिणामत्वमेव विपर्ययादीनाम्। अत एव स्वप्नशुक्तिरजतादयोऽपि चित्तपरिणामा एव बाधाबाधाभ्यां सदसद्रूपा इति सदसत्ख्यातिरित्यादग्रे विद्यासूत्रे स्फुटीभविष्यति॥६॥
तत्र प्रमाणवृत्तिं विभजते –
प्रत्यक्षानुमानागमाः प्रमाणानि॥७॥
प्रत्यक्षेति तत्रोपमानस्य, गवयपदं गवयवाचकम्। असति वृत्यन्तरे वृद्धैस्तत्र प्रयोजमानत्वात्। योऽसति वृत्त्यन्तरे वृद्धैर्यत्र प्रयुज्यते स तद्वाचकः। यथा गोशब्दादिः। गवयो गवयपदवाच्यो गोसदृशत्वात्। व्यतिरेके घटवदित्याद्यनुमाने।
अर्थापत्तेरपि, अयं रात्रिभोजी, दिवाऽभुञ्जानत्वे सति पीनत्वादित्यनुमाने। अनुपलब्धेस्तु, यदि स्यादुपलभ्येतेत्यादि प्रतियोगिसत्वप्रसञ्जितप्रतियोग्युपलब्ध्यभावरूपायाः प्रत्यक्षासहकारित्वेन प्रत्यक्षे। इति होचुरित्यैतिह्यस्य तु शब्दे। सम्भवस्य तु, खार्यां द्रोणादि परिमाणसम्भावनारूपस्यानुमाने। चेष्टाया अपि, गेहे कति घटाः सन्तीति प्रश्ने, दशाङ्गुलीप्रदर्शनरूपाया अनुमाने, दशादिपरस्मरणे तु शब्द एवान्तर्भावात् त्रीण्येव प्रमाणानीति भावः। तत्राऽविसंवादि ज्ञानम्, अनधिगततत्त्वबोधो वा प्रमा, तत्करणं प्रमाणमिति प्रमाणसामान्यलक्षणम्। तत्रेन्द्रियसञ्चारमार्गेण बाह्यवस्तुसम्बन्धाच्चितस्याखिलार्थवासनावत् इन्द्रियविषयसामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षम्। यथा, घटोऽयमित्यादिगृहीतव्याप्तिकेन हेतुना साध्यवति पक्षे ज्ञायमानेन साध्यस्य सामान्यात्मनाध्यवसायोनुमानम्। तच्चानुमानं त्रिविधमुक्तं न्याये – पूर्ववत्, शेषवत्, सामान्यतो दृष्टं चेति। पूर्ववत् पूर्वम् अन्वयस्तद्वत् केवलान्वयीत्यर्थः। यथा – इदमभिधेयं, प्रमेयत्वात्, सम्मतवदित्यादि शेषो व्यतिरेकस्तद्वत् केवलव्यतिरेकी। यथा – पृथिवी इतरेभ्यो भिद्यते, गन्धवत्वात् व्यतिरेके जलादिवदित्यादि। सामान्यतो दृष्टम्। अन्वयेन व्यतिरेकेण च गृहीतव्याप्तिकम्। यथा – वन्हिमान् धूमादित्यादि। प्रकृतवाक्यार्थयथार्थज्ञानवत्वरूपातत्वविशिष्टेन पुरुषेण इष्टश्रुतानुमितार्थानां परं प्रति यथार्थबोधार्थमुपदिष्टेनाकाङ्क्षासत्तियोग्यतादिमता शब्देन श्रोतुस्तदर्थाकारा वृत्तिरागमः। यथा स्वर्गकामो यजेतादिवाक्याट् स्वर्गकामनावता यागः कार्य इति। पौरुषेयो बोधः सर्वत्र फलम्। येन, जानामि, ज्ञातः स्फुरति घटादिः प्रकट इत्येवं व्यवहरति जनः। तत्र यत्र यस्य शब्दस्य भ्रमादिमाननाप्तो वक्ता स नागमः। यथा चैत्यवन्दनं कार्यमित्यादि मन्वादिस्मृतयस्तु निर्णीतप्रमाणवेदमूलकत्वादागमा एव। एवमन्येऽपि द्रष्टार्थका अस्मदादि शब्दा इति सङ्क्षेपः॥७॥
विपर्ययं लक्षयति –
विपर्ययो मिथ्याज्ञानमाद्रूपप्रतिष्ठम्॥८॥
विपर्यय इति लक्ष्यनिर्देशः। मिथ्याज्ञानमित्यादिलक्षणम्। तच्चायथार्थज्ञानम्। तद्विकल्पेऽप्यनुगत इत्यत आह॥ अतद्रूपप्रतिष्ठमिति तच्च रूपं चेति तद्रूपं ज्ञानस्वरूपम्। तस्मिन्नेव विद्यते प्रतिष्ठा बाधाऽप्रतिबध्यत्वं यस्य तत्। यथा शुक्त्यादिविशेषदर्शनप्रतिबद्ध्यं रजतादिज्ञानम्। विकल्पस्तु प्रत्ययप्रत्यक्षप्रमावद् बाधाऽप्रतिबद्ध्य एव। इदमानित्यमिति ज्ञातेऽपि बाधितत्त्वे कलहादौ शब्दज्ञानोदयात्। अतो, न तत्रातिव्याप्तिः। बाधबाध्यपरोक्षप्रमायामतिव्याप्तिवारणाय मिथ्याज्ञानमिति॥८॥
विकल्पं लक्षयति –
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः॥९॥
शब्देति॥ शब्दञ्च ज्ञानं च शब्दज्ञाने। ते अनुपातिमी जनके यस्य स शब्दज्ञानानुपाती, श्रोतुः श्रूयमाणशब्दहेतुकः प्रयोक्तुः पद्थोपस्थितिहेतुकः बाधनिशयेऽपि कलहादौ नरशृङ्गादिप्रयोगे, उत्प्रेक्षादौ च सर्वानुभवसिद्धः। वस्तुशून्यो बाधितविषयप्रत्ययः नरविषाणं, खपुरुषं, चैतन्यं पुरुषस्य स्वरूपमित्याद्याकारा विकल्पाख्या वृत्तिरित्यर्थः। वस्तुशून्यत्वान्नायं प्रमाणम्। बाधाप्रतिबध्यत्वाच्च न विपर्ययः। न च बाधबुद्धिसत्त्वे विशिष्ट्प्रत्ययः कथं, लौकिकसन्निकर्षाजन्यदोषविशेषाजन्यविशिष्टबुद्धेर्बाधप्रतिबद्ध्यत्वादिति वाच्यम्। सत्यपि बाधनिश्चये, धूमस्तोमं तमश्शङ्के राधाविरहशुष्मणामित्याद्युत्प्रेक्षादिवाक्यतः शाब्दबोधस्यानुभवसिद्धत्वेन शाब्दातिरिक्तत्वेनापि तादृशाधिपो विशेषणीयत्वात्। अनाहार्यबुद्धेरेव तथाविधाया बाढप्रतिबध्यत्वाङ्गीकाराच्च। अन्यथा कलहतर्कादिनापि प्रतिपत्तिर्न स्यात्। नय्यायिकानां तु योग्यताया बाधेनात्र शब्दाऽऽहार्यस्यापि असम्भवात् पदार्थोपस्थितिमात्रं न शाब्दबोध इति सङ्क्षेपः॥९॥
निद्रां लक्षयति –
अभावप्रत्ययालम्बना वृत्तिर्निद्रा॥१०॥
जाग्रत्स्वप्नवृत्तीनामभावस्य प्रत्ययः प्रत्येति जनयतीति प्रत्ययो हेतुः तम आलम्बनं विषयो यस्याः सा वृत्तिर्निद्रा। अस्याः – सुखमहमस्वाप्सं न किञ्चिदचेदिषमिति सुषुप्त्यनन्तरं जागरे स्मॄतिदर्शनात् स्मृतेश्चानुभवव्यतिरेकेणानुपपत्तेर्वृत्तित्वम्। वृत्तिपदं तु, ज्ञानसांआन्याभावो निद्रेति तार्किकमतनिरासाय। अत्र भाश्यम्॥ सा च सम्प्रबोधो प्रत्यवमर्षात् प्रत्ययविशेष एव। कथम्। उच्यते। सुखमहम्स्वाप्सं, प्रसन्नं मे मनः प्रज्ञां मे विशादीकरोति। दुःखमहमस्वाप्सं स्त्यानं मे मनो भ्रमत्यनवस्थितम्। गाढं मूढोऽहमस्वाप्सं, गुरूणि मेऽङ्गानि क्लान्तं मे चित्तमऽलं मुषितमिव तिष्ठतीति। स खल्वयं प्रबुद्धस्य प्रत्यवमर्षो न स्याद् असति प्रत्ययानुभवे। तदाश्रिताः स्मृतयश्च तद्विषया न स्युः। तस्माट् प्रत्ययविशेषो निद्रा। सा च समाधावितरप्रत्ययवन्निरोद्धव्येति॥ भाष्यार्थस्तु – सा च निद्रा तु सम्प्रबोधे जागरे, प्रत्यवमर्षाट् स्मरणात्, प्रत्ययविशेष एव वृत्तिरूपैव न ज्ञानसामान्याभावो न वा साक्षिरूपा। जागरे स्मरणानुपपत्तेः। अनुभवसूक्ष्मावस्थारूपसंस्कारं विना साक्षिणाऽपि स्मृतेरसम्भवात् स्मरणाकारं पृच्छति कथमिति। उत्तरमाह। उच्यत इति। वृत्तिमात्रस्य त्रिगुणात्मकत्वसूचनाय तदुक्तम्। आदौ सत्त्वफलमाह। सुखमिति। ततस्तभिनयति। प्रसन्नं निर्मलम्। प्रज्ञां स्वस्मिञ्जायमानां यथार्थवृत्तिं, विशारदीकरोति सूक्ष्मार्थग्रहणयोग्यां करोति। इदञ्च तत्र सत्त्वोद्रेकस्य फलम्। रजसः फ्लमाह। दुःखमिति। ततस्तदभिनयति। गुरूणि मेऽङ्गानि, अलमत्यन्तं, मुषितमिव परैरपहृतमिव तिष्ठतीत्यर्थः। अन्वयमुखेन सुषुप्तावनुभवमुपपाद्य व्यतिरेकमुखेनोपपादयति। स खल्विति। प्रत्ययानुभवे सूत्रोक्तप्रत्ययानुभवे असति योऽयं प्रत्यवमर्षे जागरे स्मृतिरूपः खलु न स्य़ादित्यर्थः। अनुभवं विना स्मृतेरदर्शनादिति भावः। नन्वस्तु तत्रानुभवः, परन्तु साक्ष्याश्रित एव सोऽविद्यावृत्तिरुपोऽस्तु, न चित्तपरिणामरूपः। चित्तस्य तदानीं लीनत्वात्। तत्राह, तदाश्रिता इति। चित्ताश्रिताः स्मृतयः सुखदुःखादिविषया नस्युः। साक्षिणा दृष्टस्यचित्तेन स्मरणासम्भवदित्यर्थः। सा चेति। चोहेतौ। यतः सा सुखमोहान्विता, अत एव समाधावितरप्रत्ययवन्निरोद्धव्येत्यर्थः। स्वाप उद्रिक्तं तमः। निद्रा स्वापप्रधाना सुखस्वापाहमर्थगोचरा वृत्तिः सुखमहं स्वपिमीत्याकारा विशिष्टा समूहालम्बनाऽऽत्मिका निर्विकल्पिका वा। तामेव तत्र् जानानः पुरुषः स्वप्न इवान्तःप्रज्ञोऽपि दृग्दृश्यभेदाभिमानाभावात् सुषुप्तिस्थान एकीभूत इत्युच्यते श्रुतिभिः। इत्थं भेदमभिप्रेत्यैव स्वापानुभववृत्तेनिद्रात्वोक्तिः। लोके अयं स्वपितीति निद्रातीति स्वपितिनिद्रात्योः पर्यायस्तु विषयविषयिणोरभेदभिमानादिति दिक्॥
तत्र साऽविद्यांशसत्त्वपरिणामो न चित्तस्य। तस्य तत्र लीनत्वात्। अन्यथा स्वप्नजागरणयोरन्यतरापत्तिरिति वेदान्तिनः। तन्न युक्तम्। दुःखानुभवानुप्पपत्तेः। दुःखस्य च चित्तमात्रधर्मत्वात्। नच स्वप्नजागरण्योरन्यतरापत्तिरितिवाच्यम्। स्वापादृष्टेन तयोः प्रतिबन्धात्। अत एव तत्र नात्मस्वरूपसुखस्यानुभवः, किन्तु चित्तपरिणामरूपस्यैव। अत एव तत्र नात्मस्वरूपसुखस्यानुभवः, किन्रु चित्तपरिणामरूपस्यैव। त्रिषु धामसु यद्भोगं भोक्ता भोगश्च यद्भवेदिति श्रुत्यापि भोक्तृत्वभोग्यभोगानां तत्र सद्भावकथनेन तावदर्थज्ञापनादित्यभिमानः॥
अथ यत्रैतत् पुरुषः स्विपिति निद्रा नाम, सता सौम्य तदा सम्पन्नो भवति स्वमपीतो भवति स्वं ह्यपितो भवति तस्मादेनं स्वपितीत्यत्याचक्षते, न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत् पश्येदित्यादिश्रुतिभिः सत्सम्पत्तेर्निर्विषयत्वादिकथनेन सुषुप्तौ चित्तलयप्रतिपादनाद् ब्रह्मसुखस्यैव तत्र भानम्। निद्राप्यविद्यावृत्तिरेव। भोक्तृभोग्यानां सत्वांशसंस्काररूपेण संस्कारसत्वेऽपि द्वितीयाभावस्तु अभिमानाभावमादायेति वेदान्तिनामभिप्रायादिति चेत्। अत्र वदन्ति। सत्सम्पत्तिरपि दुग्धजलयोरिव एकीभावो नत्वेकतैव। पुनरुत्थानाभावप्रसङ्गात्। सापि यद्यपि लयात्, तथाऽपि लयोऽत्र न कारणात्मनावस्थितिः, किन्तु स्वाभाविकबहिःप्रवहणशीलत्वाभावमात्रम्। तथा च तत्र मनःसत्त्वेऽपि न हानिर्न वा श्रुतिविरोधः। अतो निद्रा मनस एव वृत्तिः। सुखमपि तस्यैव सत्वांशपरिणामो, नात्मरूपमित्यास्तां विस्तरः॥
नय्यायिकस्तु यदा मनः पुरीतति प्रविशति तदा त्वङ्मनोयोगरूपकारणाभावाज्ज्ञानसामान्याभावः। सैव सुषुप्तिः। प्रमाणञ्चात्र यदा सुषुप्तो भवति यदा न कस्यचन वेदहिता नाम नाड्योद्वासप्ततिसहस्राणि हृदयात् पुरीततिमभिप्रतिष्ठन्नेताभिः प्रत्यवसृत्य पुरीतति शेते इति श्रुतिः। अनया पुरतत्प्रवेशेन त्वङ्मनोयोगाभावस्योक्त्या ज्ञानाभावमात्रकथनात्। तस्मान्न चित्तलयो, न वा चित्तपरिणामस्तत्रेति वदन्त उदाहृतानुभवान् स्वप्नेऽन्तर्भावयन्ति। तन्न सम्यक्। यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यतीत्युपक्रम्य आनन्दभुक्तचेतोमुखः प्राज्ञास्तृतीयपाद इत्यादिश्रुतिभिरुक्तानुभवानां सुषुप्तिकालिकत्वावगमात्। सुषुप्तौ ज्ञानसामान्याभावस्य वक्तुमशक्यत्वात्। त्वदुदाहृतशुतेर्मनसः संस्काररूपेणावस्थितौ कथितवृत्तिभिन्नवृत्तिसामान्याभावे तात्पर्यात्। इन्द्रियाद्युत्पत्तेः प्रागेव हिरण्यगर्भस्य ज्ञानोत्पत्त्या ज्ञानसामान्ये त्वङ्मनोयोगस्य हेतुत्वायोगात्। एतेन जन्यज्ञानमात्रे त्वङ्मनयोगस्य हेतुत्वमङ्गीकृत्य तदभावबलाद्, न किञ्चिदवेदिषमिति न चाद्यन्वयस्वारस्याच्च सुषुप्तौ ज्ञानसामान्याभावमङ्गीकृत्योत्थितस्य स्वापसुखादिप्रत्ययोऽनुमितिरेव। सुषुप्तिकालीनात्मा ज्ञानाभाववान् ज्ञानसामग्र्याभावात्। मुक्तिकालिकात्मवत्। सुषुप्तिकालिकात्मा दुःखाभाववान् दुःखसामग्रीशून्यत्वात्। मुक्तिकालिकात्मवदत्यनुमानसम्भवात् सौषुप्तदुःखाभावे सुखशब्दप्रयोगस्यौपचारिकत्वात्। अन्यथा अक्लृप्तनित्यसुखकल्पनागौरवप्रसङ्गादिति परास्तम्। सुषुप्तिपरिचयं विना पक्षाज्ञानादनुमानानुदयाच्च। न च कालत्वादिना सामान्यलक्षणप्रत्यासत्त्या परिचयः। सामान्यलक्षणाया एवालीकत्वात्। अभ्युपगमेऽपि स्वाऽभिमतासिद्धेः। कालत्वरूपेण परिचयेऽपि सुषुप्तित्वरूपेणापरिचयात्तद्घटितानुमानस्य कालान्तरीयज्ञानाभावसाधारण्यादर्थान्तरात्॥
नन्वहोरात्रस्य प्रहराष्टाकरूपत्वेन ज्ञानात् प्रहरद्वयं सुप्तित्थितेन प्रहरषट्कस्य जागरकालत्वेन ज्ञानात् परिशेषात् अवशिष्टप्रहरद्वयस्य वस्तुतः सुषुप्तिकालस्य स्वज्ञानाभावात् तत्काळीनात्मन्यनुमितौ नानुपपत्तिः। एवं सर्वसुषुप्तिषु तत्कालपरिचयो द्रष्टव्य इति चेन्न। अहोरात्रपरिणामादिविवेकरहितानामपि मुग्धबालप्रभृतीनां, तद्विवेकवतामपि विनैव तत्प्रतिसन्धानं सुखमस्वाप्समिति प्रतीतिसत्वात्। उक्तप्रहरद्वयेन तत्कालज्ञानेऽपि सुषुप्तेरज्ञानाद् अस्वाप्समित्यभिलापासम्भवाच्च। नह्युक्तप्रहरद्वयकालसम्बन्धिनी एब सुषुप्तिः। न वा तत्कालीनात्मयोग्यविशेषणगुणाभावः। आद्ये तस्य पुरुषान्तरसाधारण्यात् तस्यापि तदा स्वपिमीति व्यवहारापत्तेः। द्वितीयस्त्वप्रसिद्धः। पुरुषान्तरे तदा ज्ञानाद्यन्यतमसत्वात्। न च यस्य यत्काले वस्तुत उक्तगुणाभावस्तस्य सुष्उप्तिरिति वाच्यम्। पुरुषाणामानन्त्यात् प्रतिपुरुषं च सुषुप्तिकालानामानन्त्याद् अनुयतपरिमाणत्वाच्च स्वपिधातोरव्यवस्थितानन्तार्थकत्वापत्तेः। मम तु अस्वाप्समित्य्नुगताकारस्मृतिहेत्वनुभवसाक्षिकः। प्रलीनबहिःप्रवाहकमनस्कतमोऽवस्थाविशेषनिष्ठो जातिविशेष इत्यनुगमादेकार्थत्वोपपत्तिः। यत्तु नाडीविशेषमनःसंयोगः सुषुप्तिरिति तन्न सम्यक्। तस्यातीन्द्रियत्वेनाबालानां जनानाम्, अस्वापसमितिस्मृतिहेतुप्रत्यक्षाऽयोगादुदाहृतश्रुतिविरोधाच्च। अत्र यद्यप्यहमर्थस्य वर्तमानतया प्रत्यक्षत्वान्न स्मृतिः, तथापि स्वापावस्थाया अतीतत्वाद् भवति स्मृतिः। सुखस्य वेदान्तानये नित्यतया वर्तमानत्वाद् अस्मरणापत्तिः। स्वगते तु मनःपरिणामरूपस्य तस्याप्यतीतत्वात् सम्भवति तस्यापि स्मृतिः। न वाहमर्थस्य प्रत्यक्षत्वे अहमस्वाप्समिति भूतलकारोत्तमपुरुषाभिलापानुपपत्तिः। स्मर्यमाणस्वापसम्बन्धात् स्मर्यमाणत्वारोपादिस्यास्तां विस्तरः॥१०॥
स्मृतिं लक्षयति –
अनुभुतिविषयाऽसम्प्रमोषः स्मृतिः ॥११॥
