floral-decor

श्रीमत्सदाशिवेन्द्रसरस्वतीकृतः

योगसुधाकरः

change script to

यद्भावनादवापीयं प्रत्यक्चितिरनामया ।
क्लेशकर्माद्यसंस्पृष्टं तमीशं कञ्चनाभजे ॥ १ ॥
श्रीमत्पतञ्जलेस्तस्य पदद्वन्द्वमनिन्दितम् ।
वन्दे येन मनःकायवाचां शुद्धिरकार्यसौ ॥ २ ॥
विद्यारत्नं मया लब्धं यत्कृपापारवारिधेः ।
वन्दे तान्विबुधैर्वन्द्यान्वन्दकानन्ददान्गुरून् ॥ ३ ॥
श्रीमद्देशिकवक्त्राब्जान्निशम्याथ विलोड्य ताम् ।
फणीन्द्रभणितेः काचिद्वृत्तिरारभ्यते मया ॥ ४ ॥
इह खलु भगवान्पतञ्जलिः प्रेक्षावत्प्रवृत्त्यौपयिकं शास्त्रप्रतिपाद्यं  दर्शयति –
अथ योगानुशासनम् ॥ १ ॥
अत्र अथशब्दः आरम्भार्थः, अर्थान्मङ्गलार्थश्च । ’युज समाधौ’ इति धातोर्योगः समाधिः ; तस्यानुशासनं हैरण्यगर्भे शास्त्रमनुसृत्य शिष्यते व्याख्यायते ससाधनः सफलः समाधिरनेनेत्यनुशासनं शास्त्रम् । तथा च कस्मैचित्कैवल्यकामाय प्रतिपाद्ययोगप्रतिपादकं शास्त्रमारभ्यत इत्यक्षरार्थः । तत्र समाधिर्द्विविधः संप्रज्ञातोऽसंप्रज्ञातश्चेति । स च चित्तस्य धर्मः । चित्तं हि त्रिगुणात्मकत्वात्पञ्चभूम्युपेतम्। भूमयश्च – क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति । तत्र – रजसा विषयेषु क्षिप्यमाणं क्षिप्तम् ; तमसा निद्रालस्यादिवृत्तिमन्मूढम् ; ईषद्रजस्तमःसंस्पृष्टेन सत्त्वेन कादाचित्कध्यानयुक्तया क्षिप्ताद्विशिष्टं विक्षिप्तम्; विधूतरजस्तमोमलेन शुद्धसत्त्वेनैकाग्रमेकतानम् ; प्रशान्तसकलवृत्तिकं संस्कारशेषं निरुद्धम् । एवं च आद्याभूमित्रयपरित्यागेनावशिष्टभूमिद्वयोपेतस्य चित्तस्य समाधिद्वयं धर्म इति विवेकः ॥
अधुना द्विविधस्य समाधेः साधारणं लक्षणं लक्षयति –
योगश्चित्तवृत्तिनिरोधः ॥ २ ॥
रजस्तमोवृत्त्योर्निरोधो योग इत्यर्थः । अतः सात्त्विकवृत्तिसत्त्वेऽपि संप्रज्ञाते नाव्याप्तिः ॥ २ ॥
ननु बुद्धिवृत्तिस्वभावायाश्चितिशक्तेर्वृत्तिनिरोधे कथं स्थितिरित्याशङ्क्याह –
तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ ३ ॥
यदा सर्वासां वृत्तीनां निरोधः, तदा द्रष्टुश्चितिशक्तेः स्वाभाविके स्वरूपे स्थितिः कुसुमापगमे स्फटिकमणेरिवेत्यर्थः । चितिशक्तेश्चैतन्यमात्रं स्वभावो न वृत्तय इति भावः ॥ ३ ॥
ननु तर्हि व्युत्थाने चितिशक्तेः स्वरूपात्प्रच्युतिः स्यादित्यत्राह –
वृत्तिसारुप्यमितरत्र ॥ ४ ॥
यद्यपि निर्विकारा चितिशक्तिः सदा स्वरूप एवावतिष्ठते, तथापि निरोधादन्यत्र वृत्तिषूत्पद्यमानासु तत्र चितिच्छायायां प्रतिबिम्बितायां तदविवेकात्तत्तादात्म्यमापन्नेव चितिशक्तिर्भवति जपारक्त इव स्फटिकः । अतो न स्वरूपात्प्रच्युतिः । न हि लौहित्यभ्रमसमये समस्ति स्फटिकमणेरवदातस्वभावात्प्रच्युतिरिति भावः । एतेन सूत्रद्वयेनार्थाद्यन्निरोधे चितिशक्तिः स्वरूपप्रतिष्ठा यद्व्युत्थाने स्वरूपाप्रतिष्ठेव भवति तच्चित्तमिति द्वितीयसूत्रगतचित्तपदं व्याख्यातं भवति ॥ ४ ॥
अधुना निरोद्धव्यानां वृत्तीनामियत्तामाह –
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥ ५ ॥
पञ्च तयबर्था अवयवा वक्ष्यमाणाः प्रमाणादयो यासां सामान्यवृत्तीनां ताः पञ्चतय्यो वृत्तयश्चित्तस्य परिणामाः । बहुवचनं तु मैत्रादिपुरुषबहुत्वाभिप्रायेण । ताः कीदृश्यः ? क्लिष्टा अक्लिष्टाः ; वक्ष्यमाणैः क्लेशैः संश्लिष्टाः स्वरूपाप्रतिष्ठाप्रत्ययाः क्लिष्टाः, तैरसंश्लिष्टाः स्वरूपप्रतिष्ठाप्रत्यया अक्लिष्टाः । यद्यपि पञ्चस्वेव क्लिष्टानामक्लिष्टानां चान्तर्भावः,  तथापि क्लिष्टा एव निरोद्धव्या इति मन्दबुद्धिं वारयितुं ताभिः सहाक्लिष्टाः अप्युदाहृताः ॥ ५ ॥
