॥ श्रीः ॥
॥ भूमिका ॥
प्राचीनादेव कालात् नरा आध्यात्मिकाधिभौतिकाधिदैविकाभिधानैस्त्रिभिर्दुःखैर्मुहुर्मुहुः पीड्यमाना दुःखनिवृत्तये कृतप्रयत्ना अपि क्लेशान्निःशेषं निरसितुमक्षमा एव भवन्ति । निसर्गादेव करुणार्द्रहृदयाः प्राक्तना मुनिवरा भवनिमग्नं जनमुद्दिधीर्षवः काले काले प्रदेशे प्रदेशे च दुःखनिरसनोपायानधिजग्मुः । तत्त्वज्ञानानधिगम एव दुःखनिदानम् । तत्वज्ञानप्राप्तिरेव दुःखनिरसनोपाय इति चोपलेभिरे । भिन्नकालदेशेषूपलब्धमपि तत्वविषयाणामनेकत्वात् कयाचन विधया पञ्चधा सप्तधा वा विभक्त आसीदेष उपायः । प्रतिभागं चर्चिता विषयाः सूत्ररूपेण निबद्धा दर्शनमिति व्यपदेशं भेजिरे ।
दर्शनान्येतान्यास्तिकनास्तिकभेदेन द्विधा विभक्तानि । पाणिनिसूत्रेण (4-4-60)
“अस्ति नास्ति दिष्टं मतिः”
इत्यनेनास्य विभागस्य प्रमाणं प्रदर्शितं भवति । एतत्सूत्रव्याख्यात्रा भट्टोजिदीक्षितेन—
तदस्येत्येव । अस्ति परलोक इत्येवं मतिर्यस्य स आस्तिकः । नास्तीति मतिर्यस्य स नास्तिकः । दिष्टमिति मतिर्यस्य स दैष्टिक इति पदानामेषां विवरणं कृतम् । एतस्मिन् विवरणेऽभ्युपगते, आस्तिकत्वेनाभिता मीमांसकाः परलोकानभ्युपगन्तारो नास्तिकव्यपदेशभाजो भवेयुः । एतत्परिहाराय आस्तिकनास्तिकशब्दौ वेदप्रामाण्याभ्युपगन्तृत्वानभ्युपगन्तृत्वमूलकौ दार्शनिकैर्निर्णीतौ । प्रक्रियामेनामभ्युपगभ्य चार्वाकजैन्बौद्धानि दर्शनानि नास्तिकानि, न्यायवैशेषिकसांख्ययोगपूर्वमीमांसावेदान्तदर्शनान्यास्तिकानीति विभागोऽभ्युपगतः ।
आस्तिकदर्शनेषु सांख्यमपहाय तत्वहितोपायस्सूत्ररूपेण निबद्धाः प्राचीनकालादेव पतञ्जलि गौतम कणाद जैमिनि बादरायणैः प्रणीताः । प्राचीनैर्दार्शनिकैरनुद्धृतत्वात् कपिलकर्तृकत्वेन विदितान्यपि सांख्यसूत्राणि न प्रमाणापदवीमभजन् ।
सांख्यमतं चातिप्राचीनमेव । इदम्प्रथमतयास्मिन् एव ज्ञानस्य मुख्यत्वं चेतनाचेतनविभागश्च निरूपितौ । आत्मा ज्ञानमयश्चेतनपदाभिधेयः । बहव आत्मानः कर्तृत्वरहिता अक्रियाश्चेति प्रकृतिचेतना सततपरिणामिनी कर्तृत्वोपेता भोक्तृत्वरहिता, सत्वरजस्तमोगुणोपेतेति चास्मिन् दर्शने सिद्धान्तः । गुणपदेनाभिहितान्यपि सत्वरजस्तमांसि द्रव्याण्येव ।
प्रकृतेर्महदाख्या बुद्धिरुत्पद्यते, बुद्धेरहङ्कारः तस्मात् पञ्च्अ बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणि मनः, पञ्चतन्मात्रा इति षोडश उत्पद्यन्ते । तन्मात्रतः पञ्चभूतानि चतुर्विंशतिस्तत्वानि परिगण्यन्ते । पुरुषेणात्मेत्यपरव्यपदेशेन साकं पञ्चविंशतितत्वान्यभ्युपगम्यन्ते ।
प्रकाशचलनाचलस्वभावैर्युक्त सत्वरजस्तमोभिरुपेता प्रकृतिः । प्रकृतेरुत्पन्नेष्वपि महदादिष्वपि गुणा एते विद्यन्ते । गुणेषु वैषम्यात् प्राकृतवस्तुषु वैषम्यमुपलभ्यते । अत एव सुखदुःखादिकं तरतमभावेन पुरुषं पीडयति । यद्यपि पुरुषो गुणरहितो भवति अथापि बुद्धावुत्पन्नेषु विविधभावेषु स आत्मन एवैते भावा इत्यध्यवस्यति सुखदुःखादिकमनुभवति च । यदा प्रकृतिपुरुषयोर्वैलक्षण्यमुपलभते तदा पुरुषो न ममैते भावा इति प्रकृतिकृतविक्रियाभ्यो दूर एवावतिष्ठते तदानीमात्मनस्स्वरूपं वेत्ति, कैवल्याख्यं मुक्तिस्वरूपं च भजते ।
एष तत्वसंग्रहः सांख्यकारिकायामीश्वरकृष्णाभिधानेन रचितायां विशदीकृतः । महाभारते च शान्तिपर्वणि सांख्यमतमनेकेषु प्रकरणेषु निरूपितम् । ईश्वरप्रेरणया प्रकृतिः परिणामं भजत इति वर्णितम् । कपिलेनेदं मतमासुरये प्रोक्तम्, आसुरेः पञ्चशिख इदमधिजगाम विन्ध्यवासिवार्षगण्य जैगीषव्य देवलप्रभृतय इदं मतं प्रावर्तयामासुरिति ज्ञायते । षष्टितन्त्राख्यो विपुलः सांख्यग्रन्थो लुप्तः । तत्रत्यविषयास्तु पाञ्चरात्राहिर्बुध्न्यसंहितायां (12-19-30) परिगणिताः ।
सांख्यमतोक्तं तत्वमखिलं योगदर्शनेऽभ्युपगतम् । ईश्वरः षड्विंशं तत्वम् । बुद्धयहंङ्कारमनांसि चित्तमित्यान्तरिन्द्रियेणैकेनैव व्यपदिश्यन्ते । चित्ते सत्वगुणोऽधिकतया रजस्तमोभ्यामपेक्षया भासते । अत एव प्रकाशस्तत्र भूयान् वर्तते । पराण्यपि प्रकाशयति । गुणत्रयेण चितं सततं परिणमति । अयं परिणामो वृत्तिशब्देन व्यपदिश्यते । इन्द्रियाणि बाह्यवस्तून्यपि गुणवैषम्योपैतानि । अत एव सुखदुःखादिभावाश्चित्ते जायन्ते । प्रत्यात्मं प्राकृतशरीराणां विभिन्नत्वात् सुखदुःखान्येकरूपाण्येव न जायन्ते । सत्वेन प्रकाशमाने चित्ते आत्मा ज्ञानमयस्स्वं प्रतिबिम्बितं पश्यति । तत्रोत्पन्नाभिवृत्तितभिरात्मा एव बाधित इत्यनुभवति । इयमेवावस्था बन्धः । न ममेति यदानुभवति स मुक्त एव । ईदृशोऽनुभवो न सर्वेषां सर्वदा उत्पद्यते । उत्पन्नोऽपि वृत्तिवशादेषोऽनुभवो नश्यत्येव । तत्वज्ञाने उत्पन्नेऽपि पुरुषस्य वृत्तिभिर्न बाधा जायेतेति वक्तुं न शक्यते । अतो योगदर्शने वृत्तिनिरोधः कार्य इति सिद्धान्तितम् ।
युज समाधौ इति धातोः अथवा युजिर्योगे इति धातोर्निष्पन्नो योगशब्धः । समाधेस्साधनत्वेन यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोष्टावङ्गानि (योग. सू 2-29) इत्यत्राष्टावङ्गानि परिगणितानि । ध्यातुः प्रेप्सितं यद्वर्तते तदेव ध्येयं भवितुमर्हति । यमादिप्रत्याहारपर्यन्तानामङ्गानां ध्येयत्वेन विषयो नास्ति । परं तु धारणादित्रयाणामेतदङ्गपञ्चकमवश्यमपेक्ष्यते । अत एव जैनैर्बौद्धैश्चाङ्गपञ्चकमाद्रियते ।
योगश्चतुर्विधो मन्त्रलयहठराजेति नामभिः प्रसिद्धः । द्वादशाक्षरान् मन्त्रयोगिनो ध्यायन्ति । कार्यं कारणे यथा लीनं भवति तथा ये योगं कुर्वन्ति ते लययोगिन उच्यन्ते । प्रायो योगोऽयं शैवमते प्रसिद्धः । यमाद्यङ्गानुष्ठानाय शरीरश्च मनसश्च दार्ढ्यमपेक्ष्यते एतदर्थं हठयोगोऽनुष्ठेयः । योगश्चायं राजयोगानुष्ठानाय कल्पते । पूर्वमेवानुष्ठितोयं योगः पतञ्जलिना प्रचारतां नीतः ।
राजादन्तादिषु परम् (अष्टाध्यायी 2-2-31) इति सूत्रं राजयोगशब्दं प्रमाणयति । दन्तानां राजा राजदन्तः । पूर्वपदत्वेन प्रयोज्योऽयं दन्दशब्द उत्तरपदं भवति । तथा राजयोगपदं प्रामाणिकं भवति । स्वात्मारामयोगीन्द्रेण प्रणीतायां हठयोगप्रदीपिकायां नरहरिकृते बोधसारे च विभागोऽयं निरूपितो भवति ।
हिरण्यगर्भेणायं योगः प्रप्रथमं प्रवर्तितः । विष्णुपुराणभागवतभगवद्गीताहिर्बुध्न्यसंहिता- सनत्कुमारसंहितादिषु योगो वर्णितः । पश्चादेव पतञ्जलिना ग्रन्थरूपेण रचितः ।
योगसूत्रे 195 सूत्राणि सन्ति । समाधिनाम्नि प्रथमे पादे 51 सूत्राणि, साधनाख्ये द्वितीये 55, विभूत्यभिधाने तृतीये 55, कैवल्यनाम्नि च तुरीये 34 ? सूत्राणि सन्ति ।
चतुर्थे पादे सूत्राणामितरपादस्थेभ्योऽल्पसंख्यावत्वात् तृतीयपादान्ते केषुचित्कोशेषु ग्रन्थसमाप्तिद्योतनायेतिशब्दस्य प्रयुज्यमानत्वाच्च पतञ्जलिश्चतुर्थपादं न प्रणिनायेति केचिन्मन्यन्ते । ग्रन्थे कस्मिंश्चिद्भागे सूत्राणां श्लोकानां वा संख्या तद्भाभागकर्तृत्वसाधनाय न नियमयति, अपि तु तद्भागगतविषया एव गणनामर्हन्ति । कतिपयकोशेषु कुत्रचित् प्रयुक्तः इतिशब्दः तद्ग्रन्थसमाप्तिं सूचयितुं नालम् । तुरीये पादे प्रतिपाद्यमाना विषयाः कतिपय एव । अत एव तत्र सूत्राणि पादत्रयापेक्षया न्यूनानि भवन्ति । समग्रां सूत्राणां पतञ्जलिरेव कर्ता इति सिद्धम् ।
शब्दानामनुशासनं विदधता पातञ्जले कुर्वता
वृत्तिं राजमृगाङ्कसंज्ञकमपि व्यातत्वता वैधके ।
वाक्चेतोवपुषां मलः फणिभृतां भर्त्रेव येनोद्धृत-
स्तस्य श्रीरणरङ्गमल्लनृपतेर्वाचो जयन्त्युज्वलाः ॥
भोजकृतयोगसूत्रवृत्तौ उपोद्धाते पञ्चमः श्लोकः ।
एतस्माच्छ्लोकात् पतञ्जलिर्महाभाष्यं चरकसंहितां योगसूत्राणि च प्राणैषीदित्यवगभ्यते । विभिन्नविषयाणां ग्रन्थानां त्रयाणामेषां पतञ्जलेः कर्तृत्वाभ्युपगमो विमर्शकेभ्यो न रोचते एकस्मिन्नपि ग्रन्थे इतरेभ्यः स्वाभिप्रायस्य प्रामाण्यस्थापनार्थं संवादार्थं वा वचनं पतञ्जलिना नोपात्तम् । नापीतरयोर्ग्रन्थयोर्नामग्रहणमिति कारणमपि स्वपक्षस्य प्रदर्शयन्ति । एष पक्षो हातुं युज्यते, यतः चक्रपाणिना स्वेन रचितायां चरकसंहिताव्याख्यायां नागेशभट्टेन लघुमञ्जूषायां च पतञ्जलेरपरनामधेयेन शेषशब्देनैताभ्यां वाक्यान्युद्धृतानि सन्ति । विभिन्नविषयत्वेन ग्रन्थान्तरस्य नामनिर्देशाभावेन च ग्रन्थानाम् एकेनैव कर्तृत्वाभ्युपगमो न दोषाय इति मन्तव्यम् । पतञ्जलेर्ग्रन्थत्रयस्य कर्तृत्वाभ्युपगमे न किंचिदप्यसङ्गतम् ।
अथ योगानुशासनम् । (यो. सू. 1.1) इति प्रथमसूत्रप्रणयनेनैव योगस्यानुशासनं क्रियत इति पतञ्जलिना आवेद्यते । सिद्धस्यैव योगस्य शासनं क्रियते । अत एव पूर्वपक्षसिद्धान्तयोर्न पदमत्र दत्तम् ।
एतेन योगः प्रत्युक्तः । (ब्रह्मसूत्रम् 2-1-3) इति सूत्रेण योगदर्शनं बादरायणेन खण्डितम् । अविरोधाध्याये ब्रह्मेतरत् कारणमिति विवदमानानां दर्शनानि खण्डितानि । हिरण्यगर्भो न ब्रह्म, अतस्तेन प्रवर्तितं दर्शनं न प्रमाणमिति बादरायणस्याशयः ।
योगसूत्राणां प्रथमो भाष्यकर्ता व्यासः । कोऽयं व्यासः? किमयं वेदव्यासः? उतैतन्नामभाग् अन्य इति संशीतिनिरसनाय प्रमाणं किंचिदपि नोपलभ्यते ।
योगसूत्रभाष्ये योग एव समाधिरित्युक्तम् । विशोका वा ज्योतिष्मती (यो.सू. 1-36) इतीदं सूत्रं विशोका ज्योतिष्मतीति द्विधा विभज्योभे अप्युपायभूते इति निरूपितम् ।
स्मृतिपरिशुद्धौ स्वरूपशून्ये वार्थमात्रनिर्भासा निर्वितर्का (यो. सू. 1-43) इत्यस्य व्याख्यानावसरे प्राचीनाज्ञातकर्तृकश्श्लोक एक उदाहृतः ।
व्यासकृतस्य भाष्यस्य भगवच्छङ्करपादैः प्रणीतं विवरणं, वाचस्पतिमिश्रकृता तत्ववैशारदी, विज्ञानभिक्षुकृतं योगवार्त्तिकं चेति व्याख्यानत्रयमुपलभ्यते । शङ्करभगवत्पादैर्विवरणाख्यं व्याख्यानं कृतमित्यत्र दृढं प्रमाणं नोपलभ्यते । यदि भगवत्पादीयमिदं विवरणमभविष्यत् तर्हि शङ्करभगवत्पादकृतब्रह्मसूत्रभाष्यस्य भामतीनाम्नीं व्याख्यां कृतवन्तो वाचस्पतिमिश्रा विवरणमविगणय्य व्यासकृतभाष्यं नाव्याख्यास्यत् । किं च शङ्कराचार्याणां व्याख्यानादस्मात् संवादायापि वचनं किंचिदपि वाचस्पतिमिश्रा नोपाददिरे । न कोऽपि विशेषांशो विवरणे अस्मिन्नुपलभ्यते ।
तत्त्ववैशारद्यां च
ईश्वरप्रणिधानाद्वा (यो. सू. 1-23) इतीदं सूत्रं विवृण्वन्तो मिश्रा मनोवाक्कायैरुपासनं प्रणिधानपदेनाभिहितमिति वदन्ति ।
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः (यो. सू. 1-32) इत्यत्र एकतत्त्वपदमीश्वरमभिदधातीति प्रदर्शयन्ति । विज्ञानभिक्षुकृते योगवार्त्तिके केचन विशेषांशा उपलभ्यन्ते ।
योगश्चित्तवृत्तिनिरोधः इत्यत्र लय एव निरोधपदेनाभिहित इत्युक्तम् ।
तस्य वाचकः प्रणवः (यो. सू. 1-27) इत्यस्य सूत्रस्य
व्याख्यानावसरे लिङ्गपुराणात्सार्धाष्टादशभिः श्लोकैरस्य सूत्रार्थो निर्धारितः ।
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः (यो. सू. 1-32) इत्यत्रैकपदेन स्थूल एवार्थोऽभिधीयते, न त्वीश्वरः । इतरथा सूत्रकारेणेश्वरपदमेव प्रयुक्तं स्यात् । वाचस्पतिमिश्राणां मतमत्रखण्डितमिव भाति ।
क्षीणावृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनतासमापत्तिः (यो. स. 1-41) इति सूत्रे प्रयुक्तं समापत्तिपदं तान्त्रिकमित्युक्तम् । प्रथमपादे 2, 7, 10, 19 & 24, सूत्राणि कैश्चिदद्वैतपफराणि वर्णितानि अत्र खण्डितानि ।
योगसूत्राणामन्या व्याख्याः ः-
1. भोजराजकृता वृत्ती राजमार्ताण्डाभिधा । ईश्वरप्रणिधानं क्रियमाणाः क्रियाः सर्वा ईश्वरे समर्पणीया इति भावं व्यञ्जयतीत्युक्तम् । सर्वेषां गुरुरित्यत्र गुरुपदस्य सर्वेषामुपदेष्टेत्यर्थः । मैत्रीकरुणेत्यत्र (यो. सू. 1-33) गणितशास्त्राच्छ्लोक एक उदाहृतः ।
2. विज्ञानभिक्षोरन्तेवासिना भावागणेशेन प्रणीता पातञ्जलवत्तिः । अस्मिन् मते ख्यातिवादोऽन्यथाख्यातिरूपः । मुख्यं वैराग्यं यतमानसंज्ञा, एकेन्द्रियसंज्ञा, वशीकारसंज्ञेति चतुर्धा
भिद्यत इत्युक्तम् । पूर्वेषामपि गुरुरित्यत्र (यो. सू. 1–26) गुरुपदं ज्ञानचक्षुषः प्रदातारमभिदधत्सर्वेषां भगवतोऽन्तर्यामितया विद्यमानत्वादिदं युज्यत इत्युक्तम् । वीतरागविषयं वा चित्तम् (यो. सू. 1-37) इत्यत्र सनन्दसनकादयो वीतरागशब्देनाभिप्रेता इत्युच्यते ।
यथाभिमतध्यानाद्वा (यो. सू. 1-39) इत्यत्र हरेर्हरस्य वा मूर्तिर्यथाभिमतपदेन निर्दिष्टा इत्युक्तम् ।
3. वैयाकरणमूर्धन्यमणिना नागेशेन प्रणीता वृत्तिः । सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् (यो. सू. 1-45)
इत्यत्रेश्वरस्य जगतो निमित्तकारणमेवोक्तम् । 26, 50 सूत्रे अद्वैतमतरीत्या व्याख्याते ।
4. रामानन्दसरस्वतीभी रचिता व्याख्या मणिप्रभा । प्रथमकल्पितमधुभूमिकप्रज्ञाज्योतिरतिक्रान्तभावनीया इति योगिनश्चतुर्विधा इत्युक्तम् । सत्वोद्रिक्त ईश्वरे इतरेभ्यो ज्ञानप्रदत्वं संभाव्यत इति निरूपितम् ।
5. अनन्तदेवेन प्रणीता चन्द्रिकाभिधाना व्याख्या नितरां संग्रहरूपा ।
6. सदाशिवब्रह्मेन्द्रसरस्वतीभिः प्रणीता योगचन्द्रिका व्याख्या । अत्र बहूनि सूत्राण्यद्वैतपरतया व्याख्यातानि ऋतम्भरा प्रज्ञा धर्ममेधसमाधिमभिधत्ते इत्युक्तम् ।
7. कृष्णवल्लभेन कृता वृत्तिः । वेदेतिहासपुराणेभ्यो वाक्यान्युद्धृत्य स्वव्याख्यां प्रमाणीकरोति । योगसिद्धये ईश्वरानुग्रहः सर्वथापेक्ष्यत इत्युक्तम् । ईश्वरो वासुदेव एव ।
योगतत्त्वप्रतिपादकग्रन्थेषु
1. नाथाधोरानन्दनिर्मिता योगकर्णिका मुख्या । अष्टादशस्वध्यायेषु आसनाङ्गसहितानि योगतत्त्वानि स्पष्टं निरूपितानि ।
2. भगवता नारायणेन भरद्वाजायोपदिष्टा योगविधयो हंसयोगिना योगदीपिकाख्ये ग्रन्थे विवृताः । कृतिरियं शैवमतस्य बहूपकरोति ।
3. योगभागमात्रप्रतिपादिका वासिष्ठसंहिता योगसूत्रविषयान् हठयोगांश्च वर्णयति ।
4. विज्ञानभिक्षुणा कृतो योगसारसंग्रहो नाम ग्रन्थो योगतत्साधनसिद्धिकैवल्यानि सम्यङ् निरूपयति ।
5. शिवानन्दसरस्वतीभी रचितो योगचिन्तामणिनामको ग्रन्थः । प्रत्याहारधारणाहठयोगसिद्धान्तरहस्यानि विशदमत्र निरूपितानि भवन्ति ।
योगविषयानधिकृत्य केचन ग्रन्था रचिता उपलभ्यन्ते ।
1. परमेश्वरयोगीन्द्रकृतं योगरहस्यम् । शैवमतमवलम्ब्य रचितमेतत् ।
2. योगरहस्याभिधानोऽन्यो ग्रन्थो हस्तिगिरिमाहात्म्येऽन्तर्गतः । वैष्णवसंप्रदायमनुरुध्य प्रणीतोऽयं ग्रन्थः ।
3. परमहंसैर्नारायणतीर्थैः अष्टाङ्गयोगनिरूपणम् , अष्टाङ्गयोगविवरणम्, योगसूत्रवृत्तिश्च प्रणीतानि ।
अत्र मुद्रिता योगवल्लीनाम्नी योगसूत्रव्याख्या मद्रपुरीमलङ्कर्वाणैस्तिरुमलैकृष्णमाचार्यै रचिता योगसूत्रवृत्तिरूपा । व्याकरणमीमांसाशास्त्रयोः परिणतप्रज्ञा एते योगशास्त्रे तत्प्रयोगे चानितरसाधरणं कौशलं वहन्ति । प्रत्यहं नित्यकर्मानुष्ठानं योगसंप्रदायसिद्धाभिः विधाभिः आचरन्त एते यदस्य न किंचिदपि पदमददानाः छात्रानपि सन्मार्गे प्रवर्तयन्तो विलसन्ति ।
आचिनोति च शास्त्रार्थमाचारे स्थापयत्यपि ।
स्वयमाचरते यस्मात्तस्मादाचार्य उच्यते ॥
इत्याचार्यलक्षणं नूनमेतान् लक्ष्यीकृत्य निर्मितम् । हिमालयवासाल्लब्ध योगप्रयोगतत्त्वा एते मद्रपुर्यां योगमन्दिरं निर्माय छात्रानभ्यस्तयोगान् कुर्वन्तो योगसूत्राणां संप्रदायादवाप्तं सूक्ष्मेक्षिकया चोपलब्धं परमं तात्पर्यं परस्मा आवेदनाय योगवल्लीनामकं व्याख्यानं प्रणीतवन्तः । अत एवैतेषां सूत्राणां योगिवर्यैरेभिः कृता वृत्तिः प्रामाण्यपदवीमध्यास्त इत्यत्र न कोऽपि संशयः ।
आस्तिकदर्शनत्वेनाभिमतेषु योगशास्त्रतत्वप्रतिपादकेषु पतञ्जलिप्रणीतेषु योगसूत्रेषु स्वाध्यायानुश्रविकेति पदद्वयमुपलभ्यते । वेदवचसा योगशास्त्रतत्त्वं प्रामाण्यं भजत इति निरूपयितुं योगवल्लीकारा बहूनि वाक्यान्युदाहरन्ति । छान्दोग्य-तैत्तिरीय-मुण्डकोपनिषद्भ्य एतानि वचनान्युपात्तानि । तथाहि —
ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत । इति ।
(म. ना. उ. 5-5)
निर्विचारवैशारद्यामवस्थायां जीवस्य स्वस्वरूपज्ञानं जायत इति ज्ञापनायोपात्तमिदं वचनम् ।
ऋतम्भरा तत्र प्रतिज्ञा । (यो.सू. 1 — 48) इत्यत्र मुण्डकोपनिषन्मन्त्रेणोपो?बलयति ।
प्रणवो धनुः शरोह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ इति ।
(मु. उ. 2-2-4)
नागोजिभट्टसदाशिवब्रहोन्द्रसरस्वतीप्रभृतयो योगसूत्राण्यद्वैतपरतया व्याचख्युः । योगवल्लीकारा इमानि सूत्राणि विशिष्टाद्वैतपरतया व्याचक्षते । कीदृशी रीतिरत्र युक्ता इति विमर्शजाले विनिपातं वर्जयित्वा कथमेते व्याचक्षत इति परामृशामः । योगसूत्रेषु न कुत्रापि जगतो मृषात्वं निर्दिष्टम् । सत्यं जगदित्यभ्युपगम्य, ब्रह्म सगुणमेव, तच्च लक्ष्मीनारायण एवेति निर्णीतम् । ईश श्वर्येति धातोर्निष्पन्न ईशशब्द ईश्वरीमप्यभिधत्ते ।
उभौ एकं तत्त्वमेव । उपनिषद्भ्यः पुराणादिभ्यश्चैतत्समर्थयितुं वचनानि योगवल्लीकारैः प्रदर्शितानि । ईश्वरप्रणिधानाद्वा । (यो. सू. 1–23) इत्यत्र वाशब्दो विकल्पार्थकः । चित्तवृत्तिनिरोधाय येऽशक्तास्तेषां कृते ईश्वरप्रणिधानं सुकरोपाय इति पतञ्जलिनेदं सूत्र प्रणीतमिति व्याख्यातारो मन्यन्ते ।
भगवन्नाथमुनेराशयं विदित्वा योगवल्लीकारा वाशब्दस्यावधारणार्थकमेवेति निश्चिन्वन्ति । उदाहरन्ति चात्र नामलिङ्गानुशासनात्प्रमाणम् । तद्यथा —
स्युरेवं तु पुनर्वैवेत्यवधारणवाचकाः (3-4-15) इति विकल्पार्थकस्य वाशब्दस्यावधारणार्थत्वाभ्युपगमाय युक्तिं प्रमाणं चैते व्याख्यातारः प्रदर्शयन्ति । पश्वालम्भाश्वमेधादय- स्सुत्रकारैर्विहिता अपि कृतयुगीनैरेवानुष्ठातुं क्षमाः । तनूयमाने तपसि, म्लायति ज्ञाने, जीर्यति यज्ञे दानमेवाचरितुं कलौ जनाः प्रभवन्ति । तथा चोक्तं न्यायाचार्यैः—
वैदिका अप्याचारा राजसूयाश्वमेधादयः समुच्छिद्यमाना दृश्यन्ते, यत इदानीं नानुष्ठीयन्ते । न चैते प्रागपि नानुष्ठिता एव । तदर्थस्य वेदराशेरप्रामाण्यप्रसङ्गात् इति ।
न्यायकुसुमाञ्जलिः स्तबक 2.