अनुभूयते इत्यनुभवोऽनुभवविषयः। तस्माद्विषयस्याज्ञानस्याधिकस्य न सम्प्रमोषः स्तेयः परिग्रहः यत्र तादृशोऽनुभवविषयादनधिकविषयो गृहीतग्राही प्रत्ययः सा गङ्गा मया दृष्टा इत्याद्याकारा स्मृतिः इत्यर्थः। न च प्राथमिकानुभवविषयविषयकधारवाहिकद्वितीयादिज्ञानेऽतिव्याप्तिः। तत्र न सोऽस्ति प्रत्ययो लोके यत्र कालो न भासते इति न्यान्येन क्षणादिभानस्य अननुभवनोक्तन्याये प्रत्ययपदस्य अनुभवपरत्त्वात् स्मृतौ क्षणादिभानानङ्गीकारः इति भावः। ननु लाघवात् संस्कारजन्यं ज्ञानं स्मृतिरित्ययेव लक्षणमुचितमिति चेत्, न । तावन्मात्रस्य प्रत्यभिज्ञायामतिव्याप्तेः। संस्कारमात्रजन्यत्वस्य अदृष्टदेशकालादिरूपसामग्र्यपेक्षायामसम्भ्वात् यदि मात्र पदेन प्रमाणस्यैव व्यवच्छेदस्तदास्तु वा। अनुभूतेत्यनेन संस्कारजन्यत्वज्ञापनात् तदपि लक्षणम्। तदापि न हानिः।लक्षणस्य लक्षणान्तराविरोधित्वादिति संक्षेपः॥
अत्र साम्प्रदायिकास्तु – अनुभूतेत्यस्य अनुभूतौ चितिशक्त्यापरोक्षतया गृहीतौ यौ विषयौ वृत्तितद्वेद्यरूपावर्थौ तयोरसम्प्रमोषः अनपहरणं यत्न तादृशस्तदुभयविषयकः प्रत्ययःस्मृतिरित्यर्थमङ्गीकृत्य वृत्तस्तद्विषयस्य च स्मरणानि च स्मरणमिच्छन्ति। घट इत्यदि स्मरणेऽनुभूततारूपतत्तातदारूढार्थयोर्द्वयोरपि भानस्य अनुभवसिद्धत्त्वात्। तथा च एतन्मते वित्तिवेद्योभयानुभवं विना वित्तिवेद्योभयस्मरणायोगादयं घट इत्याद्यनुभवेऽपि वृत्तितदारूढयोः द्वयोर्भानमाव्श्यकमिति सर्वमेव ज्ञानं व्यवसायात्मकम्। साक्षिरूपचितिशक्तैव वित्तिवेद्ययोर्ग्रहणात् । इत्थञ्च एतन्मते अनुभवस्मृत्योः समानप्रकारकत्वादिना हेतुहेतुमद्भावोऽप्यविरुद्धः।अयं घट इत्यनुभूततारूपतत्ताप्रकारकज्ञानात् स घट इत्याद्यनुभवप्रकारिकया घटमहं जानामीति ज्ञानविशेष्यकाच्च घटमहं स्मरामीति ज्ञानविशेष्यिकायाः स्मृतेर्दर्शनात्। यदि च घटमहं जानामीति ज्ञानादपि स घट इति तत्ताप्रकारिका स्मृतिः तदास्तु प्रकाकत्वविशेष्यत्वदिमन्तर्भाव्य समानाविषयत्वेनैव अनुभवस्मृत्योः कार्यकारणभावः।नचान्यविशेष्यकज्ञानादन्यविशेष्यकस्मरणप्रसङ्गः।इष्टापत्तेः।तदुक्तं भाष्येऽपि – ग्रहणाकारपूर्वा बुद्धिः, ग्राह्याकारपूर्वा स्मृतिः। घटमहं जानामीति ज्ञानविशेष्यकोऽनुभवः। स घट इति घटविशेष्यिका स्मृतिरिति तदर्थः। अत्र पूर्वशब्दः विशेष्यपरः। नचैवं सति स्मृतेर्युगपदुभयविशेष्यकत्त्वापत्तिः। सामग्र्या समत्वादिति वाच्यम् । विशेष्योद्बोधकानां हेतुत्वकल्पनाभिस्तन्निरासादिति यत्किञ्चिदेतत् । एतावन् विशेषः। तार्किकस्य अयं घटः, घटमहं जानामि इत्यनयोर्व्यवसायानुव्यवसायभेदाद्भेदः।पूर्वस्य विषयेन्द्रियसंनिकर्षजन्यस्य विषयमात्रग्राहकत्वात् । द्वितीयस्य तु मनोमात्रजन्यस्य ज्ञानगोचरत्वात्। यद्यपि स्वमते तु न तथा ।वृत्तिवेद्योभयविषयत्वेन द्वयोरपि व्यवसायस्थानीयत्वात् । तथाप्यज्ञाननाशकोऽयं घट इत्याद्याकरः।अज्ञाननाशोत्तरं तु घटमहं जानामि इत्याद्याकारः क्रियाजन्यफलभागितारूपकर्मतायास्तदानीमेव भानसम्भवात्।वेदान्तिनस्तु वृत्यवच्छिन्नचैतन्यमज्ञाननाशकं व्यवसायः । विषयमात्रग्राहकत्वात् । वित्तिवेद्योभयार्थग्राहकं वृत्याद्युपहितं तु अनुव्यवसाय इति तयोः तार्किकाणामिव भेद एव इति वदन्ति। परन्तु तार्किकाणामनुव्यवसायो जन्यत्वादनन्तः। वेदान्तिनान्तु स्वयमात्मैवेति अन्यदेतत् । युक्तश्च अयं पक्षः यद्यपि ज्ञानकर्मतायाः पश्चादेवानुभवात् तथापि ग्रहहणसमर्थया चितिशक्त्या वृत्युत्पत्तिकाले वृत्तेरपि विशस्येव ग्रहणसम्भवात् वित्तिवेद्योभयभाननिभन्दनभेदात् तयोः पोर्वापर्यकल्पनमयुक्तमेव इति सूत्रकारप्रभृतेर्गूढाभिसन्धिः। प्रकृतमनुसरामः। तथापि स घट इत्येवं स्मरणपक्षे प्रमुष्टतत्ताकज्ञानस्य संस्कारमात्रजन्यस्य स्मरणत्वलोपप्रसङ्गः। तत्तायास्तत्राभानादिति चेत् न । तादृशनियमस्य औत्सर्गिकत्त्वत् । अत एव निद्रासूत्रे उदाहृतसुखस्मरणस्योद्बोधकदोषात् प्रमुष्टतत्ताकत्वेपि नैतत्सूत्रविरोध इति वदन्ति । ननु स्वप्ने सूकरे गजवैशिष्ट्यमनुभूतमपि स्मर्यते इति चेत् न ।तस्य विपर्ययत्वादिति दिक् ॥९॥
आसां वृत्तीनां निरोधोपायमाह –
अभ्यासवैराग्याभ्यां तन्निरोधः ॥१२॥
अभ्यासवैराग्याभ्यामनुपदं वक्ष्यमाणाभ्यां समुच्चिताभ्यां तन्निरोधः। तासां क्लिष्टानामक्लिष्टानां च वृत्तीनां निरोधः कथितः प्रयाज्याद्यङ्गानामपूर्वरूपव्यापारभेदादिव व्यापारभेदाभवतीत्यर्थः। यथाऽभिवृद्धनद्या द्विविधः प्रवाहो ग्रामनगरादिमज्जनानुकूलः क्षेत्रादिसेचनाऽनुकूलश्चानर्थायार्थाय च। तत्र ग्रामादिमज्जनानुकूलः सेत्वादिना प्रतिबध्यते। क्षेत्राद्यनुकूलश्चाल्पकुल्याखननादिना सम्पाद्यते। एवं चित्तनद्याः संसारसागराभिमुखो विषयभूमिगोऽनर्थप्रवाहो वैराग्येन भज्यते । निद्रादिदोषवारणाय आत्मभूमिगः मोक्षसुखसागराभिमुखोऽर्थप्रवाहोऽभासेन वर्धते इत्यभ्यासवैरग्ययोः चित्तवृत्तिनिरोधे समुच्चयः अत्र द्विवचनेन, अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते इति च शब्देन भगवता अत्र अभिहितः इति दिक् ॥१२॥
अभ्यासं लक्षयति -
तत्र स्थितौ यत्नोऽभ्यासः॥१३॥
तत्र तयोर्मध्ये तस्मिन् परमत्मनि सच्चिद्रूप इति वा स्थितिरेकाग्रता तदर्थे प्रयत्न उत्साहसाहसधैर्याध्यात्मविद्याध्ययनमहत्सेवनयमनियमाद्यनुष्ठनलक्षणोऽभ्यास इत्यर्थः । तत्रोत्साहः सर्वदा बहिःप्रवणशीलं चित्तं निरोत्स्यामि इत्येवमुद्यमः । साहसं साध्यासाध्यत्वाद्यपरामृश्य शीघ्रं प्रवृत्तिः। धैर्यम् इह जन्मनि जन्मान्तरे व सेत्स्यत्येवेत्यऽखेदः। तदेतत् उदाजह्रुः गौडपादाः – उत्सेक उदधेर्यद्वत् कुशाग्रेणैव बिन्दुना मनसोनिग्रहस्तद्वद्भवेदपरिखेदतः इति। तत्र आख्ययिकां प्राहुः साम्प्रदायिकाः – कस्यचित्तीरस्थपक्षिणोऽण्डानि समुद्रस्तरङ्गैः अजहार । स एनं शोषयाम्येवेति द्रुतं प्रवृत्तः स्वमुखाद्रेकैकं जलबिन्दुं उच्चिक्षेप । वारयमाणान् च बन्धून् सहायान् वव्रे । ततश्च कृतनिवारणोपि नारदोऽस्याखेदप्रवृत्या तूष्टः त्वजातिद्रोहेन त्वमवजानाति समुद्र इति गरुडं प्रेशयामास । समुद्रश्च गरुडपक्षवातभीतः पक्षिणोण्डानि ददाविति । एवमखेदादिना मनोनिरोधे यतमानस्य योगिन ईश्वरानुग्रहादिष्टसिद्धिरिति भावः। एवमध्यात्मविद्याऽध्ययनेनापि स्वगोचरेषु मिथ्यात्वेन प्रयोजनाभावं प्रयोजनवत्यात्मनि च स्वगोचरत्वं ज्ञात्वा निरिन्धनाग्निवच्चित्तं स्वयमेव उपशाम्यति । महत्सेवा च महतां प्रणिपातपरिप्रश्नपरिचर्यादि । तद्विद्धि परणिपातेन परिप्रश्नेन सेवया इति भगवदुक्तेः। यमादीन् सूत्रकारः एव वक्ष्यति ॥१३॥
ननु अनादिकालात्प्रवृत्तराजसतामससंस्कारैः विरोदिभिः प्रबलैः कुंठितोऽभ्यासो न स्थित्यै कल्पते इत्यत आह-
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमि:॥१४॥
तु शब्दः शङ्काव्यावृत्तौ । सोऽभासो दीर्घकालं नैरन्तर्येण भक्तिश्रद्धादिरूपसत्कारेण सेवितो दृढभूमिर्दृढसंस्कारः सन् । व्युत्थानसंस्कारैरनभिभवेन स्थितौ समर्थः भवतीत्यर्थः। अदीर्घकालत्वे दीर्घकालत्वेऽपि विच्छिद्य विच्छिद्य सेवने भक्तिश्रद्धातिशयाभावेन लयविक्षेपकषायसुखादीमपरिहारे व्युत्थानसम्स्कारप्राबल्यात् दृढभूमिरभ्यासः फलाय न कल्पते इति त्रयमुपात्तम् ॥१४॥
वैराग्यं लक्षयति –
दृष्टानुश्रविकविषयवितृष्णस्य वशीकर संज्ञावैराग्यम्॥१५॥
दृष्टाश्चानुश्चविकारश्च दृष्टानुश्रविकास्त्ते च विशयाश्चेति ।दृष्टाः स्त्र्यन्नपनदयः।गुरुमुखादनुश्रूयते इत्यनुश्रवः वेदस्तत्प्रतिपाद्याःस्वर्गादि तत्साधनादय आनुश्रविकाः। तेषु वितृष्णस्य । ये हि संस्पर्षजा भोगा दुःखयोनय एव ते। आद्यन्तवन्त कौन्तेय न तेषु रमते बुधः इत्यादि भगदुक्तदिशा अनेकदोषदुष्टत्वभावनाजनितदोषसाक्षात्कारात् तृष्णारहितस्य या वशीकरसंज्ञा वशीकृतं मे चित्तम् अलं विषयैस्तुच्छैरित्युपेक्षा बुद्धिर्वैरग्यमित्यर्थः। विषयपदोपादानं तु सद्गुरुसच्छास्त्रादीनं दृष्टानां मोक्षस्य च अनुश्रविकस्य व्यावृत्तये । विषयिणं प्रमातारं अवबध्नन्ति स्वसंयोगेन स्वासक्त्या संसारमभ्लयन्तीति सिद्धं बन्धकवरूपं विषयत्वं तेषु नास्तीति भावः। वशीकार इत्यनेन विषयालाभासामर्थ्यादौ वैतृष्ण्यं, न वैरग्यमिति सूचितम्। संज्ञापदेन च यतमानव्यतिरेकैकोन्द्रियवशीकारसंज्ञाभिश्चातुर्विध्यं सूचितम्। तत्र विषयान् संत्युक्तमशक्नुवतः अपि समानेच्छात्यागमात्रेणाऽऽद्यम्। ततोऽपि विषयाणां मध्ये प्रियतरवस्तुनि व्यतिरेकवृत्ति द्वितीयम्। तथा वृत्तवपि मनसि रागशैथिल्याद् बाह्येन्द्रियैरेव सेवनं तृतीयम्। तत्राप्यौदासीन्यं चतुर्थम् । तदुक्तं – वैराग्यमाद्यं यतमानसंज्ञं क्वचिद्विरागो व्यतिरेकसंज्ञः एकेन्द्रियार्थं हृदिरागसौक्ष्म्यं तस्याप्यभावस्तु वशीकृताख्यम् । अथवा सारासारविवेकार्थम् उद्योगः प्रथमो भवेत्, अभ्यासेन कषायाणां परिशेषावधारणम् ॥ द्वितीयोऽथ कषायाणामौत्सुक्येन व्यवस्थितिः मनस्येव तृतीयः स्याद् बहिर्मत्रनिवृत्तितः॥ उपेक्षा सर्वथा तत्र स्याद्विरागश्चतुर्थकः इति ॥१५॥
अपरं वैराग्यमुक्त्वा परवैराग्यमाह –
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम्॥१६॥
तच्च वशीकारसंज्ञे वैराग्ये जाते सति सम्प्रज्ञातप्रभावेण पुरुषस्य या ख्यातिः प्रधानाद्विवेकेन यः साक्षात्कारः तत्परिपाकाद् गुणवैतृष्ण्यं गुणत्रयांशेषव्यवहारेषु प्राप्तं प्रापणीयं कृतं कर्तव्यं, ज्ञातं ज्ञातव्यं, हातं हातव्यमिति तृष्णाविरोधिनी चित्तवृत्तिर्भवति। तत् परं श्रेष्टं फलीभूतं वैराग्यं तत् परिपाकात् चित्तोपशमपरिपाकस्ततोऽविलम्बेन कैवल्यमित्यर्थः। पुरुषख्यातेरित्यनेनात्मज्ञानहेतुफलवैराग्यस्य परत्वं वदता तौष्टिकानामालस्यविशेषदर्शादिजनितस्य हेतुत्वं ध्वनितम् ।तद्विवेकस्तु प्रकृतितः एव सर्वं जायते अतो मोक्षोपि तत्परिणामरूपसक्षात्कारेण भविष्यति कालविश्वासेन वा, भाग्यदेव सर्वं जायते इति भाग्यविश्वासेन वा मोक्षोपायेषु विषयेषु च आर्जनरक्षणक्षयाऽतृप्तिहिंसादिदोषदर्शने जातवैराग्यस्य आत्मज्ञानपूर्वकत्वाभाधेयत्वम् उचितम्।सम्प्राप्यैनमृषयः ज्ञानतृप्ताः कृतात्मानः वीतरागाः प्रशान्ताः ते सर्वगं सर्व् अतः प्राप्य धीरा मुक्तात्मानः सर्वमेवाविशन्तीत्यादि श्रुत्यात्मज्ञानपूर्वकवैराग्यस्यैव मोक्षोपायत्वकथनादिति संक्षेपः । अत एव यथाकथञ्चित् वैतृष्ण्यमात्रस्य निवृत्तये पूर्वं वशीकारकथनेपि नात्र तथोक्तिः। आत्मज्ञानकथनेनैव सामान्यवैतृष्ण्यव्यावृत्तेः सम्भवात् ॥१६॥
इदानीमपरवैराग्यसाध्यं सम्प्रज्ञातं लक्षयति -
वितर्कविचारानान्दस्मितानुगमात् सम्प्रज्ञातः॥१७॥
प्रथमं भावनानीषयस्याशेषविशेषतः स्थूलांशचतुर्भुजादेः साक्षात्कारो वितर्कः। विशेषेण तर्कणमिति व्युत्पत्तिः। स्थूलकारणप्रपञ्चतन्ंआत्राहङ्कारमहदव्यक्तसूक्ष्मसाक्षात्कारो विचारः। विशेषेण सूक्ष्मपर्यन्तं चरणमिति व्युत्पत्तेः। तत्रारोहात् सत्त्वप्रकर्षेण जायमानह्लादस्य साक्षत्कार आनन्दः। यं लब्ध्वाचापरं लाभं मन्यते मा अधिकं तत इत्यादिस्मृत्युक्त एतेषां कारणं बुद्धिः। सा ग्रहीत्रैकीभूताऽस्मितेत्युच्यते। तद्विषयकसाक्षात्कारोप्येऽस्मिता। एतैरनुगमात् युक्तत्वाद्धेतोः सम्यक् प्रज्ञातत्वेन , भावनाविशेषरूपो योगः सम्प्रज्ञातनाम भवति। स च वितर्कादिभूमिभेदैः, सवितर्कः, सविचारः, सानन्दः, सास्मितश्चेति चतुर्धा भवतीत्यर्थः॥
अधुना सोपायमसम्प्रज्ञातं लक्षयति –
विरामप्रत्ययाभ्यासपूर्वः संस्कारशॆषोन्यः॥१८॥
विमरणं विरामो वृत्तीनामभावः। तस्य प्रत्ययः प्रत्वेपि जनयातीति प्रत्ययः कारणं परवैराग्यम्। तस्याभ्यासः पौनःपुन्यं पूर्व उपायो यस्य स तथा। संस्कारशेषः ख्यातिसंस्कारः एव शिष्यते पूर्वपदेनोपायस्य, शेषाभ्यां स्वरूपस्य कथनम्। अथवा संस्कारशेषाः स्वापो विदेहप्रकृतिलीनानामनुभवश्च भवतीति तत्राव्याप्तिवारणाय पूर्वपदमातावन्मात्रमौपनिषदानामात्ममात्र्सत्यत्वबुद्धिजजीवन्मुक्तावतिव्याप्तमिति संस्काराशेषपदम्। न हि तदानीं संस्कारशेषत्वमस्ति। मिथ्यात्वघटत्वादिना जगद्भानस्य तदानीमङ्गीकारात् । तथा़ च परविराग्यहेतुकः संस्कारशेषोऽसम्प्रज्ञात इति सिद्धम्। सोऽयं योग एव भवतीति भावः॥
अयमसम्प्रज्ञातो द्विविधः – उपायप्रत्ययो, भवप्रत्ययश्च। तत्र मुमुक्षुभिर्हेयं भवप्रत्ययमाह –
भवप्रत्ययो विदेहप्रकृतिलयानाम्॥१९॥
भूतेन्द्रियाणामन्यतमदात्मत्वेन प्रतिपन्नास्यदुपासनतया तद्वासितान्तःकरणाः पिण्डपातानन्तरं भूतेन्द्रियेषु लीना मांसशोणितलोममेदोऽस्थिमज्जारूपषाट्कौषिकदेहशून्या विदेहाः। एवमव्यक्तमगदङ्कारपञ्चतन्मात्राणामन्यतमदात्मत्वेन प्रतैपन्नास्तदुपासनतया तद्वासितान्तःकरणाः पिण्डपातानन्तरं प्रकृत्यासिकारणेषु लीनाः प्रकृतिलयाः। विदेहाश्च प्रकृतिलयाश्च विदेहप्रकृतिलयास्तेषां चित्तं संस्कारमात्रं शॆषमित्यसम्प्रज्ञातः। स तु भवप्रत्ययो, भवन्ति जायान्तेस्यामित्यानात्मन्यात्मबुद्धिः प्रत्ययो हेतुर्यस्य स तथा। अविय्दामूलोयं योगोऽतो हेयः। अत एविक्तं वायुपुराणे, दश मन्वन्तरानीहतिष्ठन्तीन्द्रियचिन्तकाः भौतिकाश्च शतं पूर्णे सहस्रं त्वाभिमानिकाः॥ बौद्धा दशसहस्राणि तिष्ठन्ति विगतज्वराः पूर्णॆ शतसहस्त्रंतु तिष्ठन्त्यव्यक्तचिन्तकाः॥ पुरुषं निर्गुणं प्राप्य कालसंङ्ख्या न षिद्यते इति॥
अधुना मुमुक्षूणामुपायप्रत्ययं द्वितीयमाह –
श्रद्धावीर्यस्मृतिसमाभिप्रज्ञापूर्वक इतरेषाम्॥२०॥