अथ नामधेयलक्षणाभ्यां वृत्तीर्विशदयितुं सूत्रषट्कमाचष्टे –
प्रमाणविपर्ययविकल्पनिद्रास्मृतय ॥ ६ ॥
अतोऽपरा वृत्तिर्न समस्तीत्युद्देशसूत्रस्य फलम् ॥ ६ ॥
प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७ ॥
त्रीण्येव प्रमाणानीति भावः । वृत्तावज्ञातार्थावगाही चितिशक्तेः प्रतिबिम्बः प्रमा । तत्करणं वृत्तिः प्रमाणम् । तत्त्वं प्रमाणसामान्यलक्षणम् । तत्र चक्षुरादिद्वारा व्यक्तिविशेषनिर्धारणी चित्तवृत्तिः प्रत्यक्षप्रमाणम् । तदाकारवृत्तौ चितिशक्तेः प्रतिबिम्बः प्रत्यक्षप्रमा । एवं ध्यानसमाधिद्वारा चितिशक्तिविशेषावद्योतिका संप्रज्ञाताख्या चित्तवृत्तिः प्रत्यक्षप्रमाणम् । ज्ञाता चितिशक्तिः फलम्  । लिङ्गज्ञानद्वारा लिङ्गिसामान्यनिर्धारणी वृत्तिरनुमानम् । तत्र प्रतिबिम्बोऽनुमितिः । पदार्थज्ञानद्वारा वाक्यार्थावगाहिनी वृत्तिरागमः । तत्र प्रतिबिम्बः शाब्दः । अनुमानागमावुभयत्र समानाविति पृथङ्नोदाहृतौ ॥ ७ ॥
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८ ॥
विपर्यय इति लक्ष्यनिर्देशः । मिथ्याज्ञानं बाधानन्तरं व्यवहाराजनकं यत् अतद्रूपप्रतिष्ठं तस्यार्थस्य यद्रूपं पारमार्थिकं स्वरूपं तत्राप्रतिष्ठितं तदनवगाहि । तत्त्वं  लक्षणम् । अतो न विकल्पेऽतिव्याप्तिः, तस्य बाधितत्वेऽपि केषाञ्चित्पण्डितानां व्यवहारजनकत्वात् । नापि संशये, तस्यापि लक्ष्यत्वात् ॥ ८ ॥
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९ ॥
’राहोः शिरः’  इति शब्दश्रवणानन्तरं जायमाना वस्तुशून्या वृत्तिर्विकल्पः । अतो वाक्यार्थगोचरवृत्तौ नातिव्याप्तिः, तस्या वस्तुशून्यत्वाभावात् । नापि विपर्यये, तस्य शब्दज्ञानाननुपातित्वात् ॥ ९ ॥
अभावप्रययालम्बना वृत्तिर्निद्रा ॥ १० ॥
वस्त्वभावः प्रतीयते यस्मिन्नावारके तमसि सति, तत्तमोऽभावप्रत्ययः । तं विषयीकुर्वती वृत्तिर्निद्रा। तस्या ’सुखमहमस्वाप्सं न किञ्चिदवेदिषम्’ इति स्मरणस्यानुभवपूर्वकत्वाद्वृत्तित्वम् ॥
अनुभूतविषयासंप्रमोषः स्मृतिः ॥ ११ ॥
अनुभूतस्य पित्रादेः असंप्रमोषः तदनुभवजन्यमनुसन्धानं स्मृतिरित्यर्थः । एतेन वृत्तय इत्याद्यनुभूतविषयेत्यन्तेन सूत्रसप्तकेन द्वितीयसूत्रगतवृत्तिपदं व्याख्यातं भवति । इतोऽवशिष्टेन पादेन निरोधृपदमर्थाद्व्याख्यायत इति द्रष्टव्यम् ॥
अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२ ॥
चित्तस्य निसर्गतोनिर्गतस्रगादिगोचरवृत्तिसरित्पूरं वैराग्येण विनिवार्य समाध्यभ्यासेन प्रशान्तवाहः संपाद्यते । अतस्तदुभयनिबन्धनो निरोध इत्यर्थः ॥ १२ ॥
ननु जपादावावृत्तिलक्षणोऽभ्यासो विधातुं पार्यते ; को नाम निरोधेऽभ्यास इत्यत आह –
तत्र स्थितौ यत्नाऽभ्यासः ॥ १३ ॥
तत्र तयोर्मध्ये । स्थितिर्नैश्चल्यं निरोधः, तत्र । ’चर्मणि द्वीपिनं हन्ति’ इतिवन्निमित्तार्थेयं सप्तमी । एवं च स्थितिनिमित्तको यत्नो मानस उत्साहः स्वत एव बहिःप्रवाहशीलं चित्तं सर्वथा निरोत्स्यामीत्येवंविध उत्साह आवर्त्यमानोऽभ्यास इत्युच्यते ॥ १३ ॥
नन्वद्यतनाभ्यासः स्वयमदृढः सन्ननादिसञ्चितव्युत्थानसंस्कारान्कथमभिभवेदित्याशङ्क्याह-
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १४ ॥