आयुरारोग्यबलवीर्यश्रद्धाशमदमग्रहणधारणादिशक्तिः अहरहरपचीयमानान्येवानुभूयन्ते । तथा चित्तवृत्तिनिरोधोऽद्य कलौ कथमनुष्ठातुं शक्यते । अत ईश्वरप्रणिधानमेव कार्यम् । अनेन वृत्तिनिरोधं विदधन्ति सूत्राणि एव प्रामाणिकानीति न मन्तव्यम् । योगाङ्गानामष्टानामपीश्वरप्रणिधानायोपकारकत्वं भवत्येव । ध्यातृध्येयध्यानावयवत्रयं योगाभ्यासे वर्तते । ध्याता जीवः । ध्येयं वस्तु परमात्मा एव, न तु प्राकृतं यत्किंचिद्वस्तु यतस्तस्मिन् ध्येयेऽचेतनं वस्तु घ्यायतश्चित्तवृत्तिनिरोधः न कदाचित् सेत्स्यति । ध्यानं नामोपासनमेव । तदपि ज्ञानरूपमेव । ज्ञानमयेन जीवेन ध्यात्रा ज्ञानरूप ईश्वरो ध्येय इति साम्प्रतम् । यो जीवः “अहं जानामि” इत्यनुभवं प्राप्नोति, तेन सोऽनुभवो ज्ञानमय एवानुभूयेत । अनुभवविषयज्ञानमात्मनि जायते । ज्ञानमये आत्मनि विषयस्य ज्ञानमुत्पद्यते । अत एवाहं जानामीति जीवस्यानुभवः । विषयज्ञानमात्मस्वरूपे ज्ञाने धर्मतया भासते । अतो विषयज्ञानं धर्मभूतज्ञानमित्युच्यते । अनेन धर्मभूतज्ञानेन ध्यानरूपेण ध्येयं वस्तु जीवेन ज्ञायते । विषयज्ञाने उत्पन्ने किमात्मा मम एतद्विषयकज्ञानमुत्पन्नमित्यध्यवस्यति ? सर्वेषां नेत्येवेति वक्तव्यं भवति । यदि न कथं तर्हि योगिनां ध्यातृध्यानध्येयेति त्रितयस्यानुभवः? अतो भगवन्नाथमुनिप्रणीतं योगरहस्यमाधारीकृत्य अहंग्रहोपासनमेतदर्थमाचरितव्यमिति योगवल्लीकारा अभिप्रयन्ति ।
अहमिति पदस्यात्मेत्यर्थः । ग्रहो ज्ञानम् । अहंग्रहोपासनं नामाहमिति ज्ञानवता ईश्वर उपाय इत्यर्थं निर्दिशति ।
अत्र त्वयमाक्षेप उद्भवेत् । अहमित्यस्य पदस्याहङ्कारोऽप्यर्थो विद्यते । तथाचाहंग्रहोपासनमाहङ्कारिकज्ञानोपासनमेव स्यात् । अहङ्कारस्य प्राकृतस्योपासनेन पुनः संसृतिरेव स्यात् ।
कुतो मुक्तिवार्तेति ।
अत्रेत्थं समाधीयते । गौर्गच्छतीत्यादौ गमनं गोपिण्डनिष्ठम् । तच्चाचेतने क्रीडार्थं निर्मिते गोपिण्डे नोपलभ्यते । जीवत्येव गोपिण्डे तदृश्यते । गौर्गच्छतीत्यस्य गोपिण्डस्यान्तर्विद्यमानस्य जीवस्य प्रयत्नादेव गोपिण्डं गच्छतीति व्यवहरोऽपि संगच्छते । अतो गोपदं गोपिण्डान्तर्विद्यमानमात्मानं मुख्यया वृत्त्याभिधत्त इत्यङ्गीकार्यम् । तथा चाह कणादो मुनिः —
देवदत्तो गच्छति यज्ञदत्तो गच्छतीत्युपचारे प्रत्ययः । इति वैशेषिकसूत्रम् । (3-2-12) देवदत्तशरीरे, यज्ञदत्तशरीरे, गोःशरीरे च प्रयुज्यमाना देवदत्तयज्ञदत्तगोशब्दा औपचारिकवृत्तयैव शरीराण्येतान्यभिदधतीत्यङ्गीकार्यम् ।
यथा गौरिति शब्दो गोपिण्डविशिष्टात्मानमभिधत्ते, तथा आत्मेति पदमपि तस्यान्तर्यामिणं परमात्मानमभिधत्ते । अचेतनानां चेतनानां च परमात्मा एवान्तर्यामी । चेतनाचेतने शरीरभूते परमात्मनः अतो गोशब्दो गोपिण्डविशिष्टस्य जीवस्यान्तर्यामिणः परमात्मनो वाचकः । तथा चोपनिषद्वाक्यम्—
यः तृथिव्यां तिष्ठन् तृथिव्या अन्तरः यं तृथिवी न वेद यस्य पृथिवी शरीरं यः तृथिवीमन्तरो यमयति एष तेऽन्तर्याम्यमृतः । बृहदारण्यकोपनिषत् 3–7–3
य आत्मनि तिष्ठन् आत्मनोऽन्तरः यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति एष तेऽन्तयम्यमृतः । बृ. आ. उ. 3-7-22.
एवमहंशब्दश्शरीरविशिष्टपरमात्मनो वाचकः । अहंग्रहोपासनं च स्वशरीरान्तर्यामीत्यस्य ज्ञानस्योपासनमित्यर्थः । प्रतर्दनविद्यायां मामुपास्स्वेति वचनमस्योपासनं प्रमाणयति । अहंग्रहेत्यस्य मच्छरीरविशिष्टपरमात्मज्ञानमित्यर्थः ।
एतादृशोपासनार्थं प्रतिमायाः पूजनमावश्यकम् । लोहेन मृदा वा विष्णोः सुरूपां प्रतिमां निर्माय पाञ्चरात्रविधानेन तस्याः प्राणप्रतिष्ठा कर्तव्या । तस्याः पुरत उपविश्य त्राटकाख्यतान्त्रिकविधया तामीक्षेत । तामेव प्रतिमां पूजयेत् । अनन्तरं समाध्यर्थं प्रयतेत ।
विष्णुपरयोगक्रमं विवृण्वन्तो भगवन्नाथमुनयो योगरहस्यं नाम ग्रन्थं प्रणिन्युः । स ग्रन्थोऽत्यन्तं लुप्तः । नाथमुनेः शिष्यस्तं ग्रन्थं योगक्रमं चाधिजगाम । कुरुकेश्वरनाम्न एतच्छिष्याद्यामुनमुनयः कृतप्रयत्ना अपि ग्रन्थमिमं न गृहीतवन्तः । परं तु गुरुपरम्परातः किमयं ग्रन्थो नाधिगतः, उत तत्र प्रतिपादितं योगरहस्यं वेति निश्चेतुं न शक्यते । लुप्तादस्माद् ग्रन्थात् कथं योगवल्लीकारा वचनान्युदाहर्तुं प्रभवन्ति? वादचिकित्सादिनाम्ना तत्रस्थप्रकरणानि कथमेते जानन्तीति महान् संशयो वर्तते ।
अस्य समाधिश्चैवं भवितुमर्हति । योगवल्लीकारा योगशास्त्रे प्रयोगे च कुशलाः, सिद्धिमन्तश्च । आप्तानामैषां वचांसि प्रमाणतया ग्राह्याण्येव ।
प्रत्ययस्य परचित्तज्ञानम् (यो.सू.3–19) इति सूत्रेण पतञ्जलिर्योगी सत्त्वोद्रिक्तः परेषां चित्ते विद्यमानानां
प्रत्ययानां ज्ञानं लभत इति वक्ति । परेषां चित्तानि यदानेन समाहितानि क्रियन्ते तदा तत्र विद्यमानानां ज्ञानमप्युपलभ्यते ।
परिणामत्रयसंयमात् अतीतानागतज्ञानम् । (यो. सू. 3-16) इति सूत्रे धर्मलक्षणावस्थात्रयपरिणामान् समाधायातीतकालीनानागतकालीनयोर्वस्तुनोः प्रत्यययोर्वा ज्ञानं लभत इत्युक्तम् । रजस्तमोभागौ प्रतिबध्य चित्ततस्य सत्त्वभागो यदा समाधीयते, तदा भूतकालभविष्यत्कालाभ्यां संबद्धानां विषयाणां ज्ञानं योगी प्राप्स्यतीति सूत्रस्यार्थः ।
भगवन्नाथमुनिभिरप्येवमेव शठकोपसूरेः कालधर्मं गतस्यापि चित्ते निष्ठिताश्चतुःसहस्रगाथाः प्रापेत्यभ्यूहितुं शक्यते । योगवल्लीकारा अपि भगवन्नाथमुनिभ्य एवमेव योगरहस्यमधिगतवन्त इत्यत्राक्षेपणं कर्तुं न युज्यते । भगवन्नाथमुनिवंशजानां योगवल्लीकाराणामिदं संभाव्यत इत्यप्यङ्गीकार्यम् ।
यत एते व्याख्यातारो भगवन्नाथमुनेश्चित्तगतप्रत्ययान् जानन्ति, अत एवैतैः प्रकरणेषु योगरहस्यगतवाक्यानामुद्धरणं कर्तुं शक्यते । ईश्वरप्रणिधानसूत्रे वाशब्दार्थमवधारणात्मकमिति गदद्भिरेतैः प्रथमपादे सूत्राणि द्विधा विभक्तानि । प्रथमभागे 1-22 सूत्राणि सन्ति । उत्तरभागे 23–51 सूत्राणि वर्तन्ते । प्रथमपादे चित्तवृत्तिनिरोधो निरूपितः । द्वितीयभागे च ईश्वरप्रणिधानं तदाश्रित्य योगाभ्यासश्च निरुपितः ।
शरीर उत्पद्यमाना रोगाः
प्रच्छर्दनविधारणाभ्यां प्राणस्य (यो.सू. 1-34) इति सत्रेण निःशेषं निवार्यन्त इति निवेद्य, प्राणायामस्याङ्गभूतं कुम्भकं, शीतली, सीत्कारीत्यादिभेदयुक्तमिति प्रदर्शयन्ति व्याख्यातारः । योगाभ्यासस्य शरीरारोग्यमवश्यमपेक्ष्यते, तदर्थं सात्त्विक आहार एव स्वीकार्यः । उच्छवासप्रश्वासाभ्यां देहे विद्यमाना दोषा अपयन्ति । ब्रह्मचर्यपातिव्रत्ये सर्वथानुपालनीये ।
यथा शारीरो रोगस्तथा मानसरोगोऽपि योगाभ्यासेनापनेतुं शक्यत इति प्राणायामस्यावश्याचरणीयत्वं, सततपरिणामवच्चित्तं पुनर्विक्रियां यथा न प्रतिपद्येत तथा चित्तस्य
स्थिरीकरणार्थमपेक्ष्यत इत्युक्तम् ।
योगवल्लीकारा न केवलं व्याख्यातारः, परं तु मूलग्रन्थस्य तात्पर्यबोधने नितरां कुशलाः । सूत्राणां पौर्वापर्यविमर्शनं कृत्वा, यदनुक्तं तदन्यतो ग्राह्यमिति न्यायेन तच्छास्त्रान्तरेभ्य आदाय सूत्रार्थेषु संगमय्य व्याख्यानं कुर्वन्ति । पूर्वैः कृतव्याख्यानापेक्षया एतेषां विवरणमतिविस्तृतमुपलभ्यते । तथा हि—
भवप्रत्यो विदेहप्रकृतिलयानाम् (यो. सू 1-19) इत्यत्र योगवल्लीकारैरवतरणिका दत्ता यया निरोधसमाधेस्स्वरूपं स्फुटमाविष्कृतं भवति । योगभाष्यादौ यद्यत्येष प्रकाशो नोपलभ्यते, अथापि मन्दप्रज्ञानां संशयनिवारणार्थं योगवल्लीकारैः कृता अवतरणिका आवश्यकीति योगवल्लीकाराणामाशयः ।
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्— (यो . सू. 1-20) इत्यत्र पतञ्जलेः कालानन्तरमेव योगदर्शनस्य प्रवृत्तिरिति केषांचनाभिप्रायमाक्षिप्य, नारायणात् सनकसनन्दनादिद्वारा योगसंप्रदायः पतञ्जलिना लब्धः, य एनं सूत्ररूपेण प्रवर्तितवानिति योगवल्लीकारास्समर्थयन्ति । उपनिषद्वाक्यैश्चास्य सम्प्रदायस्य प्राचीनतां चातिष्ठन्ते । एतत्सूत्रस्थानि श्रद्धावीर्यस्मृतिसमाधिप्रज्ञानि पदानि समाधावुपकुर्वन्तीत्यावेदितम् । भक्तजनप्रार्थनानुरोधेन भगवान् तेभ्य ईप्सितफलानि ददातीति योगरहस्यकाराणामयमाशय इति योगवल्लीकारा अभिप्रयन्ति ।
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः (यो. सू. 1.24) इत्यत्रेश्वरपदं भगवतो नारायणस्यैव वाचकमिति, पुरुषविशेषः पुरुषोत्तम एवेति, तस्य कर्मणि न स्पृहा, नापि कर्मफले इति च सप्रमाणं योगवल्लीकारैर्निरूपितम् । वचनमप्यत्रोक्तम्—
न मां कर्मणि लिम्पन्ति न च कर्मफले स्पृहा ॥ भगवद्गीता 4-14.
अपहतपात्मा सत्यसंकल्पः ॥ छान्दोग्योपनिषत् 8.1.5.
उत्तमः पुरूषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमविश्य बिभर्त्यव्यय ईक्ष्वरः ॥ इति ॥ भगवद्गीता 15-17.
व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्ते अन्तरायाः (यो. सू. 1-30) इत्यस्मिन् सूत्रे प्रयुक्तानां शब्दानां योगवल्लीकारैः प्राकरणिका अर्था एवाभिहिता भवन्ति । तद्यथा— संशय ईश्वरोऽस्ति वा न वेतिरूपः आलस्यं शास्त्रविहितकालेऽननुष्ठानम् । अविरतिः शास्त्रोक्तमर्यादोल्लंघनम् । अनवस्थितत्वयथेष्टाचरणमनियतानुष्ठानं च ।
अस्मिन्नेव प्रकरणे भक्तिसंवर्धनाय मनोनैर्मल्यमपेक्ष्यत इत्युक्त्वा आहारनियमेन धमनीनां सन्धौ, प्राणेन्द्रियेषु च शक्तिरुत्पद्यत इति निरूप्य मिताशितेनैव भवितव्यमिति निरूपितम् । अत्र प्रमाणं च
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ॥
भगवद्गीता 6.16.
इति योगरहस्योक्तमेतद्विवरणमिति योगवल्लीकाराः ।
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का (यो. सू. 1-43). एतयैव सविचारा निविचारा च सूक्ष्म विषया व्याख्याता । (यो. सू. 1-44) इति सूत्रद्वयं संयोज्य भगवत्स्वरूपं सूक्ष्ममेव प्रपन्नानां प्रार्थनानुरूपं स्वीकृत्य तेभ्यः प्रदर्श्य फलानि ददाति । एतद्रूपं न प्राकृतं, स्वप्रकाशं चेत्युक्त्वा भगवदनुग्रहं तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता इति । (भगवद्गीता 10-11) वाक्येन वर्णितम् ।
तत्प्रतिषेधार्थर्मकतत्वाभ्यासः (यो. सू. 1-32) इत्यत्रैकपदमनितरसाधारणं विशेषणं व्यनक्ति । एतद्विशेषणं तत्वभूतं नारायणमेव विशिनष्टि अपरथा एकपदं परिणामि कर्माधीनं च वस्त्वेव निर्दिशेत् यस्याभ्यासेन चित्तनिरोधो न कथंचित् सेत्स्यतीत्युक्तम् ।
वीतरागविषयं वा चित्तम् । (यो. सू. 1-37) इत्यत्र वीतरागपदस्येत्थं विवरणं क्रियते योगवल्लीकारैः यात्राकालेषु तत्र तत्र वीतरागैः समागमं प्राप्य यात्रिकाः स्वस्थानं निवृत्य तान् स्मरेयुः । तदा तेषां स्वरूपं चिन्त्यते । तेन तेषां चित्तं वीतरागं भवति । व्याख्यान्तरेषु सनकादीनां 'चित्तमत्राभिमतमित्युक्तम् । ' तन्न समीचीनं भाति; यतस्तादृशां चित्तं सुलभेन ग्रहीतुं न शक्यते । कुतस्तस्य स्मरणम्? सर्वः सगन्धेषु विश्वसितीति न्यायाद् वीतरागैः प्रथमं समागमः प्राप्यः ॥ तदनन्तरमेव स्मरणस्यावकाश इति बोध्यम् ।
योगवल्लीकारैः पातञ्जलदर्शनस्य प्रमेयचिन्ता क्रियते । तत्रेश्वरं नियन्तारमनुग्रहीतारं चाभ्युपगम्य तस्य ध्यानार्थं मूर्तिमेकां स्थापयित्वा, तस्याः पुरत आसने उपविश्य ध्यानं कर्तव्यमित्युपदिशन्ति योगवल्लीकाराः । पातञ्जलदर्शने ईश्वरो नोपादानकारणम् ।
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः (यो. सू. 1-22) इतीदं सूत्रं स्पष्टार्थकत्वान्न विवृतम् । वृत्तिश्चेयं योगसूत्रतात्पर्यं जिज्ञासमानेभ्यो नितरामुपकरोतीति व्याख्यामिमां सकृत्पठनेनैव व्यक्तं भविष्यति ।
नाथमुनिः
नाथेन मुनिना तेन भवेयं नाथवानहम् ।
यस्य नैगमिकं तत्त्वं हस्तामलकतां गतम् ॥
यतिराजसप्ततिः श्लोकः 5.
यो वैदिकं तत्त्वं हस्ते आमलकमिव साक्षात्कृतवान् तेन नाथमुनिना अहं नाथवान् भवेयमित्यर्थः ।
शठमर्षणगोत्रोद्भव ईश्वरमुनिः श्रीश्रीनिवासं सेवमानो वेङ्कटगिरौ स्वजीवितं नयन्नासीत् । इतरक्षेत्राणि गन्तुकामस्सः कतिपयैर्विद्वद्भिरनुयातो वेङ्कटगिरितः प्रस्थाय उत्तरापथे दक्षिणदेशे च स्थितानि क्षेत्राणि गत्वा तत्रस्थान् भगवतस्सिषेवे । अन्ततश्चिदम्बरस्य नातिदूरे विद्यमानं काट्ट्मन्नार्कोविलभिधं क्षेत्रमेत्य तत्र भगवन्तं सेवमानः कञ्चित्कालमुवास ।
तत्र स्थितस्य तस्य ईसवीय 823 तमे वर्षे कुमार एकोऽजनि । रङ्गनाथेति नाम्ना कृतस्स कुमारः पितृत एव शास्त्रं सर्वं समधिजगाम । पित्रा च योगानुष्ठाने कारितपरिचयः समाधिमाचरन् भगवति दृढभक्तोऽभूत् । अनेन स रङ्गनाथमुनिरिति नाम्ना कृतः । सङ्ग्रहेण नाथमुनिरित्येव प्रथामवाप ।
कदाचित् कुरुकेश्वरक्षेत्रादागताः कतिपये श्रीवैष्णवाः काट्टुमन्नारालये अपर्याप्तामृतेति द्राविडदशकं मधुरं जगुः । तदाकर्णनेन परवशो भूत्वा नाथमुनिस्तद्दशकमधिकृत्य तान् यात्रिकान् वर्णयितुमन्वयुक्त । “कुम्भघोणस्थले गाथागायकेभ्यस्तद्दशकं गृहीतम् । ततः परं वयं न किञ्चिदपि जानीम” इत्युत्तरं दत्तवत्सु तेषु यात्रिकेषु, नाथमुनिः कुम्भघोणमेत्य तत्र स्थितान् गायकानेतद्दशकमधिकृत्य पप्रच्छ । तैरपि तद्विषयज्ञानाभावे आवेदिते कुरुकापुरीं नाथमुनिरयासीत् । पराङ्कुशदासनाम्नस्तद्वास्तव्यात् “शठकोपेन सहस्त्रगाथा रचिताः, अपर्याप्तामृतेति दशकं तदन्तर्गतमेव, परन्तु सहस्रगाथारूपो ग्रन्थो लुप्त एवे”ति विवेद । नाथमुनये ता गाथा अवाप्तुमुपायमेकञ्च निवेदयामास “शठकोपस्यान्तेवासी मधुरकविरिति द्विजवर्य
एक आसीत् । तेन शठकोपमाहात्म्यावेदकं “कण्णिनुन् शिरुत्ताम्बु”नामकं द्राविड्यां दशकमेकं रचितम् । तत्तु.मत्तोऽवाप्य द्वादशसहस्राकृत्वस्तद्भवद्भिरावर्तितव्यम् । तदनु फलभाक् भवान् भविष्यती”ति स व्याजहार । नाथमुनिरपि तद्दशकं तस्मादधिगत्य तथैवावर्तयामास । तदात्वे समाधिस्थस्य तस्य नाथमुनेः पुरतश्शठकोप आविरभूत् । तस्येप्सितञ्चानुयुयोज । नाथमुनिः प्रह्वो भूत्वा सहस्त्रगाथास्तं ययाचे । सोऽपि न केवलं सहस्त्रगाथास्स्वनिर्मिताः, अन्येषां गाथानां सहस्रत्रयं, मन्त्रान्, ब्रह्मसूत्राणि व्याख्यासहितानि च तस्मा उपादिक्षत् तिरोबभूव च । शठोपादधिगतमेतत्सर्वं मनसि कुर्वन् तत्क्षेत्रस्थं भगवन्तं सेवमानो नाथमुनिः कञ्चित्कालमत्यवाहयत् ।
अनितरसुलभेन विस्मयावहेनानेन वृत्तान्तेन तत्र स्थितास्सन्तो नाथमुनिं स्वकृतपुण्यफलममंसत । वृत्तान्तमेकं च तस्मै निवेदयामासुः । “कलियनामको (तिरुमङ्गैयाल्वार्) दिव्यसूरिः कुरूकापुर्यां स्थितां शठकोपप्रतिमां श्रीरङ्गपुरीं नीत्वा तत्र विंशतिं दिनानि धनुर्मासेऽध्ययनोत्सवमकारयत्म् । प्रतिसंवत्सरमेवं निर्वर्तितोऽयमुत्सवः कलिये कालधर्म गते उपरराम” इति । महनीयं मह आचरितव्यमिति निश्रितधीर्नाथमुनिः शठकोपमूर्तिं श्रीरङ्गं प्रापय्याध्ययनोत्सवं निर्वर्तयामास । कुम्भघोणे च श्रीमदपर्याप्तामृतालये शठकोपबेरं प्रतिष्ठाप्याध्ययनोत्सवं तत्राकार्षीत् । ततः काट्टुमन्नार्कोविल्स्थलं प्रतिनिवृत्तः तत्रस्थं देवं सेवमानस्तस्थौ ।
तत्र च कृष्णमाचार्यनामानं (मेलैयहत्ताल्वान्) भागिनेयं, वरदाचार्याभिधानं (कीलैयहत्ताल्वान्) चान्यं भगिनेयं, इतरन् शिष्यांश्चाधीतगाथाचतुष्टयान् चकार । छात्रेषु तेषु केचन तन्निदेशेन रङ्गपुरीमेत्य भगवन्तं रङ्गपतिमेताभिर्गाथामिः तोषयन्तस्तं सेवमानास्तत्रैव तस्थुः, इतरे तु गुरोस्सकाश एव स्थिताः ।
एवं काले गच्छति, गङ्गकोण्डचोलपुरमिति प्रसिद्धं पुरं शासतश्चोलराजस्य सभां गणिकाद्वयमागत्य प्रातिस्विकं गानचातुर्यं प्रदर्शयामासतुः । तयोरेका दिव्यगाने इतरा ऐहलौक्किगाने प्रावीण्यमुपगतवत्यौ । राजा तु मानुषगानमेव श्लाघमानस्त त्रोपदर्शितकौशलां गणिकां भूरिभिर्द्रव्याभरणादिभिस्सम्मानयामास । अनेन किञ्चिदिव भग्नाशापि दिव्यगानविचक्षणापरा गणिका क्षेत्रात् क्षेत्रं तत्रस्थालये प्रतिष्ठितं भगवन्तं स्वगानेनाह्लादयन्ती अन्ततः काट्टुमन्नार्क्षेत्रमाससाद । तत्र च भगवन्तं स्वदिव्यगानेन स्तुवतीं तां विलोक्य, नाथमुनिस्तां दिव्यगानमनेकविधं कर्तुं नियोजयामास । चित्तापहारि तद्गानं निशम्य नाथमुनिस्तस्यै बहुमानानि दापयामास । सा च चोलनृपसमीपं गत्वा गानविद्यायां नाथमुनेः प्रावीण्यमावेदयत् । राज्ञा सप्रश्रयं प्रार्थितो नाथमुनी राजसभां प्राप्य, देवगानस्य मनुष्यगानात् विशेषं प्रदर्शयमास । दिव्यगानविचक्षणां च गणिकां सभायां स्थिते स्तम्भेऽकस्मिन् तालमेकमुत्पाद्य गातव्यमिति दिदेश । तथैव गणिकया कृते, श्रोतृचित्तविस्मयावहो मधुरश्शब्दसन्दोहोऽजनि । स्तम्भश्च प्रलीनो बभूव । नाथेन पुनरपि तत्तालयुक्तगानाय नियुक्ता गणिका जगौ स्तम्भश्र यथापूर्वमवस्थानं प्राप । तालानां शतचतुष्टयं निर्माय तां गणिकां यदा नाथो निर्दिष्टवान्, तदा सापि तथैव युगपदेवाचरत् । नितान्तं विस्मयाविष्टी राजा यावत् नाथं यथार्हं संभाजयितुमयतिष्ट तावन्नाथस्तां सपर्यामगृहीत्वैव स्वस्थानं न्यवर्तत ।
पुण्डरीकाक्षादयोऽष्टौ शिष्या नाथमुनेरभूवन् । नाथमुनिना न्यातत्त्वयोगरहस्याख्यौ ग्रन्थौ विरचितौ । गौतमजैमिनिप्रभृतिभी ऋषिभिर्वाक्यप्रमाणतत्त्वस्वरूपं विवेचितम् । तैर्निरूपितं सर्वं वेदान्तिभिर्नाभ्युपगम्यते । क्वचित् क्वचित् वेदेषु विशिष्योपनिषत्सु निर्दिष्टवस्तुस्वरूपस्य वाक्यप्रमाणशास्त्रेषु विरोध एवोपलब्धः । वैदिकं पारमार्थिकं स्वरूपं प्रदर्शयितुकामो नाथमुनिः न्यायतत्त्वाभिधानं ग्रन्थं प्रणीतवान् । स तु लुप्त एव । श्रीमद्वेदान्तदेशिकग्रन्थेषु तत्रस्थवाक्यान्युदाहृतानि । योगरहस्यग्रन्थस्तु लुप्त एव । स्वशिष्याय कुरूकाधिपाय नाथमुनिर्योगरहस्यमपाविशत् । तदधिगमार्थं कृतप्रयत्नोऽपि यामुनार्यः तं ग्रन्थं अथवा
तत्प्रतिपादितयोगविधिं च नाधिजगाम ।
नाथमुनेः सूनोरीश्वरमुनेः कुमार एक ईसवीय 916 वर्षेऽजनि । यामुनेति नाम्ना कृतः सः पितुः सकाशात् संस्कारान् प्राप । तदानीं जीवतापि नाथमुनिना पौत्राय मन्त्रप्रदानादिकं किंचिदपि नाचरितम् । गुरोः सकाशादधिगतविद्यः शिष्यो गुरूपुत्रादिभ्योऽपि स्वेनाधिगतां विद्यां प्रदद्यादिति नियमः स्वशिष्यैरनुष्ठेय इति नाथमुनिनात्र स्मारितः ।