पुरुषगोचरा सात्त्विकी श्रद्धा तथा वीर्ये प्रयत्नो जायते तेन यमादिपरम्परया स्मृतिर्ध्यानं, तेन समाधिः। तेन प्रज्ञा पुरुषगोचराख्यातिः। ततः परवैराग्यादसम्प्रज्ञात इतेरेषां पूर्वविलक्षणानां मनुष्याणां मुमुक्षुणां भवतीत्यर्थः। अयमेव च राजयोग इत्युच्यते। तदुक्तं स्मृतौ – समाप्तिस्तत्र निर्बीजो राजयोगः प्रकीर्तितः * दीपवद्राजते यस्मादात्मा सच्चिन्मयः प्रभुरिति। वस्तुतस्तु प्रथमसूत्रस्यभवो विशिष्टं देवादिजन्म तदेव प्रत्ययः कारणं यस्येत्यर्थो, न तु कथितः। परवैराग्यस्यासम्प्रज्ञातहेतुतया तस्याऽविदुष्यऽसम्भवात्। इन्द्रियादिचिन्तामात्रेणासम्प्रज्ञातानुपपत्तेश्च। तस्मादीश्वरोपासनया प्रकृतिदेवतोपासनया वा प्रकृत्यावरणादिषु विशिष्टदेहप्राप्तिमाहात्म्येनोत्पन्नज्ञातयोगिनो भवन्ति। अधिकारसमाप्तौ मुच्यन्ते। मनुष्यास्तु न तथा , किन्तु साधनान्तरेणैवेत्याह॥ श्रद्धेति॥ समानमन्यत्॥
तत्र प्रज्ञान्ता उपाया मृदुमध्याधिमात्नभेदेन त्रिविधाः। तथा च योगिनोऽपि त्रयः – मृदुपायो मध्योपायोऽधिमात्रोपायश्चेति। तत्रैकेकस्त्रिविधः – मृदुसंवेगो, मध्यसंवेगस्तीव्रसंवेगश्चेति। तत्र नवमस्याऽधिमात्रोपायस्य तीव्रसंवेगस्य क्षिप्रं सिद्धिमाह –
तीव्रसंवेगानामासन्नः ॥ २१ ॥
संवेगोऽत्र वैराग्यम्, उपायानुष्ठानशैघ्र्यं वा, दृढतरसंस्कारो वा, येषामधिमात्रोपायस्तीव्रसंवेगस्तेषां योगिनाम् आसन्नः शीघ्रलभ्योऽसंप्रज्ञातः । ततो मोक्ष इत्यर्थः॥२१॥
नवमेऽप्यवान्तरभेदं विशेषं चाह –
मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः ॥ २२ ॥
पूर्वसूत्रोक्तविशिष्टान्तर्गतस्य तीव्रस्य मृदुमध्याधिमात्रत्वाद् अल्पमध्यातिशयितभेदेन त्रैविध्यात् ततोऽप्यासन्नादपि विशेषः । मृदुतीव्रसंवेगस्य योगिन आसन्नात् समाधेः मध्यतीव्रसंवेगस्य योगिन आसन्नतरः । ततोऽधिमात्रतीव्रसंवेगस्यासन्नतमो भवतीत्यर्थः । इत्थञ्च पूर्वसूत्रोक्तनवमयोगिनस्त्रयो भेदाः । तत्र चाऽन्तिमस्यैवातिशीघ्रलक्ष्योऽसम्प्रज्ञात इति सिद्धम् ॥ २२ ॥
इदानीं पुरुषगोचरैतत्सर्वनैरपेक्ष्येणाञ्जसैव ज्ञानद्वारा कैवल्यान्तफलं साधनम् । यस्य देवे यथा भक्तिर्यथा देवे तथा गुरौ * तस्यैते कथिता ह्यर्थाः प्रकान्ते महात्मनः, यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्, देहान्ते देवः परमं ब्रह्म तारकं व्याचष्टे इत्यादिश्रुतिभिः । तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ पुरुषः स परः पार्थ भक्त्या लक्ष्यस्त्वनन्यया * भक्त्या मामभीजानाति यावान् यश्चास्मि तत्त्वतः ॥ तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः * न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह ॥ यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत् * योगेन दानधर्मेण श्रेयोभिरितरेण च ॥ सर्वं मद्भक्तियोगेन मद्भक्तो लभतेञ्जसा इत्यादिस्मृतिभिश्च तथा । तेनोकं भगवद्भजनरूपम् उपायमाह –
ईश्वरप्रणिधानाद्वा ॥ २३ ॥
विशेष इत्यनुषज्ज्यते । ईश्वरे अनुपदवक्ष्यमाणलक्षणे प्रणिधानात् प्रणिधीयते तदेकमात्रनिष्ठं मनः क्रियतेऽनेनेति पुनःपुनारूपं प्रेम तत्साधनमन्त्रजपाराध्यत्वज्ञानादिरूपाद्वक्ष्यमाणाद् भक्तियोगाद् अनायासेन आसन्नतमः समाधिलाभो भवतीत्यर्थः । प्राकृतस्वकृतजातजादनुग्रहात् तत्सम्भवेऽप्यासन्नतम इह प्रणिधानजन्मा, सर्वज्ञं भगवन्तं भावयत आसन्नतमे समाधिफले भवेतामिति तदिच्छारूपात् तत्तदनुग्रहादेव सद्गुरुलाभादितो भवतीति यावत्।संसाररूपस्वाऽनर्थहेतुस्वाज्ञाननाशे विरोधिविषयकत्वेन क्षमस्य स्वसाक्षात्कारस्योत्पत्तयेऽवश्यापेक्षितस्वसमाधिं प्रति स्वगोचरकारणकलापस्य समानविषयतया हेतुत्वेन मुख्यत्वेऽपि सत्यसंकल्पस्येश्वरस्येच्छामात्रेण फलदस्य यथाकथञ्चिदपि प्रणिधानम् ततोऽपि मुख्यं तस्य क्लृप्ततादृशकारणकलापं विनाऽपि तत्प्रसादजनिततत्साक्षात्कारादिद्वारा स्वसमाधिसाधनत्वात्, मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते। इत्यादिभगवद्वाक्यैर्मायातत्कृताज्ञानतत्कृतबन्धादिनिवृत्तिफलश्रवणाच्चेति ज्ञापयितुं तस्य तेन सह विकल्पोऽत्रान्ते वा शब्देनाभिहितैति दिक्।
अत्रोपासनाद्वेति विहाय प्रणिधानाद्वेति कथनं तु कपिलजैमिनिप्रभृतीनामिव उपासनमात्रं न युक्तं, किन्तु वस्तुतो वस्तुतत्वे मनसोऽत्यादरेण नियोजनरूपं भावनम्। तत एव तत्साक्षात्कारसम्भवादिति ज्ञापनाय लोकेऽप्यन्तर्गतसूक्ष्मविशेषे सादरेण चक्षुषो नियोजनरूपप्रणिधानादेव चक्षुषा साक्षात्कारदर्शनात्। तथैवाग्रे निरूपणाच्च। उपासनतस्तु न तथा। योषिताग्निं ध्यायीत इत्यादाविव तस्यारोपविषयकत्वात्। तत्राग्नौ योषायामग्निदृष्टिविधानात्। एवं स्वस्य तस्मिन्नप्यारोपादिमूर्त्यभेदचिन्तनाद्यप्युपासनमेव वस्तुतत्वनिरपेक्षत्वात्। अत एव कीटभृङ्गन्यायेन प्राप्तमपि तत्फलं सारूप्यं शाश्वतमिति वदन्ति॥२३॥
ननु स्वमते प्रधानपुरुषातिरिक्तं तत्वं नास्त्येव, कुत ईश्वरतत्प्रणिधानं च? तत्र चेश्वरस्य न प्रधानेऽन्तर्भावः। चेतनत्वादिनाऽभ्युपगतस्याचेतने प्रधानेऽन्तर्भावाऽयोगात्। नापि पुरुषेऽन्तर्भावः। सर्वेषां पुरुषाणां सच्चिन्मात्रस्वरूपेणेश्वरत्वाऽनीश्वरत्वयोः स्वतोऽसम्भवात्। विनिगमनाभावे नैकतरस्य तथात्वाऽनिर्णयाच्च। न चात एव वैशेषिकादेरिव नित्यज्ञानादिमान् तदुभयातिरिक्तः स इति वाच्यम्। तत्वान्तराङ्गीकारेऽप्रसिद्धत्वात् मानाऽभावाच्च। न च कर्तृजन्यत्वव्याप्यकार्यत्वहेतुस्तदनुमापक इति वाच्यम्। शरीरजन्यत्वाद्युपाधिदोषगणग्रस्तत्वात्।
अपि चेश्वरस्य कर्तृत्वे कथञ्चित्स्वोपकारार्थमेव कर्तृत्वं रागित्वं च स्यात्। रागवत एव स्वोपकारार्थमेव च प्रवृत्तिदर्शनात्। उपकाररागयोः स्वीकारे तु सोऽपि संसारी लोकवदेव स्यात्। इष्टापत्तौ नित्यैश्वर्यानुपपत्या सांख्यानामिव सर्गाद्युत्पन्नपुरुषे परिभाषामात्रं स्यात्। रागाद्यभावेऽपि दयया राजवल्लीलयैव करोतीति तु न युक्तम्। परलोकसुखमुद्दिश्य दयया, क्रीडादिसुखविशेषमुद्दिश्य च लीलायाः सर्वत्र दर्शनात्, तयोरपि साक्षात्परम्परया वा स्वोपकारनिबन्धब्=नाच्च। अपि च स्वमते साक्षी चेता केवलो निर्गुणश्च। इत्यादिश्रुत्या सदा निर्गुण इति। तस्य प्रकृतिप्रवर्तनेच्छादयो गुणाः प्रकृतिप्रवृत्यनन्तरं, प्रकृतिप्रवृत्तिश्चेच्छादित इत्यन्योन्याश्रयप्रसङ्गः। तत्र, प्रधानस्य न्त्येच्छादयः श्रुतिस्मृतिसिद्धसाम्यावस्थाऽनुपपत्तेः। अपि च प्रकृतिं प्रत्यैश्वर्यं किं प्रधानधर्मत्वेनाभिमतानामिच्छादीनां साक्षादेव सम्बन्धात्, उत अयस्कान्तमणिवत् सन्निधिसत्तामात्रेण् प्रेरकत्वात्? तत्र नाद्यः- असङ्गश्रुतिविरोधात्। नापि द्वितीयः- सर्वेषामेव तत्तत्सर्गेषु भोक्तॄनामप्यविशेषेणेश्वरत्वप्रसङ्गादित्यास्तां विस्तरः। न च तदैक्षत बहुस्याम् इत्यादिश्रुतिः स्मृतिश्च चेतनकारणत्वबोधिका तत्र मानम्। तस्याः सर्गादावुत्पन्नमहत्तत्त्वोपाधिकपुरुषपरत्वेनाप्युपपत्तेः। याऽपि मुक्तस्येश्वरस्य बोधिका साऽप्युपाधिनिवृत्या पुरुषाणामीश्वरत्वपरा। अतो नास्ति प्रधानपुरुषयोरतिरिक्तः ईश्वरः इति साङ्ख्याक्षेपनिरासाय आह-
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥२४॥
क्लेशेति। श्रुतिसिद्धनित्येश्वरत्वादिना संसारिपुरुषेभ्यो विशिष्यत इति स पुरुषविशेषः। संसारिपुरुषविलक्षणः पुरुष एव ईश्वरः। तथा चेश्वरस्य पुरुषेन्तर्भावस्तदुपाधेश्च प्रधान इति भावः। शोधितजीवानामेव ईश्वरत्वमस्त्विति शङ्कानिरासाय अपरामृष्ट इत्यन्तं विशेषणम्। क्लेशाः वक्षमाणलक्षणाः अविद्यादयः। कर्म धर्माधर्मौ। विपाकस्तयोः फलं सुखदुःखे। आशयाः तन्मूलीभूताः वासनाः। एतैरपरामृष्टः कालत्रयेऽप्यसंसृष्टः इत्यर्थः। एतेन क्लेशाद्यपरामृष्टत्वात् श्रुत्यादौ गीत ईश्वरो न शुद्धजीवो न वा सदृशः। कादाचित्कक्लेषसंबन्धात् इत्यनुमानं लब्धम्। एवमन्यदपि स्वयमूह्यम्।
अत्र भाष्यम् – अविद्यादयः क्लेशाः, कुशलाकुशलानि कर्माणि, तत्फलं विपाकः, तदनुगुणा वासना आशयाः। ते च मनसि वर्तमानाः पुरुषे व्यपदिश्यन्ते। स हि तत्फलस्य भोक्तेति। यथा जयः पराजयो वा योधृषु वर्तमानः स्वामिनि व्यपदिश्यते योह्यनेन भोगेन अपरामृष्टः स पुरुषविशेष ईश्वरः। कैवल्यं प्राप्तास्तर्हि सन्ति च बहवः केवलिनः। ते हि त्रीणि बन्धनानि छित्वा कैवल्यं प्राप्ताः। ईश्वरस्य च तत्सम्बन्धो न भूतो, न भावी। यथा मुक्तस्य पूर्वा बन्धकोटिः प्रज्ञायते, नैवमीश्वरस्य। यथा वा प्रकृतिलीनस्योत्तरा बन्धकोटिः सम्भाव्यते, नैवमीश्वरस्य। स तु सदैव मुक्तः सदैवेश्वरः इति। वोसौ प्रकृष्टसत्त्वोपादानात् ईश्वरस्य शाश्वतिक उत्कर्षः स किं सनिमित्तः आहोस्वित् निर्निमित्तः इति? तस्य शास्त्रं निमित्तम्। शास्त्रं पुनः किंनिमित्तम्? प्रकृष्टसत्त्वनिमित्तम्। एतयोः शास्त्रोत्कर्षयोः ईश्वरसत्त्वे वर्तमानयोरनादिः सम्बन्धः। एतस्मादेतद्भवति सदैवेश्वरः सदैव मुक्तः इति। तच्च तस्यैश्वर्यं साम्यातिशयविनिर्मुक्तम्। न तावदैश्वर्यमन्तरेण तदतिशय्यते। यदेवातिशयि स्यात् तदेव तत्स्यात्। तस्मात् यत्र काष्ठाप्राप्तिः ऐश्वर्यस्य स ईश्वरः। न च तत्समानमैश्वर्यमस्ति। कस्मात्? द्वयोस्तुल्ययोः एकस्मिन् युगपत् कामितेऽर्थे नवमिदमस्तु पुराणामिदमस्त्वित्येकस्य प्रसिद्धावितरस्य प्राकाम्यविघातादूनत्वं प्रसक्तम्। द्वयोश्च तुल्ययोर्युगपत्कामितार्थप्राप्तिर्नास्त्यर्थस्य विरुद्धत्वात्। तस्मात् यस्य साम्यातिशयविनिर्मुक्तमैश्वर्यं स ईश्वरः। स च पुरुषविशेष इति।
अस्यार्थः – वक्ष्यमाणा अविद्यादयः अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्चक्लेशाः इति सूत्रेण प्रतिपाद्यमाना अविद्यादयः कुशलाकुशलानि इष्टानिष्टसाधनत्वात् हिताहितरूपाणि कर्माणि धर्माधर्माः तत्फलं क्लेशकर्मणोःफलम्। विपाकः विपच्यते साध्यते कर्मभिरिति जात्यायुर्भोगात्मकः। तदनुगुणाः विपाकहेतवः आशयाः, चित्तभूमावशेरत इत्याशयाः। ते च अविद्यादयः मनसि जागरस्वप्नयोः सांसारिकतया गृहीते अन्तःकरणे वर्तमानाः तादात्म्यसम्बन्धेन सन्तोऽपि पुरुषेऽसांसारिके द्रष्टरि अहमर्थे व्यपदिश्यन्ते। वस्तुतो यद्यपि तत्रैव तथापि स्वामित्वरूपभोक्तृत्वस्य पुरुषमात्रनिष्ठत्वात्। तत्रापि ते व्यपदिश्यन्त इत्याह। स हीति। हि यस्मात् स पुरुषस्तस्य क्लेशादेः फलस्य सुखादेः स्वस्मिन् प्रतिबिम्बितस्य भोक्ता भवतीत्यर्थः। स्वामित्वसम्बन्धेन आधारत्वे दृष्टान्तमाह – यथेति। यथा च राजा जयी पुरुषो धनी इत्यादिवदेव पुरुषः क्लेशादिमान् सुखी-दुःखी इत्यादिवुद्वद्व्यवहार इति भावः। विशेषण-विशेष्यभावादितादात्म्यसम्बन्धेन पुरुषे सुखादिमत्त्वधीरेवाविद्येति सिद्धम्। इत्थञ्च भोक्तृत्वसमम्बन्धेन क्लेशादिराहित्यं नान्यपुरुषेऽस्ति। किन्त्वीश्वर एवेत्याह – यो ह्यनेनेति। क्लेशादिमूलकभोगेन असंसृष्टः इत्यर्थः। अनेनेति विशेषणात् रामकृष्णादिभावेन क्रीडतो महेश्वरस्य स्वेच्छापरिगृहीतो विषयभोगोऽन्तर्यामिरूपस्य तु सोऽपाधिसुखसाक्षितारूपो भोगोऽस्ति।
ऋतं पिबन्तौ सुकृतस्य लोके –
इति श्रुतेरिति ज्ञापितम्। शङ्कते – कैवल्यमिति। यदि क्लेशादिशून्य एव ईश्वरः श्रुतिस्मृतिभ्यः एष्टव्यः, तर्हि कैवल्यमविद्यानिवृत्यादिरूपं मोक्षं प्राप्ता बहवो हिरण्यगर्भादयः केवलिनः केवलिनां जीवन्मुक्तानां प्रत्यक्षाः सन्ति। त एवेश्वरतया श्रुत्यर्थाः सन्त्विति भावः। तथा च सांख्यसूत्रम्- मुक्तात्मनः प्रशंसा उपासा सिद्धस्य वा। इति परिहरति। ते हीति। हिरण्यगर्भादयः प्राकृतिकादीनि बन्धनानि छित्वैव मुक्ताः। न तु क्लेशादिना कदाप्यसंसृष्टाः। ईश्वरस्तु सदैव क्लेशादिभिरसंसृष्टः।
तत्र यः परमात्मा हि स नित्यं निर्गुणः स्मृतः
।कर्मात्मा पुरुषो योऽसौ बन्धमोक्षैः स युज्यते॥