यदि दिवसैर्मासैर्वा समाधिसिद्धिं वाञ्छेत्, तदा ’विद्यमानाश्चत्वार एव वेदाः ; तानध्येतुं गतस्य माणवकस्य पञ्च दिवसा अतीताः ; नाद्याप्यसौ समागतः’ इति मूढवचनानुसार्येवायं योगी स्यात् । अतः संवत्सरैर्जन्मभिर्वा दीर्घकालं योग आसेवितव्यः । तथा च स्मर्यते – ’अनेकजन्मसंसिद्धस्ततो याति परां गतिम्’ इति । यदि चिरमासेव्यमानोऽपि विच्छिद्य विच्छिद्यासेव्येत तर्ह्युत्पद्यमाना योगसंस्काराः समनन्तरभाविविच्छेदकालीनैर्व्युत्थानसंस्कारैरभिभूयेरन् । अतो निरन्तरमासेवितव्यः । सत्कार आदरः। अनादरे लयविक्षेपकषायादयः प्रसज्जेरन् । तस्मादादरेणासेवितव्यः । दीर्घकालादित्रैविध्येनासेवितस्य समाधेर्दृढभूमित्वं नाम प्रबलतरदुःखेनापि चालयितुमशक्यत्वम् । तच्च स्मर्यते – ’यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते’ इति ॥ १४ ॥
अथ वैराग्यं द्विविधमपरं परं चेति । अपरं च यतमानव्यतिरेकैकेन्द्रियवशीकारभेदेन चतुर्विधम् । तत्राद्यत्रयमर्थात्सूचयन्साक्षाच्चतुर्थमाह –
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १५ ॥
स्रक्चन्दनादयो विषया दृष्टाः । वेदोक्तस्वर्गादय आनुश्रविकाः । तत्रोभयत्रापि सत्यामपि तृष्णायां विवेकतारतम्येन यतमानादिवैराग्यत्रयं भवति । यतमानत्वं नाम ’अस्मिञ्जगति किं सारं किमसारमिति गुरुशास्त्राभ्यां विज्ञास्यामि’ इत्युद्योगः । स्वचित्ते पूर्वं विद्यमानानां दोषाणां मध्येऽभ्यस्यमानेन विवेकेनैतावन्तः पक्वा एतावन्तोऽवशिष्टा इति विवेचनं व्यतिरेकः । दृष्टानुश्रविकविषयप्रवृत्तेर्दुःखात्मकत्वबोधेन तां प्रवृत्तिं परित्यज्य मनस्यौत्सुक्यमात्रेण तृष्णास्थापनमेकेन्द्रियत्वम् । वितृष्णत्वं वशीकारः । तदिदमपरं वैराग्यमष्टाङ्गयोगप्रवर्तकत्वेन संप्रज्ञातस्यान्तरङ्गम्, असंप्रज्ञातस्य तु बहिरङ्गम् ॥ १५ ॥
अथ तस्यान्तरङ्गं परवैराग्यमाह –
तत्परं पुरुषख्यातेर्गुणवेतृष्ण्यम् ॥ १६ ॥
संप्रज्ञातसमाध्याभ्यासपाटवेन गुणत्रयात्मकात्प्रधानाद्विविक्तस्य पुरुषस्य ख्यातिः साक्षात्कारः ; तस्मादशेषगुणत्रयव्यवहारे वैतृष्ण्यं यत्, तत्परं वैराग्यमित्यर्थः ॥ १६ ॥
इत्थमभ्यासवैराग्ये निरूप्य तत्साध्यं समाधिमाह –
वितर्कविचारानन्दास्मितारूपानुगमात्संप्रज्ञातः ॥ १७ ॥
सम्यक्प्रज्ञायते येन भाव्यं वस्तु स संप्रज्ञातः समाधिर्भावनाविशेषः । स च वितर्कादिरूपैश्चतुर्भिरनुगमाच्चतुर्विधः – सवितर्कः सविचारः सानन्दः सास्मित इति । तत्र भावनया भाव्यभूतेन्द्रियगोचरसाक्षात्कारः सवितर्कः । पञ्चतन्मात्रान्तःकरणगोचरसाक्षात्कारः सविचारः । रजस्तमोलेशानुविद्धसत्त्वप्रधानबुद्धिगोचरसाक्षात्कारः सानन्दः । शुद्धसत्त्वप्रधानमहत्तत्त्वगोचर-साक्षात्कारः सास्मितः । तत्र वितर्कविचारद्वयं ग्राह्यम् । आनन्दो ग्रहणम् । अस्मिताख्यो ग्रहीता । तेषु ग्राह्यग्रहणग्रहीतृषु भावनोत्कर्षः संप्रज्ञातो योग इत्यर्थः ॥ १७ ॥
इत्थमपरवैराग्यसाध्यं संप्रज्ञातं निरूप्य परवैराग्यसाध्यमसंप्राज्ञातमाह –
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८ ॥
विरामो वृत्त्युपरमः, तस्य प्रत्ययः कारणं वृत्त्युपरमार्थः प्रयत्नः, तस्याभ्यासः पौनःपुन्येन संपादनम्, तत्पूर्वस्तज्जन्यः संप्रज्ञातादन्यः संस्कारशेषः प्रशान्तसकलवृत्तिकस्य चित्तस्वरूपस्य दुर्लक्षत्वात्संस्काररूपेण योऽवशिष्यते सोऽस्रंप्रज्ञात इत्यर्थः ॥ १८ ॥
सोऽयमसंप्रज्ञातो द्विविधो भवप्रत्यय उपायप्रत्ययश्चेति । तत्राद्यो मोक्ष्यमाणैर्हेयः । तमाह-
भवप्रययो विदेहप्रकृतिलयानाम् ॥ १९ ॥