कदाचित् स्नातोत्थितमाचार्यं के चनोचुः ‘व्याधौ व्याधस्त्री, कपिश्च तत्र पथा दक्षिणामाशां प्रत्यगच्छन् । कुत्र नाथमुनिः? आशु सोऽस्मन्निकटमागच्छतु’ इत्युक्त्वा जग्मुरिति । रामलक्ष्मणौ सीतया हनुमता च मामेवमाज्ञापयत इति मत्वा निर्दिष्टेन पथा अश्रुपूर्णलोचनोऽधावत् । कस्मिंश्चित् प्रदेशे
(गङ्गैकोण्डचोलपुरे) तानुपलेभे, कालगतिं च प्राप ।
नाथमुनेः कालनिर्णये विवादः प्रवर्तते । गुरूपरम्परासु नाथमुनिः कलियुगे 3685 तमे शुभकृन्नाम संवत्सरे ज्येष्ठमासे शुक्लत्रयोदश्यां अनुराधायुक्तसौम्यवासरे जज्ञ इत्युक्तम् । त्रिशताधिकचत्वारिंशत् वर्षाण्युवास इत्यप्युक्तम् । अधुनातनैर्विमर्शकैः वर्षशतपरिमितमेव मानवं वयः । त्रिशताधिकचत्वारिंशत् समा न कोऽपि मनुष्यो जीवितुं शक्तः । अत एतत्कालपर्यन्तं नाथमुनेर्जीवितकालोऽभ्युपगन्तुं न युज्यत इत्यभिप्रयन्ति ।
आस्तां नामैतत् । आल्वार् नामकानां दिव्यसूरीणां कालनिर्णयं किञ्चिद्विमृशामः । गुरूपरम्पराक्रमानुसारेण एते दिव्यसूरयः केचित् द्वापरयुगान्ते, अन्ये कलियुगारम्भानन्तरं जीवितवन्त इत्युच्यते । अर्थात् ईसवीयकालप्रारम्भात् पूर्वं 6139 तमात् 2803 तमवर्षपर्यन्तं ते बभूवुरित्युक्तं भवति । विमर्शकास्तु दिव्यसूरीणां कालं ईसवीयक्रमेण 719 तमात् 881 तमवर्षपर्यन्तमिति गुरूपरम्परोक्तं विहाय दिव्यसूरीणामायुः प्रमाणमभ्युपगम्य निर्णीतवन्तः । विमर्शकानां न्यायप्रकारस्त्वित्थं भवति । शठकोपस्य कालः ईसवीय 798-833 । तच्छिष्यो मधुरकविः ईसवीय 883 तमवर्षपर्यन्तमजीवत् । कलियस्य ईसवीय 776-881 A.D. । कलियस्य कालानन्तरं श्रीरङ्गेऽध्ययनोत्सवो यथापूर्वं न प्राचलत् । यदा नाथमुनिः कुरूकापुरीमाससाद तदानीं शठकोपो नासीत् । ध्यानमास्थितो मधुरकविस्तदानीं न कस्यापि दृश्य आसीत् ।
गाथानां सहस्त्रचतुष्टयमपि लुप्तमभवत् । ईसवीयदशमशतकप्रारम्भकाले नाथमुनिः समभवदिति निर्णेयः ।
अत्रदिव्यसूरीणां कालनिर्णयेऽपि किञ्चिद्वक्तव्यं भवति । परमेश्वरविण्णगरमिति काञ्च्यां विलसतो वैकुण्ठनाथस्यालयस्य नामान्तरम् । काञ्चीराजेन परमेश्वरनामधेयेन (660-680) आलयोऽयं निर्मितः । तदनन्तरमेवास्यालयस्य परमेश्वरविष्णगरमिति प्रथा जाता । पुरातनकाले मामल्लपुरमिति ख्यातस्य प्रदेशस्य समुद्रतीरस्थस्याधुना महाबलिपुरमिति नाम वर्तते । मामल्लेत्यस्य पूर्वं रूपं महामल्ल इत्यासीत् । काञ्च्यां ईसवीय (680-700) तमवर्षपर्यन्तं राज्यं शासितवतः पल्लवराजस्य नरसिंहवर्मणो बिरुदं महामल्ल इत्यासीत् । मामल्लपुरमप्येतद्राज्यान्तर्गतमासीत् । अस्मात्कालादारभ्य एव महाबलिपुरस्येदं नाम मामल्ल इति बभूवेत्यङ्गीकर्तव्यम् ।
भूतसरोमहाख्या दिव्यसूरिषु प्रथमा बभूवुः । त्रयश्चैते सिद्धार्थनाम वत्सरे ईसवीये 719 तमे वर्षे प्रादुर्बभूवुः । एतैः स्वगन्थेषु प्रथमान्तायां 77 पद्ये, द्वितीयायां 70 पद्ये, तृतीयायां च 61, 62 पद्मयोश्च क्रमेण परमेश्वरविण्णगर इति मामल्ल इति च नाम्ना एतन्नामकक्षेत्रस्थौ भगवन्तावस्तूयेताम् । परमेश्वरेति विशेषणं नोपलभ्यते, परन्तु एतद्विशिष्टं विण्णगरमेव विवक्षितमिति जायते । अत एतेषां त्रयाणां दिव्यसूरीणां कालः
ईसवीये अष्टमशतक इति निर्णयः कार्यः । कलियः स्वीये पेरियतिरुमोलिनामके ग्रन्थे (2.8.10) पल्लवश्रेष्ठेन वैरमेघेन राज्ञा काञ्चयामष्टभुजाख्यो भगवान् वन्दित इति वर्णयामास । कलियस्य कालेऽयं राजा भगवन्तमष्टभुजमभिवन्दमान इति वर्तमानकालसूचकपदप्रयोगेण वैरमेघ इति बिरुदभाक् दन्तिवर्मा काच्यां ईसवीये 754 तमे वर्षे जीवन् भगवन्तं च वन्दमान आसीदिति ज्ञायते । ईसवीये 790 तमे वर्षे मद्रपुर्यां श्रीपार्थसारथिस्वामिन आलयस्यायं वैरमेघो जीर्णोद्धारं कृतवानिति शिलाशासनाज्जायते । अनेन ईसवीये अष्टमशतकावसने नवमे च स राजा राज्यं शासदेवासीदित्यभ्युपेयम् । यतः कलियो वर्तमानपदप्रयोगेण वैरमेघस्य भगवतोऽष्टभुजस्याभिवन्दनं वर्णयति, अतः-शिलाशासनात् यथा ईसवीये 754 तमे वर्षे स राजा भगवन्तं वन्दमानो बभूव, तथा ईसवीय 790 तमे वर्षेऽपि तथैव भगवतोऽभिवन्दनं कुर्वाण एवासीदित्यभ्युपगमः प्रामाणिक एव । एष एव कलियस्य कालः । आधुनिकविमर्शकैरभ्युपगतो दिव्यसूरीणां कालोऽबाधित एवावतिष्ठते ।
यदि तु नाथमुनेः कालः ईसवीय 584 तमात् 924 तमपर्यन्त इत्यङ्गीकर्तव्यः, तर्हि कथं स यथानिर्दिष्टकाले जीवितवद्भिर्दिव्यसूरिभिः समागमं नाध्यगच्छत्? प्रथमद्वितीयतृतीयदिव्यसूरीणां जन्मवत्सरात् 135 वर्षेभ्यः पूर्वं जातो नाथमुनिः खलु । अपर्याप्तामृतेति पद्यं वा सहस्त्रागाथस्वान्यतमं तदिति वा कथं स न विवेद? कुम्भघोणक्षेत्रे स्थितं शार्ङ्गपाणिं भगवन्तं किं नासेवत? तदानीं किमपर्याप्तामृतपद्यपाठकैर्न तत्राध्युषितम् । विमर्शकैर्निर्णीतो दिव्यसूरीणां कालोऽनभिमतोऽपि प्रमाणाधारत्वात् कथञ्चित्स्वीकार्य एव ।
अथ योगानुशासनम् ॥ १ ॥
अथ इति मङ्गलार्थकः प्रारम्भार्थकश्च । “मङ्गलानन्तरारम्भप्रश्नकात्स्न्येष्वथो अथ” इति नामलिङ्गानुशासनम् । ततश्च अनादित एव योगतत्त्वमनुस्यूतमिति सिद्धं भवति ।
यथा असंस्कृतस्य वस्तुनोऽनुपयोगः, एवमसंस्कृतस्य शरीरस्य तत्त्वज्ञानकर्मानुष्ठानादावित्यत्र न बहु वक्तव्यं भवति । प्रसिद्धं हि इदमध्यात्मशास्त्रकर्मशास्त्रादौ । संस्कारो नाम चेतनाचेतनवस्तुन उत्तरत्र सदुपयोगे योग्यताधानम् यथा उपनीतस्याध्ययने, विवाहिताया गर्भाधाने, गृह्यश्रौतकर्मसु होमादौ च स्रुगादीनाम् । एवं प्राक्तनसंप्रदायज्ञैर्निर्णीतं यदनष्ठितयोगस्य पुरुषस्य स्त्रियो वा सर्वासु क्रियास्वनधिकार इति । शारीरकशास्त्रेषु च सचेतनशरीरस्य संस्कृतस्याधिकारो योगसंस्कृत्स्यैव ज्ञेयमिति ।
प्रथमसूत्रस्य नाम प्रतिज्ञासूत्रमिति ।
योगश्चित्तवृत्तिनिरोधः ॥ २ ॥
आहङ्गारिकं हि चित्तं जडमचेतनं पुरोगं प्रत्यग्गं वा स्वातन्त्र्येण भवितं नार्हति । न हि निरीश्वरसांख्यवत् पातञ्जलाः प्रकृतिमनन्याधीनकर्त्रीमभ्युपगच्छन्ति । प्रणववाचक परमात्मानं सर्वज्ञं सगुणं निग्रहानुग्रहशालिनं दयावन्तञ्चाभ्युपगच्छन्ति । तस्मात् चित्तस्य पुरोगामित्वे प्रत्यग्गामित्वे च सर्वेश्वरस्य परमात्मनोऽनुग्रहविशेषं प्राप्तस्य जीवात्मनः प्रयत्नविशेषेण चित्तवृत्तिनिरोधः संभवति, तदभाववतः पुरुषविशेषस्य चित्तवृत्तिविक्षेपश्च भवतीत्यभ्युपेयम् । प्रकृष्टज्ञानवतां परमात्मानुग्रहस्तेन चित्तवृत्तिनिरोधः, तदभाववतां तदनुग्रहाभावात् चित्तविक्षेप इति विवेकः ।
अत्र योगपदं ध्यानमित्यर्थकम् । चित्तवृत्तिनिरोध इति च
ध्यानविरोधियावद्बाह्यविषयकचित्तपरिणामनिरोध इत्यर्थः । ध्यानं च परमपुरुषसर्वेश्वरविषयकं “तज्जपस्तदर्थभावनमि”ति प्रमाणात् सिद्ध्यति । भावनं तदाकारेण चित्तस्थापनम्, तच्च ध्यानबलात् भवति । ध्यानं च “तत्र प्रत्ययैकतानता ध्यानमि”ति सूत्रात् ज्ञेयम् ।
रजस्तमोलेशमात्रादप्यपेतं शुद्धसत्त्वमयं चित्तं यदा जीवात्मधर्मभूतज्ञानोपष्टब्धप्रबलप्राणायामादिबहुविधसमभ्यासेन हार्दान्तर्याम्यभिमुखमनुक्षणस्मरणबलात् प्रवर्तते तादृशप्रवृत्तेः तादृशचित्तस्य वा एकाग्रता, सा प्रत्ययैकतानता इति निष्पन्ना निरूढयोगिनां संज्ञा । आरुरुक्षूणां तत्रैव ध्यानमिति प्रथा । हार्दान्तर्याम्यभिमुखोपायानुसंधानक्रमस्तु “पद्मकोशप्रतीकाशं ...... परमस्वराट्” इति नारायणसूक्तात् विज्ञेयम् ।
नामलिङ्गानुशासनात् प्रमाणात् योगपदं ध्यानार्थकमित्यवगभ्यते । “युज समाधौ” इति धातुपाठप्रमाणात् तत् समाधिं वक्ति । तत्रोभयत्र कुत्र आदरः? ध्यानस्य समाधेश्च कार्यकारणभावोऽङ्गीकृतः । समाधिस्तु ध्यानपरिपक्वावस्थैव न तु साध्यान्तरम् । अत एव “तदेवार्थमात्रनिर्भासमिति” सूत्रकारो भगवान् पतञ्जलिरह ।
तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ ३ ॥
आद्यद्वितीयसूत्राभ्यां योगारम्भोऽथ लक्षणम् ।
तृतीयेऽस्मिन् योगसूत्रे द्रष्टू रूपमिहोच्यते ॥
फुल्लपुष्पायते सत्सु योगवल्ली निरन्तरम् ।
सैव भल्लायते क्षुद्रयोगिमानवसम्मुखे ॥
तदा सद्रूपदेशलब्धनियमयुतसाङ्गयोगाङ्गसंघातक्रियानुष्ठानबलनिरस्तसमस्तकामाद्यनन्तरशब्दादि- बाह्यविषयविषयकचित्तविक्षेपकाले, द्रष्टुः, सृष्टिस्थितिकालीनपरमपुरुषसर्वेश्वरसत्यसङ्कल्पबलमात्रलब्ध- प्राकृतकरणकलेबरस्य बद्धजीवस्य जन्मान्तराचरितपुण्यपापस्वाङ्गीकृतस्वापराधनिमित्तकदुःखानुभवस्य इत्यर्थः ।
स्वरूपे स्वस्य जीवस्य यद्रूपं परिशुद्धं, श्रीभगवद्गीतात्रयोदशाध्याये यथोक्तं “ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितमिति । ” तस्मिन्नवस्थानम् ।
अवस्थानं, अव सर्वत्र विष्ठितं, विशेषेण स्थितम् । परमाचार्यैर्नाथमुनिपौत्रैरपि
“देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः ।
नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नः स्वतः सुखी ॥ ”
इत्यात्मसिद्धौ प्रकटीकृतम् । तादृक्परिशुद्धमपि प्राकृतकरणकलेबरं पातञ्जलयोगसंस्कृतं चेत् नित्यज्ञानानन्दमयस्वरुपप्राप्तिकारणं भवति ।
द्रष्टुः, दर्शनकर्तुः आत्मनः जीवस्य दर्शनमालोकनमीक्षणमित्यर्थः । किमीक्ष्यते? चित्तविक्षेपदशयां बाह्यानि वस्तूनि चित्तद्वारा । न केवलमीक्षणं, तज्जन्यसुखदुःखानि प्रारब्धकर्मवासनाबलादनुभवति । निरोधावस्थायां तु परिशुद्धं स्वस्वरूपं ज्ञानानन्दं भासते । निरोधाभ्यासप्राबल्यादुद्भूतध्यानविशेषो निर्धूतरजस्तमोमयश्च जीवो ध्येयं परमात्मानं च किञ्चित्कालम् साक्षात्करोति । तदानीं बाह्यविषयान् विस्मरति च ।
सूत्रार्थस्तु, तदा, चित्तवृत्तिरोधसमये, द्रष्टुः जीवात्मनः, स्वरूपे ज्ञानघनज्ञानानन्दस्वरूपे, अवस्थानमन्तर्बहिःस्थितिरिति ज्ञेयम् ।
स्वरूपस्थितिसूत्रे तु द्रष्टुरित्यस्य वर्णनम् ।
ईक्षाकर्तुरिति स्पष्टं स्वरूपावस्थितेर्बलात् ॥
वृत्तिसारुप्यमितरत्र ॥ ४ ॥
चित्तवृत्तिविक्षेपकाले सत्त्वरजस्तमोरूपगुणत्रयप्राकृत (प्राकृतपरिणामाहंकारविकार) पुरुषभेदेन विभिन्नं सत् प्राक्तनकर्मवासनाबलात् चित्तमिति नाम्ना प्रथितं च यद्यपि रूपं लभते, तत्तत्समानाकारेण परिणततादृशप्राकृतकायबद्धः स स पुरुषः तत्समानाकारं लब्ध्वा तादृक्कायलाभात् प्राक्गुणमयप्राकृतरूपविहीनोपीदानीं तल्लाभानन्तरं यथा शैलूषो विभक्तवेषभूषाधारणेन स्वयमेकोऽपि नाना नामानि लभते, नानाप्रवृत्तिमान् भूत्वा विविधानि फलान्यनुभवन्निवाभिनयति, तथा अयमपि लब्धप्राकृतकायो विचित्ररूपलावण्यभाषावान् भूत्वा तदनुगुणानि भाषणानि कर्माणि च कुर्वन् तज्जन्यफलान्यनुभवन् क्वचित् खिद्यति, क्वचित् तुष्यति, क्वचिच्चनृत्यति, गायति, रौति च ।
चित्तपदमत्र प्राक्तनकर्मबललब्धबद्धावस्थापरं जीवस्येति नारदाय सनत्कुमारोपदिष्टभूमविद्यान्तर्गतछान्दोग्ये सप्तमेऽध्याये दृश्यते “चित्तं वाव संकल्पात् भूयः” इति वाक्ये ।
सूत्रार्थस्तु, इतरत्र, चित्तविक्षेपकाले, वृत्तिसारूप्यं या याश्चित्तवृत्तयो द्रष्टुरित्यध्याहारात् पुरुषस्य इत्यर्थो लभ्यते यादृग्यादृरूपवत्यः तत्तत्समानरूपतां पुरुषो लभते । पुरुष इति जात्येकवचनम् ।
योगवल्लीं बुधाः प्राहुर्ज्ञानभोगधनप्रदाम् ।
ज्ञानवल्ली भोगवल्ली धनवल्लीति च त्रिधा ॥
अकामानां ज्ञानवल्ली धनवल्ली फलार्थिनाम् ।
आत्मसायुज्यकामानां भोगवल्ली हदि स्थिता ॥
यावद्रूपाणि लोकेऽस्मिन् चराचरपरात्मनाम् ।
तावद्रूपाणि लभते योगवल्ली परात्परा ॥
योगेश्वरः कृष्ण इति भीष्मः प्रोवाच भूतले ।
कृष्णप्रियां योगवल्लीं सर्वदेवा जगुर्दिवि ॥
वर्तमाना चित्तवृत्तिर्वृत्तिहीनान् करोति हि ।
तस्मात् कुरुध्वं चित्तस्य रोधं प्राप्त पतञ्जलिः ॥
श्रीमान्नाथमुनिः प्राह पतञ्जलिमतं भुवि ।
यावत् तिष्ठति नो रोगो नाज्ञानं न भयं सदा ॥
योगवल्लीप्रसादान्मे साक्षात्कारोऽभवत् त्रयम् ।
तत्त्वानान्तेन नान्योऽहमभवं समयी सदा ॥
स्मराम्यहं योगवल्लीसुखं नारायणं सदा ।
शङ्खचक्रगदाशार्ङ्गहस्तं चतुर्भुजम् ॥
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥ ५ ॥
चतुस्सूत्री समाप्ती हि वृत्तिसूत्रं प्रवर्तते ।
वैविध्येन तथा साकं वृत्तिरोधक्रमस्स्फुटम् ॥
चित्तस्येत्याध्याहारः । वृत्तिर्ज्ञानं प्रमाणं च बिना विषयालम्बनं न वर्तते । अतोऽत्र वृत्तिर्विषयाश्रिता । तदर्थं चिन्त्यते । सर्वत्रेयं व्यवस्था दरीदृश्यते जानाति इच्छति यतत इति । अर्थात् यः कोऽपि पुरुषो यस्मिन् कस्मिन् विषये कामं प्रवर्ततां तत्र तस्य प्रप्रथमं तद्विषयकज्ञानं ततस्तदिच्छा तदन्तरमेव तदादाने यत्न इति पारमार्थिकी स्थितिः ।
अस्मिन् मते तु आत्मा मनसा संयुज्यते, मन इन्द्रियेण इन्द्रियमर्थेन तत इदमित्थमिति क्रमः । आत्मन्येव तत्तत्ज्ञानं, ज्ञानानुभवश्च । आत्मा इति जीवात्मानं बोधयति । तस्य मनःसंयोगश्च सर्वनियन्तृपरमात्माधीन इति दिक् । उक्तं हि भगवद्गीतायां “अधिष्ठानं तथा....... कर्ते”ति ॥ जीवात्मनः प्राक्तनजन्मकृतकर्मवासनानुगुण एव परमात्मसंकल्पः तदनुगुण एव तस्य जीवस्य इह जन्मनि यस्मिन् कस्मिन्नपि प्रवृत्तिः । प्रारब्धकर्मानुगुणं च भगवदनुमतिर्वर्तते । न त्वियं तस्याज्ञा । तत्तन्मनसा संयुज्यत इत्यास्माकीनः पन्थाः । सर्वशरीरवर्तिजीवप्रवृत्तौ इयमेव सरणिः । जीवप्रयत्नो नित्यो हेतुबलात् शुद्धाशुद्धश्चेति ।
वृत्तयः पञ्चधा प्रोक्ताः क्लिष्टाक्लिष्टविभागशः ।
दुःखदा प्रथमा उक्ता द्वितीया गुणवैरिणः ॥
चित्तमेकमेव, तदवयवास्तु पञ्चसंख्याकाः । ताश्च दुःखहेतवः त्रिगुणमय्यः क्लिष्टा इत्युच्यन्ते । प्रकृतिपुरुषविवेकज्ञानहेतवो वैराग्यतत्त्वजिज्ञासाः सदाचार्यसेवारूपा अक्लिष्टा इत्युच्यन्ते । उद्रिक्तत्रिगुणं चित्तं पुरुषं सन्ततमेव क्लिश्नाति । चित्तस्य प्राकृतगुणोद्रेकश्चानुद्रेकश्चोभौ भोक्तृभुक्तसदसदाहारपरिणामबलाधीनावितीदं छान्दोग्ये “अन्नमयं हि सौम्य मनः” इत्यत्रावगन्तव्यम् । “आहारशुद्धौ सत्त्वशुद्धि”रित्यत्र च । गीतायां तु “आयुः सत्त्वबलारोग्य ............” इत्युक्तम् ।
तपसा शोषय मेदः कायं, पयसा सेचय जाठरमनलम् ।
मनसा चिन्तय परमात्मानं वदने घोषय वेदं नित्यम् ॥
सुखेच्छा यदि तेऽस्तीह सदा योगे रतिं कुरु ।
दुःखेच्छा यदि तेऽस्तीह सदाऽयोगे रतिं कुरु ॥
कुरु कुरु धर्म स्वीयन्नित्यं वस वस वासे योग्ये देशे ।
पठ पठ वेदान् कल्ये कल्ये चर चर सन्ध्यां काले काले ॥
चित्तैकाग्र्यं योगाभ्यासे चित्तक्षेपो योगभ्रंशे ।
चित्तं मत्तं स्वापे पापे चित्ताकारञ्चित्रं लोके ॥
संशयादाश्रयभोक्तारमादौ निर्वापयेत्सुधीः ।
निर्मूलितसंशयायास्मै शेषशायिने नमः ॥
प्रमाणविपर्ययविकल्पनिद्रास्मृतय ॥ ६ ॥
वृत्तिनामसूत्रमिदम् । प्रमाणवृत्तिः विपर्ययवृत्तिः विकल्पवृत्तिः निद्रावृत्तिः स्मृतिवृत्तिरिति प्रत्येकं वृत्तिपदमनुषज्यते । कस्य वृत्तिरित्यपेक्षायां चित्तस्येत्युत्तरम् । वृत्तिरिति परिणामार्थकं पदम् । परिणामो रूपान्तरमित्यभिन्नार्थकं पदद्वयम् । तथा च चित्तवृत्तिः चित्तपरिणामः चित्तस्य रूपान्तरमित्यायातम् । तर्हि चित्तस्य किं नैजं रूपम्? त्रैगुण्यमिति केचन । त्रिगुणाश्च सत्त्वरजस्तमांसि । प्रकाशचलनगौरवकरं स्वातन्त्र्येण आत्मालम्बनेन आत्मसान्निध्येन चित्तं परिणमत इति सांख्याः, प्रपञ्चमिथ्यात्ववादिनोऽवैदिकदर्शनकर्तारश्च । परमात्मप्रेरणाधीनजीवात्मसंबन्धादिति सांप्रदायिकयोगिनः प्राचीनाः प्रपञ्चजीवात्मपरमात्मसत्यत्ववादिनः शिष्टा वैदिकदर्शनकाराश्चेतरे । यथा तथा वास्तु विना आत्मसंबन्धं चित्तवृत्तिनिरूपेति सर्वैरभ्युपेयम् ।
प्रमीयत इति प्रमा । प्रमायाः करणं प्रमाणम् ।
अनुभवविरुद्धं परित एति गच्छतीति विपर्ययः ।
अनुभवविरुद्धं कल्प्यत इति विकल्पः ।
नितरां द्राति कुत्सां गतिं प्राप्नोतीति निद्रा ।
स्मरति पूर्वानुभूतिमिति स्मृतिः ।
प्राक्तनकर्मवासनावैचित्र्यनिबन्धलब्धदेहानामात्मनां मनसां चासंख्याकत्वेन वृत्तीनां चासंख्याकत्वमिति यद्यपि भाति तथापि तासां सर्वासामप्यासु पञ्चस्वेवान्तर्भावं भगवान्पतञ्जलिर्मन्यते ।
प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७ ॥
प्रमाणसंख्येयत्तासूत्रमिदम् । प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीति नैयायिकाः । तानि चार्थापत्तिसहितानीति प्राभाकराः । तान्यनुपलब्धिसहितानीति भाट्टाः । ऐतिह्यसहितानि तानीति पौराणिकाः । कपिलपतञ्जली तु त्रीण्येवेत्यस्थापयताम् । औपनिषदा वेदान्तिनोऽपि कापिलपातञ्जलपथानुसारिण इति प्रमाणपदवी प्रकाशते ।
प्रत्यक्षप्रमाणे साक्षाद्वा परस्परया वेन्द्रियसन्निकर्षेण आत्ममनसोः प्रवृत्तिरिति बोध्यम् । अनुमानेऽप्येकदेशसाक्षात्कारस्यापि तथैवेति । आप्तवाक्यरूपशब्दस्य भ्रमप्रमादादीनामसंभवात् निस्सन्दिग्धं प्रामाण्यम् । वेदानां तु सर्वदैव स्वतः प्रामाण्यम् संभवति । उक्तं ह्यापस्तम्बधर्मसूत्रे “धर्मज्ञसमयः प्रमाणं वेदाश्च” इति । सर्वेष्वपि प्रमाणेष्वनुत्तमं शब्दप्रमाणम् । विना तं कीदग्विधस्यापि जीवनस्यासंभवादिति पातञ्जलाः ।
यथाप्यौपनिषदब्रह्मजिज्ञासायां “सोऽश्नुते सर्वान् कामान् सह, ब्रह्मणा विपश्चितेति”, सर्वकामावाप्तिः ब्रह्मज्ञानस्य फलमात्यन्तिकदुःखनिवृत्तिद्वारा इत्युक्तं तथापि पातञ्जलयोगशास्त्रोक्तयोगानुष्ठानस्य सक्रमस्य सनियमस्य च तादृग्ब्रह्मप्राप्तिफलकत्वमपीत्यङ्गीकार्यम् । तथैव सकलोपनिषत्सु प्रतिपादितत्वात्तथाविधब्रह्मबोधकशास्त्रे प्रमाणं केवलं श्रुतिस्मृत्योदय एव न तु प्रत्यक्षानुमाने इति बहवः सन्तो मन्यन्ते । तुल्यबलत्वादुभयोरुपनिषद्योगयोर्विकल्पं मन्यन्ते ।
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८ ॥
प्रत्यक्षानुभवविरोधेनाविषयविषयकवृत्तिर्विपर्ययवृत्तिः अतद्रूप्रतिष्ठं ज्ञानं विपर्यय इत्युच्यते । तस्य संज्ञा मिथ्याज्ञानमिति । तद्धर्मरहिते तद्धर्मताबुद्धिरतद्रूपम् ।
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९ ॥