इत्यादिशास्त्रादिति भावः। निर्गुणः आविदयकगुणशून्यः। ईश्वरस्य तेभ्यो वैलक्षण्यं विवृणोति-यथा मुक्तस्येति। ज्ञानेन निरस्ताऽविद्यस्येत्यर्थः। प्रज्ञायते निश्चीयते संभाव्यत इति प्रकृतिलीनस्याभिमनसम्भवे पश्चाद्बन्धसंभावनेति भावः। सदैव मुक्त इति। कालत्रयेऽपि क्लेशतत्फलरहित इत्यर्थः। सदैवेश्वर इति। सदैवाप्रतिहतसामर्थ्यवानित्यर्थः।नन्वीश्वरे न बाह्यं प्रत्यक्षं भानं रूपादिशून्यत्वात्। नापि मानसं अन्यात्मनोऽन्यमनोऽयोज्यत्वात्। अन्यथा चैत्रस्य मैत्रात्ममानसस्याप्यापत्तेः। नाप्यनुमानं दत्तदोषात्। नपि श्रुतिः, श्रुतिप्रामाणसिद्धौ श्रुत्येश्वरसिद्धिः। ईश्वरसिद्धौ च तत्प्रत्यक्षपूर्वकतया शास्त्रप्रामाण्यसिद्धिरित्यन्योन्याश्रयं मन्वानो बौद्ध ईश्वरे प्रमाणमस्ति न वेति पृच्छति-योऽसाविति। जीवेभ्यो भेदसाधकः सदेश्वरत्वादिरूपः प्रकृष्टसत्वोपादानात्। प्रकृष्टसत्वसम्बन्धात् शाश्वतिकः सहजसिद्धः। साक्षी चेता केवलो निर्गुणश्च। इति श्रुत्या निरुपाधिकसच्चिन्मात्रतया सिद्धस्य भगवत ईश्वरत्वं प्रकृतिसम्बन्धोपाधिकमेव कारनोपाधिरीश्वर इत्यादिश्रुतेरिति भावः। स किं निमित्त इति? स किं प्रामाणिकः? तादृशधर्मवानीश्वरो न केनापि प्रमाणेन सेत्स्यतीति भावः। उत्तरं- तस्येति। शास्त्रं श्रुत्यादिः।पुनः पृच्छति-शास्त्रं पुनरिति। शास्त्रस्यैव प्रामाण्यं कुत इत्यर्थः? उत्तरं-प्रकृष्टेति। ईश्वरस्योपाधिर्यत् प्रकृष्टं सत्वं तत्कारणकमित्यर्थः। कालत्रयेऽप्यनभिभूतसत्वोपाधिकस्य यथार्थप्रत्यक्षरूपवाक्यार्थज्ञाने बाधकाभावात्। तादृशवाक्यार्थज्ञानजन्यत्वेन शास्त्रस्य प्रामाण्यमित्यर्थः। नन्वेवमन्योन्याश्रयः शास्त्रप्रामाण्ये सिद्धे सत्वसिद्धिस्तत्सिद्धौ च तन्मूलकतया शास्त्रप्रामाण्यसिद्धिरिति चेन्न, मन्त्रायुर्वेदप्रामाण्यवदीश्वरसिद्धेः प्रागेव शास्त्रप्रामाण्यसिद्धेः। मन्त्रायुर्वेदवच्च तत्प्रामाण्यम् आप्तप्रामाण्यादिति। आप्तस्य वेदकर्तुः प्रामाण्यात् यथार्थज्ञानवत्वात् प्रामाण्यं स्वार्थगोचरप्रमाजनकत्वम् अनुमेयम् इत्यर्थः। ननु तर्हि अन्योन्याश्रयः तत्राह- मन्त्रेति । मन्त्रो विषादिनाशकः। आयुर्वेदचिकित्साशास्त्रं वेदस्थमेव। तत्र संवादेन प्रामाण्यग्रहात् तत् दृष्टान्तेन वेदत्वावच्छेदेन प्रामाण्यम् अनुमेयम् इत्यर्थः। तेन न अन्योन्याश्रयः प्रामाण्यग्रहार्थम् ईश्वरनिश्चयस्य अनपेक्षणात् इत्यर्थः। मन्त्रायुर्वेदवच्च तत्प्रामाण्यम् आप्तप्रामाण्यात्। इति सूत्रतया गौतमेन व्यवस्थापितत्वात्। अत्र तु प्रकृष्टसत्वस्य शास्त्रप्रामाण्यनिर्वाहकतामात्रम् उक्तम् इति न कोऽपि दोषः। एतयोरिति। विषयतासम्बन्धेन च परमेश्वरत्वे क्रमेण वर्तमानयोः एतयोः शास्त्रोत्कर्षयोः अनादिनिमित्तनैमित्तिकभावः सम्बन्धः। शास्त्रं नैमित्तिकं सत्वोत्कर्षश्च निमित्तं कारणत्वात् इत्यर्थः। निमित्तमाह-सदैवेति। ईश्वरस्य अद्वितीयमपि प्रतिपादयति- तच्चेति। नास्ति साम्यम् अतिशयश्च यस्मात् तादृशम् इत्यर्थः। अतिशयनिर्मुक्तौ हेतुमाह- यदेवेति। यस्मात् हेतोः यदेवातिशयि निरतिशयं तदेव तदैश्वर्यं स्यादिति योजना। ेवतदेव मुख्यम् ऐश्वर्यम् इत्यर्थः। उपसंहरति- तस्मादिति। ऐश्वर्येण यत्र विश्रान्तिः प्राप्यते स ईश्वर इत्यर्थः। साम्यनिर्मुक्तौ हेतुमाह- न चेति। द्वयोरिति। नवम् अल्पकालस्थायि, पुराणं दीर्घकालस्थायि। एवम् अस्तु इत्येवं रूपेण एकस्मिन्नर्थे क्वचित् द्वाभ्यां तुल्याभिमताभ्यां कामिते सति एकस्य एकतरस्य सिद्धौ सङ्कल्पसिद्धौ इतरस्य इच्छाविघातात् ऊनत्वं न्यूनत्वं स्यात्। अतो न समानानेकेश्वरसम्भव इत्यर्थः। ननु उभयोः सङ्कल्पात् नवत्वं पुराणत्वं च उभयमेव भवतु। तत्राह- द्वयोश्चेति। ननु योगीश्वरयोरिव तयोरपि समानसङ्कल्पसम्भवे न विरुद्धार्थे युगपत्कामनाबाधात् न उक्तदोषः इत्याशङ्क्य-एको देवः। एकमेवाद्वितीयम्। भूयः सृष्ट्वा पतयस्त्वथेशः सर्वाधिपत्यं कुरुते। महात्मा न तत्समश्चाभ्यधिकश्च दृश्यते। इत्यादि श्रुतिभिः, नत्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभावः। इत्यादि स्मृतिभिश्च समानाधिकप्रतिषेधात्, तथा कल्पनम् अप्रामाणिकम् इत्याशयेन उपसंहरति- तस्मादिति। तस्मात् विरुद्धार्थसङ्कल्पे विसंवादात् समानसङ्कल्पे च मानाभावात्।यस्य क्लेशाद्यपरामृष्टस्य साम्यातिशयविनिर्मुक्तं श्रुतिस्मृतिपुराणैश्चेति शेषः।तस्य पुरुषविषेशत्वम् उपसंहरति- स चेति। संसारिपुरुषेभ्यः सत्यसङ्कल्पत्वादिना विशिष्यत इति पुरुषविशेषः संसारिपुरुषविलक्षणः इत्यर्थः। अत्र प्रकृष्टसत्वसम्बन्धादेवेश्वरस्योत्कर्षकथनाज्जीवस्यापि मनसत्त्वकृत एवाऽपकर्षो न स्वतः। इत्थं चोपाधिभेदाज्जीवेश्वरविभागः स्वतस्त्वभेद एव।
तत्त्वमसि ।
आदिवाक्यबोधित इति भाष्यकारस्य गूढाभिसन्धिः। केचित्तु रामानुजानुसारिण इत्थमभिप्रायमजानन्तो विशेषशब्दादिस्वारस्यमात्रेणान्यथाभावमुपवर्णयन्ति। तथाहि – यद्यप्यात्मन आकाशस्येव उपाधिभेदैः जीवेश्वरादिरूपत्वसम्भवेन लाघवात्।
तत्त्वमसि।
आदिश्रुतिबोधितमैक्यमेव। भेदनिन्दया भेदश्रुतितोऽभेदश्रुतेरेव बलवत्त्वात्। अभेदज्ञानस्य मोक्षफलकत्वश्रवणात्। न भेदवाक्यानि तु आरोपितभेदानुवादपराण्येव कार्यकारणोपाधिविशिष्टयोश्च जीवत्वेश्वरत्वे विशिष्टैश्च अनुगतधर्मिणः सामान्यात्मनः शुद्धस्य भेदः प्रातिभासिकोऽभेदो वास्तव इति वक्तुं शक्यं, तथापि विशिष्टस्य अनतिरेके जीवत्वेश्वरत्वबन्धमोक्षादिसाङ्कर्यप्रसङ्गात्। विशिष्टस्य अतिरेके तस्य मिथ्यात्वेन विनाशितया बन्धमोक्षसामानाधिकरण्योपपत्तेः भेदाभेदपक्षश्च द्वैतमतेन अविशिष्टः। द्वैतमतेऽपि तत्तदुपाधिविशिष्टयोः वस्तुतः भेदेऽपि चित्त्वादिना अभेदस्य अङ्गीकारात्। तस्मात् भेदश्रुतिसिद्धः स्वरूपतः अन्योन्याभावरूपः भेद एव तयोरस्ति। भेदनिन्दावाक्यानि तु वैधर्म्यलक्षणभेदस्य भागापरपर्यायस्य निन्दापराणि फेनबुद्बुदादीनामिव किञ्चिदवच्छेदेन कथञ्चित्प्रतीयमानस्य अपारमार्थिकत्वात्। आकाशादिदृष्टान्ताः अपि एतस्यैव उपाधिकत्वज्ञापकाः। अभेदवाक्यानि तु दुग्धजलयोरिव संमिश्रणस्य अग्निविस्फुलिङ्गादेरिव अंशांशिभावेन पारमार्थिकस्य अविभागलक्षणस्यैव वा अभेदस्य बोधकानि। मानानि च तत्र लवणोदकदृष्टान्तवाक्यानि। तस्मान्नाऽखण्डो वाक्यार्थः मानाभावात्।
तन्न सम्यक्। अयमेव नोऽनर्थो यत् संसार्यात्मदर्शनमित्यादिना वार्तिककारैः वस्तुतः नित्यमुक्तस्य आत्मनः सदा शुद्धस्य कार्यकारणोपाध्यवच्छेद्यत्वरूपः स्वाऽऽभासद्वारको विशिष्टभावः एव सम्बन्धः। सकलतन्निवृत्तिश्च मोक्ष इति प्रतिपादनात् न बन्धमोक्षयोः सामानाधिकरण्यानुपपत्तिः। परम्परयोपाध्यवच्छेद्यस्य शुद्धस्य नित्यत्वात्। अत एव न तन्मताऽविशेषोऽपि परेण। चित्तैकामात्रव्यक्तित्वस्य कार्यकारणोपाधीनां मिथ्यात्वेन विशिष्टमिथ्यत्वादीनां चानङ्गीकारेण साम्यासम्भवात्। तस्मादत्र इष्टापत्तिः। केषाञ्चित् स्वबन्धाय कृत्या यथा तथेति संक्षेपः॥२४॥
तत्र लक्षणमुक्त्वा सार्वज्ञ्यरूपविशेषमाह –
तत्र निरतिशयं सर्वज्ञबीजम् ॥२५॥
तत्रेति ।सर्वज्ञेति भावप्रधानो निर्देशः। पदार्थानां सम्यग्ज्ञानमिदमस्याल्पमिदमस्याधिकमिति तारतम्येन वर्तमानं विरुद्धधर्मानमेकैकस्यापेक्षयेश्वरे निरतिशयं भवति । तदेव तत्रेश्वरे सार्वज्ञ्याऽनुमापकमित्यर्थः। प्रयोगस्तु सार्वज्ञ्यबीजं सातिशयमस्मदादिज्ञानं क्वचित्काष्ठाप्राप्तं सातिशयत्वात् परिणामवदिति । यत्र च तत्काष्ठाप्राप्तं सर्वज्ञ एव संसारिपुरुषविलक्षण इति दिक् ।
अथवा तत्रानुमानमपि प्रमाणमित्याशयवानाह – तत्र निरतिशयमिति । तत्र ईश्वरे निरतिशयं निर्गतो नास्ति अतिशयः यस्मात् अन्यस्य तादृशमन्यप्रतियोगिकाधिक्यरहितं काष्ठाप्राप्तं ज्ञानदिकं सातिशयास्मदादिज्ञानेनोक्तप्रकरणेनानुमितम् । तदेव सर्वज्ञस्य भगवतो बीजं प्रमाणत्वाद्बीजमिव बीजमनुमापकम् । निरतिशयं तज्ज्ञानं क्वचिदाश्रितं ज्ञानत्वात् । अस्मदादिज्ञानवत् । स च आश्रयः लाघवादेको नित्यः संसारिपुरुषविलक्षणः इत्येवानुमापकमिति यावत् । एकत्त्वे च तत्र न संख्यानानात्वविरोधित्वात् । किन्तु पुरुषद्वयाऽवृत्तिनिरतिशयज्ज्ञानत्त्वावच्छिन्नाधिकरणतावत्त्वम् । अत्माऽनात्मवृत्तिभिन्नदुःखवदवृत्तिद्वित्त्वशून्यत्त्वम् वा । अत्र भिन्नानामीश्वरघटादिद्वित्त्वस्यावृत्यन्तमीश्वरजीवद्वित्वस्य वारणाय घटपटादिद्वित्त्वं च ईदृशं प्रसिद्धमिति दिक् । ननु स्वमते तस्य विज्ज्ञानमानन्दम् इत्यादिश्रुतिभिर्विज्ञानादिस्वरूपतैवाङ्गीक्रियते, न विज्ञानाश्रयत्वम् । अतो बाधितमनुमानमिति चेत् , न स्वमते प्रकाशरूपस्यापि सूर्यादेः प्रभारूपप्रकाशाश्रयत्त्ववत् । ज्ञानरूपस्यापि तस्य “ न हि दृष्टुर्दृष्टेर्विपरिलोपो विद्यते “ इत्यादिश्रुतिभिर्नित्यज्ञानाश्रत्त्वाङ्गीकारेण बाधाभावात् । अत एव प्रयोजकत्वमपि न , श्रुतेरेवानुकूलतर्कस्य सत्वात् । श्रुत्यैकवचनस्य ब्रह्मशिवनारयणपरमात्मेत्यादिनामावगतिरपीत्यास्तां विस्तरः॥२५॥
तस्य भगवतः सर्गाद्युत्पन्नसत्यलोकादिमात्राधिकारिब्रह्मविष्णुरुद्रादिभ्यो भेदं –
यस्य देवे परा भक्तिः यथा देवे तथा गुरौ ।
तस्यै ते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥
इत्यादिश्रुतितः गुरुभक्तेरप्यवश्यकर्तव्यताज्ञापनाय सर्वगुरुत्वं च आह –
स पूर्वेषामपि गुरुः कालेनावच्छेदात् ॥२६॥
स पूर्वेषामिति । स ईश्वरः पूर्वेषामपि सर्गादौ उत्पन्नानां ब्रह्मादीनामपि प्राणिनामस्मदादीनामपि जीवानां गुरुः गृणात्युपदिशत्यपूर्वं दर्शयति, गुं मृत्युं रुध्नाति परिपालनोपदेशादिना वेति गुरुः । पिता अन्तर्यामिविधया ज्ञानोपदेष्टा च ।
यो ब्रह्माणं विदधाति पूर्वं यो वै वेदाँश्च प्रहिणोति तस्मै इत्यादिश्रुतेः । कुतः । कालेनानवच्छेदात् । अनाद्यनन्तत्वादित्यर्थः । द्विपरार्द्धादिकालायुषो७परिगणनादिति यावत् । तथाचायं पूर्णत्वात् परमगुरुः । अन्येचास्यैव ज्ञानशक्त्यवतारा इति ज्ञाने अर्चिता एव भवन्तीति भावः । एतदभिप्रेत्यैवात्र, पितेति पदमपहाय गुरुपदमुपात्तमिति संक्षेपः ॥
अयमत्र निष्कर्षः – श्रुतिस्मृतिपुराणेषु सर्वेषां नाम्नां केवलपरत्वप्रतिपादनाद् गुणातीतः परमात्मैव ब्रह्मविष्ण्वादिपदार्थः । ये तु सत्यलोकादिब्रह्मादयस्ते जीवविशेषा एव, न तु परमेश्वरस्य लीलावताराः । अथाशरीरस्य ब्रह्मण एतास्तनवो वायुरादित्यः कालोऽपः प्राणोऽन्नं ब्रह्मा विष्णू रुद्र इत्येके अन्यमभिध्यायन्त्येके अन्यमित्यादिमैत्रायणीयश्रुतावन्यत्र च श्रुतौ ब्रह्मणो मायिकोऽपि देहो नास्ति । अग्न्यादिदेहा एव देहा इति निर्देशेन ब्रह्मणो मायिकलीलाविग्रहस्याप्यभावादज्ञापनात् । अत एव कालीपुराणादौ नृसिंहवराहशरभानां परस्परोपमर्द्यत्वं, शिवस्य नारायणोपदेश्यत्वं मोहपारवश्यादिकम्, अन्यत्र च नारायणस्य शिवोपदेश्यत्वं वृन्दाशापाद्याक्रान्तत्वं मोहपारवश्यादिकम्, शिवनारायणयोर्द्वयोरपि चतुर्मुखोपदेश्यत्वं चतुर्मुखस्याधिक्यञ्च श्रूयते । चतुर्मुखस्य ब्रह्मणो, यो ब्रह्माणमित्यादिभ्यो जीवत्वं श्रुतिस्मृतिषु स्फुटमेव । तस्मान्न ते लीलावताराः, किन्तु जीवविशेषा एव उपासनार्थं परमेश्वरा उच्यन्ते इति केचित् । तन्न सम्यक् । भक्तानुग्राहकलीलाविग्रहबोधकतापिन्यादिविरोधात् । किन्तु, भूयः सृष्ट्वापतयस्तथेशः सर्वाधिपत्यं कुरुते महात्मेतिश्रुतेस्तल्लोकाधिपतित्वेन ब्रह्मविष्णुरुद्रादीनां नानाविधानां स्रष्टृत्वेन परमात्मनः श्रवणात् । नृसिंहरामगोपालतापिनीकैवल्यादि श्रुतिषु लीलाविग्रहस्याप्याम्नानाच्च ब्रह्मविष्णुरुद्रा द्विविधाः – श्रौताः पौराणाश्चेति । तत्र ये श्रौतास्ते साक्षात् परमेश्वरस्यावताराः । निरवद्यत्वादिश्रवणात् । ये पुनः पौराणाः, ते पुनरविद्यावद्विषयकर्मतत्फलवत्त्वात् संसारिपुरुषविशेषा एव । रागित्वादीनां जीवलिङ्गानां बहुशः श्रवणात् । अत एव न साक्षात् परमेश्वरस्यावतारा यद्यपि तथापि शक्तिशक्तिमदभेदेनोपासनार्थमेव परमेश्वरस्यावतारा यद्यपि तथापि शक्तिशक्तिमदभेदेनोपासनार्थमेव परमेश्वरस्योच्यन्ते, न तत्त्वतः । ब्रह्मविष्णुशिवा ब्रह्मन् प्रधाना ब्रह्मशक्तयः* ततो न्यूनाश्च मैत्रेय देवा यक्षादयस्तथा ॥ ब्रह्मविष्णुमहेशानां यः परः स महेश्वर इत्यादिस्मृतिभिस्तथाऽवगमात् । अतो येऽपि रामादयस्तेषामवतारास्तेऽपि तथैव । तेषाञ्च सर्वेषां जीवत्वेऽपि परमात्मन्येवाहम्भावादीश्वरावतारत्वं स्मृतिषूच्यते । तेऽपि परमेश्वरशक्तिविशेषरूपतया प्रायः पूर्णत्वाल्लीलयैव बहुविधरूपेणाविर्भवन्ति तिरोभवन्ति चेत्यास्तां विस्तरः । सूचितञ्चैतत् प्रकृतसूत्रेण भगवतः सर्वज्ञत्वेन गुरुत्वप्रतिपादनात् ब्रह्मादीनाञ्च शिष्यत्वेन स्वतोऽज्ञत्वज्ञापनादित्यपरे वर्णयन्ति ॥ तदपि न सम्यक् । भक्तिप्रवर्त्तकतन्त्रपुराणेतिहासादीनामानर्थक्यप्रसङ्गात् । अतो वस्तुतो विचित्रानेकशक्तिमत्त्वेनेश्वरत्वात् सर्वसमर्थस्य भक्तानुग्रहादिनिमित्तं तत्तद्र्रूपेण स्वेच्छयैव महदल्पकार्यकर्त्तृत्वमेवोचितम् । अन्यथा विचित्रानन्तशक्तिमत्त्वादिरूपेश्वरत्वानुपपत्तेः । अतो द्वैविध्ये मानाभावादवतारिणोऽवतारेश्योऽधिकत्वेन गुरुत्वव्यपदेशस्यापि सम्भवात् । मैत्रायणीयश्रुतौ तु स्वादृष्टारब्धभोगार्हशरीराभावस्यैव विवक्षणान्न कोऽपि दोष इति न तथा । तथाहि । यद्यपि, एकमेवाद्वितीयम् , एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मेत्यादिश्रुतिभिर्निर्गुण एकरूप एव, तथापि, एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति, अजायमानो बहुधा विजायते इत्यादिश्रुतिभिरन्तर्यामिबहिर्यामिभेदेन द्विविधः । तत्राऽन्तर्यामी अन्तः स्थित्वा प्रेरकः । एष एवात्माऽन्तर्याम्यऽमृत इति श्रुतेः । ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठतीति स्मृतेश्च । स च चिदचितोः प्रेरकत्वाच्चिदन्तर्यामी, अचिदन्तर्यामी चेति द्विविधः । उपासकानां सविग्रहः प्रतिभाति, अन्येषां तु चिन्मात्ररूपेणापि प्रतिभाति । बहिर्यामी बहिः स्थित्वा नियामकः । यथाऽवतारादिः प्रसिद्धः शास्त्रलोकयोः । सोऽपि नित्यविभूतिनिलयो लीलाविभूतिनिलयश्चेति द्विविधः । तत्राद्योऽवतारी प्रागुक्तः । द्वितीयोऽपि व्यूहावतारभेदेन द्विविधः । तत्र व्यूहो विदादिप्रदातृसृष्ट्यादिमात्रसम्पादकगुणद्वयमात्रव्यञ्जकविग्रहवान् । स एव ब्रह्मादिरूपः सन् सर्वदेहेषु व्याप्य स्थितः । सर्गस्थितिप्रलये ब्रह्म स्वयं भवति । षाड्गुण्यपरिपूर्णोऽसौ वासुदेवः सनातनः * त्रिधा कृत्वात्मनो रूपं चतुर्धा कुरुते जगत् ॥ अन्तर्यामित्वमापन्नः सर्गे सम्यक् करोति हीत्यादिस्मृतेः । अवतारस्तु स्वसङ्कल्पपूर्वकपराधीनव्यक्तीकृतदेहो भक्तवात्सल्याद्यनेकगुणोल्बणः। माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद * सर्वभूतगुणैर्युक्तं न तु मां द्रष्टुमर्हसीत्यादिभगवदुक्तेः । सोऽपि विभवार्चादिभेदेन द्विविधः । तत्र विभवावतारो गमनागमनसंश्लेषयोग्यं यथा भवति तथा दिव्यं देहं प्रकटयन् स्थितः । सोऽपि स्वरूपावेशभेदेन द्विविधः । तत्र स्वरूपावतारः सर्वेश्वरः स्वीयाप्राकृतरूपमितरसजातीयतया प्रकटयन् स्थितः । सोऽपि मनुजामनुजभेदेन द्विविधः । तत्र मनुजो रामकृष्णादिर्नराकृतिः । गूढं परं ब्रह्म मनुष्यलिङ्गमित्यादिप्रमाणात् । अमनुजस्तव्यतिरिक्तो देवतिर्यगादिः यथोपेन्द्रमत्स्यादिः । आवेशाऽवतारोऽपि स्वरूपशक्त्यावेशभेदेन द्विविधः । तत्र स्वरूपावेशाऽवतारः केषुचिच्चेतनेषु स्वेन सन्निधीभूय स्थितः । शक्त्यावेशावतारः, तथैव शक्त्या सन्निधीभूयस्थितः । तत्राद्यः कपिलानन्तव्यासपरशुरामप्रभृतिः । द्वितीयः पृथुवन्वन्तरिप्रभृतिः । स्वशक्तिलेशादृतभूतसर्ग इत्यादिस्मृतेः । एवं, यद् यद् विभूतिमत् सत्त्वं श्रीमदूर्जितमेव वा * तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवमित्यादिना भगवतोक्ता आधुनिका अपि महानुभावा मन्तव्याः । अर्चकपराधीनात्मस्थितिः सोऽपि गृहायतनभेदाद् द्विविधः । तत्र गृहार्च्चावतार उपासकैर्गृहदेवालयादौ पूज्यत्वेन स्थापिता मन्त्रादिसंस्कृता मूर्त्तिः । अवतारत्वं तु तस्मिन् मन्त्रादिबलतः सन्निधीभूय भगवतोऽवस्थानात् । आयनार्चावतारस्तु शालग्रामादिषु स्वसंकल्पादिना सन्निधीभूय स्थितः । अत एव तेषां परमात्मत्वेन पूजातः फललाभ उच्यते शास्त्रेषु । अयं विशेषः । यद्यपि चराचरेषु सर्वेष्वपि स एव शक्त्या सन्निहित इति सर्वस्य तदात्मत्वमुक्तं विष्णुपुराणादिषु, एकः समस्तं यदिहाऽस्ति किञ्चित् तदच्युतो नास्ति परं ततोऽन्यत् * सोऽहं स च त्वं स च सर्वमेतदात्मस्वरूपं त्यज भेदमोहमित्यादिना । तथाऽपि विचित्रकार्यानुकूलशक्त्या तेष्वसन्निधानान्न तेषामवतारत्वव्यपदेशः, किन्तु जीवत्वेनास्मदादितुल्यानामपि पृथुप्रभृतीनामेव विचित्रशक्तिदर्शनात् । कृष्णादीनां तु न शक्त्यावेशमात्रेण तथात्वम् । उक्तप्रमाणविरोधात् । सच्चिदानन्दविग्रहं पञ्चपदं वृन्दावनभूरुहतलासीनमित्यादिश्रुत्या स्वरूपविभवावतारत्वज्ञापनाच्च । एवं ब्रह्मविष्णुरुद्राणामपि बोध्यम् । शास्त्रप्रामाण्यात् । अवतारत्वादेव च ब्रह्मादीनां रामादीनां च, लोकवत्तु लीलाकैवल्यन्यायेन स्वीयमैश्वर्यं प्रकटयितुं मनुष्यादिलिङ्गैर्व्यवहरणेऽपि शिष्यत्वेऽपि च न हानिः । जीवलिङ्गानां तेषामन्यथासिद्धत्वेन जीवत्वासाधकत्वात् । अत एव तत्रैकतरालम्बनेनान्यतरस्यापकर्षं वर्णयतां दुर्गतिरपि । एतदभिप्रायेणैव श्रूयते वायुपुराणादिषु । तपसा तोषयित्वा तु पितरं परमेश्वरम् * ब्रह्मनारायणौ पूर्वं रुद्रः कल्पान्तरेऽसृजत् ॥ कल्पान्तरे पुरा ब्रह्मा विष्णुरुद्रौ जनान ह * विष्णुश्च भगवाँस्तद्वद् ब्रह्माणमसृजत् पुनः ॥ नारायणं पुनर्ब्रह्मा ब्रह्माणं च पुनर्भवः * एवं कल्पेषु कल्पेषु ब्रह्मविष्णुमहेश्वराः ॥ परस्परस्माज्जायन्ते परस्परजयैषिणः* तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः ॥ प्रभावः कथ्यते तेषां परस्परसमुद्भवात् * अयं परस्त्वयं नेति संरम्भाभिनिवेशिनः * यातुधाना भविष्यन्ति पिशाचाश्च न संशय इत्यादिना । एवं गीतायां रामकृष्णादीनामपकर्षप्रतिपादने श्रूयते निन्दा, अवजानन्ति मां मूढा मानुषीं तनुमाश्रितमित्यादिना । स्वरूपविभवावतारत्वेन तद्भेदापकर्षादिप्रतिपादनस्यान्याय्यत्वादित्यभिप्रायात्। एतेन यथा भूमौ बीजाङ्कुरद्रुमाः । द्रुमे च फलशलाटवः । तथा शुद्धचैतन्ये परमात्मनि ईशसूत्रविराजः विराजि च मत्स्यकूर्मकृष्णादयोऽस्मदादयश्च । यथा फलान्तर्गते बीजे द्रुमप्रसवासामर्थ्यमस्ति, न शलाटवन्तर्गते । एवं कृष्णादिषु जगत्सृष्टिसामर्थ्यं, नास्मदादिषु । यथा बीजादयो भूमात्राः सत्ताविशिष्टशक्तियोगाद् भूवापूरिता अङ्कुरादिभावं प्रतिपद्यन्ते एवमीशादयोऽपि चिन्मात्रा एव सन्तो मायाशक्तियोगाच्चिदापूरिताः सूत्रादिभावम् । तत्रास्मदादीनां कृष्णादिभावः कीटभृङ्गन्यायेन भावनाजन्यः । विराजादिभावस्तु लवणोदकन्यायेन मनःप्रणिधानप्राप्यः । उपादानोपादानभावत्वाभावसद्भावाभ्यां तथाऽवगमादिति कल्पनं न प्रामाणिकमित्यपि मन्तव्यम् । ईशलिङ्गानां बलवत्त्वादित्यास्तां विस्तरः ॥ २६ ॥
इदानीं परमेश्वरं निरूप्य तत्प्रणिधानं व्याख्यातुं प्रणिधानाऽङ्गमन्त्रमाह –
तस्य वाचकः प्रणवः ॥ २७ ॥
तस्य निरुपाधिकस्येश्वरस्य प्रणवः अखण्डोङ्कारः, वाचकः रूढ्या बोधकं नाम संज्ञारूपकम् । अदृष्टविग्रहो देवो भावग्राह्यो मनोमयः * तस्योङ्कारः स्मृतो नाम तेनाहूतः प्रसीदति इति योगियाज्ञवल्क्यादिस्मृतेः । ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृत इति भगवदुक्तेश्च । अदृष्टविग्रहः अश्रुतशरीरः, भावग्राह्यः भक्तिग्राह्यः । अत एव मनोमयः मनोऽभिलषिताकारः । अथ वा तस्य स्वेच्छचाङ्गीकृतविग्रहावच्छिन्नस्य ब्रह्मादिमूर्त्तित्रयात्मकत्वेन श्रुतस्येश्वरस्य प्रणवः, अश्च उश्च मश्चेत्यकारात्मा अखण्डोङ्कारः । अकारं च उकारं च मकारं च प्रजापतिः * वेदत्रयात् समुद्धृत्य ॐङ्कारं निर्ममे पुरा इति मनुनोक्तेः । वाचकः प्रत्येकशक्त्या बोधकं नाम यौगिकम् । अकारं ब्रह्माणम्, उकारं विष्णुं, मकारं रुद्रमिति श्रुतेः । अत्र प्रतिपद्यस्येशस्यैकत्वेऽपि पदार्थतावच्छेदकानां भेदेन द्वन्द्वः । तस्यैव प्रातिभासिकभेदेन वा द्वन्द्वः । तत्र भेदाभेदयोस्तु मानं, ब्रह्माणमेव विष्णुमेव रुद्रमेव विभक्तांस्त्रीणि वा विभक्तानीत्यादि श्रुतिः । अखण्डाऽर्थपक्षे तु तस्य जीवपरयोरभेदरूपाखण्डार्थस्य परमात्मनः प्रणवः, अखण्ड एवोङ्कारः, वाचकः । अकारस्य जीवे, मकारस्य ब्रह्मणि, उकारस्य भेद इति प्रत्येकशक्त्या बोधकं नाम योगिकमेव । अकारेण मामात्मानमन्विच्च मकारेण ब्रह्मणा अनुसंदध्यादुकारेणाविचिकित्सान्नित्यादिश्रुतेः । अत्र समस्तं व्यस्तं – त्वां शरणद गृणाम्योमिति पदमिति स्मृतेः । सर्वेषां पक्षाणां युक्तत्वेऽप्ययं पक्षो युक्ततमः । तत्त्वमसीत्यादिमहावाक्यबोधिताभेदस्य लाभात् । तापिन्यादौ तथैव व्युत्पादनाच्च । अत एवास्मण्डात् सखण्ड एवोङ्कारो मनुनाव्यादृतः । तन्त्रे च, हंस इत्यजपां नित्यं श्वासप्रश्वासगां बुधः* विपरीतां तु तां कृत्वा सोऽहमेकत्वसिद्धये ॥ अन्योऽन्यं सहयोर्लोपात् सिद्ध्यस्योङ्कारशब्दकः * अपूर्वोऽयमुपास्याथ ब्रह्म सद्यो भवेन्नरः ॥ केवलोऽयं यतेरेव सहकञ्चुकितः पुनः * उपास्योऽयं मनुष्याणां सर्वेषां यतिनां मत इत्यभेदार्थकाऽजपामूल उक्तः । अस्मिन् पक्षे च अश्चासौवुश्चेत्यादिकर्म्मधारय एव । अभेदस्य प्रतिपादयिषितत्वात् ॥
अत्रायं निष्कर्षः । प्रणवो न गवादिवत् केवलं, रूढं नाम । अवयवशक्त्याऽवयवार्थस्यापि बोधनात् । नापि पाचकादिपदवद्यौगिकमेव । रूढ्याऽखण्डितार्थस्यापि बोधनात् । नापि पङ्कजादिपदवद् योगरूढम् । यौगुकार्थान्वितरूढ्यर्थावच्छिन्नस्यैकस्याबोधनात् । नापि चैत्रादिपदवच्छरीरशक्तविष्ण्वादिपदपर्यायाणाम् अकारादीनामपि शरीरशक्तानामात्मनि लाक्षणीकत्वात् तदात्मोङ्कारो लक्षकं नाम सर्वं वेत्ति विष्णुरित्यादौ ज्ञानाश्रयत्वस्य शरीरे बाधेन विष्ण्वादिपदानामात्मन्येव शक्त्यङ्गीकारात् तात्पर्याणामपि अकारादिपदानामात्मनि शक्तेरेवाङ्गीकारात् । ॐङ्कारनिविष्टाकारादीनां शास्त्रगृहीतसङ्केतेन अज्ञातार्थज्ञापकानामसति बाधके बलवत्तरे लाक्षणिकत्वायोगाच्च । न विधौ परःशब्द इति न्यायात् । तस्मान्मण्डपादिपदवद् रूढयौगिकम् । समुदायशक्त्यवयवशक्तिभ्यां प्रत्येकमेव रूढ्यर्थावयवार्थयोर्बोधजननात् । यथा मडपपदं मण्डपे शेते इत्यादौ समुदायशक्त्या स्थण्डिलमेव बोधयति, न मण्डपायिनम् । मण्डपं भोजयेत्यादौ त्ववयवशक्त्या मण्डपायिनमेव बोधयतीति न स्थण्डिलम् । एवं प्रणवोऽपि समुदायशक्त्या निरुपाधिकमेवेश्वरं बोधयति, प्रत्येकशक्त्या ब्रह्मादीन् अभेदञ्च बोधयतीति दिक् ॥
अत्र प्रणवस्य वाचकत्वकथनादीश्वरो वाच्य इति लब्धम् । सोऽयं वाच्यवाचकताभावः स्वरूपसम्बन्धविशेषोऽतिरिक्तो विभागरूपो वा, योऽर्थः स शब्दः, यः शब्दः सोऽर्थ इति शब्दार्थयोराहार्यऽन्योन्याभेदाध्यासरूपेणेश्वरसङ्केतेन, ॐमित्येतदक्षरमिदं सर्वम्, ॐमित्येकाक्षरं ब्रह्मेत्यादिश्रुतिस्मृतिमूलकेन द्योत्यते । न तु नैयायिकानामिव जन्यते । ईश्वरस्य स्वतन्त्रतया सर्गान्तरे तदीयसङ्केतभेदेन शब्दाऽर्थभेदप्रसङ्गात् । एतन्मते च सत्कार्यवादस्याऽङ्गीकारात् सम्बन्धस्य सदा समानरूपतया प्रलयोऽपि विद्यमानस्य सर्गान्तरे प्रकाशनान्न दोष इति संक्षेपः ॥
ननु भवत्येवं वाच्यवाचकभावस्तथाऽपि कथं प्रणवस्यैवात्राऽऽदरः । न च परमात्ममन्त्रत्वविशेषादितिवाच्यम् । सगुणशिवरामाऽऽदीनामपि परमात्मत्वेनैवोपास्यतया तत्तदाराधनप्रणवान्यमन्त्राणामपि परमात्ममन्त्रत्वस्य तत्तद्रूपाकर्षणरूपफलस्य च अधिकस्य तत्तत्तापिन्यादिषु प्रतिपादनात् । अतस्तद्वाचकस्तन्मन्त्र इत्येव वक्तुं युक्तमिति चेत् सत्यम् । यद्यप्येवं तथाऽपि तद्यथा शङ्कुना सर्वाणि पर्णानि संतृणास्येवमेवोङ्कारेण सर्वा वाक् संतृण्णा इति श्रुत्या ऋग्वेदः स्यादकाराद्य उकारान्तं यजुर्मतम् * सामवेदो मकारान्तः सर्वग्राही ततो ध्रुवः ॥ षडङ्गन्यायमीमांसा पुराणं स्मृतिपूर्वकम् * वेदेऽन्तर्भूतमेव स्यात् सर्ववेदाश्च तारगाः * अहयोर्मध्यगा वर्णा लक्षौ कषलगौ यतः ॥ अकारः प्रकृतिस्तत्र हकारःप्रकृतिर्मता * तथा प्रणवगोकारो जीवात्मा पुरुषः स्मृतः ॥ उकारः प्रकृतिरूपत्वात् प्रकृतिः सहरूपिणी* पुम्प्रकृत्यात्मका वर्णांस्तस्मादम्मध्यगाः सदा ॥ क्षराऽक्षरपरो देवो मकारः परमेश्वर इत्यादिस्मृत्या च सर्वेषामानुपूर्वीविशेषविशिष्टवर्णरूपाणां मन्त्राणां प्रणव एवान्तर्भावितत्वात् तदाराधनेनैव सर्वाराधनतत्फले स्त इत्यभिप्रेत्य, एतद्वैसत्यकाम परञ्चापरञ्च ब्रह्म यदोङ्कारः यश्छन्दसाम् ऋषभो विश्वरूपः । ओमितीदं सर्वं, सर्वे वेदा यत् पदमामनन्ति, एतदालम्बनं श्रेष्ठं धनुर्गृहीत्वोपनिषदं महास्त्रं प्रणवो धनुः, एतद्वै महोपनिषत्, ब्रह्मसंस्थोऽमृतत्वमिति, प्रणवेनैव तस्मिन्नवस्थिता ॐङ्कारे परे ब्रह्मणि पर्यवसितो भवेत् प्रणवमेवानुसन्दध्यादित्यादिश्रुतिभिः श्रेष्टत्वमभिसन्धाय तस्यैव मुमुक्षुजनाराध्यत्वप्रतिपादनात् । उदाहृतयाज्ञवल्क्यस्मृतौ, मनोमयस्तेनाहृत इति पदाभ्यां ध्यानविशेषयोगेन तत्तद्रूपाकर्षकत्वज्ञापनाच्च सर्वमन्त्ररूपत्वसर्वमन्त्रफलदातृत्वादिहेतुभिः सर्वाधिकोऽयमेवेति, तस्य वाचकस्तन्मन्त्र इति । विहाय तस्य वाचकः प्रणव इत्युक्तम् । अन्ये मन्त्राश्चैतन्मन्त्रव्याख्यारूपा अधिकारिविशेषाराध्यरूपा इत्यनवद्यम् । उपाधिभेदेनाऽप्युपास्यभेदो व्यावहारिकोऽपि नास्ति । नात्र काचन भिदास्ति, नैवात्र काचन भिदाऽस्तीत्यादिश्रुतेरिति सूचयितुं तस्येति व्यस्तैकवचननिर्देशः । तस्य वाचक ॐमितिविहाय तस्य वाचकः प्रणव इति निर्देशस्तु ॐमित्यस्यातिरहस्यत्वेन गोप्यत्वाय । अथ कस्मादुच्यते प्रणवः ? यस्मादुच्चार्यमाण एव ऋग्यजुः सामाऽथर्वाङ्गिरसः ब्रह्म ब्रह्मणेभ्यः प्रणामयति नामयति च तस्मादुच्यते प्रणव इति । प्रणवशब्दं व्युत्पादयन्त्याः श्रुत्या अनुसारात् तत्तदर्थकमन्त्रान्तरेणाऽपि बह्वीभावसूचनायेति दिक् ॥ यद्यप्येवं तथाऽपि, तज्जप इत्यत्र लक्षितलक्षणया प्रणवोपस्थापितस्य ॐमित्यस्यैव मुख्यतया ग्रहणम् । अथ कस्मादुच्यते ॐङ्कार इत्यादिश्रुत्या तस्यैव विशिष्टफलदत्वेन मन्त्रराजत्वेन चाभिषिक्तत्वादिति दिक्॥२७॥
एवं वाचकमुक्त्वा तेनैव समाधिगम्यस्य परमात्मनो मानान्तराऽविषयस्य भावेन तदनुसन्धानं विना न सम्भवतीति तदनुसन्धानरूपं जपं स्वजन्यादृष्टेन दुरितनिवृत्त्यात्मप्रकाशायावश्यमावर्त्तनीयं प्रथमतस्तदनु चाऽनुग्रहद्वारा आत्मप्रकाशकमर्थभावनरूपं प्रणिधानमाह –
तज्जपस्तदर्थभावनम् ॥ २८ ॥
तज्जप इति तस्य प्रणवस्य जपः विधिवदुच्चारणं, तदर्थस्य प्रणवार्थस्य अचिन्त्यैश्वर्यशक्तियुक्तस्य परमात्मनो भावनं प्रकृतितत्कार्यपुरुषेभ्यो विवेकेनानुसन्धानम् । व्यक्ताव्यक्ते च पुरुषस्तिस्रो मात्राः प्रकीर्तिताः* अर्धमात्रा परं ब्रह्म ज्ञेयमध्यात्मचिन्तकैरित्यादिगरुडवाक्येभ्यः । अथवा तदर्थस्य परमात्मनः पूर्णस्य भावनं जीवाभेदेन पुनः पुनश्चेतसि निवेशनम् । तमेतमात्मानम् ॐमिति ब्रह्मणैकीकृत्य ब्रह्म वात्मनोमित्येकीकृत्य इति श्रुतेः । वस्तुतस्तु, अकारेण ममात्मानमन्विष्य मकारेण ब्रह्मणाऽनुसंदध्यात् उकारेणाऽविचिकित्सित इत्यादिश्रुतेस्तदर्थस्य जीवपरमात्मनोरभेदस्यैतन्मते द्रव्यगुणयोरिवाविनाभावरूपस्य भावेन चिन्तनमित्यर्थः । जपपूर्वकं भावनं कर्त्तव्यम् । प्रणवेन परं ब्रह्म ध्यायीत नियतो यतिः * जपँश्च प्रणवं नित्यं ब्रह्मविष्णुशिवात्मकम् ॥ कोटिसूर्यसमं तेजो ध्यायेदात्मनि निर्मलमित्यादिस्मृतेः । तदेवं भक्तियोगेन भगवदनुग्रहस्ततः परवैराग्यादसंज्ञातसमाधिलाभः ॥ २८ ॥