भवन्त्यस्मिञ्जन्तव इति भवः संसारोऽविद्याख्याः, सप्रत्ययो हेतुर्यस्य स संसारमूलोऽसंप्रज्ञातः । स च भूतेन्द्रियेष्वात्मत्वभावनया विधूतदेहानां विदेहानाम् अव्यक्तमहदहङ्कारपञ्चतन्मात्रेषु प्रकृतिष्वात्मभावनया लीनानां प्रकृतिलयानां भवत्यन्तवत्फलः । तदीयं चित्तं विवेकख्यात्यभावात्सुप्तचित्तवल्लीनमप्युत्थाय संसारे पततीति भावः ॥
अथ मुमुक्षुभिरुपादेयमुपायप्रत्ययमाह –
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ २० ॥
ममायं योग एव परपुरुषार्थसाधनमिति प्रत्ययः श्रद्धा । सा चोत्कर्षश्रवणेनोपजायते । उत्कर्षश्च स्मर्यते – ’तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन’ इति । तस्यां च श्रद्धायामवसितायां वीर्यमुत्साहो भवति ’सर्वथा योगं संपादयिष्यामि’ इति । एतादृशोत्साहेन तदा तदानुष्ठेयानि योगाङ्गानि स्मर्यन्ते । तया च स्मृत्या सम्यगनुष्ठितसमाधेरध्यात्मप्रसादे सति, ऋतम्भरा प्रज्ञोदेति । तत्पूर्वकस्तत्प्रज्ञापूर्वकोऽसंप्रज्ञातसमाधिः इतरेषां विदेहप्रकृतिलयेभ्योऽर्वाचीनानां योगिनां सिध्यतीत्यर्थः ॥ २० ॥
इत्थं परवैराग्यसाध्यं समाधिं विधाय तस्य तारतम्येन समाधेः शैघ्रयतारतम्यमाह –
तीव्रसंवेगानामासन्नः ॥ २१ ॥
संवेगो वैराग्यम् । तद्भेदाद्योगिनस्त्रिविधा मृदुसंवेगा मध्यसंवेगास्तीव्रसंवेगाश्चेति । तत्र तीव्रसंवेगानामासन्नः समाधिलाभः । अल्पेनैव कालेन समाधिर्लभ्यत इत्यर्थः ॥ २१ ॥
तीव्रसंवेगेष्वेव तारतम्यमाह –
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ २२ ॥
मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्रश्च । तेष्वप्युत्तरोत्तरस्य त्वरया सिद्धिर्द्रष्टव्या । तदेवमधिमात्रतीव्रस्य दृढभूमावसंप्रज्ञातसमाधौ लब्धे सति; पुनर्व्युत्थातुमशक्तं सन्मनो नश्यति । ततः प्रत्यक्चितिः स्वे महिम्नि निर्विघ्नं निरन्तरमवतिष्ठत इत्यर्थः ॥ २२ ॥
अथासन्नतमसमाधिलोभ उपायान्तरमुपदर्शयति -
ईश्वरप्रणिधानाद्वा ॥ २३ ॥
ईश्वरो वक्ष्यमाणलक्षणः । तस्मिन्परमगुरौ प्रणिधानं भावनाविशेषः । तस्मादासन्नतमः समाधिलाभः । ईश्वरो हि समाराधनादिना साधनेन आराधितः ’इदमस्येष्टमस्तु’ इति संसाराङ्गारे तप्यमानं पुरुषमनुगृह्णातीति भावः । ननु पुष्करपलाशवन्निर्लेपस्य पुरुषस्य तप्यभावः कथमुपपद्यते येन परमेश्वरोऽनुग्राहकतया कक्षीक्रियेतेति चेत्, उच्यते – तापकस्य रजसः सत्त्वमेव तप्यम् । बुद्ध्यात्मना परिणते सत्त्वे तप्यमाने तदारोहवशेन तदभेदावगाही पुरुषोऽपि तप्यत इत्युपचर्यते । तदुक्तम् – ’ सत्त्वं तप्यं बुद्धिभावेन वृत्तं भावा ये वा राजसास्तापकास्ते । तस्याभेदग्राहिणी तामसी या वृत्तिस्तस्यां तप्य इत्युक्त आत्मा’ इति । इत्थं तप्यमानं पुरुषं परमेश्वरः स्वेच्छया निर्माणकायमधिष्ठाय लौकिकवैदिकसम्प्रदायप्रद्योतकोऽनुगृह्णातीत्यनवद्यम् ॥ २३ ॥
कः पुनः स ईश्वरः इत्यत्राह –
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ २४ ॥
क्लिश्नन्तीति क्लेशा वक्ष्यमाणलक्षणा अविद्यादयः । कर्म मिश्रामिश्ररूपं वक्ष्यमाणम् । विपच्यत इति विपाकः फलं जात्यायुर्भोगादिः । आशेरत इत्याशयाः संस्काराः । तैरपरामृष्टोऽसंश्लिष्टः । संश्लिष्टस्तु संसारी जीवः । मुक्तस्त्वसंश्लिष्टोऽपि पूर्वकाले तत्संश्लेषाद्बद्ध इव । अतः पुरुषविशेषो नित्यमुक्त ईश्वरः । तस्य सार्वज्ञ्यमैश्वर्यं च अनादिसिद्धप्राकृतशुद्धसत्त्वात्मकचित्तसंबन्धादिति द्रष्टव्यम् ॥ २४ ॥
अथ तत्र प्रमाणमाह –