पातञ्जलमहाभाष्यमनुसृत्य विकल्पसूत्रविवरणे सुसंस्कृतशब्दमात्रस्यैव निरर्थकं नास्तीति पातञ्जलसिद्धान्तस्थापनात् विकल्पसूत्रधारिताः शब्दा अर्थाभाववन्त इत्येको निर्णयः । बाह्येन्द्रियगोचरस्यार्थस्य (विषयाणामभावः) विषयबोधकरूपत्वं नास्तीत्यपरो निर्णयः । सर्वेषां शब्दानां व्युत्पन्नत्वमव्युत्पन्नत्वं चाभ्युपगम्य शाण्डिल्यविद्योक्तरीत्या सर्वेषां भवतीति बाह्यार्थशून्यबोधकत्वमिति तृतीयो निर्णयः । तदनुसृत्यैव वस्तुशून्यो विकल्प इति पतञ्जलिराह । सूत्रार्थस्तु, विकल्पचित्तवृत्तिरर्थशून्यो विषयाभाववान्, परन्तु शब्दज्ञानमनुपतति । अतो, राम इति शब्दः, राम इति ज्ञानं, राम इति अर्थश्च तत्र न सन्ति ।
अभावप्रययालम्बना वृत्तिर्निद्रा ॥ १० ॥
यस्याश्चित्तवृत्तेरभावप्रत्यय एवालम्बनं (आश्रयः) सा वृत्तिरभावप्रत्ययालम्बना । तां निद्रेति प्राहुः । तत्र तमसः प्राधान्यम् । निष्प्रतियोगिकाभावस्याप्रसिद्धत्वात् । अत्र सूत्रेऽभावप्रतियोगिनः सर्वे बाह्यविषयाः (न तु सर्वविषयाभावः) । तथा च यावद्बाह्यविषयप्रतियोगिकोऽभाव इति फलितम् ।
अनुभूतविषयासंप्रमोषः स्मृतिः ॥ ११ ॥
बाह्यविषयेण साकं बाह्येन्द्रियसंबन्धानन्तरं जायमानो मनःपरिणामविशेष आत्मज्ञानोपष्टब्धो यो भावः, स अनुभव इत्युच्यते । अनुभूतिरनुभव इत्येकार्थकम् । तादृशानुभवदार्ढ्येण (नैरन्तर्येण) काचन अपूर्वा शक्तिरात्मसंयुक्ते मनसि जायते । सा शक्तिः संस्कार इत्युच्यते । तन्महिम्नैव स्मृतिरुदेति । सा च ज्ञानविशेषचित्तविकारः । तदानीं (स्मृतिकाले) विषयस्य स्थितिरनावश्यकी । संस्कारबलादेव पूर्वानुभूतविषयाकार आत्मसंयुक्ते मनस्युद्भवति तदेवासंप्रमोषोऽनावरणमित्युच्यते ।
परमात्मपरतन्त्र एव सर्वचेतमाचेतनप्रपञ्च इति नाथमुनिरचितयोगरहस्यस्य रहस्यम् । एतेन आत्मानधीन एव चित्तपरिणाम इति वदन्तो निरस्ताः, चित्तस्य क्षणिकत्वात् (क्षणपरिणामित्वात्) । तन्मतेऽनुभवावस्था संस्कारावस्था तदप्रमोषावस्था तत्कृतस्मरणावस्था च दुरुपपादाः ।
अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२ ॥
बाह्यविषयवैराग्यविशिष्टप्रकृतिपुरुषविवेकदर्शनबलात् पूर्वोक्तपञ्चविधचित्तवृत्तीनां निरोधः । प्रकृतिः पुरुषात् भिन्नः । पुरुषः प्रकृतेर्भिन्न इति मानसिकोऽभ्यासः कर्तव्यः ।
तत्र स्थितौ यत्नाऽभ्यासः ॥ १३ ॥
पूर्वोक्तवैराग्याभ्यासयोरुभयोर्मध्येऽभ्यासः प्रकृतिपुरुषविवेकभेदज्ञानमननं तज्जनिता या प्रशान्तस्थितिस्तस्यां यत्नः प्रयत्न इत्यर्थः ।
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १४ ॥
पूर्वसूत्रोक्तो यत्नस्तु दीर्घकालसेवितश्चेत् दीर्घं यावदायुषं नैरन्तर्यसेवितश्चेत् सत्कारपूर्वकं सेवितश्चेत् पूज्यबुद्धिसेवितश्चेत् आदरपूर्वकं सेवितश्चेत् प्रेमसहितं सेवितश्चेत् दृढभूमिर्भवति । तेन धातुदार्ढ्यमिन्द्रियशक्ति शरीरवृद्धिश्चामोघानि भवन्ति ।
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १५ ॥
विषयो बाह्येन्द्रियग्राह्यपदार्यः । स च भूलोकेऽनुभवयोग्यशब्दस्पर्शरूपरसगन्धविशिष्टः प्राकृतपरिणामरूपपदार्थों दृष्टविषयः । आनुश्रवकविषयाश्च गुरुशिष्यपरंपरामनुसृत्यश्रोत्रेन्द्रियविषयाः क्रियन्ते । ताश्च श्रुतयो वेदाः । तत्र भवो बाह्मेन्द्रियाविषयीभूतो विजातीयशब्दस्पर्शरूपरसगन्धविशिष्टविषयः । स च स्वर्गीयस्त्र्यन्नपानामृतादिरूप आमुष्मिकः । ततश्च द्वौ विषयौ भोगनिर्णीतौ । तदुक्तं सूत्रकारेण “दृष्टानुश्रविकविषय” इति । येषु दृष्टानुश्रविकविषयेषु यस्य पुरुषस्य जीवस्य त्यक्ता आशा, स दृष्टानुश्रविकविषयवितृष्ण इति विशिष्टपदं लब्धम् । तच्च आत्मसंयुक्तमनोधर्मः । उक्तं हि हनुमता “मनो हि हेतुः सर्वेषां इन्द्रियाणां प्रवर्तने । शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम्” इति ।
ईदृशवैराग्यस्य आकारस्तु नाहं भुञ्जे दृष्टानानुश्रविकांश्च विषयान्, न पश्यामि, न यामि तत्समीपं, न स्मरामि च । कुतः? एतावत्कालं तद्भोगात्, तत्स्मरणात्, तत्र यानात्, तद्दर्शनात् मदीये शरीरे ऐन्द्रियकप्राणवायवीयाः शक्तयः कुण्ठिता अभवन् । इतः परं नाहं भौमान् स्वर्गीयांश्च विषयानिच्छामि इति प्रतिज्ञारूपमनोधर्मः । एवमनुसंधानो यः कोऽपि पुरुषः स्त्री वा अस्ति चेत् भुवि, तस्य वशीकरसंज्ञा वैराग्यवान् इति शाश्वतः संकेतो भवति ।
तत्परं पुरुषख्यातेर्गुणवेतृष्ण्यम् ॥ १६ ॥
वैराग्यं, ज्ञानं, भक्तिरितीदं त्रितयं परापरभेदेन द्विविधं भवति । अतो वशीकारसंज्ञात्मकं वैराग्यं च द्विविधम् । तत् वशीकारसंज्ञावैराग्यमपरं पूर्वोक्तम् । पुरुषख्यातेः पुरुषस्य प्रकृतिबद्धजीवस्य परिशुद्धस्य दर्शनसमानाकारज्ञानात् कारणात् यदा गुणवैतृष्ण्यं, गुणानां प्रकृतिसमवेतानां सत्त्वरजस्तमसां तत्परिणामतच्छाखोपशाखास्वात्यन्तिकेच्छाविरहोभवति, तदा परं परवैराग्यमिति संज्ञां लभते ।
वितर्कविचारानन्दास्मितारूपानुगमात्संप्रज्ञातः ॥ १७ ॥
वैराग्यविवेकाभ्यासबलेन निरुद्धचित्तवृत्तिः पुरुषः यस्मिन् विषये एकाग्रतामनुभूय स्थूले वा सूक्ष्मे वा विषयेऽवयवशो वा पिण्डीभूय तद्विषयवृत्तिसालंकृतस्वरूपं जानन्नास्ते (भावयन्नास्ते) तादृशकालीनैकाग्रताविशिष्टात्मानुभवः संप्रज्ञात इत्युच्यते । (बाह्यविषयविस्मरणेन) ।
यथा “य एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते” इत्यत्र प्रतिपादितरीत्या प्राकृतशरीररहितस्य परसात्मानुग्रहलव्धपरमात्मसंपत्तिकाले परमात्मदर्शनलाभादिः, एवं समाधिकाले सशरीरोऽपि स्वस्यात्यन्तिकभक्त्यनुभवात् लब्धपरमात्मानुग्रहविशेषेण कोऽहं? किं जातीयकः? को वासः? इत्यादयो ये ये प्राकृतशरीरविषयका भावाः सवस्तान् विस्मरति । यथा वा अस्मिन्नेव शरीरे विद्यमानोऽपि सुषुप्तः पुरुषः स्वीयं स्वात्मानं च परमात्मपरिष्वङ्गबलाद्विस्मरति । उक्तं हि छान्दोग्ये दहराधिकरणे “अहरहर्गच्छन्त इमं ब्रह्मलोकं न विदुरिति” ।
श्रीमद्रामायणेऽशोकवनिकायां समाधिं प्राप्तां सीतां पश्यता हनुमता एवमनुसंहितम् ।
“नैषा पश्यति राक्षस्यो नेमान् पुष्पफलद्रुमन् ।
एकस्थहृदया नूनं राममेवानुपश्यति ॥
इति । एकस्थहृदयेति सीता समाधिस्थितिं समाधिजन्यसुखं च नैषा पश्यतीत्यादिना च स्वशरीरबाधाश्च विस्मरन्ती स्थितैवेति गम्यते । राममेवानुपश्यतीत्यनेन संसारविस्मरणं च द्योत्यते ।
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८ ॥
विरामः चित्तवृत्तीनामात्यन्तिकाभावः, तस्य प्रत्ययो ज्ञानम् इन्द्रियाणां विषयैः साकं क्रीडा त्यक्ता इति ज्ञानम् । तस्यैव, तादृशत्यागस्यैव, पौनःपुन्येन वारं वारमनुष्ठानमभ्यासः । स एव पूर्वः, पूर्वकालीनः । अथ च संस्कारशेषः पूर्वानुभूतचतुर्विधसंप्रज्ञातानुभवकालिकजन्यः संस्कारशेषः । ध्येयध्यात्रोरेवाकारापन्नतास्थितिः, न त्वेकत्वम्, असंप्रज्ञातसमाधिरित्युच्यते । विना संप्रज्ञातसमाध्यनुभवमसंप्रज्ञातसमाधेरनवकाशः । इदं द्वयमपि शरीरस्यैव न तु परोक्तसदेहमुक्तिरूपस्य । अत एव स्वर्ग्यं “अत्र ब्रह्म समश्नुते” इत्यावेदितम् । अत्रेति भगवद्ध्यानावस्थायां, अत्र स्वशरीरावस्थायामेव स्वानुष्ठेयनित्यनैमित्तिकभगवद्ध्यानकाले इत्युक्तम् । इदं च प्रारब्धकर्मणां भोगादेव क्षय इति न्यायमनुसृत्योक्तम् । यावच्छरीरपातं प्रारब्धकर्मभोगस्यात्याज्यत्वात्, बलात् देहत्यागे आत्महननप्रयुक्तदोषात् पुनः प्राकृतशरीरापत्तिः । अत एव “कौटिल्ये सति शिक्षयाप्यनघयन् क्रोडीकरोति प्रभुः” इति निगमान्त महादेशिकोक्ती रहस्यत्रयसारे स्थिरीकृता ।
भवप्रययो विदेहप्रकृतिलयानाम् ॥ १९ ॥
भवप्रत्ययः, भवतीति भवः, उत्पद्यत इति भवः । पुनरुत्पाद इति तात्पर्यम् । पुनर्जन्म तस्यैव बन्ध इति नवीनवेदान्तिनः । तस्योत्पत्तेः प्रत्ययः कारणं किमित्याशङ्कायां निरोधसमाधिरित्यध्याहारः । पुनर्जन्मनः कारणं निरोधसमाधिर्भविष्यतीति । केषां? विदेहप्रकृतिलयानां बुभुक्षणां निरोधसमाधिः पुनर्जन्मकारणम् । विदेहाः, देवाः षाट्कौशिकस्थूलदेहशून्याः । षट्कोशाः, द्वौ श्वासकोशौ, अन्यश्च अन्नकोशः, द्वौ मलमूत्रकोशौ, षष्ठो जाठराग्निकोशः । एषामिमे कोशा विग्रहे न सन्तीति विदेहाः । अयमेकः संघः । अन्ये तु प्रकृतिलयाः । प्रकृतिः गुणात्मिकसूक्ष्मा । तामेवानात्मरूपामप्यात्मत्वभ्रान्त्या अवगत्य समाधौ ध्येयत्वेनोपास्य (प्रारब्धकर्मवशात्) तत्क्रतुन्यायेन गीतोक्तरीत्या यं यं वापि ........... इति न्यायेन वा अनात्मरूपामपि तामेव प्रकृतिं प्राप्य तत्रैव प्रकृतौ लीना ये तेषां प्रकृतिलयानां सङ्घोऽपरः । द्वितीयस्मिन् संङ्घे इन्द्रियलीनानामप्यन्तर्भावः, येषामुपास्यतया ध्येयतया उपासनं निरोधसमाधिरपि तैरभिमन्यते । नैजनिरोधसमाधिर्नैवंरूपा । तेषां तावानभिमानस्तत्र ध्येयत्वेन ध्येयापितत्वेन परमात्मनि स्वप्रपदनकर्मविस्मरणमेव । विस्मृतेश्च प्रबलप्रारब्धकर्मवासना हेतुः । सा च भगवदर्पितात्मनो भक्तस्य परमापराधरूपतन्मूलकभगवन्निग्रह एव पुनर्जन्मकारणं तात्कालिकध्येयनिग्नहरूपम् ।
यद्यपि भवप्रत्ययसूत्रावतरणिका योगभाष्यकारतद्व्याख्यातृतट्टिप्पणीकारादिभिर्न दत्ता, तथापि पातञ्जलयोगसूत्राणां ब्रह्मसूत्रैः साकं समता दृश्यते । अत्यलपो न्यूनता योगसूत्रकारे स्यात्, आत्मपरमात्मप्रकृतितत्त्वविवेचने श्रीमद्यामनमुनिप्रणीतपुरुषनिर्णयात्मेश्वरसिद्ध्योश्च पातञ्जलयोगतत्द्समीक्षया प्रतिपादितमेवं भाति योगसाधनं भगवति परभक्त्युद्रेकायैवेति । परन्तु प्रबलप्राचीनकर्मवासनावासिताशयमानसाधिकारभेदाधिकारभेदः समाधिपादोक्तासंप्रज्ञातसमाध्यनुष्ठानभेदेन च कामानामपि पदं प्रददातीयमवतरणिका मन्दप्रज्ञसंदेहनिवारणायालमिति योगवल्लीकारस्याशयः ।
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ २० ॥
मुमुक्षुबुभुक्षुभेदेन योगिनो द्विविधाः । मुमुक्षूणां स्वरूपं श्रद्धावीर्यसूत्रे प्रतिपादितम् । बुभुक्षूणां तु भवप्रत्ययसूत्रे विवृतम् । उभावपि समाहितौ । बुभुक्ष्वनुष्ठेयसमाधिः काम्य इति भवप्रत्ययसूत्रे पतञ्जलिनैव निगदितम् । मुमुक्ष्वनुष्ठेयसमाधिसाधकानि श्रद्धासूत्रे संकेतितानि । अत्रैव विलम्ब्य समाधिस्वरूपनिर्णयाय सिद्धये च योगरहस्ये नाथमुनिर्यतते । बहवो जना योगशास्त्रोक्तयोगानुष्ठानक्रमश्च भगवत्पतञ्जलिकालानन्तरमेव न तत्प्रागित्यभिप्रयन्ति । समग्रवेदभाष्यपठनमननाभ्यां ब्रह्मर्षिकुलयोगिकुलचरित्राध्ययने योगानुष्ठानं योगशास्त्रं च सर्वदा प्रवृत्तमिति निर्णीतम् । तदर्थं पराशरपुराणप्रतिपादितयोगानुष्ठानसमाधिलक्षणान्युच्यन्ते । नित्यसूरिभ्यः सनकसनन्दादिभ्यो प्रप्रथमं योगस्य प्रवक्ता श्रीमन्नारायण एव । ते प्रप्रथमं समाहितचित्ताः । तेभ्यः चतुर्मुखाय ब्रह्मणे योगसंप्रदाय आगतः । स तु योगसंप्रदायं स्वमानसपुत्राय ब्रह्मर्षिश्रेष्ठाय वसिष्ठाय प्रादात्, वसिष्ठः स्वपुत्रायाप्रतिहतयोगशक्तियुताय शक्तिनामकाय, स च स्वौरसपुत्राय पराशराय, पराशरस्तु स्वशिष्याय, सुपुत्राय च मैत्रेयव्यासाभ्याम्, व्यासः शुकाय इति क्रम आसीत् । योऽसौ शुकः सर्वैर्बालब्रह्मयोगीति स्तूयते । सर्वत्र शास्त्रीयकर्मानुष्ठाने योगानुष्ठाने साङ्गवेदाध्ययने च गुरुपरम्पराक्रमानुष्ठानं मूलकारणं सुफलप्रदं च, शब्दार्थज्ञानरहितक्रियानुष्ठितिर्विपरीतफलप्रदा इत्याधुनिकैरपि वैज्ञानिकैरभ्युपगतम् । योगाङ्गानुष्ठानसोपानान्यष्टौ खलु । तत्राष्टमः समाधिरिति पातञ्जलद्वितीयकपादे यमनियमेत्यत्रोक्तम् । समाधिशब्दो ध्यानशब्दश्च तुल्यार्थको अथवा भिन्नार्थकौ वेति विवेचनीयम् । समानार्थकावेव । अथ च पूर्वो ध्यानपूर्वक एवेति ध्यानप्रकारश्च तृतीयपादोक्तरीत्यैवानुष्ठेय इति प्रागुक्तगुरुपरंपरासंप्रदायात् सिद्धयति । ध्यानध्येयध्यावृत्रितयनिश्चयमन्तरा, त्रयाणां स्वरूपानुभवमन्तरा च समाधिर्नैवोपदेष्टुं शक्या । तानि त्रीण्युपनिषत्स्येव सुष्ठ प्रतिपादितानि । तत्र प्रथमः
“आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनाभ्यासात्पापं दहति पण्डितः ॥ ”
इति कैवल्योपनिषदि वर्णितम् ।
यदा जीवात्मा स्वधर्मभूतज्ञानेन सहात्यन्तिकरजस्तमोविहीनशुद्धध्यानात्मना परिणतमनसा साकं ध्येयस्वरूपमनुभवन्नास्ते तदा सा स्थितिः समाधिरित्यभिधीयते । ईदृशसमाधिश्च अहंग्रहोपासनबलादेव लभ्यते । सूत्रोक्तपञ्चपरिकराः श्रद्धावीर्यादयः साक्षादहंग्रहोपासनोपकारा एव । एका एव अहंग्रहोपास्तिः समाधिं साक्षात् निर्वर्तयति । अहंग्रहोपासनप्रकारश्च प्रतर्दनविद्यायामिन्द्रोक्ते “मामुपास्स्व” नारायणीये “यपुण्डरीकं पुरमध्यसंस्थम् । तत्रापि दह्रं गगनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम्”, “धनुर्गहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं सन्दधीत, तद्भावगतेन चेतसा”, “प्रणवो धनुःशरोह्यात्मा....शरवत्तन्मयो भवेत्” “आत्मानं अरणिं कृत्वा....देवं पश्येत् निगूढवत्” “अध्यात्मयोगाधिगमेन.....हर्षशोकौ जहाति” इत्यन्यत्रापि परः सहस्रस्थानेषु नारायणीयमुण्डककठशाण्डिल्यश्वेताश्वतरप्रभृतिषु वर्णितः । तत्सर्वं सम्यगनुसंधायोपास्तिः कर्तव्या । अहंग्नहो नाम अहमित्याकारकं ज्ञानम् । तच्च न केवलं, अकारहकारानुस्वारवर्णपरम्परारूपः परन्तु शब्दस्य “अर्थाव्यभिचारित्वादि”त्यौत्पत्तिकसूत्रादहंशब्दस्य चार्थः कश्चन लोकिकातीतः सर्वान्तर्यामिपरमात्मविशिष्टो जीव एव भवितुमर्हति । परमात्मनोऽपि वाचकोऽहं शब्द एव जीवात्मनश्च एक एवाहंशब्दः । तादृगन्तर्यामिविशिष्टजीवात्मा इत्येवं बोद्धव्यम् । ईदृगनुसंधानं न सर्वसुलभमिति “नाहं प्रकाशः सर्वस्य योगमायासमावृतः” इति भगवद्गीतायां धनञ्जयसारथिना अर्जुनायोपदिष्टं विस्मृत्य केचन अहंपदार्थो नात्मबोधकः, अपि त्वहंकारपरिणामरूपबोधक इति वदन्ति । तत्तु पदवाक्यप्रमाणविरुद्धमिति¹ शब्दतत्त्वविद आहुः । तेषु च वेदशब्दार्थविदो न बहुमन्यन्ते । ईदृगहंग्रहोपासनमेव सर्वविधसमाधिनिर्वर्तकं मुमुक्षूणां च भवति । योगभाष्यकारेण श्रद्धा चेतसःसंप्रसाद इत्यादिविवरणं प्रथमप्रविविक्षूणां मोदावहं भवेन्न त्वहंग्रहोपासकानाम् । सर्वत्रोपास्योपासनपदेविमलध्यानबोधके, अपि तु जैवज्ञानकबलितप्रत्ययात्मकमेव । ये हि अहंपदस्याहंकाररूपचित्तपरिणामात्मकमर्थं वदन्ति, ते प्रष्टव्याः प्रकृतेर्द्वितीयपरिणामाहंकारस्य चेतनत्वमाहोस्वित् नेति । चेतनत्वं तैरेव तस्य नास्तीति निराकृतमिति नास्त्यत्र विवरणस्यावकाशः । अचेतनत्वेऽपि विचित्रां शक्तिं प्रकृतेरभ्युपगच्छाम इत्याग्रहः (चेत्) पुनरपि ते प्रष्टव्याः ज्ञानविहीनस्य यस्य कस्यापि वस्तुन इच्छादयः कृत्यादयश्च बिम्बप्रतिबिम्बादयश्च किं क्वचित् त्वया दृष्टचराः ? एवं यदि, तर्हि पुरुषाङ्गीकारो भवदीयसिद्धान्ते निष्फल एव । तस्मादहं पदार्थ एको ज्ञानविशिष्टोऽमलोऽणुर्ज्ञानस्वरूपश्चानन्दी जीव² इति भवति । अन्तर्यामिरूपोऽहंपदार्थः सकलकल्याणगुणपरिपूर्णः सर्वनियन्ता आनन्दी आनन्दप्रदश्चाश्रितरक्षकश्चेति विशेष उन्नेयः । द्वावप्यहंपदार्थौ ज्ञानाकाथौ ज्ञानविशिष्टौ निर्मलौ सर्वाधारौ³ इति सर्वोपनिषद्भ्यो विशिष्य मुण्डके प्रणवार्थविवरणाच्च स्पष्टमवगम्यते । ईदृगहंग्रहोपास्तिफलीभूतसमाधिरभ्यासिप्रार्थनानुगुणकालपर्यन्ता भवति । अथ च ध्यात्रिष्टफलप्रदश्चेत्यत्र वाल्मीकि4पराशरवसिष्ठनिर्मितपुराणानि प्रमाणानि । समाधिना सुप्रसन्नो भक्तपराधीनो भगवान् ध्येयरूपीष्टानि फलानि दत्त्वा सर्वाभ्य आपद्भ्यः पालयति5 । अत्र प्रमाणानि रामायणप्रभृतिग्रन्थाः । इदमखिलं कुरकाधिपोपदिष्टे श्रीमन्नाथमुनिप्रणीतयोगरहस्यसारे6 यामुनमुनिप्रणीतसिद्धित्रयान्तर्गतेश्वरसिद्धौ च निगदितम् । तत्रैव विदांकुर्वन्तु विद्वांसः ।
समाधिर्नाम जीवात्मपरमात्मसंबन्ध इत्येतावता प्रबन्धेन निश्चितं भवति । तर्हि “तदा द्रष्टु”रिति सूत्रे समाधिफलस्य दृष्टुः स्वरूपावस्थितेर्बाधिनात् जीवात्मपरमात्मसंबन्धरूपसमाधेरज्ञानात् तत्रोक्तनिरोधसमाधिफलीभूतद्रष्टृस्वरूपस्थितिमात्रस्योक्तेर्विरोध इति केषांचित् शङ्का उपासनाज्ञानमूला अहंग्रहोपासनेति ज्ञेयम् । संबद्धवस्तुष्वेकविज्ञाने सति यावत्संबन्धिविज्ञानं भविष्यतीति कारणविज्ञानन्यायात् सिद्धम् । तथा च द्रष्टुःस्वरूपसूत्रे च संबन्धः शरीरशरीरिभावरूपः, शिष्याचार्यभावरूपो वा पितृपुत्रभावरूपो वा शेषशेषिभावरूपो वा यो वा कोवा भवतु । परन्तु तत्सूत्रघटितद्रष्टृपदं परमात्मविशिष्टजीवपरमेव । उक्तं हि नवनीतनाट्याचार्येण “मत्तः परतरं नान्यत् किञ्चिदस्तीति धनञ्जय ……….” “न तदस्ति विना यत्स्यात् मया भूतं चराचरं” मित्यर्जुनोपदेशसमये भगवद्गीतायामिति योगवल्ली स्मारयति ।
तीव्रसंवेगानामासन्नः ॥ २१ ॥
ये चाद्यैव समाधिना भगवत्साक्षात्कारं प्राप्नुवाम इति त्वराविशेष मनसि कृत्वा विरामप्रत्ययसूत्रोक्तसमाधिसाधनान्यनुतिष्ठन्ति ते तीव्रसंवेगाः, तेषां तीव्रसंवेगानामासन्नोऽतीव समीपतरः समाधिरहंग्रहोपासनबललब्धध्यानद्वारा आत्मपरमात्मलाभमावहति ।
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ २२ ॥
ईश्वरप्रणिधानाद्वा ॥ २३ ॥
समाधिकारणं परिशुद्धजीवात्मनः स्वरूपज्ञानं तच्च “तदा द्रष्टुःसूत्रे” व्यक्तीकृतम् । द्रष्टुरिति स्वात्मदर्शनकर्तारं बोधयति । स्वात्मपदं जीवशरीरकपरमात्मपरम् । जीवशरीरकपरमात्मज्ञानं शुद्धं मित्रं च । मिश्रज्ञानस्य8 शब्दब्रह्मेति प्रथितमपि सर्वे न जानन्ति । तत्र स्वात्मस्वरूपमेतदपि परिशुद्धस्वात्मज्ञानस्य कौषीतक्युपदिष्टप्रतर्दनविद्याप्रोक्ताहंग्रहोपासनस्योपकरकं भूत्वा समाधिनिर्वर्तकं भवतीति नाथमुनीनामाशयः ।
द्वितीयस्तु समाधौ एतादृशाहंग्रहोपासनेऽसमर्था ये तेषां समाध्यपेक्षिणां चित्तविहेपनिरसनाय, परवैराग्यप्रकृतिपुरुषविवेकख्यात्यभ्यासबलादपि हेतुरिति भगवत्पतञ्जलेः सौत्रमभिप्रायं नाथमुनयोऽप्यङ्गीकुर्वन्ति । ईदृशसमाधिस्तत्तज्जैवानादिकर्मवासनाबलात् काम्यरूपोऽपि भवति । इत्याद्यप्यङ्गीकृत्य भवप्रत्ययसूत्रोक्तसमाधिफलमपि केषांचित् भविष्यतीति तत्र तत्र योगरहस्ये प्रकटीकृतम् ।