किञ्च, जप इत्यनेन मन्त्रयोगः, अर्थभावनमित्यनेन विवेकज्ञानाऽभ्यासरूपो ज्ञानयोगः, अभेदभावरूपोऽद्वैतयोगश्च संगृहीतः । त्रिविधस्याप्येतस्य प्रणिधानस्य क्लृप्तकारणताकस्वोचितकर्म्माद्धिसुसमाध्यन्तस्साधनं विनाप्यनुपदमेव वक्ष्यमाणरीत्या साक्षात्परम्परया वा धर्मार्थकाममोक्षरूपपुरुषार्थचतुष्टयसाधनत्वमस्तीत्यावश्यकत्वमभिप्रेत्य फलान्तरमाह –
ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ २९ ॥
ततस्त्रिविधयोगरूपादीश्वरप्रणिधानात् प्रत्यक्चेतनाधिगमः । प्रतीपं विपरीतमञ्चति विजानातीति प्रत्यगत्र भ्रान्तो जीवपदाभिधेयः, चेतनोऽत्र, नित्यो नित्यानां चेतनश्चेतनानामितिश्रुतिप्रमित ईशपदाभिधेयः । तयोरधिगमः साक्षात्कारः । स च तत्र जीवस्य स्वस्य, नास्मि न मे नाऽहमित्याद्याकारो रूढः साक्षात्कैवल्यहेतुः । तमेव विदित्वाऽतिमृत्युमेतीत्यादिश्रुतेः । विरोधिविषयकत्वेन स्वाज्ञानोच्छेदक्षमत्वाच्च । ईशस्य च सर्वकल्याणगुणपूर्णः सर्वनियन्ता प्रकृतितत्कार्यतदभिमानिपुरुषेभ्यो भिन्न इत्याकारः परोक्षो, वासुदेवः सर्वमित्याकारो वा यथाधिकारं परोक्षोऽपरोक्षो वा रूढो भक्तानुग्रहाऽर्थमभिव्यक्तसाक्षात्कारोऽपरोक्षोऽर्ज्जुनमुचुकुन्दप्रह्लादादीनां श्रीकृष्णनरसिंहरूपो वा यद्यपि न साक्षात्कैवल्यहेतुः सम्भवति । अविरोधित्वेन तस्य तदज्ञाननाशेऽसमर्थत्वात् । तथापि स प्रत्यगात्मनः स्वात्मसाक्षात्कारद्वारा वस्तुतस्तदज्ञानादेव तदभजनाज्जाततत्कोपेन स्वाऽज्ञानधाराभिर्विविधबन्धदर्शनात् तद्विषयकज्ञानमेव स्वाज्ञानद्वारा सर्वानर्थहेतुरिति तदज्ञानापनयनेन स्वाज्ञानोच्छेदद्वारा वा कैवल्यहेतुः । ब्रह्मविदाप्नोति परं, ज्ञात्वा देवं मुच्यते सर्वपाशैरित्यादिश्रुतिभिर्बहुशस्तस्यापि मोक्षहेतुत्वबोधनात् । पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययाविति सूत्रयता व्यासेन तथा ज्ञापनाच्च । वस्तुतस्तयोरधिगमस्तत्त्वमस्यादिवाक्यबोधिताभेदसाक्षात्कारस्तत्त्वम्पदार्थयोः शुद्धयोर्न भेद इत्याकारः, शुद्धस्त्वम्पदार्थो जगत्कर्तृतत्पदार्थाऽविनाभृत इत्याकारो वा विशिष्टाद्वैतसंमतः । भवन्ति ज्ञानिनो नित्यं सर्वतश्च निरागमाः * ऐकात्म्यं नाम कश्चिद्धि कदाचित् प्रतिपद्यते इत्यादिमहाभारवाक्यैस्तस्यैव दुर्लभत्वेनोपाधेयत्वज्ञापनात् । अपूर्वाबाधितार्थविषयकत्वेनाविद्योच्छेदक्षमत्वाच्च । तत्र तदुभयसाक्षात्कारं प्रति समानविषयतया तदुभयार्थभावनस्य युक्तितो हेतुत्वलाभेऽपि केवलं यथाकथञ्चिदप्याचरितमीश्वरभावनरूपेश्वरप्रनीधानमेवाऽऽशुप्रसादादिद्वारा तदुभयसाक्षात्कार-हेतुर्भवतीत्यभिप्रेत्य, स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् * ध्याननिर्मथनाभ्यासाद् देवं पश्येन्निगूढवदित्यादिश्रुतिभिः तस्मात् सर्वेषु कालेषु मामनुस्मरेत्यादिभगवद्वाक्यैरेव तदुभयादिसाक्षात्कारसाधनतयाऽवगतमिति मुख्यतया अत्रादरितम् । तस्य च न केवलं मोक्षरूपामुष्मिकफलसाधनतदुभयसाक्षात्कार एव फलम्, अपि त्वैहिकामुष्मिकफलतत्साधनप्रतिबन्धकानां विविधान्तरायाणामभावादिरपीत्याह – अप्यन्तरायाभावश्चेति ॥ वक्ष्यमाणानामन्तरायाणामभावो विनाशः, चकाराद् विविधभोगहेतवः सिद्धयश्च भवन्तीत्यर्थः । तस्य ह न देवाश्च नाऽभृत्या ईशते आत्मा ह्येषां भवतीति । यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते इत्यादि श्रुतेः । तत्रापि, ब्रह्मोडुपेन प्रतरेत विद्वान् स्रोतांसि सर्वाणि भयावहानीति श्रुतेः साक्षादनन्तरायाऽभावफलकस्य जपस्यात्मसाक्षात्कारो द्रष्टृद्वारा फलं जनयन् सिद्धिमवाप्नोति । जपतो नास्ति पातकमित्यादिस्मृतिभिस्तथा प्रतिपादनात् । अर्थभावनस्य त्वन्तरायाऽभावो नान्तरीयकं फलम् । लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः * येषां हृदिस्थो भगवान् मङ्गलायतनं हरिर्यादिस्मृतिभिस्तथा ज्ञापनात् ॥
वृद्धास्तु प्रत्यक्चेतनपदं केवलजीवपरं नयन्तस्तत्साक्षारस्यैवादृष्टद्वारार्थभावनफलत्वं विघ्ननिवृत्तेश्च जयफलत्वं, समुदितस्य समुदितफलत्वं प्राहुः ॥ २९ ॥
अन्तरायानाह –
व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनाऽलब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ॥ ३० ॥
ये चित्तं तत्फलसाधनेभ्यो योगादिभ्यो विक्षिपन्ति ते विक्षेपा ऐहिकामुष्मिकफलप्रतिबन्धरूपा योगाद्यन्तराया नव । तत्र व्याधिः धातुरसेन्द्रियनिमित्तो ज्वरादिः । स्त्यानं, चित्तस्य लघुत्वेऽपि चञ्चलादिना कर्मानर्हता । संशयः, सिद्ध्यति न वेत्युभयकोटिको विपर्ययः । प्रमादः, कामादिः। आलस्यं, योगानुष्ठाने प्रवृत्तिविरोधिकफादिना कायगुरुत्वं, तमसा चित्तगुरुत्वञ्च । अविरतिः, विषयतृष्णा । भ्रान्तिदर्शनम् इदं कर्म न सिद्ध्यति, न वेत्येककोटिको विपर्ययः । अलब्धभूमिकत्वं समाधिभूम्यलाभः । मधुमत्यादयः समाधिभूमयो वक्ष्यन्ते । अनवस्थितत्वं लब्धानां भूमौ चित्तस्याऽस्थिरत्वम् । पूर्वभूमौ हि स्थिरं चित्तमुत्तरां भूमिं जयेत् । तस्मादस्थिरत्वं दोषः ॥ ३० ॥
न केवलमेते योगादिसाधनान्तरायाः, किन्तु दुःखादिरूपाऽन्तरायानपि कुर्वन्तीत्याह –
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ ३१ ॥
दुःखेति ॥ दुःखं शारीरं मानसञ्चाध्यात्मिकम् । तत्र शारीरं व्याधिवशात् । द्वितीयं कामादिवशात् । व्याघ्रसर्पादिजनितमाधिभौतिकम् । ग्रहपीडादिजमाधिदैविकम् । दौर्मनस्यम् इच्छाविघातात् क्षौभो मनसि । अङ्गमेजयत्वम् अङ्गानां कम्पः । श्वासः बाह्यवायोर्नियमेनाऽन्तःप्रवेशः समाध्यङ्गरेचकविरोधी । प्रश्वासः कौष्ठ्यस्य वायोर्नियमेन बहिर्गमनं पूरकविरोधी । प्रश्वासः कौष्ठ्यस्य वायोर्नियमेन बहिर्गमनं पूरकविरोधी । एते विक्षेपसहभुवः । विक्षेपेषूत्पन्नेषु भवन्तीत्यर्थः ॥ ३१ ॥
अथ कृष्यादिवद् बह्वायाससाध्यानां कर्म्मणां साङ्गानामेव यथोचितफलदातृत्वेन यथाकथञ्चित् क्रियमाणानां फलदातृत्वाभावाच्छ्रमाद्यनेकदुःखफलकत्वदर्शनाद् वर्णाश्रमाभिमानादिनिबन्धनत्वेन परमश्रेयोऽपघातित्वाच्च नातिप्राशस्त्यं, न वा विद्वदुपादेयत्त्वं युक्तं, किन्तु भगवद्भजनस्यैवाग्निवदपूर्णस्याप्यस्य, स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयादिति वदता भगवता महाफलत्वप्रतिपादनात् । यथाऽग्निकणोऽतिस्वल्पोऽपि तृणाराशिं ज्वालयंस्तेनैव वर्द्धितः पूर्णः सर्वाणि सूचितानि कर्य्याणि जनयति तथा भगवतो यथाकथञ्चिन्नामोच्चारणादिरूपमपि प्रणिधानम् अजामिलादेरिवपापराशिं नाशयत् तेन नाशेनैवाधिकं सम्पाद्यमानं श्रद्धादिना पूर्णं भजनीय इच्छासहकृत सर्वाभिलषितं साधयति । तस्मात् प्रणिधानमेवावश्यकम् । तच्च चतुर्विधं, परममुख्यं, मुख्यं, मुख्यजातीयं, मुख्यकल्पञ्चेति तत्राद्यं गोपीनामिव तद्गुणगणश्रवणादिना द्रुतचेतसोद्रुतताम्रस्येव दृढतदाकारतातद्विषयकवृत्तिप्रवाहरूपं प्रेम । मय्येव मन आधत्स्व मयि बुद्धिं निवेशयेत्यादिनोक्तम् । अनेन प्रेमभक्तियोगो दर्शितः । स च परमेश्वरचरणारविन्दविषयकैकान्तिकात्यन्तिक-प्रेमप्रवाहोऽनवच्छिन्न इत्यर्थः । द्वितीयं तदसामर्थ्ये बहिः प्रवृत्तिस्वभावस्य मनसः प्रत्याहारेण पुनः पुनर्भगवत्यात्मनि निवेशनरूपोऽभ्यासो निदिध्यासनाख्यः । अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् * अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जयेत्याद्युक्तम् । तृतीयन्तु तदसार्थ्येऽपि तत्प्रतीतिफलकनामोच्चारणैकादश्युपवासादिरूपं कर्म्म । अभ्यासेऽप्यसमर्थोऽसि मत्कर्म्मपरमो भवेत्यादिनोक्तम् । चतुर्थं तत्राऽप्यसामर्थ्ये स्वभावत एव कृतानामपि कर्म्मणां फलेच्छां त्यक्त्वा परमेश्वरे परमगुरावर्पणम् । साधु वाऽसाधु वा कर्म यद्यदाचरितं मया * तत्सर्वं त्वयि संन्यस्तं त्वत्प्रयुक्तः करोम्यहमिति संकल्पविशेषरूपम् । अथैतदप्यशक्तोऽसि कर्त्तुं मद्योगमाश्रितः* सर्वकर्मफलत्यागं ततः कुरु यतात्मवानित्यादिनोक्तं, भगवद्गीताद्वादशाध्यये । अत्र च प्रणिधानशब्देनोक्तम् ।तत्र निदिध्यासनं समानविषयतया साक्षात्कारजनकत्वसाधनं कर्म्मादियोगेभ्यश्चान्तरङ्गमित्यभिप्रेत्य, अर्थभावनशब्देन पूर्वमादृतं यद्यपि तथाप्यदृष्टद्वारा कृपातिशयफलकादन्तरायाभावफलकाच्च तस्मात् परमं मुख्यं भक्तियोगं सर्वोपायफलभूतमयमत एव तदुभयफलकं प्रेमाख्यमभ्यासमाह –
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२ ॥
तत्प्रतिषेधेति ॥ तेषां विक्षेपाणां प्रतिषेधार्थम् अनायासेन नाशार्थम् एकस्मिँस्तत्त्वे मुख्यभागवति, अभ्यासः गोपीनामिव तद्गुणगणश्रवणादिना द्रवीभूतस्य चेतसो मूषानिक्षिप्तद्रुतताम्रस्येव दृढतदाकारतारूपप्रेम, अभ्यासयोगयुक्तेन चेतसा नान्यगामिनेत्यादिना भगवत्सूचितः कार्य्य इत्यर्थः । यद्बलादनायासेन सम्पन्नायां जीवन्मुक्तौ विक्षेपाः प्रशममुपयान्ति । न वासुदेवभक्तानामशुभं विद्यते क्वचिदित्यादिस्मृतेः । अथवा, एकं सजातीयविजातीयस्वगतभेदरहितं तत्त्वमनारोपितमखण्डार्थ इति यावत् । तस्य अभ्यासः तदेकमजरममृतमभयमिति वृत्तिप्रवाहः । कार्य्यं इत्यर्थः । अत्रात्मव्यतिरेकेण द्वितीयं यो न पश्यति * आत्मारामः स योगीन्द्रो ब्रह्मीभूतो भवेदिह ॥ आत्मक्रीडस्य सततं सदात्ममित्युनस्य च* आत्मन्येव सुतृप्तस्य योगसिद्धिरदूरतः ॥ अभियोगात् सदाभ्यासात् तत्रैव च विनिश्चयात्* पुनः पुनरनिर्वेदात् सिद्ध्येद् योगो, न चान्यथेति स्कान्दोक्तेः । तस्मात् सगुणात्मवदाकाराकारधारावाहिवृत्तिप्रवाहः सविकल्पो, निर्गुणगोचरो धारावाहिको निर्विकल्पको वा कार्य्योऽनायासेन मोक्षमिच्छतेति यावत् ॥ ३२ ॥
तस्य चित्तस्यासूयादिमलवतो योगासम्भवात् तन्निरासोपायं चार्थायोगमाह –
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥ ३३ ॥
मैत्रीकरुणेति ॥ अत्र सुखादिशब्दास्तद्वत्पराः । तथाच सुखिषु मैत्रीं सौहार्दम् ईर्ष्याकालुष्यनिवर्त्तकं, दुःखिषु करुणां दयामसूयाकालुष्यनिवर्त्तिकां, पुण्यवृत्तिषु हर्षं द्वेषनिवर्त्तकम्, अपुण्यशब्दितपापिषु उपेक्षाम् अमर्षकालुष्यनिवर्त्तिकां भावयेत् । तदेवं चर्य्यायोगेन चित्तमलनिरासकेन मुख्यादिषु यथाक्रममुक्तभावनारूपेण सात्त्विको धर्म्मो जायते । तेन च शुक्लेन धर्म्मेण चित्तं प्रसन्नं भवति । प्रसादे च स्थितिपदं लभते । एतच्च पुष्कलं विरक्तस्यैव सम्भवतीति मुख्यचर्यायोगो वैराग्यमेवेति संक्षेपः ॥ ३३ ॥
एवं मैत्र्यादिभावनया प्रसन्नस्य चित्तस्य स्थित्युपायं हठयोगमाह –
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ ३४ ॥
प्रच्छर्दनेति ॥ कौष्ठ्यस्य वायोः प्रच्छर्दनम् एकतरनासापुटेन मात्राप्रमाणेन शनैः शनैर्बहिर्निःसारणम् । विधारणं रेचितस्य वायोर्बहिरेव स्थापनं कुम्भकं, न तु सहसा प्रवेशनम् । तथाचात्र पूरकवर्ज्जनाद्रेचितपूरितशान्तप्रत्याहारोत्तराधरसमभेदेन सप्तकुम्भकेषु मध्ये रेचितकुम्भकोऽयं प्रथमाभ्यासेऽनेकनियमानपेक्षितया प्रशस्तः । सर्वमेतदग्रे प्राणायामप्रकरणे स्फुटीभविष्यति । तदेताभ्यां प्राणजये चित्तजयस्तयोरविनाभावात् प्राणायामस्य सर्वपापनाशकत्वात् पापनिवृत्त्या च चित्तमेकत्र लक्ष्ये स्थिरं भवति । वाशब्दः सूत्रे वक्ष्यमाणोपायविकल्पार्थः । प्राणायामस्य हठयोगत्वमुक्तं स्मृतौ – हकारेण तु सूर्योऽसौ ठकारेणेन्दुरुच्यते* सूर्य्याचन्द्रमसोरैक्यं हठ इत्यभिधीयते ॥ सूर्य्यचन्द्राख्ययोः प्राणायामयोरैक्यलक्षणः* हठयोगो योगबीजं प्राणायामः प्रकीर्त्यत इति ॥ ३४ ॥
लक्ष्ययोगस्वरूपमुपायान्तरमाह –
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥ ३५ ॥
विषयवतीति ॥ नासाग्रादौ चित्तस्य सँय्यमरूपाल्लक्ष्ययोगाद्दिव्यगन्धादिसाक्षात्कारो भवति । सेयं विषयवती प्रवृत्तिर्विश्वासमुत्पाद्य परमेश्वरादावतिसूक्ष्मे मनसः स्थितिं सम्पादयतीत्यर्थः । तथाच शास्त्रीयानुभवविशेषे जाते श्रद्धया योगिनो ध्यानादौ स्थिरा भवतीत्ययं लक्ष्ययोगः । या हि नासादिदेशेषु दृष्टिः पुंसां स्थिरा भवेत्* स लक्ष्ययोगमाख्यातो योगे भद्धाकरः पर इति स्मृतेरिति ॥ ३५ ॥
ब्रह्मयोगं शिवयोगञ्चाह –
विशोका वा ज्योतिष्मती ॥ ३६ ॥
विशोकेति ॥ अष्टदलादौ नादाख्ये ब्रह्मणि मनसः संयोगाद् विशोका बहुतरसाधनाद्यायासकृतदुःखशून्या ज्योतिष्मती ज्योतिर्विषया नादगतचिदानन्दविषया संविन्मनसः स्थितिहेतुरित्यर्थः । तथाह्ययमत्र क्रमः । हृदयाधोऽधोमुखमष्टदलं कमलं रेचकेणोर्ध्वमुखं विभाव्य तत्र सूर्यमण्डलं द्वादशकलात्मकं स्वप्नस्थानमुकारं, तदुपरि वह्निमण्डलं दशकलात्मकं सुषुप्तिस्थानं मकारं, तदुपरि नादाख्यां तुरीयं ब्रह्म विभावयेदिति ब्रह्मयोगः । तदुक्तं गीतासारे – अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः* ध्वनेरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः ॥ तन्मनो विमलं याति तद्विष्णोः परमं पदम् ॥ हंसोपनिषदि चोक्तः – हंसानुसन्धानफाभूतोऽनेकविधः सफलः । अस्यैव जपकोट्या नादमनुभावयति यस्तस्य दशविध उपजायते । चिणीति प्रथमः, चिणिचिणीति द्वितीयः, घण्टानादस्तृतीयः, शङ्खनादश्चतुर्थः, पञ्चमस्तन्त्रीनादः षष्ठस्तलनादः, सप्तमो वेणुनादः, अष्टमो भेरीनादो, नवमो मृदङ्गनादो, दशमो मेघनादः । नवमं परित्यज्य दशममेवाऽभ्यसेत् । तस्मान्मनोविलीने मनसि गते संकल्पविकल्पे दग्धपुण्यपापे सदाशिवो मशक्त्यात्मना सर्वत्राऽवस्थितः शान्तः प्रकाशयति इत्यादिना । अतः संगृहीतः कलिदासेनापि –