तत्र निरतिशयं सर्वज्ञबीजम् ॥ २५ ॥
तत्रेश्वरे निरतिशयं सर्वज्ञत्वस्य बीजं मूलम् । एतदुक्तं भवति – अस्मदादिज्ञानं निरतिशयेन ज्ञानेनाविनाभूतं सातिशयत्वात् । यत्सातिशयं तत्समानजातीयेन निरतिशयेन युक्तम्, यथा विभुपरिमाणेन कुम्भपरिमाणम् । अतः परिशेषादनुमानसिद्धनिरतिशयज्ञानवानीश्वर इति ॥ २५ ॥
नन्वयमेक एवेश्वरः किमन्येऽपि सन्ति ? नेत्याह –
पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ २६ ॥
अथ तस्य नामधेयमाह –
तस्य वाचकः प्रणवः ॥ २७ ॥
तस्य परमेश्वरस्य प्रणवः प्रकर्षेण नूयते स्तूयतेऽनेनेति प्रणव ओङ्कारः वाचकोऽभिधायक इत्यर्थः ॥ २७ ॥
इत्थं नामधेयमभिधाय पूर्वम् ’ईश्वरप्रणिधानात्’ इत्युक्तं तत्प्रणिधानं सफलमुपदर्शयति द्वाभ्याम् –
तज्जपस्तदर्थभावनम् ॥ २८ ॥
ततः प्रत्यक्त्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ २९ ॥
एतदुक्तं भवति – तस्य प्रणवस्य यो जपः, तस्मिन्दीर्घकालनैरन्तर्यसत्कारैस्तदर्था-सङ्गचिद्रूपेश्वरभावनापुरःसरं प्राधान्येन दृढमासेविते सति, प्रश्चात्स्वत एव वाग्व्यापाररूपे तस्मिन्प्रलीने, वाचकस्य न्यग्भावात्तदर्थासङ्गचिद्रूपगोचरवृत्तिसन्तानरूपभावनायां दीर्घकालादिभिर्दृढमासेवितायाम्, ततस्तत्प्रसादेन चित्तं निरोधाभिमुखं प्रत्यासत्त्यभावेन ईश्वरं विश्रान्तिभूमितयालभमानं सत् तत्सादृश्यात्स्वस्वामिनमसङ्गचिद्रूपमात्मानं स्मारयित्वा अविषयतया तमप्यलभमानं निरिन्धनाग्निवत्स्वयं संस्कारावशेषं भवति । ततः प्रत्यक्चेतनाधिगमः । प्रत्यक्चासौ चेतना, तस्याः प्राप्तिरधिगमः । सर्वान्तरतया भासमाना चितिशक्तिः स्वे महिम्नि निरन्तरं निर्विघ्नमवतिष्ठते । अतः सर्वासां वृत्तीनां प्रविलयादन्तरायाभावश्च भवति । अयमेक एव ईश्वरप्रणिधानस्य विशेष इति ॥
के तेऽन्तराया इत्यपेक्षायामाह –
व्याधिस्त्यान​संशयप्रमादालस्या​विरतिभ्रान्तिदर्शनालब्ध​भूमिकत्वानवस्थितत्वानि चितविक्षेपास्तेऽन्तरायाः ॥ ३० ॥
ये चित्तं योगाद्विक्षिपन्ति भ्रंशयन्ति ते नव विक्षेपा योगस्यान्तराया विघ्नाः । तत्र दोषत्रयवैषम्यनिमित्तो ज्वरादिर्व्याधिः । चित्तस्याकर्मण्यत्वं स्त्यानम् । विरुद्धकोटिद्वयावगाहि ज्ञानं संशयः । अहिंसासत्यादिसाधनानामभावनं प्रमादः । कायवाक्चित्तगुरुत्वादप्रवृत्तिरालस्यम् । विषयाभिलाषोऽविरतिः । अतस्मिंस्तद्बुद्धिर्भ्रान्तिदर्शनम् । कुतश्चिन्निमित्तात्समाधि-भूमेरलाभोऽलब्धभूमिकत्वम् । लब्धायामपि तस्यां चितस्याप्रतिष्ठानवस्थितत्वमित्यर्थः ॥ ३० ॥
न केवलमेते विक्षेपा योगनाशकाः, अपि तु उपद्रवकरा इत्याह –
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ ३१ ॥
यथोक्तव्याधिजं दुःखम् । तच्चाध्यात्मिकादिभेदात्त्रिविधम् । विषयाभिलाषविघातान्मनसि क्षोभो दौर्मनस्यम् । सर्वाङ्गचलनमङ्गमेजयत्वम् । तच्च योगाङ्गासनविरोधि । अपानः श्वासः । स च रेचकविरोधी। प्राणः प्रश्वासः । स तु पूरकविरोधी । अथ वा श्वासो बाह्यकुम्भकविरोधी, प्रश्वासः आन्तरकुम्भकविरोधी, अङ्गमेजयत्वं कुम्भकद्वयविरोधीत्यर्थः, ’नोच्छ्वसेन्नैव निश्वस्यान्नैव गात्राणि चालयेत्’ इति कुम्भके तन्निषेधश्रवणात् । अत एते दुःखादयो विक्षेपैः सह भवन्ति, विक्षिप्तचित्तस्य भवन्तीत्यर्थः ॥ ३१ ॥
इत्थमन्तरायानुक्त्वा ते कस्मान्नाशनीया इत्यपेक्षायां पूर्वोक्तमीश्वरप्रणिधानमेवास्मिन्नंशे स्मारयति-
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२ ॥