तृतीयस्तु कारणं श्रद्धावीर्यसूत्रोक्तमेवास्माभिरङ्गीक्रियत इति सम्मतिर्दत्ता । त्रिविधमपि9 समाधिकारणानुष्ठानं कृतयुगप्रतिपादितवर्णाश्रमधर्मानुष्ठानवत् दुःसाध्यमिति मत्वा लघुतरं शीघ्रफलप्रदं सर्वाश्रमिणामनाश्रमिणां च प्राकृतदुःखत्रयनिवारकं सर्वाश्रमधर्मानुष्ठानसुकरोपायं समाधिमुपदिशतीत्यभिप्रायेणैव “किमेतस्मादेव... कश्चिदन्योऽप्युपायः समाधौ” इति भाष्योक्तिमप्यङ्गकृित्य “चतुर्थं लघुतरमपेक्षितेऽनपेक्षिते वा भोगापवर्गफलप्रदं समाध्यपरनामधेयं प्रणिधानप्रपत्तिभक्तिपदाभिधेयमीश्वरोपासनात्मकं समाध्युपायं विवक्षति भगवान् पतञ्जलिः “ईश्वरप्रणिधानाद्वा” इति सूत्रेणेति भगवन्नाथमुनिराह ॥
ईश्वरपदं 'ईश ऐश्वर्ये' इति धातोर्निष्पन्नम् । ईश्वर ऐश्वर्यशाली । ऐश्वर्यं नित्यनिरुपाधिकं स्वसंकल्पायत्तं न तु कर्माधीनम् । कर्म वैदिकं, तान्त्रिकं, वैदिकतान्त्रिकमिति त्रिविधमित्यन्यदेतत् । तादृशैश्वर्यविशिष्टपरमात्मा इत्यर्थः । तेन तस्यान्यानधीनत्वं स्फोरयति । ईश्वरप्रणिधानमित्यत्र ईश्वरपदं ईश्वरमीश्वरीं10 चाभिधत्ते । ईश्वरेण साकमीश्वर्यपि जगद्सृष्ट्यादिकं करोतीत्यभ्युपेयम् । पाञ्चरात्रग्रन्थेष्विदं स्पष्टमुपलभ्यते । प्राचीनवेदान्तिन उभावप्येकेनैव दिव्यदम्पतीतिपदेन व्यवहरन्ति । ईश्वरस्य प्रणिधानं, ईश्वरप्रणिधानम् । प्रकर्षेण नितरां धीयत इति प्रणिधानम् । अर्थादीश्वरपादयोः स्वात्मनोऽनन्यगतिकत्वेन दृढप्रेम्णा चार्पणम् । तच्च त्रिकरणशुद्ध्या कर्तव्यम् । आकारस्तु त्रिविधतापाभिभूतोऽहं तापजन्यदुःखपरम्परां सोढुं न शक्नोमि त्वामृते तादृशदुःखनिवर्तको जगतीतले सर्वस्मिन् नान्योऽस्ति । अकिञ्चनोऽहमशक्तोऽहमितरोपायानुष्ठानेऽनुचितकार्यकरणे शान्ताभिसन्धिश्च । शास्त्रदृष्ट्या लौकिकदृष्ट्या च
निरूपाधिकनिरवधिकदयावान् त्वमेवेति निश्चित्य आत्मात्मीयं यत्किञ्चिदस्तिसर्वं त्वदीयमेवेति समर्पयामीत्यभिसन्धाय नारायणोपनिषदुक्तया “ओमित्यात्मानं युञ्जीते”ति रीत्या अहरहः प्रणिपतनमेव प्रणिधानशब्दार्थः । ईदृशप्रणिधानाद्वा समाधिः समाधिमत्वं च भवतीति सूत्रार्थः ।
पतञ्जलिमुनिप्रोक्तयोगसूत्रप्रथमपादे योगफलीभूतसमाधेः कारणानि चत्वारि सूत्रेषु निगूढानि । समाध्यपेक्षिणामेषु चतुर्ष्वेकमनुष्ठेयम् । विकल्पेनेति चतुर्थकारणीभूतेश्वरप्रणिधानसूत्रे वाशब्दोक्त्या सूत्रभाष्यतट्टीकाट्टिप्पणीकारैः स्फुटीकृतं भवति । “उपमायां विकल्पे वेति” नामलिङ्गानुशासनतृतीयकाण्डनानार्थाव्ययवर्गे वाशब्दस्य विकल्पार्थकत्वममरसिंहेनानुशिष्टम् । इत्यतः समाधिकारणानि चत्वारि विकल्पितानीति व्याख्यानं चक्रुः । तत्र वस्तुस्थितिं प्राहुः योगरहस्यकारा नाथमुनयः । सत्यमुक्तं वाशब्दो विकल्पार्थं बोधयतीति । तर्हि सर्वं सापवादमिति न्यायं विस्मृत्य तथा टीकामकुर्वन्निति योगशास्त्राध्येतृभिर्निश्चतव्यमिति । तथा हि-स एवामरसिंहः “स्युरेवन्तु पुनर्वै वेत्यवधारणवाचका” इति तृतीयकाण्डनामलिङ्गानुशासनाव्ययवर्गे वाशब्दस्यावधारणार्थकत्वमेवान्वशात् । तद्बलात् समाधकारणीभूतचतुर्षूपायेषु ईश्वरप्रणिधानात्मक एक एव मुख्योपायो इति योगरहस्यवादप्रकरणे निगदितम् । तस्यैवोपायस्य सर्वेषां समाधिसाधने सुकरत्वात् । तदर्थमेव हि योगवल्ल्यां समाधपादो द्वेधा विभक्तः पूर्व उत्तरश्चेति । पूर्वभागोक्तसमाध्युपाया-अस्मिन् युगे दुःसाध्या इति सुतरामसाध्या एव । तत्रात्यन्तिकवैराग्यसहितप्रकृतिपुरुषविवेकख्यातिरूपयोगोपायः केवलं कृतयुगीनजनानुष्ठानयोग्यस्योक्त इति । तेन च योगानुशासन पूर्वभागीनः प्रथमसूत्रादारभ्य आन्तं मृदुमध्यादिसूत्रपर्यन्तं पूर्वभागीनः, ईश्वरप्रणिधानसूत्रादारभ्य संपूर्णद्वितीयपादपर्यन्तं द्वितीयभागीन इति विस्पष्टं भवति । वस्तुतस्तु संपूर्णप्रथमपादपर्यन्तमेव द्वितीयभागः । प्रकृतमनुसरामः । अव्ययवर्गोक्तनामलिङ्गानुशासनमाधारीकृत्य सूत्रार्थविवरणे कृते सति ईश्वरप्रणिधानरूपोपायेन सर्वेषां समाधिः समाधिमत्वं च सुलभे इति स्पष्टं भवति ।
योगरहस्योक्तो वावादसारांशः । यथा वेदोक्तोऽपि वर्णाश्रमधर्मेषूत्कृष्टतमः क्षत्रियमात्रसाध्योऽश्वमेधगोमेधादिः कलियुगेऽनुष्ठातुमशक्यत्वेनाननुष्ठानेऽपि न दोषावहः, यथा वा वर्णाश्रमधर्मेषु तेषु परमोत्कृष्टतुरीयाश्रमधर्मानुष्ठानं चेतरयुगेषु सुखतरमपि कलियुगे दुःसाध्यमिति “अग्न्याधेयं गवालम्भं ......कलौ पञ्च विवर्जये” दिति प्रमाणानुरोधेन तदनुष्ठानवर्जनेऽपि वेदातिक्रमरूपदोषो नास्तीति निर्णीतं, तथैव भगवत्पतञ्जलिप्रणीतचतुष्पादात्मकयोगसूत्रान्तर्गतप्रथमपादप्रतिपाद्यसमाध्युपायभूत (निरोधसमाधि) समाध्यङ्गभूत (साधनभूत) वशीकारसंज्ञवैराग्यासाध्यत्वेन (कलियुगे) युगधर्ममहिम्ना पुरुषाणामायुःपरिमाणस्याल्पतया समाधिसाधनानुष्ठानस्य कालदैर्घ्यमावश्यकमिति सूत्रकारेणैव प्रथमपादपूर्वभागीने सूत्रे “दीर्घकालनैरन्तर्येति” प्रमाणानुसारेण बहुदीर्घकालसाध्यसमाधिसाधनानुष्ठानस्यासुकरत्वेन प्रथमपादीनद्वितीयभागोक्तेश्वरप्रणिधानरूप- भक्तिप्रपत्योरत्यन्तसुकरत्वेनानुष्ठात्रपेक्षितभोगापवर्गयोरन्यतरस्य सुसाध्यत्वमिति निरूपितम् । क्रियापादोक्त “योगाङ्गनुष्ठाना” इत्यत्र विवृतयोगाङ्गेषु द्वितीयभागान्तर्गतेश्वरप्रणिधानस्यैवावश्यकत्वमिति प्रतिपादयित्रा भगवता पतञ्जलिमहर्षिणा प्रथमपादीनद्वितीयभागारम्भ एव सर्वपुरुषाणां योगानुष्ठाने ईश्वरप्रणिधानस्यैवात्यन्तसुकरत्वमिति सूचितम् ।
ईश्वरपदं निरुपाधिकसर्वेश्वरपरम् । तेन ध्यानेषु सकलप्रकारेषु ध्येयतया सर्वेश्वरस्य प्रणवप्रतिपाद्यस्य लक्ष्मीविशिष्टस्य वासुदेवाभिधानस्यैव ग्रहणमित्युक्तं भवति । लक्ष्मीविशिष्टत्वं च पूर्वमेवोक्तम् । ततश्च प्रणवप्रतिपाद्यः श्रीमान् नारायण एव समाध्यङ्गभूतध्यानेषु विषयः । तथा चोक्तं “प्रणवो धनुः शरो ह्यात्मा………… शरवत् तन्मयो भवेत्” । “धनुर्गहीत्वौपनिषदं ……….. लक्ष्यं तदेव अक्षरं सौम्य विद्धि'” । “ओमित्यात्मानं युञ्जीत” इत्यादयः प्रमाणम्, यथा सर्वेश्वरस्य नारायणवासुदेवपदाभिधेयस्य “यद्भूतयोनिं परिपश्यन्ति धीरा” इति । परिपश्यन्ति ध्यानेनेति ज्ञेयम् । योगिनां समाधिविषयत्वमेवमीश्वर्या महालक्ष्म्या अपि “ईश्वरीगं सर्वभूतानां त्वामिहोपह्वये श्रिय” मित्यादिश्रुतिभिः सर्वभूतयोनित्वं श्रुतिशतसमधिगतं भवति ।
तथा चेश्वरे प्रणिधानमीश्वरप्रणिधानम् । प्रणिधानं भक्तिविशेषः परा भक्तिः । भक्तिप्रपत्तिभ्यां प्रसन्नः स एव लक्ष्मीविशिष्टो नारायणो ध्यानातिशयेन प्रीतस्तापत्रयविमोकं प्रयच्छति । ईदृशप्रणिधानमात्रादेव समाधिसिद्धिमभिमतफलं च ध्याता प्राप्नोति । यद्यपि प्रथमपादे पातञ्जलसूत्रे प्रातिस्विकतया योगाङ्गध्यानादिपदानि न प्रतिपादितानि, तथापि शिरःप्रायभूतसमाधिपदस्यानेकेषु सूत्रेषूक्तत्वात् तदङ्गभूतयमादिभिरुक्तप्रायाणीति वेदितव्यमिति संग्रहः ।
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ २४ ॥
क्लेशा आध्यात्मिकाधिदैविकाधिभौतिकाः सर्वेष्वितरशास्त्रेषु प्रसिद्धाः । अस्मिन् शास्त्रे उत्तरत्र वक्ष्यमाणा अविद्यादयः क्लेशाः । कर्माणि शास्त्रीयाण्यशास्त्रीयाणीति प्राक्तनकर्ममहिम्ना बोद्धव्यानि । विपाकोऽवस्थाविशेषः परिणामविशेष इति तात्पर्यम् । आशयो मनसि संस्काराणां मिश्रीभूय एकीकरणम् । एतैरपरामृष्टस्तदन्तर्गतोऽपि तद्वियुक्तावाप्तसमस्तकामस्य सर्वदा परिपूर्णानन्दस्य कर्मफलसंयोगवियोगाभावः । परिपूर्णस्य भगवतः फलापेक्षायाः स्वत एव दूरोत्सारिताया ईश्वरसंयोगवियोगयोरप्रसक्ततया भूतभविष्यद्वर्तमानकालत्रयेऽपि सृष्टिस्थितिसंहारकालेषु च सर्वक्लेशपरामर्शसंभवो दूरोत्सरितः । ईदृशक्लेशसबंन्धरहित इत्यर्थः ।
पुरुषविशेष ईश्वरः । पुरुषपदं नित्यसिद्धचैतन्यगुणविशिष्टात्मपरम्, आत्मानशचानेके इतरत्रजीवपदवाच्याः । अस्मिन् सूत्रे पुरुषेति पदं “भगवानिति शब्दोऽयं तथा पुरुष इत्यपि, निरुपाधी च वर्तते वासुदेवे परात्मनि” इति पराशरपुराणे वासुदेवपरतयोक्तम् । विशेषस्तु “सहस्रशीर्षापुरुषेति” पुरुषसूक्तभाष्ये च स्पष्टमुक्तम् । जीवात्मन्यपि पुरुषशब्दः प्रयुज्यते । तत्रौपचारिकप्रयोग इति ज्ञेयम् यथा सिंहो माणवक इति । पुरि शेते इति पुरुषः । 'शीङ् शयने' पुरि पाञ्चभौतिकशरीरात्मके पत्तने शेते, सुखं निद्रातीत्यर्थः । ईदृशं शयनं जीवात्मनः परमात्मनश्च समम् । परन्तु तत्र शयानोऽपि परमात्मा नियन्तृभावेन दहरे शेते । “अनिद्रः सततं रामः सुप्तोऽपि च नरोत्तम” इति श्रीमद्रामायणमत्र प्रमाणम् । इतरस्तु कर्मणा बद्धःसन् सुखाद्यनुभवतीति विशेषः । तत्र स्थितोऽपि कुतो न बद्धः । प्राकृतशरीरैन्द्रियकमानसिकपरिणामेषु कुतो न सक्तः? अयमत्र समाधिः । सः सर्वदा आनन्दी । अन्ये प्राकृतगुणास्तत्र न प्रसरन्ति । षड्रसोपेताहारभोजनेन तृप्तस्य विशेषभोजने नापेक्षात्र तद्वत् परिपूर्णस्य पुरुषविशेषस्यान्तर्यामितया हृदि स्थितस्यापि न प्राकृतगुणभोगापेक्षा । अत्यन्तसन्निहिता अपि प्राकृता गुणा नान्तर्यामिणं बाधन्ते । यत् तेजस्वी ओजस्वी भ्राजस्वी च स भवति । तेजः प्रकाशसहितमौष्ण्यम् । ओज उत्सारणशक्तिः । भ्राजोऽवकाशनावकाशः । तेन सर्वनियन्ता भवति । इदं च रूपमात्यन्तिकैकान्तिकभक्तिमन्मनोमात्रगोचरम् । ईश्वरः पूर्वसूत्रोक्त इव वेदितव्यः । पुरुषविशेष इति पदं पुरुषोत्तम उत्तमपुरुष इत्यर्थकम् । अयमर्थः “उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वर” इति साक्षाद्भगवतैव उक्तम् । “यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्ति लोके वैदे च प्रथितः पुरुषोत्तमः । '' इति गीतासूक्तिरिदं दृढीकरोति । क्षरः संसारी बद्धजीवः, अक्षरो मुक्तजीवः । ईश्वरः क्षराक्षरात्मकोऽन्यः । ईदृशेश्वरप्रणिधानमष्टाङ्गसहितभक्तिमतां यमनियमादिसमाधिमतां सर्वविधसमाधिरूपं करतलामलकवत् भवतति पराशरपूराणे “परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे” इत्यादौ स्पष्टमुक्तम् ।
तत्र निरतिशयं सर्वज्ञबीजम् ॥ २५ ॥
तत्रैव पुरुषविशेषे निरतिशयं समाभ्यधिकरहितं सर्वज्ञबीजम् । सकलविषयकज्ञानाश्रयाधारस्तत्रैव नान्यत्र ।
निर्गतोऽतिशयो यस्मात् तत् निरतिशयम् । सर्वं जानाति इति सर्वज्ञः । सर्वपदं सर्वज्ञत्वपरम् । बीजपदं मूलकारणपरम् । तथा च पुरुषविशेषस्य लक्षणसूत्रमिदम् । सर्वविधचेतनाचेतनसंबन्धिसृष्टिस्थितिसंहारकालीनकर्मविषयकज्ञानाश्रय इत्यर्थः । तच्च समाभ्यधिकरहितं सर्वदासंकुचितं ज्ञानम् ।
पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ २६ ॥
स एषः, यः पूर्वमुक्तः परमात्मा एष बुद्धिस्थः पूर्वेषां, पूर्वकालीनानां वर्तमानकालीनानां भविष्यत्कालीनानां च पुरूषाणामत्मानां चेतनानां ज्ञानिनां गुरुरुपदेष्टा, अज्ञाननिवर्तकः । ईश्वरस्य भास्वरशरीरं कालेनानवच्छिन्नं नित्यं च ।
तस्य वाचकः प्रणवः ॥ २७ ॥
तस्य, तादृशसार्वकालिकसर्वगुरुरूपपरमात्मनः, वाङ्मनसागोचरस्येश्वरस्य वाचकः, बोधकः, ज्ञानजनकः शब्दः प्रणवः । प्रकर्षेण नव इति प्रणवः ।
प्रणवस्य परमात्मस्वरूपमाथर्वणरहस्ये “प्रत्यगानन्दं ब्रह्म पुरुषं प्रणवस्वरूपं अकार उकार मकार” इत्युक्तम् ।
तज्जपस्तदर्थभावनम् ॥ २८ ॥
तादृशप्रणवस्य जपः, अकार उकार मकार रूपवर्णत्रयात्मकस्य प्रणवस्य जपः पुनः पुनरावृत्तिः । प्रणवार्थस्य भावनं मननं, निरन्तरार्थाकारमननम् ।
प्रणवस्याथर्वणरहस्योक्तस्याप्राकृतदिव्यमङ्गलविग्रहस्य स्वहृदि स्थितस्याङ्गुष्ठपरिमाणस्यानुसंधानं “अङ्गुष्ठमात्रः पुरुषो मध्ये आत्मनि तिष्ठति । ” “ईशानो भूतभव्यस्य स एवाद्य स उ श्वः” इति कठोपनिषद्युक्तम् ।
ईदृशजपस्तदर्थभावनं योगिनां नियमेनानुष्ठेयम् “ओमित्येव सदा विप्राः पठध्वं ध्यायत केशवम्” इति प्रमाणतोऽवगम्यते ।
ततः प्रत्यक्त्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ २९ ॥
तादृशप्रणवजपप्रणवार्थानुसन्धानाभ्यामन्तर्यामिविशिष्टपरिशुद्धजीवात्मसाक्षात्कारो भवति । अनेन जीवात्मा किं स्वरूप इति शङ्कानिरासो भवति । अथ च ये विघ्नरूपाः क्लेशाः, कायक्लेशमनोक्लेशाश्च, तेषां निवृत्तिर्भवति ।
व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चितविक्षेपास्तेऽन्तरायाः ॥ ३० ॥
अन्तरायाः ।
प्रत्यक्चेतनाधिगमसूत्रे प्रोक्तानन्तरायान् तत्क्रमांश्च प्रतिपादयति सूत्रकारोऽन्तरायसूत्रे । यस्तु स्वयं शक्तः सन् जगदीश्वरं तद्वाचकप्रणवजपतदर्थानुसन्धानध्यानभावनादिभिस्त्रिभिः करणैर्नाञ्चति तं वक्ष्यमाणा अन्तराया निष्प्रत्यूहं परिवृत्य पीडयन्ति । यस्त्वशक्तः सोऽपि मनसा धारयन् मनसैवाराधयति न तमन्तराया दुःखाकुर्वन्ति ।
व्याधिः शरीरेन्द्रियचेतस्सु विशेषेण पीडनम् । स्त्यानं, सङ्गदोषात्तदननुष्ठानमीश्वरप्रणिधानस्य । संशयः, ईश्वरोऽस्ति न वेत्याकारो विचिकित्सा शास्त्रैः प्रतिपादितोऽपि स अस्मदिष्टान् निवारयति वा न वा इत्येवंरूपोऽपि वा स्यात् । प्रमादोऽनवहितत्वमश्रद्धा । आलस्यं, शास्त्रोक्तकालेऽननुष्ठानम् । अविरतिः शास्त्रोक्तनियमोल्लङ्घनम् । भ्रान्तिदर्शनं शास्त्रार्थमर्यादाननुसरणम् । अलब्धभूमिकत्वं वेदोक्तजीवनवेषभाषास्थानादिविसर्जनम् । अनवस्थितत्वं यथेष्टाचरणमनियतानुष्ठानञ्चेति नवधा अन्तरायाः प्रोक्ताः । नवान्तरायबाधा शरीरस्य नवद्वारेषु क्रमव्युत्क्रमाभ्यां पीडयन्ति । तच्चानुभवमात्रवेद्यम् ।
भक्त्युत्पत्तये मनोनैर्मल्यमवश्यं संपादनीयमित्यध्यात्मयोगिनोऽप्यङ्गीकुर्वन्ति । भक्तिर्नाम विजातीयमानसिकसंबन्धः । संबन्धश्च द्विष्ठ इत्यत्र न विवादः । स च निर्मलमानसिकक्रियालभ्यः । मानसिकी क्रिया हि तादृशी निष्कलङ्कदेहिन एव । तादृशदेहश्च शास्त्रीयसात्त्विकाहारसेवनमात्रजन्यः । न केवलं सेवितस्याहारस्य जीर्णताप्यपेक्ष्यते । आहारजीर्णाद्धि सुप्रसिद्धा आरोग्यनामिका शक्तिस्तेजो वा देहे उत्पद्यते । जीर्णतासंपादनाय सन्तोऽपि बहुवो उपाया मितद्रव्यात् नाचरणायालं भवन्तीति मन्वानेन भगवता पतञ्जलिना ऐहिकामुष्मिकविषयभोगायं निर्मलदेहसिद्ध्यर्थमष्टविधयोगाङ्गेषु चत्वारि प्राधान्येन यमनियमासनप्राणायामेत्येतैर्नामभिः शारीरवाचिकमानसिककर्माणि विचित्राणि योगाङ्गानीति सनियमं प्रोक्तम् । आरोग्यरूपशक्तिस्तेजो वा पूर्वोक्तैश्चतुर्भिरङ्गैर्यादृशी जायते शरीरे, तादशी इतरैर्नानाविधैर्बहुधनव्ययादिभिश्चानुष्ठितादिभिर्नैव जायते । शरीरे प्राणशक्तिरन्या बाह्येन्द्रियशक्तिरन्या आभ्यां द्वाभ्यां विपरीता चित्तशक्तिरन्या । यदा ह्येतास्तिस्रः शक्तयः परस्पर्मविरोधं सङ्घीभूय स्त्रीपुरुषसाधारणशरीरान्तर्वर्तिषु षण्णवत्यस्थिसंधिष्वसंख्याकग्रन्थिषु च तत्तद्वयोनुगुणवृद्धिं ह्रासं च प्राप्तेषु नाडीसिराधमनीग्रन्थिष्वनर्गलं व्याप्य शरीरे नातिस्थौल्यनातिकार्श्यनातिदीर्घनातिवामनरूपान् विकारान् कुर्वन्ति तदा ताश्शक्तयः शरीरदृढारोग्यकारिण्य इत्यसंशयं वक्तुं शक्नुमः । तादृक् चतुराङ्गानुष्ठानं देहिनः न सर्वास्ववस्थासु बाल्यकौमारयौवनवार्धक्यरूपासु स्त्रीषु वा पुरुषेषु वा कर्तुं शक्नुयुर्न वेति । स्वस्वधीभिरवगत्य यस्यामवस्थायां यादृश्यङ्गेषु शक्तिरुत्थिता तयैव शक्त्या तदनुष्ठानं कर्तव्यं, तत्तु अत्यन्ताननुष्ठानं नो वा अत्यनुष्ठानमित्येतत्सर्वं अनुक्तमन्यतो ग्राह्यमिति नीत्याभगवद्गीतायां “नात्यश्नतस्तु योगोऽस्ति ………” इत्यादिभिर्वचनैश्चोह्यम् । यथा चतुर्ष्वाश्रमेषु तद्धर्मेषूत्तराश्रमप्राप्तेषु कतिपये पूर्वाश्रमधर्मास्त्यज्यन्ते, एवं चतुर्व्यवस्थासु पूर्वपूर्वावस्थानुष्ठितयोगधर्माणां संग्रहेणानुष्ठानम् । यथा सर्वाश्रमेषु ब्रह्मचर्यधर्मः पातिव्रत्यधर्मश्चानुस्यूतौ भातः, एवंयोगाङ्गानुष्ठानक्रमेषु सर्वासु शरीरावस्थासु ब्रह्मचर्यपातिव्रत्यपालनपूर्वकत्रैकालिककर्मसु प्रणायामो जगदीश्वरप्रतिपादकप्रणवतदर्थानुसंधानतध्यानानि च कुर्वतामन्तराया नैव भवन्तीति योगरहस्यकाराणां श्रीमन्नाथमुनीनामाशयः । “प्रणायामेन पवने प्रत्याहारेण चेन्द्रियं वशीकृत” मिति विष्णुपुराणवचनं प्रमाणं भवति ।
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ ३१ ॥
यादृशो मानसव्यापारः खं दहराकाशं दुष्ठं कलुषं करोति स दुःखपदवाच्यः । दुष्ठं च तत् मनश्च दुर्मनः । दुर्मनसो भावः दौर्मनस्यम् । मनसि दौष्ठ्यं नाम प्राकृतसत्त्वरजस्तमांसि गुणाः प्राक्जन्मकृतकर्मवासनाबलात् भगवत्संकल्पानुगुणमुत्प्लवनानुप्लवनपरिप्लवनरूपचाचल्यात क्वचित् क्वचित् काले शरीरिणं शरीरे लुठितं कृत्वा तद्वाधासहिष्णुं कुर्वन्ति । तादृशासहिष्णुतैव मनसि दौष्ठ्यम् । अङ्गानामेजयत्वमङ्गमेजयत्वम् दौर्मनस्यबलात् शरीरकम्पनम् । ततोऽङ्गमेजयत्वानन्तरमनुक्षणमेवाव्याहतातिवेगितधासोच्छ्वासाः । अनिच्छयापि श्वासोच्छ्वासः श्वासप्रश्वासः । इमे विक्षेपसहभुवः । विक्षेपो मानसिकरोगः ।
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२ ॥
तेषां, विक्षेपकारणानां प्रतिषेधार्थं निरोधार्थमेकतत्त्वाभ्यासः । एकंच तत् तत्त्वं च एकतत्त्वं, एकतत्त्वस्याभ्यासः एकतत्त्वाभ्यासः । एकपदं सर्वज्ञं सर्वशक्तिमन्तं सकलगुणं देशकालक्रियानवच्छिन्नाविद्यादिक्लेशरहितं सर्वश्रुतिशिरोभूतोंकारपर्यायप्रणवप्रतिपाद्यमनवच्छिन्नैश्वर्यं स्मरणमात्रकर्मणा सर्वरोगनिवर्तकं प्राकृतगुणासंस्पृष्टं पुरुषाकारं भगवन्तं बोधयति । “प्रत्यगानन्दं ब्रह्म पुरुषं प्रणवस्वरूपम् अकार उकार मकार” “सहस्रशीर्षा पुरुषः” इति चात्र प्रमाणे ।
तत्त्वपदं सर्वकालसर्वदेशसर्वावस्थास्वप्यविक्रियं परिपूर्णानन्दं सकलकल्याणगुणविशिष्टमपरिमितौदार्यदयाज्ञाननिधिं बोधयति । ईदृशतत्त्वस्य निरन्तराभ्यासो योगाभ्यासिनामावश्यकः । तेन जगतीतलवर्तिसर्वव्याधयो भस्मीभवन्तीतीदं भगवद्वाचकप्रणवजपप्रणवार्थानुसंधानफलबोधक “ततः प्रत्यक्चेतना..........” इति पूर्वस्मिन् सूत्रे स्पष्टीकृतम् ।