आनन्दलक्षणमनाहतनाम्नि देशे
नादात्मना परिगतं तव रूपमीशे ।
प्रत्यङ्मुखेना मनसा परिचीयमानं
शंसन्ति नेत्रसलिलैः पुलकैश्च धन्या, इति ॥
अथवा भ्रूमध्यादौ ज्योतीरूपे प्रत्यगात्मनि बहिर्दृष्टिबन्धेन मनसः संयमाद् विशोका । हठयोगादाविवायासकृतक्लेशरहिता ज्योतिष्मती साक्षिविषया संविन्मनसः स्थैर्य्यहेतुरिति शिवयोगः । अयमेव शाम्भवी मुद्रेत्युच्यते । तदुक्तम् – अन्तर्ल्लक्ष्या बहिर्दृष्टिर्न्निमेषोन्मेषवर्ज्जिता* एषा हि शाम्भवी मुद्रा सर्वतन्त्रेषु गोपिता । सा च, योगासनचाञ्चरीभुचरीखेचर्यऽगोचरीनिर्वाणमुद्राभिः सिद्ध्यति । प्रकारस्तु गुरुमुखादवगन्तव्यः । यद्यप्यनेनाऽऽत्मसाक्षात्कारेण कृतार्थत्वन्नास्य स्थितिविशेषतयोपन्यासो युक्तस्तथापि कृताऽऽत्मसात्क्षाकारेणाऽपि परवैराग्यार्थमभ्यासापेक्षणात् तथोक्तम् । स्वविषयस्थैर्य्यहेतुत्वाच्चान्यविषयकस्थैर्य्यहेतोः पूर्वयोगाद्भेद इति संक्षेपः ॥ ३६ ॥
अवान्तरवासनायोगमाह –
वीतरागविषयं वा चित्तम् ॥ ३७ ॥
वीतरागविषयं वेति ॥ वीतरागं निर्वासनं यत् सनकादीनां चित्तं तद्विषयं तद्विभावनपरं कुर्यात् । निर्वासनवासितमन्तःकरणं कुर्यादिति यावत् । अनेनात्र योगिनो मुमुक्षालाभेन वासनायोगो दर्शितः । उक्तञ्च स्मृतौ, सत्त्वावलम्बनं यत्तद् बीजं चित्तविशोधने* भवेत् स वासनायोगो योगान्तरविवर्द्धक इति । अन्यापि चित्तं स्वभावतः सत्त्वप्रधानमपि तमसा पिहितमस्ति । तत् सात्त्विकभावनया तमोविगमे लब्धवृत्तिकं भवति । तेजःप्रतिबन्धजलशौत्यवदिति विनैव साधनान्तरं योगिनो मोक्षसुखनिष्ठासम्भवात्। अयं शुभो वासनायोगो विरुद्धवासनानिवर्त्तक इति ॥ ३७ ॥
वासनायोगस्यावान्तरं भेदमाह –
स्वप्ननिद्राज्ञानालम्बनं वा ॥ ३८ ॥
स्वप्नेति ॥ अत्र ज्ञानशब्दो ज्ञेयपरः। स्वप्ने भगवतो यद्रूपं प्रियमाराधयन्नेव प्रबुद्ध, एवं निद्रादौ यत्सुखमनुभूयते तदवलम्बनं तद्विभावनपरं चित्तं कुर्य्यात् । पूर्ववासनाप्राप्तसत्त्वप्रधानमेवान्तःकरणं कुर्य्यादिति यावत् ॥ ३८ ॥
ध्यानयोगमाह –
यथाभिमतध्यानाद्वा ॥ ३९ ॥
यथेति ॥ किम्बहुना, हरिरामादिरूपं पारमेश्वरं बाह्यं चन्द्रसूर्यादिज्योतिर्वा यदेवेष्टं तदेव ध्यायेत्। तस्मादपि ध्यानाल्लब्धस्थितिकस्य चित्तस्य साधनान्तरं विनापि केवले परमात्मनि स्थितौ योग्यतया भवतीत्यर्थः । अयमेव ध्यानयोग उक्तो योगग्रन्थेषु । विना देशादिबन्धेन वृत्तिर्याभिमते स्थिरा* ध्यानयोगो भवेदेव चित्तचाञ्चल्यनाशक इत्यादिना । यद्वा यथाभिमतानां तीर्थदेवलोकवर्णतत्त्वादीनां यथाभिमतेषु स्वदेहादिषु ध्यानाद् भावनाविशेषान्मनसः स्थितिर्भवतीत्यर्थः । तत्र यद्यपि ब्रह्मविदो ब्रह्ममयत्वादिना सर्वमेव तीर्थे प्रतिलोमकूपं च तीर्थानि भवन्तीति तथापि युञ्जानेन चित्तशुद्ध्यर्थं प्रथमतस्तीर्थादिकमवश्यं भावनीयम् । तद्यथा मूर्द्धनि सहस्नारे अयोध्या, हृदये अनाहते मथुरा, मूलाधारे माया, भ्रूमध्ये आज्ञाचक्रे काशी, स्वाऽधिष्ठाने काञ्ची, मणिपूरे अवन्ती, कण्ठे विशुद्धे द्वारका, नासाग्रे प्रयागः, इडायां गङ्गा, पिङ्गलायां यमुना, सुषुम्नायां सरस्वती । अन्यासु नाडीषु नर्मदाद्याः सर्वा अपि सरितः सन्तीति तत्र तत्राधाराधेयभावेनाभेदेन वा तत्ततीर्थं भाव्यं तत्तत्तीर्थयात्रार्थम् । एवं शिरसि कण्ठादधो नाभिपर्य्यन्तं नाभेरधश्चरनपर्य्यन्तं ग्रामत्रयम् । शिरःश्मश्रुहृदयकक्षादिषु सलोकेषु देशेषु चतुर्द्दशारण्यानि ललाटादिषु रोमशून्येश्ःउ नवोषराश्च सन्ति । पुर्य्यादिसविधे चोपपुर्य्यादीनि सन्तीति तीर्थभावना । एतत् स्पष्टं वराहपुराणादौ –
ब्रह्मरन्ध्रदधोऽयोध्या सहस्रारं तु तद्विदुः ।
मथुराऽनाहतं चक्रं हृदये योगिनो विदुः ॥ १ ॥
मूलाधारं भवेन्माया सर्वाधारयी ततः ।
आज्ञाचक्रं स्मृता काशी जाबालश्रुतिमूर्द्धिनि ॥ २ ॥
स्वाधिष्ठानं स्मृता काञ्ची मणिपूरमवन्तिका ।
विशुद्धिद्वारका प्रोक्ता सप्तपुर्य्यो यथाक्रमम् ॥ ३ ॥
आकटेः पादपर्यन्तं शालग्रामः प्रकीर्तितः ।
आकण्ठात् कटिपर्य्यन्तं प्रोच्यते हरिमन्दिरम् ॥ ४ ॥
आशिरः कण्ठपर्य्यन्तं नन्दिग्रामं प्रचक्षते ।
दण्डकं गुह्यलोमानि सैन्धवं श्मश्रुलोमकम् ॥ ५ ॥
चिबुके जम्बुमार्गे च हृदये पुष्करं स्मृतम् ।
उत्पलावर्त्तकं वामां भ्रुवं दक्षां च नैमिषम् ॥ ६ ॥
कुरुक्षेत्रं सुनन्दर्क्षे तत्कक्षां कुरुमण्डलम् ।
सव्यकक्षामंबुदञ्च विदुः केशान् हिमालयम् ॥ ७ ॥
नवारण्यानि चैतानि शरीरे सन्ति देहिनाम् ।
रेणुका कण्ठकूपे स्यान्नासिकायां तु शूकरम् ॥ ८ ॥
भ्रुवोर्मध्ये स्थिता काशी तदधो नन्दकाननम् ।
वामपाणितले काशी कालेशश्च तथोत्तरे ॥ ९ ॥
वटेशः पादयोः कालञ्जरं स्यात्तु ललाटके ।
नाभिदेशे महाकाल ऊषरा नवकीर्तिताः ॥ १० ॥
सव्ये नासापुटे कोका गुदे कुब्जाम्बुकं स्मृतम् ।
दक्षेऽर्बुदगिरिर्दन्तबिलं स्यान्मणिकर्णिका ॥ ११ ॥
प्रयागे नासिकाग्रे तु स एव वट उच्यते ।
इडा वामे स्थिता गङ्गा पिङ्गला यमुना नदी ॥ १२ ॥
वाणीं सुषुम्नां विद्यात्तु परा नाड्यः परा सरित् ।
शालग्रामस्तु पादाग्रे शूकरं दक्षनासिका ॥ १३ ॥
पुरीतन्मथुरा प्रोक्ता गयाक्षेत्रं मुखं स्मृतम् ।
लिङ्गं निष्कर्म्मणं लोहार्गलं दन्ता विनायकः ॥ १४ ॥
जिह्वाग्रे वा हनूसन्धिः प्रबासस्तु प्रकीर्त्तितः ।
ब्रह्मखं बदरीक्षेत्रं गुह्यान्येवं चतुर्दश ॥ १५ ॥
सप्त पुर्य्यस्त्रयो ग्रामा नवारण्योषरस्तथा ।
चतुर्द्दशैव गुह्यानि मुक्तिद्वाराणि भूतले ॥ १६ ॥
क्षमातीर्थं तपस्तीर्थं तीथमिन्द्रियनिग्रहः ।
सर्वभूतदया तीर्थं ध्यानतीथमनुत्तमम् ॥ १७ ॥
एतानि पञ्च तीर्थानि सत्यषष्ठानि देहिनाम् ।
वसन्ति सर्वदेहेषु तेषु स्नानं परं स्मृतम् ॥ १८ ॥ इत्यादि ॥
अथ देवभावना । तत्र स्वप्रकाशचैतन्यानन्दरूपः पुरुषः शिवः । सत्त्वादिगुणका प्रकृतिः शक्तिः । तदुभयोपादानकत्वात् तन्मयं सर्ववस्तु । एवञ्च चित्ते वासुदेवः, बुद्धौ चतुर्मुखः, अहङ्कारे शङ्करः, मनसि चन्द्रः, श्रोत्रे दिक्, त्वचि वायुः, चक्षुषोः सूर्य्यः । तत्रापि दक्षिणेऽक्षिणि यः पुरुषरूपः स इन्द्रस्वरूप ईश्वरः । वामे यः स इन्द्राणीस्वरूपिणी ईश्वरी । मध्ये च तयोः संमिलनात्तत्रैव नयनतेजोरूपौ भावनीयौ तौ दम्पती । एवं रसनायां वरुणः। घ्राणे आश्विनीकुमारौ, वाचि अग्निः, पाण्योरिन्द्रः, पादयोरुपेन्द्रः, पायौ यमः, उपस्थे प्रजापतिः, तत्र तत्राधाराधेयभावेनानुग्राह्यानुग्राहकभावेनाऽभेदेन वा सा सा देवता भाव्या । एवञ्च तत्तद्रव्यापारफलयोः पूर्णता भवतीति देवताभावना ॥ अथ लोकभावना ॥ पादमूले पातालं, पार्ष्णिप्रपदयोः रसातलं, गुल्फद्वये महातलं, जङ्घाद्वये तलातलं, जानुद्वये सुतलम्, ऊरुद्वये वितलं, तलञ्च जघने, नाभौ भूवर्ल्लोकम्, उरसि स्वर्ल्लोकं, ग्रीवायां महर्ल्लोकं, वदने जनलोकं, ललाटे तपोलोकं, मूर्द्धनि सत्यलोकं, बाह्वादिषु शक्रादिदेवताश्चैवं सर्वमयं शरीरं तत्तल्लोकाँश्चेश्वरीयशरीरतया भावयेदिति निष्कर्षः ॥
अथ वर्णभावना । सा च मातृकान्यासरीत्या ॥ अथ षट् चक्राणि । तत्र गुदाद् द्व्यङ्गुलोपरि मेण्ढ्राद् द्व्यङ्गुलादधः कन्दस्थानम् । तदुपरि तप्तचामीकरप्रभं त्रिकोणं कामरूपं तत्त्रिकोणस्य वामकोणे ईडा दक्षिणे पिङ्गला मध्ये सुषुम्ना मध्ये चिन्त्रिणी वर्णमयी तद्वर्णविन्यासात् कमलाऽऽकारचक्रनिष्पत्तिः। तथाहि । कामरूपोपरि मूलाधारनामकं चक्रम् । तच्च सुवर्णाभं लंबीजान्वितेन सावित्रीसहितब्रह्मसरस्वतीसहितगणेशाद्यधिष्ठितेन षटपञ्चाशच्छिवशक्तिमिथुनवता चतुष्कोणेन पृथिवीस्वरूपेण कर्णिकाकारेण मध्ये भूषितं व-श-ष-सामेकं चतुर्दलम् । तन्मध्ये भास्वराकारम् अधोमुखं चित्स्वरूपिण्या सार्द्धत्रिवलयाकारेण स्थितया विद्युत्प्रभया कुण्डलिन्या स्वमुखेन तन्मुखे मुद्रयित्वा वेष्टितं स्वयम्भूनामकं शिवलिङ्गम् । एतच्च भावितं सकलयोगसिद्धीः पृथिवीजयादिकं ब्रह्मगणेशादिप्रतीतिञ्च वितरति । यश्च हृदयनाभिप्रदेशादिकं कुण्डलिन्या अहिष्ठानमुक्तं तन्मूलाधारादुत्थितायास्तस्या हृदयादौ प्रकटीभावाभिप्रायेणातो न कोऽपि विरोध इत्यास्तां विस्तरः । तदुपरि लिङ्गमूले स्वाधिष्ठाननामकं चक्रम् । तच्च सन्माणिक्यसमप्रभं, वंबीजान्वितेन लक्ष्मीसहितविष्ण्वधिष्ठितेन द्विपञ्चाशन्मिथुनवता अर्द्धचन्द्राकारेण शुभ्रेण जलस्वरूपेण कर्णिकोत्तमेन मध्ये भूषितं ब-भ-म-य-र-लात्मकषड्दलं भावुकानां विष्णुप्रीतिजलजयादिकारकम् । अथ नाभौ मणिपूरनामकं चक्रम् । तच्च विद्युत्प्रभं वंबीजान्वितेन पार्वतीसहितशङ्कराधिष्ठितेन द्विसमधिकषष्टिसंख्याकमिथुनवता त्रिकोणेन उद्यदादित्यप्रभेण तेजःस्वरूपेण कर्णिकोत्तमेन मध्ये भृषितं डादिकान्तवर्णात्मकदशदलं स्वभावुकानां शंकरप्रीतितेजोजयादिकारकम् । अथ हृदये अनाहतनामकं चक्रम् । एतदेव षोडशारषोडशाधारादिनापि आगमादौ प्रसिद्धम् । तच्च धूम्रवर्णे यंबीजान्वितेन प्रकृतिसहितेनेश्वराधिष्ठितेन चतुष्पञ्चाशान्मिथुनवता षट्कोणेन आणनामाशिवलिङ्गलक्षितेन वायुस्वरूपेण कर्णिकोत्तमेन मध्ये भूषितं कादिठान्तवर्णात्मकद्वादशदलम् । एतच्च भावितं प्रकृतीश्वरप्रतीतिवायुजयादिकारकं कण्ठे विशुद्धनामकं चक्रम् । तच्च श्वेतम् श्रंबीजान्वितेन अर्द्धनारीश्वरस्वरूपसदाशिवाद्यधिष्ठितेन द्विसप्ततिमिथुनवता वृत्ताकारेण सुधांशुप्रभेण कर्णिकोत्तमेन मध्ये भूषितं स्वरूयवर्णाऽऽत्मकषोडषदलं भावितं भावुकानां सदाशिवप्रीतिनभोजयादिकारकम् । भ्रूमध्ये आज्ञानामकं चक्रम् । तच्च मुक्ताकारं ह्रंबीजान्वितेनाविद्यासहितजीवाधिष्ठितेन शृङ्गाटकाकरेण चतुःषष्टिस्त्रीपुरुषवता मनोरूपेण कर्णिकोत्तमेन मध्ये भृषितं हकारलकारात्मकवर्णद्वयदलं भैरवानन्दनाम्ना इतरेण शीवलिङ्गेनोपलक्षितं स्वभावुकानामात्मप्रीतिमनोजयादिकारकं पादादिजानुपर्य्यन्तं पूर्वोक्तलंबीजात्मकविशेषणविशिष्टं पृथ्वीस्थानम् । एवमाजान्वोः पायुपर्यन्तम् अपां स्थानम् । आपायोर्हृदयपर्य्यन्तं तेजःस्थानम् । आहन्मध्याद् भ्रूपर्यन्तं वायुस्थानम् । तदूर्ध्वम् आकाशस्थानमिति याज्ञवल्क्यगीतादावुक्तम् । सर्वत्र सर्वसत्ताङ्गीकाराद्भावनातो विशेषोपपत्तेरविरुद्धं ज्ञातव्यम् ॥
मूर्द्धनि सहस्रदलं कमलम । तच्च शशिप्रभस्य पुरोः परमात्मनः स्थानम् । ललाटमध्येऽहंकारस्य ललाटोपरि बुद्धितत्त्वस्य तदुपरि प्रकृतेः सहस्रदले पुरुषस्य स्थानमिति प्रपञ्चितं योगग्रन्थेषु विस्तरभयान्न लिख्यते ॥
अथानाहतसविधे कन्दमध्यात् समुत्थितं द्वादशाङ्गुलनालं चतुरङ्गुलमधोमुखमप्यूर्ध्वमुखत्वार्थम् ऊर्ध्वमुखं भाव्यम् । दहरनामकमष्टदलं कमलम् । तत्र प्राणायामप्रेरितः पूर्वकर्म्मवासनाबद्धो विज्ञानौजःस्वरूपो जीवो दिवानिशं भ्रमति । तत्र भ्रमणक्रमः । पूर्वदलस्थवामोर्ध्वमूलमारभ्य पत्राग्रपर्य्यन्तं त्रिंशच्छ्वासपर्य्यन्तमाकाशतत्त्वमाश्रित्य जीवो भ्रमति । अथ षष्टिश्वासपर्य्यन्तं वायुतत्त्वं, पञ्चाशदधिकशतश्वासान्तं पृथिवीतत्त्वम् । एवमेकैकस्मिन् पत्रार्द्धे सार्द्धचतुःशतश्वासा भवन्ति । एवमपरार्द्धे पत्राग्रादारभ्यामूलपर्य्यन्तं प्रथमं सार्द्धशतश्वासान् पृथिवीतत्त्वम् । ततो विंशत्यधिकशतश्वासान् वारितत्त्वं, नवतिश्वासाँस्तेजस्तत्त्वं, षष्टिश्वासान् वायुतत्त्वं, त्रिंशच्छ्वासान् आकाशतत्त्वमाश्रित्य भ्रमति । एवं सम्पूर्णपत्रे नवशतानि श्वासानां भवन्ति । एवमेव दलाष्टकभ्रमणे शतद्वयाऽधिकसप्तसहस्रसंख्याकाः श्वासा भवन्ति । एवंविधभ्रमणेन वारत्रयमहोरात्रेण भ्रमते । तेन षट्शताधिकैकविंशतिसहस्रसंख्याकाः श्वासा भवन्ति । आह चैवं गोरक्षनाथोऽपि – षट्शतानि दिवा रात्रौ सहस्राण्येकविंशतिः* हंस हंसेत्यमुं मन्त्रं जीवो जपति सर्वदा ॥ हकारेण बहिर्याति सकारेण विशेत् पुनरित्यादि । एतावद्भिः श्वासैः षष्टिघटिका भवन्ति । तथाहि । गुरुदशाक्षरोच्चारणकालेन प्रायशः साधारणजनस्यैकः श्वासो भवति । षष्टिश्वासैरेकः पलो भवति षष्ट्यधिकशतत्रयसंख्याकैः श्वासैरेका घटिका भवति । षष्टिघटिकाभिरहोरात्रम् । षष्ट्यधिकशतत्रयाहोरात्रैर्वत्सरः । एवं प्रतिपुरुषं श्वासनिर्गमवैचित्र्याद् वत्सरादि पृथगिति मन्तव्यम् । अत एव प्राणायामैरायुर्वृद्धिः । अत एव कल्पायुषोऽपि शतवर्षयुषः प्रोच्यन्ते । अस्मात्कल्पस्य तदीयश्वासघटितसंवत्सरशतकत्वात् । ज्योतिः शास्त्रसिद्धायुर्द्दाय एतत्क्रमेणैव । अत एव कदाचित् साधारणवत्सरक्रमेण न मिलत्यपि ॥