तेषां सोपद्रवाणां विक्षेपाणां विनाशार्थमेकतत्त्वस्येश्वरस्याभ्यासः कर्तव्यः । एतदुक्तं भवति – एकतत्त्वगोचरमनोवृत्तिप्रवाहानुकूलो यत्नोऽभ्यासः । स च दीर्घकालनैरन्तर्यसत्कारैर्दृढमासेवितव्यः । आसेविते च तस्मिन्व्याध्यादयो वासनाः क्षणेनैव विशरारुतां यान्ति । तदुक्तम् – ’वासनासंपरित्यागे यदि यत्नं करोष्यलम् । तत्ते शिथिलतां यान्ति सर्वाधिव्याधयः क्षणात्’ इति ॥ ३२ ॥
अधुना संप्रज्ञातभूमिरूपैकाग्रतोपायान् ’मैत्री –“ इत्यादि ’यथाभिमत – ’ इत्यन्तेन सूत्रसप्तकेनाह–
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चितप्रसादनम् ॥ ३३ ॥
चित्तं हि रागद्वेषपुण्यपापैः कलुषीक्रियते । तत्र स्वप्नादौ स्वेनानुभूयमानं सुखमनुशेते ’ सर्वं सुखजातं मे भूयात्’ इति कश्चिद्धीवृत्तिविशेषो रागः । स च सुखजातस्य दृष्टादृष्टसामग्र्यभावेन संपादयितुमशक्यत्वाच्चित्तं कलुषीकरोति । यदा तु सुखिप्राणिषु मैत्रीं भावयेत् ’सर्वेऽप्येते सुखिनो मदीयाः’ इति, तदा तत्सुखं स्वकीयमेव संपन्नमिति तत्र रागो निवर्तते । न केवलं रागः, किं तु परगुणासहनदोषाविष्करणरूपासूयेर्ष्यादिकमपि निवर्तते । निवृत्ते च रागासूयेर्ष्यादौ वर्षास्वतीतासु शरत्सरिदिव चित्तं प्रसीदति । तथा दुःखमनुशेते ’ सर्वं दुःखं सर्वथा मे मा भूत्’ इति कश्चित्प्रत्ययो द्वेषः। स च वैर्यादिषु सत्सु निवारयितुमश्क्यत्वात्सदा हृदयं दहति । यदा ’स्वस्येव परेषां प्रतिकूलं दुःखं मा भूत्’ इत्यनेन प्रकारेण करुणां दुःखिप्राणिषु भावयेत्, तदा वैर्यादिषु द्वेषो निवर्तते । न केवलं द्वेषः, किन्तु दुःखित्वप्रतियोकस्वसुखित्वप्रयुक्तो दर्पोऽपि निवर्तते । स च दर्पो भगवता दर्शितः – ’ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी । आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया’ इति । अत उभयनिवृत्तौ चित्तं प्रसीदति । तथा प्राणिनः स्वभावत एव पुण्यं नानुतिष्ठन्ति, पापं प्रसीदति । तथा प्राणिनः स्वभावत एव पुण्यं नानुतिष्ठन्ति, पापं त्वनुतिष्ठन्ति । अतस्ते पुण्यपापे पश्चात्तापं जनयतः । यदि पुण्यपुरुषेषु मुदितां भावयेत्, तदा तद्वासनया स्वयमप्यप्रमत्तः पुण्ये प्रवर्तते । तथा पापिषूपेक्षां भावयन्त्वयमपि पापान्निवर्तते।अतः पश्चात्तापाभावेन चित्तं प्रसीदति । ननु पुण्यात्मसु मुदितां भावयतः पुण्ये प्रवृत्तिः फलत्वेनोक्ता ; सा च योगिनो न युक्ता, तस्य पुनर्जन्मकरत्वात् । मैवम् ; काम्यस्येष्टापूर्तादेर्जन्महेतुत्वादिह तु योगाभ्यासजन्यस्य जन्मानापादकस्याशुक्लकृष्णस्य पुण्यस्य विवक्षितत्वात् । वक्ष्यति च भगवान्सूत्रकारः – ’कर्माशुक्लकृष्णं योगिनस्त्रिविधमितरेषाम्’ इति । अतो मैत्र्यादिभावनया रागादिवासनानिवृत्तौ प्रसादं स्थैर्यमापन्नं सच्चित्तमेकाग्रतापदं लभत इत्यर्थः । तदुक्तम् – पौरुषेण प्रयत्नेन बलात्सन्त्यज्य वासनाम् । स्थितिं बध्नासि चेत्तर्हि पदमासादयस्यलम्’ इति ॥ ३३ ॥
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ ३४ ॥