योगेन रोगचिकित्साक्रम एवं रूपमासीदिति भगवान् पतञ्जलिर्जानिन्नपि युगभेदेन वैदिकधर्मानुष्ठानह्रासात् लोके पुरुषाणां स्त्रीणां सर्वेषामपि लघुतमरोगचिकित्साक्रमं द्वितीयपादे (साधनपादे) विवृणोति “तपः स्वाध्याये”त्यादिना । एतावता प्रबन्धेन व्याधयः सुखविरोधिन इति निर्णीतम् । अत्रापि मानसिकव्याधिनिवृत्तये कति चन सुलभोपाया वक्ष्यन्ते प्रच्छर्दनेत्यादिसूत्रैः । इदं सर्वं पराशरैर्वसिष्ठपौत्रैः स्वकृतपुराणे रोगनामभिः साकं रोगनिवृत्तिप्रकारसहितं खाण्डिक्य केशिध्वजसंवादरूपकथायां विशदीकृतम् । इदं तु न विस्मरणीयं यत् सर्वैर्योगाभ्यासिभिर्योगाध्यापकैश्च स्वस्वशरीरे रुग्णताया अवकाशः कदापि न देय इति । अथ च योगाङ्गानुष्ठानसमये आर्षं संप्रदायमनुसृत्यैव त्येयम् ।
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चितप्रसादनम् ॥ ३३ ॥
मित्रस्य भावो मैत्री । स्नेह इत्यर्थः । मनसो बाह्येन्द्रियसन्निकर्षजन्यो बाह्यविषयाकारेण दृढः परिणाम इति भावना । ईदृशस्नेहभावनां सुखितेषु विषयेषु कृत्वा यस्तुष्यति, सः क्रमात् दुःखदूरो भवति । एवमेव करुणाभावना दुःखितेषु, मुदिताभावना पुण्यविषयेषु, उपेक्षाभावना चापुण्यविषयेषु कर्तव्याः । ईदृशविरोधसामग्रीबलान्मानसिककल्मषशोधनं भवति ।
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ ३४ ॥
प्रच्छर्दनं कौष्ठस्य वायोर्बहिर्वमनम् । नात्यन्तवेगात् नात्यन्तविलम्बादिदं कर्तव्यम् । विधारणं11 नाम
परिशुद्धबाह्यवायोर्जिह्वोष्ठनासिकाभिः पानम् । जिह्वयेति शीतली, ओष्ठाभ्यां शीत्का12रीति पानक्रिययोरनयोः संज्ञा । वमितस्य वायोर्नानुपदमेव धारणम् । पीतस्य च वायोर्नानुक्षणमेव वमनं कर्तव्यम् कलामात्रस्थापनेन वमनपाने फलप्रदे भवतः । एते द्वे प्रच्छर्दनविधारणे प्रथमाभ्यासिनां प्रतियामं चतुर्विंशतिवारमनुष्ठेये । इतराः सर्वाः क्रिया निषिद्धाः । आहारस्तु मधुरो भवेद्यथा क्षीरादिः । द्रवरूपस्यैवाहारोपयोगो न तु कठिनस्य । प्राणस्येति स्वशरीरवर्तिप्राणस्य प्रच्छर्दनविधारणे न यन्त्रादिना कर्तव्ये इत्यर्थः ।
आयुर्वेदादिषु वैदिकमन्त्रशास्त्रेषु चिकित्साप्रकरणेषु विविधरोगनिवारणाय बह्व्यः क्रियाः चिकित्सारूपाः प्रतिपादिताः । तत्र वैदिकमन्त्रजपादीनामपि संग्रहः । तद्वत् पातञ्जलयोगशास्त्रेऽपि चिकित्साविधा बहुधा भगवत्पातञ्जलयोगसूत्रेषु सूचिताः । सर्वकर्मणां सर्वविधयोगाङ्गानां सर्वविधौषधादीनां सकलजनशारीरमानसरोगनिवारणसमर्थोपायेषु मार्गा उक्ताः । शरीररोगनिवृत्तये यथा औषधसेवनादि उपकारकं, एवं योगाङ्गेष्वासनप्राणायामवैराग्याणां शरीररोगनिवतर्कभावोऽस्तीत्यत्र न सन्देहः । यथा औषधपानादिषु रोगिणां रोगनिवृत्तये कतिपये नियमा भिषग्वरैः सूचिता भवन्ति, एवं योगाङ्गाभ्यासेन शरीररोगनिवृत्तये भगवता पतञ्जलिना स्वरचितसूत्रेषु रोगचिकित्साक्रमनियमाः स्पष्टीकृताः । अनेकेषु तेषु मुख्यतमाः श्वासोच्छ्वासगतिवैचित्र्येण बाहूरूपादकण्ठचलनवलनादिकमाहारनियमानुसरणमनियमित- देशसंचरणत्यागश्च भवन्ति । अतिक्रम्य नियमानविज्ञायानुष्ठानोपायान् योगाङ्गानामाचरणेऽपि शास्त्रोक्तकाल एव रोगिणां रोगनिवृत्तिर्दुरवापा ।
ये च पातञ्जलोक्तशारीरमानसिकैन्द्रियकरोगनिवृत्त्यर्थमङ्गान्यनुतिष्ठन्ति, तैरत्यन्तप्रधानैर्नियमैर्ब्रह्मचर्यपालनपातिव्रत्यगोपनराजसतामसाहारत्यागरूपैः साकं स्वदेशीयस्वजातीयधर्मानुष्ठानं यथाशक्ति पालनीयमिति घोषयति मनिर्नाथवरः । अभिनवरक्तवृद्धिः पुराणरक्तदोषनिवृत्तिः अस्थिसन्धीनां दार्ढ्यं कोशोषु दोषशोषणमैन्द्रियकक्रियापाटवं विशेषतो वाक्दृष्टिप्रसरणशक्तिरित्यादयो बहवो गुणा नियमानुसारिभी रोगिभिरयाचिता अपि लभ्यन्त इति संग्रहतो मुनिवरनाथमुनिप्रणीतयोगरहस्यचिकित्साप्रकरणे स्फुटं प्रदर्शितम् ।
किञ्चित् पुरो गत्वा तैरेव मुनिवरैर्मानसिकरोगनिवृत्त्युपाया वक्ष्यमाणप्रकारेण विशदीकृताः । भगवत्पतञ्जलिना प्रणीतसूत्रेषु योगानुष्ठातॄणां योगानुष्ठानफलं किंरूपमिति पृच्छतां छात्राणामाद्यपादे द्वितीयसूत्रे ये च जितेन्द्रिया ब्रह्मचारिणस्तेषां योगानुष्ठानफलं निरोधसमाधिरित्यभाणि । समाधिर्वा असमाधिर्वा, मनसो आद्यया विजातीयस्थित्या ऐहिकामुष्मिकं सुखं, द्वितीयस्थित्या ऐहिकामुष्मिकदुःखज्वालामाला च प्राप्येते । तस्मात् यो यमपेक्षते तत्प्रापको मार्गस्तेनानुसर्तव्यः । तौ द्वौ मार्गौ निरोधविक्षेपरूपौ । विक्षेपमनुसरतां विषमविषज्वालाप्राप्तिः संभवति । निरोधमनुसरतामगददेहस्थितिरिति प्रारभ्य सर्वैरगददेहकाङ्क्षिभिर्निरोधसमाधिरनुष्ठेया । गदो नाम रोगः, अगदो नाम अरोगः, रोगः चेतोविक्षेपः अगदः चेतोनिरोधादुत्पद्येते । मानसिकरोगनिदानं चेतोविक्षेपाद्भवतीति न शरीरतत्त्वविदामविदितम् । तन्निवृत्तये खलु निरोधाभ्यासः कार्य इति कल्याणमार्गस्सूत्रकारेण दर्शितः । प्रथमपादतत्त्वानभिज्ञा वक्ष्यन्ति नात्र चिकिसाक्रमप्रारम्भ इति । ते प्रष्टव्याः किं भवद्भिरभ्यासवैराग्याभ्यामिति सूत्रं मूलोत्पाटितम्? वैराग्यं नामेन्द्रियाणां बाह्यविषयवैमुख्यकरणम् । बाह्यविषयाश्च सर्वैरभिज्ञैरनभिज्ञैरङ्गीकृता विविधाः शब्दा विचित्रविषयाः स्पर्शाः चक्षुरिन्द्रियमूलोत्पाटनसमर्थानि रूपाणि जिह्वामन्ननालं च दग्ध्वा लोहितशुष्ककरणपटवो विविधा रसाः श्वसोच्छ्वासनिरुद्धनिपुणा नासापुटशोषण दक्षा बहुविधा गन्धा इत्येते खलु दशविधप्राणसंचारं रुध्वा सर्वकायसंधिषु दौर्बल्यमावहन्तीति मत्वा भगवता पतञ्जलिना अभ्यासवैराग्यनिरोधसूत्रं कृतम् । इदं सर्वं सर्वैरनुमतं रोगमूलं विषयसेवनमेव । तेन च इतस्ततो मनो विक्षिप्तं भवति । तस्मात् तादृशविक्षेपक्षेपाय दुर्विषयेभ्यो दूरे स्थित्वा मनोरोगचिकित्सा कार्येति मनोरोगमूलं तन्निवृत्त्युपाया मानसस्य रोगस्य चिकित्साक्रमश्च पतञ्जलिना आद्यपादे उक्ताः । आत्यन्तिकचित्तविक्षेपाद्यदा अत्यन्तदूरं निरुद्धचित्तं भवति तदैव खलु तदा द्रष्टुः स्वरूपेऽवस्थानमनुभवः ।
बाह्येन्द्रियबाह्यविषयसन्निकर्षसंजातविविधचित्तविक्षेप (क्षिप्ततादिवृत्तिः) निरोधोपायभूत- विविधवैराग्यतत्त्वाभ्यासलब्धनिरोधरूपसमाधिसंपादनं न सर्वसुकरमिति मन्वानेन भगवत्पतञ्जलिमुनिना सर्वसुकरसमाध्युपायतत्फलप्राप्तये स्वाभाविकानवधिकातिशयैश्वर्यसर्वज्ञत्वादिगुणगणयुक्तभगवत्स्वरूप- साक्षात्कारकारणप्रणवपदशब्दाभिधेयपरमात्मप्रणिधानरूपदृढभक्तिसिद्ध्यर्थमीश्वरप्रणिधानादित्यादीनि चत्वारि सूत्राणि रचितानि । अयमेव पातञ्जलाद्यपादद्वितीयभागविषयः ।
मानसिकरोगोत्पत्तिः चित्तविक्षेपजन्या । विक्षेपश्च बाह्यविषयसन्निकर्षाधीनः । सन्निकर्षश्च विषयसान्निध्यबलात् सम्भवति । इतीयं सरणिः तत्तत्पुरुषप्राक्तनकर्मवासनाधीना इति न विस्मर्तव्यम् । कर्मवासना च सर्वेश्वरसंकल्पायत्ता । अत एव पुरुषेषु स्त्रीषु चित्तविक्षेपतदभावौ उत्पद्येते । मानसिकरोगनिवृत्तये प्रप्रथमं सर्वैरपि सुदृढो यत्नः कार्यः । स च यत्नो भगवद्विषयचिन्तनादिरूपो यद्यपि प्रच्छर्दनविधारणाभ्यामिति सूत्रेण साक्षात् परम्परया वा अन्तरिन्द्रियरूपमनोविक्षेपः सर्वेन्द्रियशक्तिविनाशकः कश्चिज्जायते, तत्र प्रोक्तान्तर्वायुवमनपरिशुद्धबाह्यवाय्वाचमनरूपे प्रच्छर्दनविधारणे न पश्वादिभिः क्रियमाणश्वासोच्छवासरूपे तादृशोच्छवासनिःश्वासाभ्यां न मनोरोगनिवृत्तिश्च जायते अपि तु सर्वनियन्तृभगवदाकारस्मरणसहिते एव रोगनिवर्तके भवतः । स्मरणं च साकाद्दर्शनसमानाकारम् । उच्छ्वासनिःश्वासावपि प्राणायामप्रकारोक्तरीत्या दीर्घसूक्ष्मौ च भवितव्यौ । यथेतरोपायानुष्ठानं दीर्घकालनैरन्तर्यादिसहितं चेत् योगिनामुपकारकं, तथैव मनोरोगनिवृत्तिदीर्घायुष्यसंपादनाय सुदीर्घश्वासोच्छ्वासगतिरावश्यकी । गतिप्रकारः पातञ्जलद्वितीयपादप्राणायामप्रकरणसूत्रैरवगन्तव्या । सर्वविधमनोरोगनिवृत्तये सर्वैरप्युपायानुष्ठानवेलायां मनस आप्यायनकराहारविशेषस्य नियमोऽनुसरणीयः । विना आहारनियमं यौगिकी रोगचिकित्सा निष्फला । बहवो जना वयोधर्मं विस्मृत्य सर्वैरपि सर्वविधयोगाङ्गानुष्ठानं सर्वकालेषु कर्तव्यमिति भ्रान्ता वदन्ति । तत्तु नातीव रमणीयम् । शास्त्रीयकर्माणि यथा
वयोधर्मानुगुणं पृथगीरितानि तथैव यौगिक्यः सर्वाः क्रिया अपीति निश्चयः ।
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ॥ ३५ ॥
अस्मद्गुरुचरणा एतत्सूत्रोक्तविषयप्रवृत्तिस्थैर्यसाधनाय अतिदीर्घकालो यापनीयः, पूर्ववयस्कैरुत्तरवयस्कैर्वा चित्तस्थैर्यसंपादकेष्वनेकेषूपायेषु सत्सु विषयप्रवृत्तिसाधनमजाोगलस्तनदोहप्रायमित्यवदन् । चित्तस्य विषयः सर्वदा अप्राकृतो वैदिकश्च भाव्यः । विषयवतीसूत्रे सर्वप्रकाराणां संविदां प्राकृतविषयत्वान्नातीवेदं बहुमन्यन्ते आत्मार्थिनः ।
विशोका वा ज्योतिष्मती ॥ ३६ ॥
ज्योतिष्मतीसूत्रोक्तविषयाभ्यासस्तु बाह्यविषयानतिक्रम्य स्वशरीरान्तर्हृदयस्थज्योतिर्दर्शनाय यस्मिन् कस्मिन्नप्यनपा्यासने उपविश्यैव निरालोके निश्शब्दे प्रदेशे बहुकालं योनिमुद्रया13 गुरूपदिष्टप्रकारेणान्तस्त्राटक14सहितान्तःकुम्भकमभ्यस्य तद्बलेनानुभवयोग्या ज्योतिष्मती वृत्तिर्भवति । अनया ज्योतिष्मत्या वृत्त्या समाधेः पूर्वं परिपक्वप्राणायामाभ्यासिनो योगिनो निश्शब्दे कस्मिंश्चित् समये रात्रावतां वृत्तिमभ्यस्यन्ति ।
वीतरागविषयं वा चित्तम् ॥ ३७ ॥
वीतरागसूत्रे केषांचिन्महानुभावानां यात्राकालेषु दर्शनं लब्ध्वा यात्रातो निवृत्तःसन् तद्दर्शनसमानाकारस्मरणेन तेषां स्वरूपमनुभवति चेत्, तद्वदेवानुभवबलात् तेषां चित्तमपि वीतरागं भविष्यति ।
स्वप्ननिद्राज्ञानालम्बनं वा ॥ ३८ ॥
स्वप्ननिद्रासूत्रोक्तविषये स्वाप्निकविषयस्मरणं जाग्रत्समये चित्तस्थैर्यसंपादकमिति यत्सूत्रकारेणोक्तं तत् सुस्वप्नविषयमेव न तु दुःस्वप्नषयमिति निर्धार्यम् । स्वप्नपदं स्वप्नकालीनानुभूतविषयपरम् । निद्रापदं स्वस्वेतरविषयकजाग्रदवस्थाकालीनबाह्यविषयकज्ञानाभावप्रत्ययपरम् । उक्तं प्रागेव अभावप्रत्ययालम्बनेति सूत्रे तदनुसृत्यात्र सूत्रे निद्रापदविवरणं कृतम् । बालाक्यजातशत्रुसंवादं कौषीतकिब्राह्मणोक्तं वारं वारमधीत्य सद्विद्योक्तं “स्वप्नान्तं मे सौम्य विजानीही”ति स्वपुत्राय श्वेतकेतवे महर्षिवर्योद्दालकोपदिष्ट- सुषुप्तिविषयप्रकरणमनेकवारमधीत्य पर्यालोच्य च मुनिकुलतिलकेन नाथेन विवृतोऽयमाशयः । अभावस्य प्रत्ययो अभावप्रत्ययः । जाग्रदवस्थायां योऽयमहं मनुजः, ब्राह्मणोऽहं, विद्वांश्च, गृहस्थश्च, अधीतसाङ्गवेदश्च इत्यादिर्यः प्रत्ययो जाग्रदवस्थाकालीनो यस्य पुरुषस्योत्पद्यते तस्यैव निद्राकाले तदभावप्रत्ययः यः, स एव आलम्वनं यस्याः चित्तवृत्तेः सा निद्रेति निर्गलितार्थः । ईदृगर्थः छान्दोग्ये श्वेतकेतूद्दालकसंवादरूप- सुषुप्तिप्रकरणात्कौषीतकिब्राह्मणसुषुप्तिप्रकरणाच्च निर्णीतं भवति । संग्रहतः
“स्वमपीतो भवति”
इति छान्दोग्ये वाक्यम् ।
“तस्मिन् शेते”
“प्राणे एकधा भवति”
“स्वमपीतो भवति”
इति तत्रोक्तवाक्यान्तर्भूतस्वपदमन्तर्यामिपरमात्मपरं, अपीतपदं तत्र लीनजीवपरं, अर्थात् श्रान्तो जीवः परमात्मनि लयात् किञ्चित् कालं विश्रान्तिमनुभवति । एवमेवाजातशत्रुबालाकिसंवादे कौषीतकिब्राह्मणेऽपि बोद्धव्यम् । तत्र लयपदं विहाय एकधा भवतीत्यूक्तम् । एकधा नाम एकाकारो भवतीत्यर्थः ।
यथाभिमतध्यानाद्वा ॥ ३९ ॥
अभिमतमनतिक्रम्य यथाभिमतं, यथाभिमतं ध्यानं, यथाभिमतध्यानं, तस्मात् यथाभिमतध्यानात् ।
स्वेष्टमनतिक्रम्य सच्छास्त्रप्रतिपाद्यविषयदर्शनसमानाकारमात्रस्मरणं (नियतकालिकं वा अनियतकालिकं वा) यदा भवति ऐकान्तिकं तत् ध्यानमित्युच्यते । ध्यानं सविषयकमेव । “ध्यै चिन्तायामि” तिधातोर्ध्यानपदनिष्पत्तिः । चिन्ता चात्यन्तानुभूतविषयकस्मरणमिति
‘स्याच्चिन्तास्मृतिराध्यान’
मित्यमरसिह्मो नामलिङ्गानुशासने निजगाद । स्मरणस्वरूपस्य दृढानुभवजन्यत्वादनुभवस्य ज्ञानरूपत्वात् ज्ञानस्य च आत्मधर्मत्वं वा आत्मस्वरूपत्वमिति वात्यत्र सर्ववादिनां विप्रतिपत्तिर्जाता ।
‘ज्ञानाधिकरणमात्मा’
इति लक्षणम् । ज्ञानं च नित्यं, स्वयं प्रकाशं, सर्वव्यापि, न बाह्येन्द्रियगोचरं, स्वसंवेद्यम् । तत्र चैत्तिकव्यापाररूपत्रिगुणात्मकत्रिगुणपरिणामात्मकवृत्तिव्यवहारस्य सुतरां नावकाशः । तादृशज्ञानस्यैकाग्रताबलादेव संस्कारात्मकशक्त्युद्रेकः स्मरणं भवति ।
“संस्कारमात्रजन्यं ज्ञानं स्मृति”रिति हि तल्लक्षणम् ।
ध्यानं सविषयकमेव । तच्च जीवात्मधर्मभूतज्ञानसहकृतरजस्तमोविहीनशुद्धसत्त्वमनोरूपम् । तादृशं मनो यदा ध्येयासक्तं भवति तदानीं ध्यानमित्यनुभवः ।
परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥ ४० ॥
परमश्चासौ अणुश्च परमाणुः परमं च तत् महत्त्वं च परममहत्त्वं परमाणुश्च परममहत्त्वं च, परमाणुपरममहत्वे परमाणूपरममहत्त्वे अन्तर्यस्य सः परमाणुपरममहत्त्वान्त इति विशेष्यपदम् । अस्मिन् सूत्रे वशीकार इति विशेषणम् । परमपदमत्युत्कृष्टार्थकम् । अणुपदमत्यन्तसूक्ष्मार्थकम् । यस्मात् सूक्ष्मं नास्ति तस्य परमाणुरिति व्यवहारः । परममिति पदमत्युत्कृष्टवाचकम् । महत्पदमतिस्थूलवाचकम् । परममहत्त्वमत्युत्कृष्टस्थूलमित्यर्थः । प्रपञ्चे ज्ञानिना ज्ञेये द्वे एव वस्तुनी, यत् परमाणु (परमसूक्ष्मं) परममहच्च (अत्यन्तस्थूलं, अत्यन्तपृथुतमं) । वशीकारः, अवशं वशं करोतीति वशीकारः, स्वाधीनापत्तिः । प्राक्कालीनास्वाधीनं वर्तमानकालीनस्वाधीनमित्यर्थः । प्रपञ्रूपं परमसूक्ष्मं परममहदपि तच्च सधर्मकम् । सगुणभगवद्ध्यानमीदृशं प्रपञ्चं स्वाधीनं करोति ।
परमाणुपरममहत्त्वान्तो अस्येति । एतेन योगाङ्गानुष्ठायिनः पुरुषस्य स्वरूपं अस्येति पदं वक्ति । ध्यातुर्ध्यानमन्यत् ध्येयात् ध्यानमन्यत् । एतेनातीन्द्रियाण्यपि तत्त्वानि मनसा साक्षात्कर्तुं भगवद्ध्याननिष्ठाः प्रभवन्ति । इदमेव मनसि निधाय अन्तरायाभावसूत्रे जगदीश्वरस्वरूपगुणध्यायिनां परमाणोरपि सूक्ष्मतरस्य परमाणुष्वप्यन्तर्गूढस्य प्रत्यक्चेतननामान्तरभाजो जीवात्मनोऽधिगमः, साक्षात्कारोऽर्थादनुभवो लघु सिध्यतीति ज्ञापित भवति ।
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ ४१ ॥
क्षीणा वृत्तयो यस्य सः क्षीणवृत्तिः, तस्य क्षीणवृत्तेर्वृत्तयः । चित्तव्यापाराः । क्षीणाः क्षयं प्राप्ताः । अभिजातस्य दोषविहीनस्य मणेर्वज्रस्येव पुरुषस्य समापत्तिः, न तु चित्तस्य । गृह्णाति, उपादत्त इति ग्रहीता पुरुषपरम् । गृह्यतेऽनेनेति ग्रहणमितीन्द्रियाणि । ग्रहीतुं, उपादातुं योग्यं ग्राह्यं विषयस्सर्वेश्वरः परमात्मा । ग्रहीतृ-च ग्रहणं च ग्राह्यं च, तेषु ग्रहीतृग्रहणग्राह्येषु । तस्मिन् तिष्ठतीति तत्स्थः परमात्मनि तिष्ठतीत्यर्थः । तेनाञ्जनता, तदञ्जनता ; अञ्जनं लेपनम् ।
यस्य पुरुषस्य चित्तवृत्तयः क्षीणतां प्राप्ताः तादृशपुरुषः क्षीणवृत्तिरित्याख्यायते । अर्थात् निरुद्धचित्त इत्यर्थः । तदानीं कथं वर्तते? अभिजातो मणिरिव वर्तते । अत्यन्तोत्कृष्टजातस्य शुद्धमणेर्वज्रस्य इव, अर्थात् दोषविहीनस्य मणेरिव जीवात्मनोऽभिजातस्येव मणेरिव वृत्तिः । तदानीं कथमनुभवः? ग्रहीता जीवात्मा, ग्रहणमितीन्द्रियाणि, ग्राह्यमिति सर्वेश्वरः परमात्मा । यो योगाङ्गानुष्ठानेन क्षीणवृत्तिर्भवति, स ग्रहीतृग्रहणग्राह्येषु, अर्थात् स्वयं ध्येयाकारो ध्यानेनाक्तो भवति, ध्येयस्वरूपापन्नो भवति । ध्येयाकारस्मरणमहिम्ना ध्येयेन सार्क स्वयमक्तो भवति । अञ्जनवत् सर्वं तन्मयं भवति । सा समापत्तिः स्थितिः । अत्र ध्येयः परमात्मदिव्यमङ्गलविग्रहो न प्राकृत इत्यवगन्तव्यम् ।
तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥ ४२ ॥
सवितर्कसमापत्तिलक्षणमाह शब्दार्थज्ञानविकल्पैरिति सूत्रेण । यद्यपि प्रमाणसूत्रे विकल्परूपचित्तवृत्तेर्निर्वस्तुकत्वं ख्यापितं, तथापि तत्प्रमाणविषयकमिति ख्यापयता सूत्रकारेण सवितर्कसमाधिसूत्रस्थविकल्पशब्दोऽन्यथा वर्णनीयो भवति यद्वायं प्रक्षेप्तव्य इत्येव सन्दिहानो नाथमुनिः, अत्र सूत्रे विकल्पपदं समाधिविषयगणेषु प्राकृताप्राकृतविषयगणैर्मिलितमिति व्याचख्यौ । तत्सारांश एव भाष्यकृद्भिर्टीकाकृद्भिश्च स्थूलविषयः सवितर्क इति विवरणं कृतम् । परिशिष्टसमाधिद्वयं निर्वितर्कनिर्विचारात्मकं केवलमप्राकृततत्त्वविषयमिति बोध्यम् । सवितर्कविषये प्रथमाभ्यासिनां प्राकृतस्थूलविषये समाध्यभ्यासः सुखं भवतीति निश्चेतव्यम् । यदपि शब्दार्थज्ञानपूत्रे त्रयाणां परस्पराध्यासेन संकीर्णाबहवः समाधयो भवन्तीत्युक्तम्, तत् मन्दप्रज्ञविषयम् ।
समाध्यभ्यासिनां चित्तैकाग्रतासंपत्तये धारणादार्ढ्याय च प्राकृतैर्लोहैर्मृन्मयैर्वा स्वमनःसन्तोषकरीं मूर्तिमारचय्य प्रथमं तत्र दृष्टिं बद्ध्वा (बाह्यत्राटकसाधनेन) अभ्यासबलात् तावत् सा मूर्तिः स्वापेक्षितकालेषु स्वस्मृतिपथमधिरोहति तदर्थमेवोपयोक्तव्या । दर्शनसमानाकारस्मरणस्यैव ध्यानमिति नाम । तादृशध्यानसन्तानस्यैव ध्येयभूतवस्त्वात्मनस्त्वात्मनोनिश्चलावोस्थितिः समाधिः सवितर्करूपा सविचाररूपा चेति प्रथितो भवति । सा च मूर्तिरप्राकृस्थूलद्रव्यमयीति शुभाश्रयेति श्रुतिप्रमितेति चाभिहिता भवति । तादृशसमाधावेवार्थाध्यासः शब्दे, शब्दाध्यासोऽर्थे, अर्थाध्यासो ज्ञान इति संकीर्णता जाता । यावत् दृढीकृता स्मृतिः तावदभ्यसितव्यम् । तदनन्तरमेव निर्विचारनिर्वितर्कसमाधावधिकारःसंभवति । एतदर्थक एव सूत्रे विकल्पशब्दः प्रयुक्तः । अत एव उत्तरसूत्रारम्भे स्मृतिपदमेव प्रथममगृह्णन् पतञ्जलिमुनयः
“स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का” इति ।
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ ४३ ॥
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ ४४ ॥
सवितर्कनिर्वितर्कसमाधिः स्थूलविषये । सविचारनिर्विचारसमाधिः सूक्ष्मविषये । ध्येयपदार्थो विषयः । ध्येयस्तु परमात्मा । तस्य प्रमाणमीश्वरप्रणिधानसूत्रमेव । तेन ध्यानध्येयध्यातृणां पार्थक्यं निर्णीतम् । एतेन ध्यानध्येयध्यातॄणां कल्पानां व्यावहारिकीति ब्रुवन्तःपरास्ताः । ध्यातृस्थापनसूत्रं
‘तदा द्रष्टुः स्वरूपेऽवस्थानमि’
इति ध्यानस्वरूपप्रतिपादकसूत्रं
‘तत्र प्रत्ययैकतानता ध्यानम्’
इति, समाधिप्रतिपादकसूत्रं च
‘अर्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिरि’ इति । ध्येयश्च ईश्वर एव नान्य इत्येतत् ।
‘तस्य वाचकः प्रणवः’
‘तज्जपस्तदर्थभावनम’
‘ततः प्रत्यक्चेतना.........