अथ पूर्वादिदिनग्दलचरे श्वसने यादृशी मनोवृत्तिर्भवति तादृशी तत्र तच्छ्वसनसञ्चारज्ञानायोच्यते। तथाच हंसोपनिषदि । एषोऽसौ परमहंसो भानुकोटिप्रतीकाशो येनेदं व्याप्तं तस्याष्टधा वृत्तिर्भवति । पूर्वदले पुण्ये मतिर्भवति । आग्नेये निद्रालस्यादयो भवन्ति । याम्ये क्रौर्य्ये मतिः। नैरृत्ये पापे मनीषा । वारुण्यां क्रीडायां मतिः । वायव्ये गमनादौ बुद्धिः। सौम्ये रतिप्रीतिः । ऐशान्ये द्रव्यादानम् । मध्ये वैराग्यम् । केसरे जाग्रदवस्थाकर्णिकायां सुप्तम् । लिङ्गे सुषुप्तिः । पद्मत्यागे तुरीयमित्यादि । अत एव कृताश्वासा योगिन आकाशतत्त्ववहनसमनन्तरमेव पत्रान्तरगमनावान्तरकालीने पत्रद्वयान्तरीये श्वसनसंञ्चारे जायमाने क्षणमात्रं ब्रह्मानन्दोद्बोधे प्रादुर्भूते तर मनः स्थिरीकुर्वन्ति । यथा मनः पत्रद्वयान्तर एव श्वसनविशिष्टो जीवः स्थिरो भवति । ततश्चानवरतं ब्रह्मानन्दोद्बोधो भवति । अत एवैश्वर्यादिलक्षणेन्द्रादिगुणार्थिनो योगिन इन्द्रादिदल एव श्वसनविशिष्टं जीवं स्थिरीकुर्वन्ति । स्थिरीकरणोपायस्तु तत्तद्दलश्वसनसञ्चारकालीनायाः पूर्वोक्तायास्तत्तद्दिक्पालनानुरूपाया इन्द्रोऽहमित्याकारिकायाश्च मनोवृत्तेरनवरतमाश्रयणम् । यावच्चेन्द्राद्यनुरूपा मनोवृत्तिराश्रीयते तावत्तद्देवदिग्दलश्वसनविशिष्टो जीवस्तिष्ठति । एवमेव वक्ष्यमाणाऽऽकाशादिगुणविशिष्टा यावत्पर्यन्तं मनोवृत्तिस्तावत्पर्य्यन्तं तत्तत्व एव तथाभृतो जीवस्तिष्ठतीति गुरुपरम्परागतयोगिनां सङ्केतः । आकाशादितत्त्ववहनपरीक्षा त्वेवम् । यदाकाशतत्त्वमाश्रित्य जीवः श्वसनप्रेरितः प्राचीनकर्म्मविशेषवासनाविशेषादिबद्धो रज्जुबद्धः श्येनादिरिव भ्रमति तदा नासाविवरनिर्गतश्वसनः अनुष्णाशीतस्पर्षो वर्त्तुलाकारो द्वादशाङ्गुलादपि दीर्घः । नासाग्रस्थितकरतलादिव्यापकायासो रक्तश्वेतश्यामादिसंमिलितोद्भूतकर्बुरवर्णो जायते । नासाग्रस्थिते च दर्पणे श्वाससम्बन्धेनोत्पन्नाया मलिनच्छायायाः क्रमाद्दर्पणमध्ये संकोचमागच्छन्त्या वर्त्तुलाकारतया परिणामो वर्णश्च कर्बुरः स्फुटमभिव्यज्यते । एवं वायुतत्त्ववहने श्वसनोऽसावनुष्णाशीतस्पर्शः षट्कोणाकारो नवाङ्गुलो नासाग्रस्थितकरतलादौ तिर्य्यग्वहन्नाधिगतो धूम्रवर्णश्च जायते । पूर्ववद्दर्पणमलिनच्छायायाः संकुचन्त्या षट्कोणाकारता धूम्रवर्णश्च प्रकटमुपलक्ष्यते । एवं तेजस्तत्त्ववहने श्वसन ऊष्मो रक्तस्त्रिकोणाकारः षडङ्गुलो नासाग्रस्थितकरतलादेरूर्ध्वभागस्पर्शो जायते । दर्पणच्छायायाश्च रक्तता त्रिकोणता चोपलक्ष्यते । एवं जलतत्त्ववहने श्वसनः शीतलोऽर्द्धचन्द्राकारः श्वेतवर्णः षडङ्गुलादपि न्यूनगतिः । नासाग्रस्थितकरतलादेरधोभागस्पर्शं उपजायते । दर्पणमलिनच्छायायाश्चार्द्धचन्द्राकारता श्वेतवर्णश्चोपलक्ष्यते । एवं पृथिवीतत्त्ववहने श्वसनोऽनुष्णाशीतस्पर्शः पीतवर्नश्चतुष्कोणो गुरुर्नासाग्रस्थितकरतलादौ मध्येऽभिव्यक्तोऽल्पगतिश्च जायते । दरणमलिनच्छायासु चतुष्कोणाकारतापीतवर्णश्चोपलक्ष्यत इत्यादि गुरूपदेशतोऽवगन्तव्यम् । वहननाड्यौ तूत्सर्गत इडापिङ्गले । तत्रेडा वामनाडी । तस्यां श्वसनप्रवाहश्चन्द्रसंज्ञः । शक्तिरूपः शीतलत्वात् । पिङ्गला दक्षिणा नाडी । तस्यां श्वसनप्रवाहो दिवाकरसंज्ञः शिवरूपः । उष्णत्वात् । अतो रात्रौ शैत्यप्रधानसमये दक्षिणनाड्या, दिवसे उष्णप्रधानसमये वामनाड्या यदि श्वसं सर्वदा वाहयति योगी तदा कालं जयति । रात्रौ शैत्यादिना दिवा च रौद्रादिना नाऽभिभूतो भवति । एवं यदि वामनाडीवहनसमये भोजनमिथुनादि क्रूरं कर्म्म, दक्षिणनाडीवहनसमये कर्त्तव्यं भवति तदा वामनासविवरमुद्रणवामपार्श्वशयनादिना दक्षिणनाड्यां वहनं श्वसनस्य सम्पादनीयम् । एवं दक्षिणनाडीवहनसमये यात्रादिशुभं कर्म्म वामनाडीवहनसमये कर्त्तव्यं भवति । तदा दक्षिणनासाविवरमुद्रणदक्षिणपार्श्वशयनादिना वामनाड्यां वहनं सम्पादनीयम् । तेन योगिनः सिद्धिर्भवतीति संक्षेपः ॥ ३९ ॥
चित्तस्थितिजयस्य ज्ञापकं सिद्धियोगं समाध्यनुकूलमाह –
परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥ ४० ॥
परमेति ॥ अस्य स्थिरचित्तस्य योगिनः परममहत्त्वान्तः परममहत्त्वं येषां वियत्पुरुषादीनां तत्पर्यन्तो वशीकारः अप्रतिघातः केनाप्यप्रतिबन्ध्यता । सैव क्षुत्पिपासादिपीडाप्रतिबन्धद्वारा समाधिसाधिका चित्तजयस्य च ज्ञापिकेति भावः । अयमेव सिद्धियोगः । प्रासस्पन्दनिरोधाद्यैरुपायैर्दृढता परा* सिद्धियोगो भवेदत्र योगः सिद्धिकरः पर इत्यादिना ॥ ४० ॥
सम्प्रज्ञातस्य विषयं प्रदर्शयन्नसम्प्रज्ञाताऽपरपर्य्यायं लययोगमाह –
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनतासमापत्तिः ॥ ४१ ॥
क्षीणवृत्तेरिति ॥ अभ्यासवैराग्याभ्यामपगतवृत्त्यन्तरस्य चित्तस्य ग्रहीतृग्रहणग्राह्येषु, ग्रहीता पुरुषः स्थूलसूक्ष्मभेदेन, ग्रहणं गृह्यतेऽर्थोऽनेनेतीन्द्रियम्, एवं ग्राह्यं च ग्रहीतृग्रहणग्राह्यानि । तेषु या तत्स्थतदञ्जनता तत्स्थेन उपरागेण तदञ्जनता तन्मयता सम्यक् तदाकारता समापत्तिः सम्यगापत्तिर्लयः सम्प्रज्ञातलक्षणो योगो भवतीत्यर्थः । अत्र स्थूलसूक्ष्मवस्त्वर्थग्राह्यपदेनैवेन्द्रियलाभेऽपि तदऽर्थग्रहपदस्योपादानं गोबलीवर्द्दन्यायेन । आनन्दस्य तु ह्लादापराख्यस्यान्तःकरणधर्मेत्वेन ग्राह्यपदार्थेऽन्तर्भूतस्येन्द्रियादेरवानतरविभाजकधर्मऽभावान्न पृथगुक्तिः । इत्थञ्च, वितर्कविचारानन्देति सूत्रेणोक्तस्य सवितर्कादिभेदेन चतुर्विधस्य सम्प्रज्ञातस्य, लाभः ग्राह्यपदेन वितर्कविचारानन्दानां ग्रहीतृपदेनास्मितायाश्च लाभादिति भावः । उपरागेण तदाकारतायां दृष्टान्तमाह ॥ अभिजातस्येव मणेरिति ॥ निर्मलस्य स्फटिकादेर्यथा जपाकुसुमाद्युपरागेण रक्ताद्याकारता तथेत्यर्थः । यद्यपि ग्राह्यसमापत्तेः प्रथमभूमित्वात् सूत्रे ग्राह्यक्रमेणैव निर्देशो युक्तस्तथापि ग्रहीतृसमाधेर्मुख्यत्वज्ञापनाय ग्रहीतृक्रमेणैव प्रथमतो निर्देशः कृत इति दिक् ॥ ४१ ॥
तत्र ग्राह्यग्रहणगोचरा समापत्तिः स्थूलसूक्ष्मार्थविषयकत्वात् सवितर्कसविचारभेदेन द्विविधा । पुनर्विकल्पस्य सङ्कीर्णत्वासङ्कीर्णत्वाभ्यां सवितर्कनिर्वितर्कभेदेन चतुर्धा भवति । तत्र सवितर्कायाः स्वरूपमाह –
तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्कासमापत्तिः ॥ ४२ ॥
तत्रेति ॥ तत्र तासु मध्ये सवितर्का समापत्तिरेषा ज्ञातव्या, या शब्दार्थज्ञानानां विकल्पैः परस्पराभेदभ्रमैः संकीर्णा मिश्रिता । तथाहि । गौरित्युक्ते शब्दार्थज्ञानानि परस्परं त्रीण्यभिन्नानि लोके भासन्ते । तत्र समाहितस्य योगिनः समाधिप्रज्ञायां समारूढा गवाद्यर्था यदि परस्पराभेदभ्रमरूपैर्विकल्पैरनुविद्धा एव भान्ति तदा सा विकल्पसङ्कीर्णा विकल्पविषया सवितर्कसंज्ञा भवतीत्यर्थः ॥ ४२ ॥
निर्वितर्कामाह –
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ ४३ ॥
स्मृतिपरिशुद्धाविति ॥ गवादिपदानां सङ्केतो लोके विकल्पितेष्वेव गृह्यते । तस्य स्मृत्या शाब्दज्ञानं पदार्थानुमितिश्च विकल्पित एव जायते । तत्र स्मृतिपरिशुद्धौ अर्थमात्रतात्पर्यवता चित्तेन अर्थमात्राभ्यासात् सङ्केतस्मृतेस्त्यागे सति सविकल्पकत्वाभावात् स्वरूपशून्येव, न वस्तुतः स्वरूपशून्याऽतोऽर्थमात्रस्य अविकल्पिताऽर्थस्य निर्भासो भानं पत्रेत्यर्थमात्रविषया सा समापत्तिर्निर्वितर्क्केत्यर्थः ॥ ४३ ॥
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ ४४ ॥
एतयैव सविचारेति ॥ एतयैव सवितर्कनिर्वितर्कया च समापत्त्या सूक्ष्मविषया, सूक्ष्मं तन्मात्राहङ्कारादिर्विषयो यस्याः सा तत्र सूक्ष्मेषु विशिष्टेषु स्ववाचकशब्दज्ञानाभ्यासभॆदेनानुविद्धे विकल्पितेषु या समापत्तिः सा सविचारा । तेष्वेव विशेषणशून्येष्वर्थमात्रेषु या समापत्तिः सा निर्विचारेति भावः ॥ ४४ ॥
नन्वस्या ग्राह्यग्रहणसमापत्तेः किम्पर्यन्तं सूक्ष्मविषयत्वं तत्राह –
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५ ॥
सूक्ष्मेति ॥ अस्याः समापत्तेः सूक्ष्मविषयत्वम् उक्तप्रकारम् अलिङ्गपर्यवसानम् । लयं गच्छतीति लिङ्गं महत्तत्वादि । न लिङ्गम् अलिङ्गं प्रधानम् । तत्पर्यन्तमेव । अतः सूक्ष्मस्याभावात् पुरुषस्य सत्त्वेऽप्यकारणत्वे कार्याधिकसौक्ष्म्याभावादसंग्रह इति दिक् ॥ ४५ ॥
तदेव निर्वितर्केत्यादिसूत्रेन चतुर्धा विवृतस्य सम्प्रज्ञातस्य क्षीणवृत्तेरित्यादिसूत्रेण ग्राह्यग्रहणभेदेन विशिष्टाऽविशिष्टभेदेन च अवान्तरविभागः कृतः । इदानीं सामान्यविशेषात्मना विभक्तस्य सबीजसमाधिरूपं सामान्यलक्षणनिर्बीजसमाध्यन्तरसाध्यकसाधनगोचरप्रयत्नावश्यकत्वज्ञापनायाह –
ता एव सबीजः समाधिः ॥ ४६ ॥
ता एवेति ॥ ता एव ग्रहीतृग्रहणग्राह्येषु सामान्यविशेषभावेनोक्ताः समापत्तय एव सबीजः दुःखादेरनात्मसंस्काररूपैर्बीजैः सह वर्त्तमानः समाधिः । समाधीयते प्रत्यङ्मात्रैकाग्रीक्रियते चित्तमनेनेति भावनाविशेषः सम्प्रज्ञात इत्यर्थः ॥ ४६ ॥
आनन्दादिसमापत्तीनां निर्विचारफलत्वान्निर्विचारायां विशेषं कञ्चिदाह –
निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ ४७ ॥
निर्विचारेति ॥ पूर्वं समाधिभिरपगतपापस्याऽन्तःकरणस्य निर्विचारवैशारद्यनिर्विचारस्य सूक्ष्मार्थगोचरनिर्विकल्पस्य समाधेर्वेशारद्ये प्रवाहरूपपाटवे सति ॥अध्यात्मप्रसादः आत्मानं बुद्धिमधिकृत्य वर्त्तमानः प्रसादः ह्लादाख्यानन्दसाक्षात्कारयोग्योऽत्यन्तसत्त्वोद्रेको भवतीत्यर्थः ॥ ४७॥
मुख्यं फलमाह –
ऋतम्भरा तत्र प्रज्ञा ॥ ४८ ॥
ऋतम्भरेति ॥ तत्र तस्मिन्निर्विचारवैशारद्ये सति, ऋतम्भरा ऋतं सत्यं पुरुषयायार्थ्यं बिभर्त्तीति ऋतम्भरा सत्यमेव गृह्णाती प्रज्ञा भवतीत्यर्थः ॥ ४८ ॥
अत एव तस्या क्लृप्ताभ्यो विषयतो विशेषमाह –
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ ४९ ॥
श्रुतानुमानेति ॥ सा तु समाधिजा प्रज्ञा श्रुतानुमानप्रज्ञाभ्यां श्रुतं श्रवणं शाब्दबोधः, अनुमानं मननं यौक्तिकं ज्ञानं, तद्रूपप्रज्ञाभ्याम् अन्यविषया अतिरिक्तविषया । कुतः । विशेषार्थत्वात् । विशेषो निर्विकल्पः अज्ञातो विषयो यस्याः सा, तथात्वात् । शब्दानुमानयोः पदार्थतावच्छेदकव्यापकतावच्छेदकपुरस्कारेणैव धीजनकत्वनियमेन तद्ग्रहणायोग्यविशेष्यमात्र-विषयकत्वादिति यावत् ॥
वेदान्तिनस्तु शब्दस्य शक्त्या पदार्थतावच्छेदकपुरस्कारेणैव धीजनकत्वनियमो, न तु लक्षणयाऽपि । अतो लक्षणया केवलस्य ब्रह्मणः शब्दगम्यत्वेऽपि न क्षतिः । तथाच महावाक्यार्थप्रयोजकीभूतानुभवजनकावान्तरवाक्यस्थपदजन्मस्मृतिकारणीभूतानुभावजनकत्वमसम्प्रज्ञातयोगस्य स्वजन्यधर्म्मद्वारेति न कोऽपि विरोधो, न वा महावाक्यार्थबोधानुपपत्तिरपीति भाव इति प्राहुः॥
इदन्तु बोध्यम् । यद्यपि, तं त्वौपनिषदं पुरुषं पृच्छामीत्यादिश्रुतेरुपनिषन्मात्रगम्यमेवात्मतत्त्वम्। दशमस्त्वमसीत्यादिवाक्याद्दशमा-दिसाक्षात्कारदर्शनात् । तत्त्वमस्यादिवाक्यैरप्यपरोक्षप्रमा च सम्भवति । योग्यपदार्थनिरूपितत्वम्पदार्थाभेदपरशब्दत्वादिना शब्दस्यापरोक्षधीजनकत्वेऽतिप्रसङ्गाभावाद्यागादि-वाक्यानां त्वम्पदार्थाभेदपरत्वाभावात् । धार्मिकस्त्वमसीत्यादिवाक्यानान्तु योग्यपदार्थनिरूपितत्वम्पदार्धाभेदपरत्वाभावात् । तस्मात्तानि विषयाजन्यधीजनकत्वेन परोक्षज्ञानजनकानि । तत्त्वमस्यादिवाक्यन्तु निरुक्तरूपेणापरोक्षधीजनकमेव । ततो जातायामप्यपरोक्षप्रमायां विपरीतभावनारूपदोषसत्त्वे फलं न सम्भवतीति प्रतिबन्धनिरासाय निदिध्यासनादिकमप्यावश्यकत्वं, भावनायाः प्रमाणान्तरत्वापातात् । कामिनीं भावयतो व्यवहितकामिनीसाक्षात्कारस्यैव भावनाजन्यत्वेनात्मसाक्षात्कारस्यप्रमात्वप्रसङ्गाच्च । मूलीभूतानुभवस्तु सुषुप्तेर्मोषाद्वा सम्भवत्येवेति न सर्वथा ज्ञाने भावनाविशेषरूपनिदिध्यासनापेक्षा, तथापि दशमवाक्यसहकृतेन मनसा चक्षुषा वा अपरोक्षप्रमाजननेन दृष्टान्तासिद्धेः निरुक्तरूपेण शब्दस्यापरोक्षज्ञानजनकत्वे मानाभावात् । इन्द्रियजन्यज्ञानस्यैवाऽपरोक्षत्वप्रतिपत्तेः । मनसैवानुद्रष्टव्यमिति श्रुतेश्च । श्रुत्या प्राक् त्वम्पदतत्पदवाच्यत्वादिना प्रमितयोर्जीवपरमात्मनोरविनाभावादिरूपाभेदस्य च मनसैव भावनासहकारेणापरोक्षप्रमाभवतीति भावनासमाधेर्ज्ञानफलकत्वकथनमेवैतन्मताऽनुसारेण युक्तमेवेति दिक् ॥
न वा भावनाजन्यत्वेऽप्यात्मसाक्षात्कारस्याप्रामाण्यम् । अबाधितविषयत्वादुक्तसाक्षात्कारस्य तु बाधितार्थविषत्वादेवाप्रामाण्यं न भावनाजन्यत्वेनेति भावः ॥ ४९ ॥
नन्वनादिना विषयभोगसंस्कारेणातिबलीयसाभिहता समाधिप्रज्ञा स्थितिं न लभेतेत्यत आह –
तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ ५० ॥
तज्जेति ॥ समाधिप्रज्ञाजन्यः संस्कारो व्युत्थानसंस्कारस्य प्रतिबन्धी बाधक इत्यर्थः । कथमेतदितिचेत् प्रज्ञासंस्कारस्य तत्त्वसंस्पर्शित्वादिति ध्येयम् ॥ ५० ॥
ननु सम्प्रज्ञातसमाधिप्रज्ञासंस्कारप्रबलं चित्तं तत्प्रज्ञापरम्परामेव कुर्यात् । तथाच कथं निर्बीजसमाधिं कुर्यात् । तत्राह –
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ ५१ ॥
तस्यापीति ॥ पुरुषख्यात्यनन्तरं वैराग्यसंस्कारप्रचयेन तस्य सम्प्रज्ञातसमाधिप्रज्ञासंस्कारस्य अपिशब्दात् प्रज्ञायाश्च निरोधे सति सर्ववृत्तिनिरोधात् सर्वासां चित्तवृत्तीनां स्वकारणे प्रविलयाद् निर्बीजः मिथ्याज्ञानवासनारूपसंस्कारबीजरहितोऽसम्प्रज्ञातसमाधिर्भवति । यस्मिन् सति पुरुषः स्वरूपमात्रनिष्ठः केवलो भवति ॥५१ ॥
इति श्रीनारायणतीर्थकृतायां योगसिद्धान्तचन्दिकायां
प्रथमः समाधिपादः ॥ १ ॥