प्राणस्य शरीरान्तर्गतस्य वायोः प्रच्छर्दनं द्वात्रिंशन्मात्राप्रमाणेन शनैः शनैः पिङ्गलया बहिर्विरेचनम् । रेचितं प्रश्चादिडया षोडशमात्राप्रमाणेनान्तरापूर्य पूरितस्य पुनश्चतुःषष्टिमात्राप्रमाणेन विधारणमान्तरकुम्भकः । रेचितस्य वोक्तप्रमाणेन बहिरेव विधारणं बाह्यकुम्भकः । अनेन रेचकपूरकबाह्याभ्यन्तरकुम्भकरूपप्राणायामत्रयं भवति । तेन प्राणस्पन्दे निरुद्धे सति चित्तदोषाः प्रदह्यन्ते। तथा च श्रुतिः – ’ यथा पर्वतधातूनां दह्यन्ते धमता मलाः । तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात्’ इति । तत्रोपपत्तिर्वसिष्ठेन दर्शिता – ’यः प्राणपवनस्पन्दश्चित्तस्पन्दः स एव हि । प्राणस्पन्दक्षये यत्नः कर्तव्यो धीमतोच्चकैः ’ इति । अतः प्राणमनःस्पन्दयोः सहभावित्वात्प्राणनिग्रहे मनो निगृह्यते । ननु सहस्पन्दो न युक्तः, सुषुप्तौ चेष्टमानेऽपि प्राणे मनसोऽचेष्टमानत्वात् । मैवम् ; विलीनत्वेन तदानीं मनस एवाभावात् । ननु ’क्षीणे प्राणे नासिकयोच्छ्वासीत’ इति श्रुतिव्याहतमिति चेत्, न ; अनुल्बणत्वस्य क्षयत्वेनात्र विवक्षितत्वात् । यथा पर्वतमारोहतः श्वासवेगो यावान्भवति न तावानासीनस्य विद्यते ; तथा प्राणायामपाटवोपेतस्यैतस्मादल्पः श्वासो भवति । एतदेवाभिप्रेत्य श्रूयते – ’भूत्वा तत्रायतः प्राणः शनैरेव समुत्सृजेत् ’ इति । अतः प्राणायामपाटवेन प्राणे निरुद्धे सति निर्मृष्टनिखिलदोषं सच्चित्तमेकाग्रतापदं लभत इत्यर्थः ॥ ३४ ॥
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ॥ ३५ ॥
नासाग्रजिह्वाग्रतालुजिह्वामध्यजिह्वामूलेषु प्रदेशेषु चित्तस्य संयमाद्दिव्यगन्धरसरूपस्पर्श-शब्दविषयवत्यः संविदः प्रवृत्तयः शीघ्रमुत्पन्नाः सत्यो विश्वासमुत्पाद्य अतिसूक्ष्मेश्वरादौ मनसः स्थितिं बध्नन्ति । अतो मन एकाग्रतां प्राप्नोतीत्यर्तः ॥ ३५ ॥
विशोका वा ज्योतिष्मती ॥ ३६ ॥
अष्टदलहृदम्बुजं रेचकेनोर्ध्वमुखं नीत्वा तत्कर्णिकास्थायां सुषुम्नाख्यायां नाड्यां सौरचान्द्रमसवैद्युतादिप्रभानिभस्य चित्ततत्त्वस्य ध्यानात्तज्ज्योतिर्गोचरा संविज्ज्योतिष्मती विशोका शोकशून्या प्रवृत्तिरुत्पन्ना सती मनसः स्थितिं सम्पादयति । ततस्तन्मन एकाग्रतां लभत इत्यर्थः ॥ ३६ ॥
वीतरागविषयं वा चित्तम् ॥ ३७ ॥
शुकादीनां यद्वीतरागं चित्तम् , तस्य ध्यानाद्योगिनश्चित्तं नीरागं सदेकाग्रतां लभत इत्यर्थः ॥ ३७ ॥
स्वप्ननिद्राज्ञानालम्बनं वा ॥ ३८ ॥
स्वप्ने शास्त्रीयं यन्मनोहरं वस्तु दृष्टं सुषुप्तौ यत्सुखं ज्ञायते, तत्र ध्यानात्तज्ज्ञेयालम्बनं चित्तं निश्चलं सदेकाग्रतां लभत इत्यर्थः ॥ ३८ ॥
यथाभिमतध्यानाद्वा ॥ ३९ ॥
किं बहुना? यथेष्टं यद्यच्छास्त्रार्थं दैवं रूपम्, तद्ध्यानाच्चित्तमचञ्चलं सदेकाग्रतां लभत इत्यर्थः ॥ ३९ ॥
नन्वेतैरुपायैरेकाग्रतालाभे किं ज्ञापकमित्यत्राह –
परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥ ४० ॥
अस्यैकाग्रतामापन्नस्य चित्तस्य सूक्ष्मे स्थूले वा वस्तुनि निविशमानस्य परमाण्वन्तः परममहत्त्वान्तो वशीकारोऽप्रतिघातो भवतीत्यर्थः ॥ ४० ॥
इत्थमेकाग्रतोपायान्सावान्तरफलानुक्त्वा तत्समुत्पन्नैकाग्रताभिवृद्धिलक्षणस्य सबीजसमाधेः सविषयं स्वरूपमाह –
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ ४१ ॥
अभिजातस्यात्यवदातस्य स्फटिकमणेर्यथा जपाकुसुमोपरागात्स्वरूपाभिभवेन रक्ताकारता भवति, एवं क्षीणवृत्तेर्विधूतरजस्तमोवृत्तिकस्य चित्तस्य भूतेन्द्रियतन्मात्रान्तःकरणरजस्तमोलेशानु-विद्धाहङ्कारविधूतरजस्तमोमलशुद्धसत्त्वात्मकमहत्तत्त्वेषु ग्राह्यग्रहणग्रहीतृषु तत्स्थस्य तदुपरक्तस्य तदञ्जनता स्वरूपपरित्यागेन तत्तद्रूपता तस्य सम्यगापत्तिः संप्रज्ञातसमापत्तिरित्यर्थः ॥ ४१ ॥
तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥ ४२ ॥
गौरिति शब्दः गौरित्यर्थः गौरिति ज्ञानम्, तेषां परस्परतादात्म्यगोचरा ये विकल्पास्तैः सङ्कीर्णा तत्तुल्या सवितर्का समापत्तिः, तस्या विकल्पत्वाविशेषादित्यर्थः ॥ ४२ ॥