इति सूत्रत्रयेण निरूपितम् । रजस्तमोभ्यामनभिहतचित्तस्यैव ध्यातुश्चतुर्विधसमाध्यवस्थासु ध्येयस्य स्थूलसूक्ष्मरूपाणि गोचराणि भवन्ति । ध्येयस्य परमात्मन आकारः सूक्ष्मः स्थूलश्च । स न प्राकृतः किन्त्वप्राकृतः स्वयंप्रकाशरूपश्च । स्वसंकल्पमात्रेणैव स ध्यात्रनुग्रहार्थं स्थौल्यं सौक्ष्म्यं च स्वस्मिन् स्वयमेव दर्शयति । जगदीश्वरस्य जगद्रक्षितुर्भगवतः स्वभावत एव क्लेशकर्मरहितस्य ध्यात्रनुग्रहाय स्वेनैव प्रदर्शितविविधाकारः स्वविचित्रशक्तियोगबलात् शुभात्मका एव इत्यत्र ।
“समस्ताश्शक्तयश्चैता नृप यत्र प्रतिष्ठिताः ।
तद्विश्वरूपवैरूप्यं रूपमन्यत् हरेर्महत्”
इति पराशरपुराणे व्यक्तमुक्तम् । तत्रैव विदांकुर्वन्तु महान्तः । ईदृशं च रूपं ध्यातृधर्मभूतज्ञानगोचरम् । ध्यानमहिम्ना प्रीतेन भगवतैव ध्यात्रनुग्रहाय केवलं प्रदर्शितमिति ।
“तेषामेवानुकम्पार्थ” ................ इत्यादिषु भगवद्गीताया अवगम्यते । ईदृशभगवद्रूपसाक्षात्कारो यस्य, तस्य निर्वितर्कसमाधिलक्षणं भगवान् पतञ्जलिः प्राह “स्मृतिपरिशुद्धौ” इति ।
स्मृतिपरिशुद्धौ, स्मृतिः समाधिकालीनदर्शनसमानाकारस्मृतिः तस्याः परिशुद्धिरविस्मरणं सान्तत्यं, न तु विषयान्तरमिश्रणं समाधौ ध्येयस्वरूपातिरिक्तस्य विषयस्याभावात् । तच्च स्मरणं ध्यातुर्भगवदाकारानुभवबललभ्यम् । अनुभवश्च साक्षात्काररूपः । यावान् बलवान् साक्षात्कारस्तावान् बलिष्ठः संस्कार उत्पद्यते । यावान् बलीयान् संस्कारस्तावता द्रढिम्ना स स्मृतौ रुढो भवति । तादृशस्मृतिरेवात्र सूत्रे स्मृतिपरिशुद्धौ इत्यस्यार्थः । तादृशस्मृतिपरिशुद्धौ सत्यां ध्येयाकारस्मरणकर्तुः स्मरणस्य च विस्मरणमेव स्वरूपशून्यमिव भवतीति स्वरूपशून्येवेत्यस्यार्थः । ध्याता आनन्दस्वरूपो भवति । अत एवात्र सूत्रेऽर्थमात्रनिर्भासेति सार्थकोऽर्थः । ध्येयध्यातृस्मरणानि तान्येव निर्भासन्ते प्रकाशन्तेऽनुभूयन्ते च । एतादृशोऽनुभवो ध्येयाकारसूक्ष्मविषयकसमाधिनिष्ठस्यैव संपद्यते न तु स्थूलविषयकसमाधिस्थस्य । अस्याः स्थितेर्वर्णनं स्वस्यैवासाध्यमिति निर्वितर्केति सौत्रो व्यवहारः । एतदर्थं स्थूलविषयकसमाध्यनुष्ठानं (सवितर्कानुष्ठानं) दीर्घकालानुसरणयोग्यमपेक्ष्यते । एतत् सर्वं सवितर्कसविचारसमाधावप्यन्वेतव्यम् ।
वयभत्र पातञ्जलदर्शनप्रमेयप्रक्रिया संग्रहतः प्रदर्शयामः । यद्यपि कापिलमतरीत्या चतुर्विंशतिस्तत्त्वानि प्राकृतानि भगवता पतञ्जलिमुनिनाङ्गीकृतान्येव, अथापि पुरुषविषये न कापिलोक्ताभिप्राय आदृतः । कापिलाः कतिपयस्थलेषु पुरुषस्य भोक्तृत्वं, अनेकेषु स्थलेषूदासीनत्वं च अवोचन् ।
“प्रकृतिं प्रकृत्य संसरति बध्यते”
“नानाश्रया प्रकृतिः”
इति तद्वाक्येषु विरोधोऽपि दृश्यते । नैवं पतञ्जलमुनिवचस्सुपलभ्यते । किन्तु पुरुषस्य भोगार्थमपवर्गार्थमपि प्रकृतिर्यतते । पुरुषो द्रष्टा भोक्ता चानन्तश्चापरिमेयश्चासंख्याकश्च । ईश्वरः प्रकृतिपुरुषेभ्यो भिन्नः, स्वतन्त्रश्च कर्मानधीन । परमात्मानं जगदीश्वरं सर्वज्ञं, सर्वानुग्रहप्रदातारं, सर्वक्लेशविदूरं, भुक्तमुक्तिदमङ्गीकृत्य तत्प्रणिधानाय योगाङ्गानि सर्वाण्यप्युपयोक्तव्यानीत्यत्र मते स्वरूपमुक्तम् । अनादिकर्मवासनावशात् त्रिविधदुःखतप्तान् पुरुषानुद्धरिष्यामीति (दुःखेभ्यः) अनुग्रहामकसंकल्पो न प्रकृत्या बद्धः प्रत्युत निगृहीतप्रकृतिनैव । सूत्रकारेण भगवता पतञ्जलिना न कस्मिन्नपि सुत्रे जगन्मृषात्वं गदितम् । एतेन पातञ्जलैः कर्तारो जीवाः, द्रष्टारः, पुरुषपदवाच्याः प्राकृततत्त्वानि चतुर्विंशतिः ईश्वरश्चाङ्गीकृतात्येवेति ज्ञायते । ईदृशपातञ्जलप्रमेयतत्त्वे प्रणवप्रतिपाद्ये भगवति परमात्मनि जगदुपादानत्वं निमित्तत्वं च नोक्तमिति रामानुजीयैः शाङ्करैश्च महान् दोष उद्धाटितः । तदेतदन्यत् । परन्तु पृथक् तिष्ठन्नपि परमात्मा जगदधिष्ठातैव सन् शरणागताननुगृह्णातीत्यलम् । चतुर्षु समाधिषु मध्ये यस्मै कस्मै चन यो यतते ते पातञ्जलतृतीयपादोक्ताद्यसूत्रद्वयोक्तक्रमः यावद्दृढीभवत धारणा तावत् प्रप्रथमं सम्यगभ्यसनीयः । अनभ्यस्तप्रत्याहारस्य सुदीर्घकालाननुष्ठितप्राणायामपरम्परस्य धारणा गगनकुसुमायत इत्यत्र वचःप्रसरस्यकोऽवकाशः? ध्यानस्य धारणाधारत्वात् समाधेः ध्यानातिशयाधीनत्वात्, ध्यानस्य च निवातस्थदीपायमानत्वाच्च । विना ध्यानं समाधिर्नानुभूतो भवति । तदर्थं प्रथमाभ्यासिनां कृते मृदा वा लोहेन वा सुरूपा मूर्तिरारचयितव्या तैरभ्यासिभिस्सा मूर्तिः सम्मुखे निधाय निश्शब्दे एकान्ते स्थले तन्मूर्तेर्वैदिकं नाम प्रथमत उच्चारणीयम् । यावत्सा मूर्तिर्मनसि सुदृढं स्थापिता भवेत् तावन्निर्निमेषचक्षुर्भ्यां विलोकयद्भिरेकस्मिन्नासने दृढ स्थातव्यम् । निर्निद्रा अपि ते आत्मनो मनस्तन्मूर्तिमयं भावयन्तः, कुत्र वयं कुत्र स्थिता इत्यपि विस्मृतिमनुभवेयुः । अर्थात् ध्यातुः पुरुषस्य ध्येयाकारस्य मूर्तेर्ध्यानस्य च न भेदं गृह्णीयुः । तदा सैषा स्थितिर्यावत्कालमनुवर्तते तावत् प्रथमाभ्यासिनः समाधेस्स्थितिरिति निर्णेयम् ।
अत्र केचन अय्यन्तसप्रदायानुभववृद्धा अनाधारा धारणा नोपपद्यते “सुरूपां प्रतिमां विष्णो”रिति पराशरपुराणोक्तप्रकारेण कालशास्त्रमनुसृत्य (ज्योतिश्शास्त्रं) युक्तसमये शिल्पास्त्ररहस्यविद्भिर्वृद्धैः शिल्पिभिः पञ्चाङ्गलपरिमाणादनधिकं भगवद्विग्रहं पुरुषरूपमारचय तं शास्त्रविद्भिर्वेदविद्भिश्च जलाधिवासस्थलाधिवासधान्याधिवासक्षीराधिवासादिषु15 सप्तरात्रपर्यन्तं स्थापयित्वा प्रत्यहं पूर्वाह्णमध्याह्नसायाह्नेषु दधिक्षीरघृतनारिकेलरसशुद्धोदकैः पञ्चशान्तिम16न्त्रैः पञ्चसूक्तैस्तं विग्रहमभिषिच्य भूषणाध्यायोक्तप्रकारेण17 सर्वविधैः सवर्ण भूषणैस्तं भूषयित्वा तद्विग्रहनामसहस्रैरर्चयित्वा षोडशोप18चारैः समन्त्रैरुपचरन् नमस्कुर्वन् नीराजनादिभि19स्सत्कृत्य यथाशक्ति शा20स्त्रीयैर्नविद्यैस्तर्पयन् वेदैः स्तुवन् ओं हां ह्रीं क्रों यं रं लं वं शं षं सं हों21 इति जडीब22न्धयन्त्रबन्धमूलकं विग्रह23प्राणप्रति24ष्ठां कृत्वा उत्थायाञ्जलिं बद्ध्वा “अस्य विग्रहस्य पञ्चप्राणाः सर्वाणि ज्ञानेन्द्रियकर्मेन्द्रियाणि च सशक्तिक्रियाभिः सहास्मिन् बिम्बे चिरं तिष्ठन्तु स्वाहा । ” इति मन्त्रेण दर्भमुष्ट्याम्रपल्लवादिभिः सर्वतोऽभिमृश्य तन्मूर्तिनाम्ना दशसहस्रहोममाचर्य पूर्णाहुतिं दत्त्वा परिषिच्याग्निना साकं मूर्तिं प्रक्षिणीकृत्य गुरुमनुज्ञाप्य धारणाय आरभेत । ततो ध्यानं ततः समाधिः । उपविशन्नेव ध्यायेत्, न शयानो नाप्युत्तिष्ठन् । ध्यानपूर्वं बहिस्त्राटकनामकयौगिकक्रियया मूर्तिमापादचूडं प्रेक्षमाणो नेत्रे निमील्य अन्तरेककनीनिकां संचालयन् यावदश्रुपतनं निरीक्षेत । ततः शीतलैः पाथोभिर्नेत्रे प्रक्षालयेत् । एवमेव त्रिवारमभ्यस्यान्ततो नेत्रं निमील्य यथाशक्ति मूर्तिनाम जप्त्वा नामार्थमनुसन्दधानस्तदधीनस्वजीवनः समादध्यात् । स्वस्यमूर्तेश्चान्तरालप्रदेशश्चतुर्विंशत्यङ्गुलेभ्यो नाधिकोऽष्टादशाङ्गुलेभ्यो न न्यूनस्स्यात् । मेरुदण्डं दण्डवत्कृत्वैवोपविष्टः स्यात् ।
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५ ॥
चतुर्णां समाधीनां स्थूलसूक्ष्मौ विषयीभवत इति पतञ्जलिमुनिना निगदितम् । तौ च स्थूलौ सूक्ष्मौ च विषयौ समाध्यवस्थाकालीनध्येयाकारौ । समाधिविषयश्च प्राकृतगुणानां समाधिभूतध्येयेऽभावात् न केवलः प्राकृतः । अथ च समाधिविषयस्य स्थूलेन्द्रियाग्राह्यत्वात्, अपि तु अप्राकृतो भास्वरो ज्योतिर्मयोऽप्याश्रितचेतनरक्षार्थं स्वीकृतसकलसद्गुणः सकलशक्तिमांश्च भवति । तादृशाकारश्च तस्य ध्येयस्य आस्माकीनाकार इव भवति; परं तु न कर्माधीनः कर्माधीनाकारस्य कतिपयकालानन्तरनाशदर्शनात् । समाधिविषयीभूतध्येयाकारस्य कर्मकालोभयानधीनस्थितित्वं
“न चक्षुषा पश्यति कश्च नैनं”
“हृदा मनीषा मनसाऽभिक्लृप्तो य एनं विदुरमृतास्ते भवन्ति”
इत्यादिश्रुतिशतप्रमाणादवगम्यते । तच्च ध्येयरूपं रजस्तमोलेशविहीनधर्मभूतज्ञा25नसहकृत- ध्यात्रनुष्ठितध्यानमात्रगम्यमिति प्रागुक्तं न विस्मर्तव्यम् । तादृशो ध्यानगम्यः परमात्मैव । तस्य रूपं ध्यात्रपेक्षानुगुणं स्थूलंवा सूक्ष्मं वा भवति । तादृक् सौक्ष्म्यं स्थौल्यं च ध्येये परमात्मनि न कालकर्मकृते भवतः । किन्तु ध्येयस्य सर्वज्ञत्वात्, सर्वान्तर्यामितया च ध्यातृशक्त्यनुगुणं समाध्यवस्थायां तथा भाति । यद्यपि प्राथमिकसमाध्यभ्यासिनां समाधिविषयस्य ध्येयाकारस्य श्रुतिस्मृतिपुराणागमप्रमाणानुरोधात् प्रकृताकार एव स्फुटतरं प्रतिभातीति गम्यते, तथापि न स आकारः पण्यवीथ्यां विक्रयार्थं निक्षिप्तप्रतिमासमानो मन्तव्यः । यश्च प्राथमिकसमाध्यभ्यासिनां सम्मुखे विराजमानो ध्येयाकारो ध्येयत्वेन स्थापनात्प्राक् श्रुतिस्मृत्यागमोक्तैरनेकैः संस्कारैः प्राणप्रतिष्ठानेत्रोन्मीलनयन्त्रस्थापनादिभिः संस्कारैः सम्पन्न एव तादृशो विग्रहः प्राकृत इति च न केनापि वक्तुं शक्यते ॥ संस्कारैरुत्तरत्रावाहिताप्राकृतजगदीश्वरशक्तिरन्तगूंढा न सामान्यमर्त्यदृग्गोचरा । शक्तिश्च प्राकृती वा अप्राकृती वा नेन्द्रियगोचरा भवितुमर्हति । अपि तु शक्तिमत्पुरुषकृतवाचिकक्रियाभिरयमीदृक्छक्तिमानि- त्यूह्यते । एतेन प्रथमसमाध्यभ्यासिनां समाध्यनुष्ठानप्रकारो न लौकिकक्रियासमानः । इतीदं सर्व संयमिवरनाथमुनिप्रणीतयोगरहस्यहृदयम् ।
अथ सूक्ष्मविषयं चेति सूत्रार्थो वर्ण्यते । सूक्ष्मश्चासौ विषयश्च सूक्ष्मविषयः । सूक्ष्मविषयस्य भावः सूक्ष्मविषयत्वम् । न विद्यते लिङ्गं हेतुर्यस्य तदलिङ्गम् । परितोऽवसीयत इति पर्यवसानम् । अलिङ्गमेव पर्यवसानं यादृङ्मानसगतेरथवा धर्मभूतज्ञानस्य, तदलिङ्गपर्यवसानम् । अर्थात् यस्मिन् समाधौ जगदन्तर्वर्तिनो जगदाकारेण परिणतस्य वा वस्तुनो कारणरूपतत्त्वेषु मतभेदेन प्राकृतेषु सूक्ष्मतमविषयोऽप्राकृतेष चापरिणामिष्वात्मसु सुक्ष्मो विषयः, तमपि विस्पष्टं विजानाति समाधिस्थः पुरुषः । ध्येयाकारस्य स्थूलविषये परा काष्ठा अनेन सूत्रेण प्रतिपादिताप्यलिङ्गमित्यत्र विवरणवेलायां नाथमुनिना अनादिरित्येव व्याखपातम् । योगसूत्राध्येतृभिः केवलप्रकृतेरीश्वरानधिष्ठिताया अप्रसिद्धिरवगन्तव्या ।
“न तदस्ति विना यत्स्यान्मया भूतं चराचरम्”
“नान्तो न चादिर्न च संप्रतिष्ठा”
इत्यादिश्रुतिस्मृतिप्रमाणैरवगतमात्मानात्मपरमात्मेत्येतत्त्रिभिः पूर्णं जगत् निरात्मकं निर्धर्मकं चेति वदतां
“पतन्ति नरके अशुचा”
विति गीतावाक्यमेव प्रत्युत्तरं भविष्यति । तस्मादलिङ्गपर्यवसानमिति सूत्रे सूक्ष्मतमो ध्येयाकारो जडात्मकः प्राकृत इति न केनापि वक्तुं शक्यते ॥
ता एव सबीजः समाधिः ॥ ४६ ॥
ताः सवितर्कसविचारनिर्वितर्कनिर्विचारसमापत्तयश्चतस्र एव सबीजसमाधयो नान्ये । सबीजत्वं, सविषयत्वमित्यनर्थान्तरम्म् । द्रष्टारोऽसंख्याकाः । जगदीश्वरःपरमात्मा पर ज्योतिः सर्वेषु कालेषु सकलद्गुणपरिपूर्णः । कालस्यापि तेनैव सृष्टत्वा्त् न तत्र कालस्याधिकारः ।
“कालं स पचते तत्र न कालस्तत्र वै प्रभुः” इति पराशरपुराणम् । “कला मुहर्ताः काष्ठाश्च” इति नारायणीये । सर्वान्तर्यामी सर्वनियन्ता च सदा सर्वाधिष्ठाता समाभ्यधिकदरिद्रः । प्रकृतिरचेतना त्रिगुणा सर्वेष सूक्ष्मक्षणेष्वपि सततविविधपरिणामिनी । इतीमां पातञ्जलप्रक्रियां पारमार्थिकीमजानन्तः केचन योगिनंमन्याः सम्यगनभ्यस्तसमाधिविशेषपरिचयाः स्थलसूक्ष्मविषयान् चतुरस्समाधीन् बाह्यविषया इत्युद्घोषन्ति । योगसूत्रभाष्यकारश्च तथैव बभाण । तत्त्वाभिज्ञातानि वचनानि न श्रद्धेयानीति मन्यन्ते । सबीजत्वासविषयत्वमित्येकार्थकमिति प्रागुक्तम् । समाधौ सर्वस्मिन्नपि चतुर्विधे ध्यातृध्येयेन साकमेकीभाव इति ।
“प्रणवो धनुः शरोह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत्” इति
“धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं संदधीत ।
आयम्य तत् भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सौम्य विद्धि ॥ ”
इति च मुण्डके उक्तम् ।
“ओमित्यात्मानं युञ्जी” तेति चात्र
प्रमाणानि सन्ति । समाधिविषयाणामबाह्यत्वं पारमार्थिकत्वं जीवात्मपरमात्मनोर्भेदस्तथा एकीभावश्चाबाह्यत्वं च सुस्पष्टं ज्ञायते ॥
निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ ४७ ॥
निर्गतो विचारो यस्मात् सः निर्विचारः । विशेषेण चरति इति विचारः । ‘शृ विशरण’ इत्यस्माद्धतोर्निष्पन्नं शारदपदम् । विशिष्टः शारदो विशारदः विशारदस्य भावः वैशारद्यम् । धर्मभूतज्ञानसहकृतचित्तैकाग्रता इति पदस्याध्याहारः ।
आत्मनि अधि अध्यात्मम् । ‘सद् उपवेशने’, प्रकर्षेण सदनं, प्रसादः । स्वच्छप्रवाह इत्यर्थः । अध्यात्मं प्रसादः, अध्यात्मप्रसादः । तथा च निर्विचाररूपसमाधेरेकाग्रताद्रढिम्ना, स्वच्छप्रवाहो यदा भवति तदा अध्यात्मप्रसादः स्वस्वरूपसाक्षात्कारो भवति ।
“अथाध्यात्मम् प्राणो व्यानो... इत्यध्यात्ममि” ति तैत्तिरीये उक्तम् ।
“अशुद्ध्यावरणमलापेतस्य प्रकाशात्मनो बुद्धितत्त्वस्य रजस्तमोभ्यामनभिभूतः स्वच्छः स्थितिप्रवाहो वैशारद्यमि” ति व्यासभाष्यम् ।
निर्विचारसमाधेस्तु वैशारद्यं पतञ्जलिः ।
स्वयं हि भगवान् वेत्ति नाथो वा योगिराट् भुवि ॥
वादा अनुभवान्ताः स्युर्मरणान्तं च जीवितम् ।
एवं भूते भूमिलोके ऽनुभूतिर्द्विधा मता ॥
लौकिक्यलौकिकी चेति प्रामाणिकजना जगुः ।
नानुभूतिर्निराधारा आत्माधारा हि सा स्मृता ॥
आत्मीया परमात्मीया द्वे सत्ये अमृते तथा ।
नानुभूतिः स्वयं वक्ति किन्तु तत्त्वञ्च वदेत् स्वयम् ॥
न तावता त्वं जानीहि जडान्तां प्राकृती इति ।
स्वयं प्रकाशा सा नित्या प्रकाशयति चापरान् ॥
ऋतंभरा तत्र प्रज्ञा ॥ ४८ ॥
ऋतं भरति इति ऋतंभरा स्वरूपज्ञानम् । तत्र निर्विचारवैशारद्यावस्थायां प्रज्ञा, प्रकर्षेण जानातीति, ज्ञानम् । तत्र निर्विचारवैशारद्यावस्थायां जीवस्य सत्यस्वरूपज्ञानं भवति ।
“ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायते”
ति नारायणीयमत्र प्रमाणम् । सा प्रज्ञा संशयं च्छिनत्ति ॥
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ ४९ ॥
श्रुतप्रज्ञा आगमम् । अनुमानप्रज्ञा यत्र प्राप्तिस्तत्र गतिरिति नानम् । श्रुतं चानुमानं च श्रुतानुमाने । श्रुतानुमानयोः प्रज्ञा श्रुतानुमानप्रज्ञा । ताभ्यां श्रुतानुमानप्रज्ञाभ्यां द्वाभ्यामन्यविषया अतिक्रान्तविषया विशेषार्थत्वात् प्रातिस्विकविषयत्वात् प्रत्येकविषयत्वात् भवति । ऋतंभरा प्रज्ञा सामान्यप्रज्ञा, श्रुतप्रज्ञा शास्त्रविषये, अनुमानप्रज्ञा तर्कविषय इति त्रिधा प्रज्ञा भवति । प्रथमा इतराभ्यामन्या भवति ।
तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ ५० ॥
“न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरं वाव सन्तं न प्रियाप्रिये स्तृशतः” इति छान्दोग्यप्रमाणानुरोधेनानेके महान्तः पुरुषाः संन्यासिनश्चापौरुषेयेषु येदेषु जाग्रत्सु जीवानन्त्यं, तस्य सत्यत्वं ततोऽन्यत्वेन परमात्मनो भिन्नत्वं तस्यापि सर्वदेशसर्वकालसर्वावस्थासु सत्यत्वं सर्वेषां जीवानामभ्युपगतानभ्युपगतप्रारब्धकर्मानुगुणशरीरसंबन्धात् बद्धमुक्तनित्यभेदात् त्रैविध्यं च स्वात्मप्रामाण्यादभ्युपगम्य क्वचित् कदाचित् ज्ञानिनां श्रेष्ठा अपि तत्त्वबोधविषये भ्राम्यन्तीति नैतदाश्चर्यावहम् । अनेकेऽल्पज्ञानिनः पुरुषास्तादृग्भ्रान्तमहापुरुषमार्गमनुसृत्यैव स्वपरमतभेदमजानानास्तन्मार्गमेवानुगच्छन्ति । अद्य भगवत्पतञ्जलिमुनिभिश्चतुर्षु पादेषु जीवपरभेदं जीवपराणां सगुणत्वं जडायाः प्रकृतेस्त्रिगुणात्मिकायाः परमात्माधीनतया परिणामं च विदद्भिर्विविधसमाधिफलयोरपि जीवस्य फलप्रदत्वं परमात्मानैवैति स्पष्टतया प्रतिपादितमप्यत्यन्तबाल्य एव विरक्ता अनेकमतस्थापकाश्च स्वयं वैदिका अप्यखिलवेदविरुद्धं वेदोक्तानेकात्मवादं सगुणब्रह्मवादं च निराकृत्य भगवत्पतञ्जलिसूत्रविरोधेन चित्तविपश्चित्तिनिरोधो निरोधसंस्कारस्तदाशयश्च मनस एव न त्वात्मनः, एवमुपायानुष्ठानमनुष्ठानफलीभूतविविधसमाधिं समाधिजप्रज्ञां प्रजाजन्यं संस्कारं संस्काराधिकारं, संस्करस्य निर्बजसमाधिपीठं तादृशनिर्बीजसमाधिं चाफलानीति जगुः । इतीयं महती जगदुद्भ्रान्तियवनिकेति पातञ्जलसूत्रधारणैव वक्ति । तथा च सूत्रं
“तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी”ति ।
तस्मात् जातः तज्जः । तस्याः समाधिजन्यप्रज्ञाया जात उत्पन्नोऽन्यसंस्कारप्रतिबन्धी । अन्ये च ते संस्काराश्च अन्यसंस्काराः अन्यसंस्कारान् प्रतिबध्नातीति अन्यसंस्कारप्रतिबन्धी । विक्षेपादिप्रत्ययजन्यसंस्काराणां प्रतिबन्धको निरोधकः कश्चन विजातीयसंस्कार इत्यर्थः ।
चित्तस्य नानावस्थावृत्तिरूपम् । व्युत्थानावस्था विक्षेपावस्थेत्येकार्थत्वं बाह्यविषयरक्तत्वं च । तेन जन्यो व्युत्थानसंस्कारो भवति ।
चित्तवृत्तिनिरोधावस्था, तस्य संस्कारः । यत्र विक्षेपः तत्रैव निरोधः । योगाङ्गानुष्ठानबलात् परमात्मसायुज्यं भावनासमाधिः । तज्जन्यो भावनासंस्कारः ।