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ ४३ ॥
शब्दज्ञानाभ्यां विकल्पित एवार्थे शब्दसङ्केतो गृह्यते, तस्य स्मृत्या शाब्दबोधो विकल्प एव जायते। अतः सङ्केतस्मृतेः परिशुद्धौ प्रलये सति तत्कार्यस्य विकल्पस्य प्रलयात्समाधिभावना स्वीयभावनात्वशून्येव भूत्वा अविकल्पितार्थमात्रेणैव निर्भास्यमाना निर्वितर्का समापत्तिरित्यर्थः ॥
उक्तन्यायमन्यत्रातिदिशति –
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ ४४ ॥
एतयैव विकल्पितस्थूलाकारया सवितर्कया अविकल्पितस्थूलाकारया निर्वितर्कया च सूक्ष्मविषया स्वशब्दज्ञानाभ्यामभेदेन विकल्पितसूक्ष्मतन्मात्रेन्द्रियगोचरा सविचारा अविकल्पितसूक्ष्म-तन्मात्रेन्द्रियगोचरा निर्विचारा च व्याख्याता भवतीत्यर्थः ॥ ४४ ॥
किं निर्विचारसमापत्तेस्तन्मात्रेष्वेवावसानम् ? नेत्याह –
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५ ॥
अस्याः समापत्तेः सूक्ष्मविषयत्वमलिङ्गे प्रधाने पर्यवस्यति । तथा हि – तन्मात्रेभ्योऽहङ्कारः सूक्ष्मः, तस्मादपि महान्, ततोऽपि प्रधानम् । तद्धि न लीयत इत्यलिङ्गमुच्यते । ततः परं न सूक्ष्मा प्रकृतिः समस्ति । पुरुषस्तु न प्रकृतिः सर्गे निमित्तमात्रमिति ध्येयम् ॥ ४५ ॥
संप्रज्ञातसमापत्तीरुपसंहरति –
ता एव सबीजः समाधिः ॥ ४६ ॥
ता एव पूर्वोक्ता एव विवेकख्यात्यभावेन बन्धबीजसत्त्वात्सबीजः समाधिरित्यर्थः ॥ ४६ ॥
इत्थं संप्रज्ञातमुपसंहृत्यासंप्रज्ञातमुपायप्रत्ययमुपसंहर्तुं तस्य पूर्वरङ्गं निर्विचारातिशयमाह –
निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ ४७ ॥
निर्विचारस्य प्रधानपर्यन्तसूक्ष्मगोचरस्य यद्वैशारद्यमभ्यासपाटवेन तस्य प्रधानान्तन्यग्भावाच्चितिशक्तेरुद्वेगः, तस्मिन्सत्यध्यात्मनश्चितिशक्तेः प्रसादः ख्यातिर्जायते ॥ ४७ ॥
ततः किम् ? –
ऋतंभरा तत्र प्रज्ञा ॥ ४८ ॥
तत्र पुरुषख्यातौ सत्याम् ऋतम् सत्यमात्मानं बिभर्ति प्रकाशयतीति ऋतम्भरा प्रज्ञा धर्ममेघः समाधिर्जायत इत्यर्थः ॥ ४८ ॥
ऋतम्भरत्वोपपत्तिमाह –
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ ४९ ॥
सूक्ष्मव्यवहितविप्रकृष्टवस्तुषु योगिप्रत्यक्षं  निर्वर्तते । आगमानुमानाभ्यां तानि वस्तूनि ज्ञायन्ते । ते च श्रुतानुमानजन्ये प्रज्ञे सामान्यमेव गोचरयतः । इदं तु योगिप्रत्यक्षं विशेषगोचरत्वादृतम्भरमित्यर्थः ॥ ४९ ॥
तस्याः प्रज्ञाया असम्प्रज्ञातसमाधौ बहिरङ्गत्वसिद्ध्यर्थमुपकारित्वमाह –
तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ ५० ॥
तस्याः प्रज्ञाया अभ्यासजन्यो यः संस्कारः, स चान्यान्व्युत्थानसंस्कारान्प्रतिबध्नाति बाधत इति तत्प्रतिबन्धीत्यर्थः ॥ ५० ॥
इत्थमसंप्रज्ञातसमाधेर्बहिरङ्गसाधनमभिधाय निरोधप्रयत्नस्यान्तरङ्गसाधनतां सूचयन्निर्बीज-मुपसंहरति –
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ ५१ ॥
परवैराग्यसहकृतविरामप्रत्ययेन प्रज्ञासंस्कारस्यापि निरोधे सत्युत्पत्स्यमानप्रज्ञासंस्कारस्य सर्वस्यापि निरोधादशेषबन्धनिवृत्तेर्निर्बीजः समाधिर्लभ्यते । तस्मिन्समाधौ लब्धे सति पुनर्व्युत्थातुमशक्तं सच्चित्तं नश्यति । ततः कूटस्थनित्यानन्ता शुद्धा चितिशक्तिः स्वे महिम्नि निरन्तरं निर्विघ्नमवतिष्ठत इत्यतिशोभनम् ॥ ५१ ॥
इति श्रीमत्पतञ्जलिप्रणीते योगशास्त्रे योगसुधाकराभिधायां वृत्तौ
॥ समाधिपादः समाप्तः ॥