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ ५१ ॥
पातञ्जलयोगसूत्राणि द्वेधा वर्ण्यन्ते । तत्र समाधिविषये केचन चित्तं साधिकारं मन्यन्ते । केचन च जडत्वात् चित्तस्य न कोऽपि स्वीयाधिकार इति । ये चात्मैकत्ववादिन आत्मातिरिक्तस्य मृषात्वं निर्णीय पातञ्जलोक्तसमाधिविषयं वर्णयन्तः शाङ्कराः, तन्मतानुयायिनश्च सर्वं चित्तचेष्टितमेव नात्मनः स च एकोऽसङ्गश्चेति ब्रुवाणा वृत्तिसंस्कारो निरोधसंस्कारः, समाधिसंस्कारः, समाधिप्रज्ञासंस्कार इमे सर्वेऽपि संस्काराश्चित्तस्य चेष्टारूपा नात्रात्मनस्संबन्ध इति मन्यन्ते । आत्मनानात्ववादिनस्तु त्रिगुणात्मकपि चित्तं जडमचेतनमचेतनस्य तस्य ने स्वाभाविकी चेष्टा पाषाणादिवत् संभवति । चित्तवृत्त्यादयः सर्वेऽपि निरोधादयो ऋतंभराप्रज्ञापर्यन्ता आत्मानमवलम्ब्यैव भवन्नीति वदन्तस्सर्वानपि चैत्तिकान् संस्कारानङ्गीकृत्य वृत्तिवृत्तिनिरोधादयः समाध्यन्ताः सर्वेऽपि प्रपञ्चपरिणामास्सत्यात्मकाश्चेति समाध्यादयो नानात्मीया अपि त्वात्मीया एवेति विश्वसन्ति । प्रपञ्चसत्यात्मवादिनां मते सर्वस्यापि योगाङ्गस्य वेदोक्तत्वात् वेदस्य चापौरुषेयत्वान्नित्यत्वाच्च वेदप्रतिपाद्यसन्ध्याद्यनुष्ठानवत् यज्ञाद्यनुष्ठानवच्च नित्यत्वम् । तत्त्वबोधकप्रमाणेषु वेदमात्रस्य मुख्यप्रमाणत्वमेव । (राष्ट्र राजशासनवत्) तदुक्तकर्मानुष्ठाने दण्डप्राप्तिभयात् सर्वाणि यमप्रमृतिसमाध्यन्तान्यङ्गान्यभ्युपगतप्रारब्ध्कर्मवासनालब्धशरीरैः पुरुषैः स्त्रीभिः
“मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते” इति गीतोक्तश्रद्धाभक्तिविधेयैर्हर्षादेवानुष्ठीयन्ते न तु क्लेशात् । सर्वे स्वान्तर्यामिसाक्षात्काराय नियतकालेषु भगवन्निवेदितमशनं मितं भुञ्जाना भगवद्भजनशक्त्या भगवन्तमुपासते । साङ्गरजस्तमोविहीनं सर्वधर्मभूतज्ञानावलम्बमेकाग्रं ध्यानात्मकं चित्तं तदतिशयेन ध्येयं परमात्मानं पञ्चसु कालेषु स्वस्वशक्त्यनुगुणं स्तुवन्तोऽनुभूय तदाकारं तद्बललब्धसंस्कारेभ्यः, तत् संस्कारबललब्धतच्चिन्तनानुस्मरणैः बृहदारण्योक्तस्य “अत्र ब्रह्म समश्नुते” इति प्रमाणानुरोधेनास्मिन् शरीर एव शारीरमात्मानं तदा|त्मभूतं हार्दं परमात्मानं चानुभवन्तस्तन्मार्गमितरेभ्य उपदिशन्त आनन्दमनुभवन्ति । इतीयं श्रीमन्नाथमुनिसंप्रदायपरिपाटी ।
सूत्रार्थस्तु, तस्यापि निरोधे, ऋतंभराप्रज्ञाजन्यसंस्कारस्य, संस्कारबललब्धभगवदनुस्मरणस्य च निरोधे, निरोधः, निर्गतो रोधः कूलमावरणं यस्मात्, समाधिकालीनभगवदनुस्मरणात् स निरोधः । तदानीमेव निर्बजसमाधिरप्यस्मिन् मतेऽभ्यपगत एकत्राधारलयः अन्यत्रासंकुचितज्ञानप्रसरश्चेति ।
1. दुर्योगमल्लभल्ला च सद्योगमल्लितल्लजा ।
योगवल्ली हृदारुढा श्रीशं प्रापयति स्वयम् ॥
2. मौदल्यगोत्रजः श्रीमान् नाथमुनेश्च दौहित्रः ।
श्रीरङ्गनाथोऽतनुत श्रीयोगवल्लरीं कल्याम् ॥
3. चतुष्काण्डमिदं योगरहस्यं नाथनिर्मितम् ।
संगृह्य रङ्गदासोऽयं निर्ममे योगवल्लिकाम् ॥
4. एतदपि संजग्राह श्रीनाथमुनेर्वंशजः ।
योगशास्त्रविच्च श्रीमान् प्रयोगे चापि कुशलः ॥
5. पातञ्जलस्य सूत्रस्य व्याख्यामाह च कौतुकात् ।
श्रीकृष्णनामा च सुधीः स्वकीये योगमन्दिरे ॥
टिप्पणी
1) तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः । (अष्टाध्यायी 1.4.101), तान्येकवचनद्विचनबहुवचनान्येकशः । (अष्टाध्यायी 14.102) इत्याभ्यां सूत्राभ्यां पुरुषत्रयवचनत्रयविषये तिङ्प्रत्यया विहिताः । अस्मद्युत्तमः (अष्टाध्यायी 1.4.107) इत्यनेन सूत्रेणोत्तमपुरुषपदास्मच्छब्देनात्मानं निवेदयन्तः पुरुषा निर्दिश्यन्ते । अस्मच्छब्दस्य त्वाहो सौ (अष्टाध्यायी 7.2.94) इत्यनेन सूत्रेणाहमादेशो विहितः ॥ य एव वक्ता स एव अहंशब्दं अहं गच्छामीत्यादौ प्रयुक्ते । अहङ्कारो जडः तच्छब्देन निर्देश्यः । को वा तच्छब्दनिर्देश्यमहंशब्द इत्यातिष्ठेत? अतोऽहंपदस्यार्थो नाहङ्कार इत्यवगम्यते ।
शाबरभाष्येऽप्यात्मा एवाहंशब्दार्थगोचर इति स्फुटमुक्तं भवति । तद्यथा “यादृशं भवान् स्वयमात्मानं पश्यति अनेनोपमानेनावगच्छ अहमपि तादृशमेव पश्यामीति” जडात्मनोऽहङ्कारस्य पश्यामीति तिङन्तप्रयोगो न सङ्गच्छते । चेतनमात्मानमुद्दिश्यैवाहरहस्सन्ध्यामुपासीत, ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादयो विधयो विहिताः । स्वर्गकामना नाहड़ारस्य विहिता ।
कणादेन मुनिना
“अहमिति प्रत्यगात्मनि भावात् परत्राभावादर्थान्तरप्रत्यक्षः” (वै.सू. 3.2.14) इति सूत्रं रचयता आत्मा एव अहंप्रत्ययगोचर इति निःशङ्कं प्रतिपादितम् । गदाधारभट्टाचार्येण शक्तिवादे आत्मा एव “यो गच्छामीत्यात्मनो गमनकर्तृत्वयुक्तं निर्दिशति स एव अहंपदवाच्य” इति स्पष्टमुक्तम् । तद्यथा स्वोच्चारणकर्तृतावच्छेदकधर्मावच्छिन्नः यथा अहं गच्छामीत्यादावस्मदर्थत्वात् इति ।
साङ्ख्याभिमतकर्तृतावादं खण्डयन्नुदयनः ये ये धर्माः कर्तर्यन्वयं प्राप्नुवन्ति ते सर्वे चेतन एवोपलभ्यन्ते न तु जडेऽहङ्कारे इति वदति । तदीयं वचस्त्वित्थं भवति “कर्तधर्मा नियन्तारश्चेतिता च स एव नः” इति । न्यायकुसुमाञ्जलिः । 1.14
2) ऋक्सूक्तयोः (1.23.22; 1.33.2) प्रयुक्तोऽहंशब्दः ऋग्भाष्यप्रणेत्रा सायणेन यागकर्तारमेव, अर्थात् वेतनमात्मानमेव बोधयतीति व्याख्यातम् ।
3) अहंपदवाच्यौ जीवात्मपरमात्मानौ सर्वाधारौ इत्युक्ते परमात्मा सर्वेषामाधार इत्यत्र न नो विवादः । परन्तु संकुचितज्ञानशक्तिप्रसरो जीवः कथं सर्वाधार इति प्रश्नस्येदमुत्तरं भविष्यति ।
“अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणी”ति छान्दोग्य (6.3.2) वाक्येन, नामरूपसृष्टिं कर्तुं परमात्मा जीवेन तदन्तर्यामितया सहितः सर्गं करोतीत्यवगम्यते । यथा सृष्टिस्तथैव स्थितिः, लयोऽपि । सर्वत्र जीवेन सहैव परमात्मा सर्वं विश्वं बिभर्ति । अत उभौ सर्वाधारौ । नात्र काचिदनुपपत्तिः ।
4) श्रीमद्रामायणे आरण्यकाण्डे शरभङ्ग (पञ्चमः सर्गः) शबरी (चतुस्सप्ततितमः सर्गः) प्रभृतयो भगवत्प्रसादं प्रापुरित्यादिकमत्रानुसन्धेयम् । तथैव ध्रुवोऽपि भगवदनुग्रहभागभूदितिश्रीविष्णुपुराणाद (प्रथमांशद्वादशाध्यायाद) वगम्यते ।
5) दण्डकारण्यवासिनो मुनयः श्रीरामादभयं प्राप्तवन्त इत्यनुस्मर्तव्यम् । तथैव गोकुलवासिनो गोपा मुचुकुन्तसुदामेत्यादयश्चेप्सितानि श्रीकृष्णात्प्रापुः ।
6) श्रीमन्नाथमुनीनां दौहित्रस्य निर्मलदासस्य पौत्रः कुरूकाधीशः कुरुकैकावलप्पनिति द्राविडनाम्ना प्रसिद्धः योगानुष्ठनेऽतीव कुशल इति गुरुपरम्परातः प्रतीयते । भगवन्नाथमुनिप्रणीतयोगरहस्यस्य सारग्रन्थोऽनेन प्रणीत इति श्रूयते परन्तु नोपलभ्यते ।
7) भगवन्तं वासुदेवं नवनीतनाट्याचार्यशब्देन “आविर्भवत्वनिभृताभरणं पुरस्तादाकुञ्चिकैतचरणं निभृतान्यपादम् । दध्ना निमन्थमुखरेण निबद्धतालं नाथस्य नन्दभवने नवनीतनाट्य”मिति श्रीमन्निगमान्तमहादेशिकैरनुगृहीतगोपालविंशतौ विद्यमानं चतुर्थं श्लोकं योगवल्लीप्रणेता स्मारयति ।
8) ये शब्दब्रह्माङ्गीकुर्वन्ति तैर्मिश्रितमेव तत्त्वज्ञानत्वेनाभ्युपगतं भवति । शब्दः प्रकृतिपरिणामाज्जातो गुणो जडरूप एव । ब्रह्म च चिदात्मकमेव चिता शब्देन संसर्गं नार्हतीति शब्दब्रह्मज्ञानं मिश्रितमेवेत्युक्तं भवति ।
9) ईश्वरप्रणिधानमेवात्र लघुतरोपायत्वेन निर्दिष्टः । अयं च तुरीयेत्युच्यते । धारणाध्यानसमाधयस्तत्र उपाया इति भावागणेशेन स्वकीयायां योगसूत्रव्याख्यायां योगदीपिकानाम्न्यां विवरणं कृतम् । वस्तुतस्तु अहंग्रहोपासनं वैराग्यविवेके, श्रद्धादयस्त्रय उपाया एवात्राभिप्रेताः ।
10) ईश्वरप्रणिधानादित्यत्र, ईश्वरपदेन ईश्वर ईश्वरी चाभिधीयेते इति व्याख्यात्रात्र प्रतिपाद्यते । अस्य मूलं श्रीपाञ्चरात्रग्रन्थेषुपलभ्यते । तद्यथा-
भिन्नाभिन्ना च वर्तेऽहं ज्योत्स्नेव हिमदीधितेः ।
तावावां तत्त्वमेकन्तु द्विधा भूतौ व्यवस्थितौ ॥
लक्ष्मीतन्त्रे 15.10
भवद्भावस्वरूपेण तत्त्वमेकमिवोदितौ ।
अहिर्बुध्न्यसंहितायाम् 3.26
ईश्वर इव ईश्वर्यपि जगत्सृष्ट्यादि करोति । तद्यथा-
सृष्टिस्थित्यन्तकर्तारो विज्ञानैश्वर्यशक्तयः ।
लक्ष्मीतन्त्रे 4.11
11) प्राणायामाङ्गकुम्भकं केवलसहितभेदा द्विविधमित्युच्यते । सहितं चतुर्धा भिद्यते । तद्यथा-
सूर्योज्जायी शीतली च भस्त्री चैव चतुर्थिका ।
भेदैरेव समं कुम्भो यः स्यात्सहितकुम्भकः ॥
योगकुण्डल्युपनिषद् 1.21
जिह्वया वायुमाकृष्य पूर्ववत्कुम्भकोदनुशनैस्तु प्राणरन्ध्राभ्यां रेचयेदनिलं सुधीः ॥ इति शीतल्या लक्षणं तत्रैव त्रिंशे श्लोके उक्तम् । इयं रोगनिवारणं करोतीत्युत्तरश्लोके योगशिखोपनिषदि 1-28, 31, 55, 92 श्लोकेषु तथैव लक्षणं रोगनिवर्तकत्वं च प्रतिपादितम् ।
हठयोगप्रदीपिकायान्तु कुम्भकं अष्टधा भिन्नमित्युक्तम्
तथाहि-
सूर्यभेदनमुज्जायी सीत्कारी शीतली तथा ।
भस्त्रिका भ्रामरी मूर्छा प्लाविनीत्यष्टकुम्भकाः ॥ 2.44
इति । शीतल्या लक्षणं त्वेवं दृश्यते-
जिह्वया वायुमाकृष्य पूर्ववत् कुम्भसाधनम् ।
शनकैर्घ्राणरन्ध्राभ्यां रेचयेत् पवनं सुधीः ॥ इति 2.57
12) हठयोगप्रदीपिकायां शीत्कार्या लक्षणमेवमुपलभ्यते ।
सीत्कां कुर्यात् तथा वक्त्रे घ्राणेनैव विजृम्भिकाम् ।
एवमभ्यासयोगेन कामदेवो द्वितीयकः ॥
इति 2.54
13) योनिमुद्रया कुम्भकाभ्यासः कर्तव्य इत्युच्यते । वज्रोल्यपरनामधेया योनिमुद्रा ध्यानबिन्दूपनिषदि 85-86 श्लोकयोर्लक्षिता । लक्षणं वेत्थं वर्तते ।
गलितोऽपि यदा बिन्दुः संप्राप्तो योनिमण्डले ।
व्रजत्यूर्ध्वं द्ठाच्छक्त्या निबद्धो योनिमुद्रया ॥
इति 85b-86a
योगचूडामण्युपनिषद्यपि ।
ज्वलितोऽपि यथा विन्दुः संप्राप्तश्च हुताशनम् ।
व्रजत्यूर्ध्वं गतः शक्त्या निरुद्धो योनिमुद्रया ॥ इति 59
इत्युक्तम् । इयं च मुद्रा योगसाधनान्तर्भूता वैषयिकसुखोपभोगपरतया वर्णिता । किमिदं युक्तम? यमनियमतद्भेदानुष्ठाने नैर्भर्यमावहन्तो योगग्रन्थकारा एवमिमां मुद्रां वर्णितवन्त इत्यश्रद्धेयमेतत् । अत एतादृशवर्णनस्य लौकिकोपभोगो विषयो भवितुं नार्हति । तर्हि केनार्थान्तरेणेदं समाधातुं साम्प्रतमित्यस्य प्रश्नस्योत्तरं दातुं न शक्यते । अत्र रहस्यार्थेन केनचिद्भवितव्यमित्यभ्युपेयम् ।
14) ध्यानरूपेषु षट्कर्मस्वन्यतमं त्राटकं लक्ष्यनिरीक्षणप्रकारं वहति । अस्य लक्षणमधुना उच्यते ।
तद्यथा-
औतिर्बस्तिस्तथा नेतिस्त्राटकं नौलिकं तथा ।
कपालभातिश्चैतानि षट् कर्माणि प्रचक्षते ॥
हठयोगप्रदीपिका 2-22
निरीक्षते निश्चलदृष्ट्या सूक्ष्मलक्ष्यं समाहित ।
अश्रूसंपातपर्यन्तमाचार्यैस्त्राटकं स्मृतम् ।
हठयोगप्रदीपिका 2.31
त्राटकेन प्राप्या रोगनिवृत्तिर्हठयोगप्रदीपिकायां 2.32 श्लोके उक्ता भवति ।
15) प्रतिष्ठायाः पूर्वं विग्रहो जले, स्थले, क्षीरे, वृत्तच्छायायां वा कतिपयदिनानि निक्षेप्तव्यः । अनेनाधिवासाख्यकर्मणा विग्रहस्सुदृढो भवति । सप्तरात्रपर्यन्तमित्युपलक्षणम् । एकाहादारभ्य यावदभिमतं तावन्ति दिनानि तत्र निक्षेप्तव्यः । अस्य विवरणं पाद्मसंहितायां क्रियापादे 26 तमेऽध्याये 59-82 श्रोकेषु् द्रष्टव्यम् ।
16) पञ्चशान्तिमन्त्राः- 1. शं नो मित्रः शं वरुणः । 2. शं नो मित्रः शं वरुणः । 3. सह नाववतु । 4. नमो वाचे या चोदिता । 5. तच्छंयोरावृणीमहे ।
17) श्रीविष्णुपुराणे प्रथमांशे द्वाविंशतितमोऽध्यायो भूषणाध्याय इति नाम्ना प्रथितः । लोके यत् सर्वं विद्यते तद्विष्णोरस्त्रभूषणत्वेनात्रोपवर्णितम् ।
18) प्रतिष्ठार्थं निर्मितस्य विग्रहस्योपचाराः कर्तव्याः । वैखानसागमग्रन्थे क्रियाधिकारे सप्तविंशतेरारभ्य चतुष्षष्टिसंख्यापर्यन्तं परिगणिताः । पाद्मसंहितायां चर्यापादे पञ्चमेऽध्याये षोडशभ्य विंशतित्मेध्याये एकादशादारभ्य द्वात्रिंशत्संख्याका निर्दिष्टाः । परन्तु प्राय एते षोडश इत्येवानुष्ठीयन्ते । आवाहनासनार्घ्यपाद्योपस्पर्शस्नानवस्त्रयज्ञोपवीतगन्धभूषामालाधूपदीपमधुपर्कप्रापणविसर्जनानि षोडशोपचाराः ।
19) दृष्टिदोषपरिहारार्थं विग्रहस्य पुरतो दीपस्य त्रिःभ्रामणं नीराजनमित्युच्यते । पाद्मसंहितायां क्रियापादे5 अध्याया 77-80 तम श्लोकेष्विदं निरूपितं भवति । प्राचीने काले राज्ञः पुरतः, आयुधानां पुरतः, स्कन्धावारेष्वपीदं नीराजनमनुष्ठितमासीदिति भट्टबाणकृतहर्षचरितात् ज्ञायते ।
20) भगवन्निवेदनार्थं धान्यशाकादीनां परिमाणं साध्वसाधुत्वं, परिपक्वानां तेषां निवेदनप्रकारश्च वैखानसग्रन्थे विमानार्चनकल्पे त्रिचत्वारिंशेऽध्याये, पाञ्चरात्रग्रन्थेषु विष्णुतिलके षष्ठेऽध्याये, पारमेश्वरसंहितायामष्टादशेऽध्याये, सनत्कुमारसंहितायाः शिवरात्रे पञ्चमेऽध्याये च सम्यङ्निरूपितानि ।
21) विग्रहस्य प्रतिष्ठायां क्रियमाणायां तान्त्रिकमन्त्राणामक्षराणि द्वादश उच्चारयितव्यानि । तेषु ओं, हां, ह्रीं, क्रों इति चत्वारि मन्त्रस्य बीजाक्षराणि । यं, रं, लं, वं इति चत्वारि पृथिव्यप्तेजोवायूनां चतुर्णां भूतानां शक्त्यक्षराणि । शं, षं, सं, हों इति चत्वारि अङ्गमन्त्राणां शक्त्यक्षराणि ।
22) जडीबन्ध इति कर्मणा विग्रहस्य पीठेन सह यः सम्बन्धो वर्तते, स दृढीक्रियते । जडीबन्ध इति पदं साधु वा नेति वक्तुं न शक्नुमः । जड इति चलनरहितमित्यर्थः । यथा पीठे विग्रहश्चलनरहितस्तिष्ठेत् तदर्थकर्मणो जडीबन्ध इति नाम कृतं स्यादित्यभ्यूहितुं शक्यते ।
23) यन्त्रबन्धनमिति जडीबन्धनेन स्थिरीकृतस्य विग्रहस्य विशालेनाधः पठेन संयोजनकर्मणो नाम । तान्त्रिकयन्त्ररचना नानेनात्र विवक्षिता ।
24) सुदृढं निर्मितस्य विग्रहस्य प्राणप्रतिष्ठा कार्या । मन्त्राक्षराणामच्चारणजडीबन्धनयन्त्रबन्धनैर्विग्रहे प्राणशक्तिराधीयते । तदनन्तरं विपण्यां विक्रयार्थं निक्षिप्ताद्भौतिकाद्विग्रहादस्य विशेषो जायते । अयमेव विग्रहः पूजार्थमुपकल्प्यः ।
25) आत्मा ज्ञानमयः । तस्मिन् ब्राह्याभ्यन्तरैरर्थैः करणद्वारा ज्ञानं जन्यते । तदा तज्ज्ञानमात्मनो धर्मभूतं भवति ।
न्यायाः
लौकिकवैदिकभेदेन न्याया बहवो बर्तन्ते । सन्मार्गप्रवर्तनार्थं न्यायः नीतिबोधकवाक्यरूपः प्रयुज्यते । योगवल्ल्यामाचार्याः स्वेन प्रतिपादितानामभिप्रायं स्पष्टमितरेभ्य वेदयितुं न्यायान् प्रयुङ्क्ते । अधो निर्दिष्टा न्यायास्तत्र तत्र उक्ताः ।
1. प्रारब्धकर्म भोगे विना न क्षीयत इति न्याय प्रथमपादस्थस्याष्टादशसूत्रविवरणे उदाहृतम् । स्वजीवितकाल
एव स्वकर्म भगवद्ध्यानरूपमपि जीवेन कर्तव्यमेव । नो चेत् विमुक्तिर्न स्यादेव ।
2. गीतायां च यं यं भावमिति लोक उक्तः । तस्याश्च यो यादृशं जन्म अथवा भावं स्मरन्नेव देहं त्यजति स पुनर्जन्म तादृशमेव प्राप्नोति । सा प्राप्तिश्च पूर्वमभिलषितं प्राप्तुमिष्यमाणं जन्म अथवा भावमनुरुध्यैव वर्तते । अयं श्लोको न्यायत्वेन परिगृहीतः । अयं च तत्क्रतुं न्यायं (छा.उ.3.14.1) स्मारयति । (1.30)
3. कारणविज्ञानन्यायः । मिथस्संबद्धवस्तुषु, एकस्मिन् दृष्टिपथं प्राप्ते, तत्संबद्धमन्यद्वस्तु तदानीं स्मर्यते । परमात्मना विरहिते जीवे अहंग्रहोपसनया प्रत्यक्षीकृते तदविनाभूतः परमात्मापि स्मृतिपथमापतति । अतो जीव इत्युक्ते परमात्मविशिष्टो जीव एव ग्राह्य इत्यर्थः ।
4. तन्त्रयुक्तिः । अनुक्तमन्यतो ग्राह्यमिति तन्त्रयुक्तिष्वनेकेष्वन्यतमैषा । कस्मिंश्चिच्छास्त्रे यदनुक्तं भवाति, परन्तु तदवश्यमपेक्ष्यते, तदा तदन्यस्मिन् शास्त्रे यद्युपलब्धं, तत् ग्राह्यमेव । योगाचरणस्य बहवोऽन्तराया उपरोधका भवन्ति । ते निस्सारयितव्याः । तदर्थमुपाया न केवलं योगग्रन्थेभ्यः (1.30), एतद्विषयप्रतिपादकग्रन्थान्तरेभ्योऽपि ग्रहीतव्याः ।
विद्याः
योगवल्ल्यां व्याख्यात्रा चतस्रो ब्रह्मविद्या नाम्ना निर्दिष्टाः । उपनिषत्यु द्वात्रिंशद्ब्रह्मविद्याः ब्रह्मोपासनाथेमुक्ता भवन्ति । एताः परस्परं विलक्षणा; प्रत्येकं ध्येयतया एतासां कश्चनार्थो विहितः । सर्वाप्येता मोक्षोपायभूता एवेति वेदान्तिनां सिद्धान्तः ।
1. छान्दोग्ये सप्तमेऽध्याये भूमविद्या उपवर्णिता । भूमशब्देन ब्रह्म एव वाच्यो न तु जीव इति प्रख्याप्यत अस्मिन्नध्याये । चित्तपदं बन्धनावस्थायां स्थितं जीवमेव बोधयतीति व्याख्याता चतुर्थसूत्रवृत्तौ आवेदयति ।
2. शाण्डिल्यविद्या-छान्दोग्ये तृतीये चतुर्दशविभागे मनोमयं ब्रह्म परिशुद्धमनसा ग्राह्यमित्युक्तम् । बृहदारण्यके (5.6) चैतदेव प्रतिपादितम् । योगवल्ल्यां नवमसूत्रवृत्तौ अस्य विवरणं कृतम् ।
3. प्रतर्दनविद्या दिवोदासपुत्रं प्रतर्दनमिन्द्रो दुःखविमोचनाय प्रथमतो मामुपास्स्वेति निर्दिदेश । मुद्रितोपनिषद्ग्रन्थे “मामेव विजानीहि” इति वाक्यमेव दृश्यते ।
4. सद्विद्या-सदेव सोम्य इदमग्र आसीदिति पुत्रं श्वेतकेतुं शिक्षयन्नारुणिः पुत्राय स्वप्नान्तस्य तत्त्वं वर्णयामासेति छान्दोग्ये (6.8.1) प्रतिपादितम् । योगवल्ल्यामियं विद्या अष्टत्रिशंसूत्रव्याख्यानेऽभिहिता ।
5. सर्वं सापवदमित्यस्य न्यायस्येश्वरप्रणिधानाद्वेत्येतत्सूत्रं ज्ञापकं भवति । चित्तवृत्तिनिरोधः कर्तव्य इत्युत्सर्गः । ईश्वरप्रणिधानाद्वेत्येतदपवादो भवति ।